ए॒ता उ॒ त्या उ॒षस॑: के॒तुम॑क्रत॒ पूर्वे॒ अर्धे॒ रज॑सो भा॒नुम॑ञ्जते । नि॒ष्कृ॒ण्वा॒ना आयु॑धानीव धृ॒ष्णव॒: प्रति॒ गावोऽरु॑षीर्यन्ति मा॒तर॑: ॥
ए॒ताः । ऊँ॒ इति॑ । त्याः । उ॒षसः॑ । के॒तुम् । अ॒क्र॒त॒ । पूर्वे॑ । अर्धे॑ । रज॑सः । भा॒नुम् । अ॒ञ्ज॒ते॒ । निः॒ऽकृ॒ण्वा॒नाः । आयु॑धानिऽइव । धृ॒ष्णवः॑ । प्रति॑ । गावः॑ । अरु॑षीः । य॒न्ति॒ । मा॒तरः॑ ॥
उ इत्येतत् पादपूरणम् । त्याः ताः एताः उषसः प्रभातकालाभिमानिन्यो देवताः । केतुम् अन्धकारावृतस्य सर्वस्य जगतः प्रज्ञापकं प्रकाशम् अक्रत अकृषत कृतवत्यः । यस्मादेवं तस्मात् उषसः रजसः अन्तरिक्षलोकस्य पूर्वे अर्धे प्राचीनदिग्भागे भानुं प्रकाशम् अञ्जते व्यक्तीकुर्वन्ति ।
“धृष्णवः धर्षणशीला योद्धारः आयुधानीव यथा असिप्रभृतीन्यायुधानि संस्कुर्वन्ति एवं निष्कृण्वानाः स्वभासा जगत्संस्कुर्वाणाः गावः गमनस्वभावाः अरुषीः आरोचमानाः मातरः सूर्यप्रकाशस्य निर्मात्र्यो जगज्जनन्यो वा उषसः प्रति यन्ति प्रतिदिवसं गच्छन्ति । एवंविधा उषसोऽस्मान् रक्षन्त्वित्यर्थः । अत्र निरुक्तम् -' एतास्ता उषसः केतुमकृषत प्रज्ञानमेकस्या एव पूजनार्थे बहुवचनं स्यात् पूर्वेऽर्धेऽन्तरिक्षलोकस्य समञ्जते भानुना निष्कृण्वाना आयुधानीव धृष्णवः । निरित्येष समित्येतस्य स्थाने । एमीदेषां निष्कृतं जारिणीवेत्यपि निगमो भवति । प्रति यन्ति गावो गमनादरुषीरारोचनान्मातरो भासो निर्मात्र्यः ' ( निरु. १२. ७) इति ॥ अक्रत । करोतेर्लुङि ' मन्त्रे घस ' इति च्लेः लुक् । निष्कृण्वानाः । ' कृवि हिंसाकरणयोश्च ' । अस्मात् ताच्छीलिकः चानश् । ' धिन्विकृण्व्योर च ' इति उप्रत्ययः । ' इदुदुपधस्य चाप्रत्ययस्य ' इति विसर्जनीयस्य पत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“These divinities of the morning have spread light (over the world); they make manifest the light in the eastern portion of the firmament, brightening all things, like warriors burnishing their weapons; the radiant and progressing mothers (of the earth), they travel daily (on their course).”
THESE Dawns have raised their banner; in the eastern half of the mid-air they spread abroad their shining light.
Like heroes who prepare their weapons for the war, onward they come bright red in hue, the Mother Cows.
These very Dawns have made themselves a beacon. In the eastern half of the dusky realm they anoint their beam [=sacrificial post].
Presenting themselves, as bold ones present arms, the reddish cows, the mothers come toward (us).
Schon haben diese Morgenröthen Licht gebracht, und schmücken in des Raumes Osten sich mit Glanz, Wie kühne Helden sich versehn mit Waffenschmuck; wie Mutterkühe nahen nun die rothen sich.
Dort haben die Morgenröten ihr Banner aufgesteckt, auf der östlichen Seit des Raums legen sie sich Licht als Salbe auf, sich ablösend wie Tapfere ihre Waffen wechseln. Es kehren die roten Kühe wieder, die Mütter.
Вот зори подняли (свое) знамя.
В восточной стороне пространства они украшаются светом,
Начищая себя (до блеска), как храбрые (воины) – оружие.
Алые коровы возвращаются, матери.
उद॑पप्तन्नरु॒णा भा॒नवो॒ वृथा॑ स्वा॒युजो॒ अरु॑षी॒र्गा अ॑युक्षत । अक्र॑न्नु॒षासो॑ व॒युना॑नि पू॒र्वथा॒ रुश॑न्तं भा॒नुमरु॑षीरशिश्रयुः ॥
उत् । अ॒प॒प्त॒न् । अ॒रु॒णाः । भा॒नवः॑ । वृथा॑ । सु॒ऽआ॒युजः॑ । अरु॑षीः । गाः । अ॒यु॒क्ष॒त॒ । अक्र॑न् । उ॒षसः॑ । व॒युना॑नि । पू॒र्वथा॑ । रुश॑न्तम् । भा॒नुम् । अरु॑षीः । अ॒शि॒श्र॒युः॒ ॥
अरुणाः अरोचमानाः भानवः औषस्यो दीप्तयः वृथा अनायासेन स्वयमेव उदपप्तन् उदगमन् । तदनन्तरम् उषसः च स्वायुजः सुखेन रथे आयोक्तुं शक्याः अरुषीः शुभ्रवर्णाः गाः पूर्वमुत्थितान् रश्मीन ईदृशीः स्ववाहनभूताश्चतुष्पदीर्गा एव वा अयुक्षत स्वरथेऽयोजयन् । उक्तं च --
अरुण्यो गाव उषसाम् ' ( नि. १. १५. ७) इति । एवं गोभिर्युक्तं रथमारुह्य उषसः पूर्वथा पूर्वेष्वतीतेष्वहःस्विव वयुनानि सर्वेषां प्राणिनां ज्ञानानि अक्रन् अकार्षुः । उषःकाले जाते हि सर्वे प्राणिनो ज्ञानयुक्ता भवन्ति । तदनन्तरम् अरुषीः आरोचमानास्ताः उषसः रुशन्तम् । ‘ रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः ' (निरु. २. २० ) इति यास्कः । शुभ्रवर्णं भानुं सूर्यम् अशिश्रयुः असेवन्त । तेन सह एकीभवन्तीत्यर्थः ॥ अपप्तन् । 'पत्लृ गतौ । लुङि लृदित्त्वात् च्लेः अङादेशः । ‘ पतः पुम् ' ( पा. सू. ७. ४. १९) इति धातोः पुमागमः । अक्रन् । 'मन्त्रे घस ' इत्यादिना च्लेः लुक्। पूर्वथा ।' प्रत्नपूर्वविश्वेमात्थाल छन्दसि' (पा. सू. ५. ३. १११) इति इवार्थे थाल्प्रत्ययः । अशिश्रयुः । श्रिञ् सेवायाम् । ‘ बहुलं छन्दसि ' इति शपः श्लुः । ‘ सिजभ्यस्तविदिभ्यश्च । इति झेः जुस् । जुसि च ' ( पा. सू. ७. ३. ८३ ) इति गुणः ॥
“Their purple rays have readily shot upwards; they have yoked the easily-yoked and ruddy kine (to their car); the deities of the dawn have restored, as of yore, the consciousness (of sentient creatures), and bright-rayed have attended upon the glorious sun.”
Readily have the purple beams of light shot up; the Red Cows have they harnessed, easy to be yoked.
The Dawns have brought distinct perception as before: red-hued, they have attained their fulgent brilliancy.
Their ruddy beams have flown up at will. They have yoked their reddish cows, easy to yoke.
The Dawns have made their patterns as of old. A gleaming beam have the reddish ones propped up.
Es flogen ihre goldnen Strahlen spielend auf, und fügsam schirrten sich die rothen Kühe an; Die Morgenröthen machten ihr Gewebe wie vordem, und liessen steigen hellen Glanz, die röthlichen.
Die rötlichen Lichter sind plötzlich aufgeflogen; sie haben ihre rötlichen leichtgeschirrten Kühe angeschirrt. Die Usas haben wie früher die Zeiten bestimmt; die Roten haben ihr helles Licht aufgesteckt.
Вверх внезапно взлетели алые лучи.
(Зори) запрягли алых коров, легко запрягаемых.
Зори создали (свои) знаки, как прежде,
Алые, они направили сверкающий свет.
अर्च॑न्ति॒ नारी॑र॒पसो॒ न वि॒ष्टिभि॑: समा॒नेन॒ योज॑ने॒ना प॑रा॒वत॑: । इषं॒ वह॑न्तीः सु॒कृते॑ सु॒दान॑वे॒ विश्वेदह॒ यज॑मानाय सुन्व॒ते ॥
अर्च॑न्ति । नारीः॑ । अ॒पसः॑ । न । वि॒ष्टिऽभिः॑ । स॒मा॒नेन॑ । योज॑नेन । आ । प॒रा॒ऽवतः॑ । इष॒म् । वह॑न्तीः । सु॒ऽकृते॑ । सु॒ऽदान॑वे । विश्वा॑ । इत् । अह॑ । यज॑मानाय । सु॒न्व॒ते ॥
नारीः नेत्र्यः उषसः विष्टिभिः निवेशकैः स्वकीयैस्तेजोभिः समानेन योजनेन एकेनैव योजनेनोद्योगेन’ आ परावतः आ दूरदेशात् आ पश्चिमदिग्भागात् अर्चन्ति नभःप्रदेशं पूजयन्ति। कृत्स्नं जगद्युगपदेव व्याप्नुवन्तीत्यर्थः । तत्र दृष्टान्तः । अपसो न । युद्धकर्मणोपेताः पुरुषा यथा स्वकीयैरायुधैर्धाटीमुखेन सर्वं देशं व्याप्नुवन्ति तद्वत् । किं कुर्वत्यः । सुकृते शोभनस्य कर्मणः कर्त्रे सुन्वते सोमाभिषवं कुर्वते सुदानवे कल्याणीर्दक्षिणाः ऋत्विग्भ्यो ददते यजमानाय विश्वेदह सर्वमेव इषम् अन्नं वहन्तीः आवहन्त्यः प्रयच्छन्त्य इत्यर्थः ॥ नारीः । ‘नॄ नये । ऋदोरप् । नृनरयोर्वृद्धिश्च' (पा. सू.४. १.७३. ग.) इति शार्ङ्गरवादिषु पाठात् ङीन् । जसि' वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । अपसः । अपशब्दात् ' अर्शआदिभ्योऽच्' इति अच् । ‘सुपां सुलक्° ' इति जसः सुः । व्यत्ययेन प्रत्ययात् पूर्वस्योदात्तत्वम् । विष्टिभिः । ‘ विश प्रवेशने' । विशन्ति प्रविशन्तीति विष्टयः किरणाः । ‘ क्तिचूक्तौ च संज्ञायाम्' इति क्तिच् । विश्वा । ‘सुपां सुलुक्' इति अमः डादेशः ॥
“The feminine le leaders (of the morning) illuminate with their inherent radiance the remotest parts (of the heaven), with a simultaneous effort, like warriors (with their shining arms in the van of battle), bringing every kind of food to the performer of good works, to the bountiful, and to the worshipper who presents libations.”
They sing their song like women active in their tasks, along their common path hither from far away,
Bringing refreshment to the liberal devotee, yea, all things to the worshipper who pours the juice.
They chant [/shine] like women busy with their labors, (coming always) along the same route from afar,
conveying refreshment to the man of good action [=sacrificer], the man of good gifts, the man who sacrifices and presses soma all the days.
Wie Frauen, fleissig bei der Arbeit, strahlen sie, auf gleichem Wege ziehend aus der Ferne her, Dem gabenreichen Frommen bringend Labetrunk, an jedem Tag dem Opferer, der Soma braut.
Sie stimmen den Lobgesang an, gleich Frauen fleißig an der Arbeit, in ein und derselben Fahrt aus der Ferne kommend, indem sie alle Tage dem Werkfrommen und Freigebigen, dem Soma bereitenden Opferer Labsal zuführen.
Поют они, словно женщины, занятые делами,
(Прибыв) издалека, (проехав) на той же самой упряжке,
Везя подкрепление для благочестивого, щедрого,
Для жертвователя, выжимающего (сому) день за днем.
अधि॒ पेशां॑सि वपते नृ॒तूरि॒वापो॑र्णुते॒ वक्ष॑ उ॒स्रेव॒ बर्ज॑हम् । ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृण्व॒ती गावो॒ न व्र॒जं व्यु१॒॑षा आ॑व॒र्तम॑: ॥
अधि॑ । पेशां॑सि । व॒प॒ते॒ । नृ॒तूःऽइ॑व । अप॑ । ऊ॒र्णु॒ते॒ । वक्षः॑ । उ॒स्राऽइ॑व बर्ज॑हम् । ज्योतिः॑ । विश्व॑स्मै । भुव॑नाय । कृ॒ण्व॒ती । गावः॑ । न । व्र॒जम् । वि । उ॒षाः । आ॒व॒रित्या॑वः । तमः॑ ॥
उषाः पेशांसि जगत्स्वाश्लिष्टानि कृष्णवर्णानि तमांसि अधि आधिक्येन वपते छिनत्ति । तत्र दृष्टान्तः । नृतूरिव । नॄन् तूर्वति केशेन रिक्तीकरोतीति नृतूर्नापितः । स यथा केशान्निःशेषेण छिनत्ति एवमुषा अप्यन्धकारं समूलं हिनस्तीत्यर्थः । यद्वा नृतूरिव नृत्यन्ती योषिदिव । पेशांसि । रूपनामैतत् । सर्वैर्दर्शनीयानि रूपाण्युषा अधि वपते स्वात्मन्यधिकं धारयति । एवं प्रथमतोऽन्धकारं स्वकिरणैर्निरस्य वक्षः स्वकीयमुरःप्रदेशम् अपोर्णुते तमसानाच्छादितं करोति । स्वयमाविर्भवतीत्यर्थः । बर्जहं पयस उत्पत्तिस्थानं दोहनसमये उस्रा गौर्यथा आविष्करोति तद्वत् । किं कुर्वती। गावो न व्रजं यथा गावः स्वकीय गोष्ठं स्वयमेव शीघ्रं व्याप्नुवन्ति एवं स्वयमेव प्राचीं दिशं प्राप्य विश्वस्मै भुवनाय सर्वस्मै लोकाय ज्योतिः कृण्वती प्रकाशं कुर्वती। एवमुक्तेन प्रकारेणोषाः तमः अन्धकारं वि आवः विवृतमपश्लिष्टमकरोत् ॥ नृतूरिव । तुर्वी हिंसार्थः । ‘ क्विप् च ' इति क्विप् । राल्लोपः' इति वलोपः । ‘ र्वोरुपधायाः० ' इति दीर्घत्वम् । यद्वा ।' नृती गात्रविनामे '। नृतिशृध्योः कूः' (उ. सू.१.९१) इति कूप्रत्ययः । बर्जहम् । वृङ् संभक्तौ । वृणीते संभजते गामिति बः पयः। विच् । तज्जहातीति बर्जहः । ‘ ओहाक् त्यागे । खश्प्रकरणे वातशुनीतिलगर्धेष्वजधेट्तुदजहातिभ्य उपसंख्यानम् ( पा. सू. ३. २. २८. १ ) इति अगर्धशब्दोपपदादपि ' कृत्यल्युटो बहुलम्' इति बहुलवचनात् खश् । तस्य सार्वधातुकत्वेन कर्तरि शपि जुहोत्यादित्वात् श्लुः । द्विर्वचनादि। बवयोरभेद इति बत्वम्। दिवोदासादित्वात् पूर्वपदाद्युदात्तत्वम् । आवः । ‘ वृञ् वरणे । लुङि ‘ सन्त्रे घस' इति च्लेः लुक् । गुणे • हल्यङ्याब्भ्यः ' इति लोपः । छन्दस्यपि दृश्यते' (पा. सू. ६. ४. ७३ ) इति आडागमः ॥
“Uṣas cuts off the accusative ulated (glooms), as a barber (cuts off the hair); she bares her bosom as a cow yields her udder (to the milker); and, as cattle hasten to their pastures, she speeds to the east, and shedding light upon all the world, dissipates the darkness.”
She, like a dancer, puts her broidered garments on: as a cow yields her udder so she bares her breast.
Creating light for all the world of life, the Dawn hath laid the darkness open as the cows their stall.
She throws gay garments round her like a dancing girl; E'en as a cow her udder, she displays her breast. Creating light for all the world, Dawn has unbarred The gates of darkness as when cows break from their stall.
She strews ornaments on herself like a dancing girl. She uncovers her breast like a ruddy (cow) her udder [?].
Making light for all creation, Dawn has opened up the darkness as cows (would) their pen.
Sie schmückt mit buntem Kleid sich gleich der Tänzerin, enthüllt den Busen, wie ihr Euter eine Kuh, Licht schaffend jedem Wesen hat das Morgenroth die Finsterniss geöffnet wie die Küh' den Stall.
Sie legt sich wie eine Tänzerin bunte Farben auf; sie enthüllt ihre Brust wie die Kuh das volle Euter. Indem sie der ganzen Welt Licht macht, hat die Usas die Finsternis aufgeschlossen wie die Kühe die Hürde.
Она увешивает себя украшениями, как танцовщица.
Она обнажает грудь, словно корова – вымя.
Создавая свет для всего мира,
Как коровы – загон, Ушас раскрыла мрак.
प्रत्य॒र्ची रुश॑दस्या अदर्शि॒ वि ति॑ष्ठते॒ बाध॑ते कृ॒ष्णमभ्व॑म् । स्वरुं॒ न पेशो॑ वि॒दथे॑ष्व॒ञ्जञ्चि॒त्रं दि॒वो दु॑हि॒ता भा॒नुम॑श्रेत् ॥
प्रति॑ । अ॒र्चिः । रुश॑त् । अ॒स्याः॒ । अ॒द॒र्शि॒ । वि । ति॒ष्ठ॒ते॒ । बाध॑ते । कृ॒ष्णम् । अभ्व॑म् । स्वरु॑म् । न । पेशः॑ । वि॒दथे॑षु । अ॒ञ्जन् । चि॒त्रम् । दि॒वः । दु॒हि॒ता । भा॒नुम् । अ॒श्रे॒त् ॥
अस्याः उषसः रुशत् दीप्यमानम् अर्चिः तेजः प्रति अदर्शि सर्वैः पूर्वस्यां दिशि प्रथमतो दृश्यते । वि तिष्ठते सर्वासु दिक्षु विविधमवतिष्ठते व्याप्नोतीत्यर्थः । सर्वा दिशो व्याप्य च अभ्वम् । महन्नामैतत् । अतिशयेन विपुलं कृष्णं कृष्णवर्णमन्धकारं बाधते अपसारयति । विदथेषु यज्ञेषु स्वरुं न स्वरुनाम्ना शकलेन युक्तं यूपं यथा आज्येन आध्वर्यवः अञ्जन् अञ्जन्ति तद्वन्नभसि स्वकीयं पेशः रूपम् उषा अनक्ति संश्लिष्टं करोति । तदनन्तरं चित्रं चायनीयं भानु सूर्यं दिवो दुहिता द्युलोकादुत्पन्नोषाः अश्रेत् असेवत ॥ वि तिष्ठते । समवप्रविभ्यः० ' इत्यात्मनेपदम् । अश्रेत् । श्रिञ् । सेवायाम् । लङि ‘ बहुलं छन्दसि ' इति शपो लुक् ॥ ॥ २४ ॥
“Her brilliant light is first seen towards (the east); it spreads and disperses the thick darkness; she anoints her beauty as the priests anoint the sacrificial food in sacrifices; the daughter of the sky awaits the glorious sun.”
We have beheld the brightness of her shining; it spreads and drives away the darksome monster.
Like tints that deck the Post at sacrifices, Heaven's Daughter hath attained her wondrous splendour.
Her radiant shimmer has appeared before us; It spreads, and drives away the swarthy monster. As one anoints the post at sacrifices The daughter of the sky extends her lustre.
Her gleaming ray has appeared opposite. She spreads herself out, thrusts away the black void.
The Daughter of Heaven has propped up her bright beam, her
ornament, like (a priest) propping up the sacrificial post, the
ornament at the ceremonies, and anointing it.
Es hat sich jetzt gezeigt ihr helles Leuchten, sie bricht hervor, verjagt das schwarze Grausen, Des Himmels Tochter breitet helles Licht aus, ihr Kleid bemalend wie beim Fest den Pfosten.
Ihr heller Schein ist wieder sichtbar geworden; sie breitet sich aus, vertreibt das schwarze Ungeheuer. Die Himmelstochter hat ihr buntes Licht aufgesetzt wie der Priester bei den Opfern den Pfosten aufsetzt, indem er ihm bunte Farben aufsalbt.
Снова показалось ее сверкающее пламя.
Она распространяется (и) гонит черное чудовище.
Словно жертвенный столб (устанавливают) на праздник, обряжая (его) украшениями –
Дочь неба направила яркий свет.
अता॑रिष्म॒ तम॑सस्पा॒रम॒स्योषा उ॒च्छन्ती॑ व॒युना॑ कृणोति । श्रि॒ये छन्दो॒ न स्म॑यते विभा॒ती सु॒प्रती॑का सौमन॒साया॑जीगः ॥
अता॑रिष्म । तम॑सः । पा॒रम् । अ॒स्य । उ॒षाः । उ॒च्छन्ती॑ । व॒युना॑ । कृ॒णो॒ति॒ । श्रि॒ये । छन्दः॑ । न । स्म॒य॒ते॒ । वि॒ऽभा॒ती । सु॒ऽप्रती॑का । सौ॒म॒न॒साय॑ । अ॒जी॒ग॒रिति॑ ॥
अस्य नैशस्य तमसः अन्धकारस्य पारं समाप्तिप्रदेशम् अतारिष्म उत्तीर्णा अभूम। अनन्तरम् उच्छन्ती नैशं तमो वर्जयन्ती उषाः वयुना वयुनानि सर्वेषां प्राणिनां ज्ञानानि कृणोति निर्मिमीते । श्रिये संपदर्थं छन्दो न स्मयते । यथोपच्छन्दयिता वशीकरणे समर्थः पुरुषः आढ्यसमीपं प्राप्य तत्प्रीत्यर्थं स्मयते हसति एवं विभाती विशिष्टप्रकाशं कुर्वत्युषाः स्वकीयया निर्मलदीप्त्या हसन्तीव दृश्यते । एवं सुप्रतीका विशिष्टप्रकाशरूपत्वेन शोभनाङ्गी सती सौमनसाय सर्वेषां सौमनस्याय अजीगः अन्धकारं भक्षितवती ॥ अतारिष्म। ‘तॄ प्लवनतरणयोः । लुङि सिचि वृद्धिः । तमसः । षष्ठ्याः पतिपुत्र' इति विसर्जनीयस्य संहितायां सत्वम् । स्मयते । स्मिङ् ईषद्धसने । भौवादिकः । अजीगः । गॄ निगरणे' । लङि' बहुलं छन्दसि ' इति शपः श्लुः । ‘ बहुलं छन्दसि । इति अभ्यासस्य इत्वम् । तुजादित्वात् दीर्घः ॥
“We have crossed over the boundary of darkness. Uṣas restores the consciousness (of living beings); bright-shining, she smiles, like a flatterer to obtain favour, and, lovely in all her radiance, she has swallowed, for our delight the darkness.”
We have o'erpast the limit of this darkness; Dawn breaking forth again brings clear perception.
She like a flatterer smiles in light for glory, and fair of face hath wakened to rejoice us.
We have crossed to the farther shore of darkness: Dawn shining forth, her webs of light is weaving. She smiles for glory, radiant, like a lover. To show good will she, fair of face, has wakened.
We have crossed to the further shore of this darkness. Dawn, dawning, is making her patterns.
Like one aiming to please, she, shining forth, smiles for splendor. She of the lovely face has awakened (us?) to benevolence.
Wir sind gelangt zu dieses Dunkels Ende, und leuchtend webt die Morgenröth' ihr Kunstwerk, Sie lächelt strahlend wie zur Lust der Buhle, von Antlitz schön hat sie erweckt zur Wonne.
Wir sind ans Ende dieser Finsternis gelangt, die Usas bestimmt aufleuchtend die Zeiten. Schön lächelt sie wie ein Verführer, wenn sie erstrahlt. Schön von Erscheinung hat sie zum Frohsinn erweckt.
Мы переправились на ту сторону этого мрака,
Зажигающаяся Ушас создает (свои) знаки.
Как соблазнитель, она улыбается, ярко сияя.
Прекрасноликая пробудила (людей) для хорошего настроения.
भास्व॑ती ने॒त्री सू॒नृता॑नां दि॒वः स्त॑वे दुहि॒ता गोत॑मेभिः । प्र॒जाव॑तो नृ॒वतो॒ अश्व॑बुध्या॒नुषो॒ गोअ॑ग्राँ॒ उप॑ मासि॒ वाजा॑न् ॥
भास्व॑ती । ने॒त्री । सू॒नृता॑नाम् । दि॒वः । स्त॒वे॒ । दु॒हि॒ता । गोत॑मेभिः । प्र॒जाऽव॑तः । नृ॒ऽवतः॑ । अश्व॑ऽबुध्यान् । उषः॑ । गोऽअ॑ग्रान् । उप॑ । मा॒सि॒ । वाजा॑न् ॥
भास्वती तेजस्विनी । सूनृता इति वाङ्नाम । सूनृतानां प्रियसत्यात्मिकानां नेत्री प्रणेत्री कारयित्री । उषसि हि जातायां मनुष्यप्रमुखाः प्राणिनः स्वस्वव्यापाराय इतस्ततः शब्दं कुर्वन्ति । एवंभूता दिवः दुहिता द्युलोकसकाशादुत्पन्ना उषाः गोतमेभिः ऋषिभिरस्माभिः स्तवे रतूयते । हे उषः अस्माभिः स्तुता त्वं वाजान् अन्नानि उप मासि प्रयच्छ । कीदृशान् वाजान् । प्रजावतः प्रजाभिः पुत्रपौत्रादिभिर्युक्तान् नृवतः दासलक्षणैर्नृभिरुपेतान् अश्वबुध्यान् । अश्वाः बुध्या विद्यमानत्वेन बोद्धव्या येषु वाजेषु तान् । यद्वा अश्वबुध्नान्। वर्णव्यापत्त्या यकारः। अश्वमूलान्। अश्वैर्हि राजानो धनान्यन्नानि च लभन्ते । अतोऽन्नानां तन्मूलत्वम् । गोअग्रान् । गावोऽग्रे प्रमुखे येषां तादृशान् । भास्वती। ‘ भा दीप्तौ । असुन् । ततो मतुप् । मादुपधायाः० ' इति मतुपो वत्वम्" । उगितश्च इति डीप् । नेत्री । ‘ ऋन्नेभ्यो ङीप् '। ‘ उदात्तयणो हल्पूर्वात्' इति ङीप उदात्तत्वम् । स्तवे । ‘ ष्टुञ् स्तुतौ । कर्मणि लटि ‘ बहुलं छन्दसि ' इति बहुलग्रहणात् यकोऽपि लुक् । लोपस्त आत्मने पदेषु' इति तलोपः। ‘ छन्दस्युभयथा ' इति एकारस्य आर्धधातुकत्वेन ङित्त्वाभावात् गुणावादेशौ । नृवतः । व्यत्ययेन मतोर्वत्वम् । ह्रस्वनुङ्भ्यां मतुप्' इति मतुप उदात्तत्वम् । मासि । ' मा माने । आदादिकः ॥
“The brilliant daughter of the sky, the exciter of plural asant voices, is praised by the descendants of Gotama. Uṣas, grant us food associated with progeny and dependants, and distinguished by horses and cattle.”
The Gotamas have praised Heaven's radiant Daughter, the leader of the charm of pleasant voices.
Dawn, thou conferrest on us strength with offspring and men, conspicuous with kine and horses.
The radiant leader of rich gifts, the daughter Of Heaven by the Gotamas is lauded. Mete out to us, O Dawn, largesses: offspring, Brave men, conspicuous wealth in cows and horses.
Light-filled leader of liberalities, the Daughter of Heaven is praised by the Gotamas.
O Dawn, mete out prizes rich in offspring, rich in men, founded on horses, tipped with cows.
Gepriesen wird die helle Freudenbotin, des Himmels Tochter, von den Gotamiden; O schenk uns Wohlstand, der an Ross und Rindern, an Kindern, Männern reich sei, Morgenröthe!
Als glanzvolle Bringerin der Schenkungen wird die Tochter des Himmels von den Gotamas gepriesen. Teil uns Belohnungen zu, in Kindern und Männern bestehend, wobei Rosse den Schluß und Rinder die Spitze bilden, o Usas!
Сверкающая предводительница благ,
Дочь неба прославляют люди из рода Готамы.
О Ушас, отмерь нам награды, состоящие из потомства,
Из мужей, с конями в конце, с коровами во главе!
उष॒स्तम॑श्यां य॒शसं॑ सु॒वीरं॑ दा॒सप्र॑वर्गं र॒यिमश्व॑बुध्यम् । सु॒दंस॑सा॒ श्रव॑सा॒ या वि॒भासि॒ वाज॑प्रसूता सुभगे बृ॒हन्त॑म् ॥
उषः॒ । तम् । अ॒श्याम् । य॒शस॑म् । सु॒ऽवीर॑म् । दा॒सऽप्र॑वर्गम् । र॒यिम् । अश्व॑ऽबुध्यम् । सु॒ऽदंस॑सा । श्रव॑सा । या । वि॒ऽभासि॑ । वाज॑ऽप्रसूता । सु॒ऽभ॒गे॒ । बृ॒हन्त॑म् ॥
हे उषः उषोदेवते तं रयिं धनम् अश्यां प्राप्नुयाम् । कीदृशम् । यशसं यशसा कीर्त्या युक्तम् । सर्वैः प्रशस्यमित्यर्थः । सुवीरं शोभनैर्वीरैः पुत्रादिभिर्युक्तं दासप्रवर्गम् । प्रकृष्टो वर्गः संघः प्रवर्गः । दासानां कर्मकराणां प्रवर्गों यस्मिन् तम् । अनेकैर्भृत्यैरुपेतमित्यर्थः । अश्वबुध्यम् । अश्वा बुध्या बोद्धव्या येन धनेन तादृशम् । हे सुभगे शोभनधने उषः सुदंससा शोभनेन कर्मणा युक्तेन श्रवसा श्रवणीयेन स्तोत्रेण प्रीता त्वं वाजप्रसूता अस्मभ्यं दत्तान्ना सती बृहन्तं प्रौढं या यं रयिं विभासि विशेषेण प्रकाशयसि तमश्यामिति पूर्वेण संबन्धः ॥ अश्याम् । अशू व्याप्तौ' । व्यत्यनेन परस्मैपदम् । बहुलं छन्दसि' इति विकरणस्य लुक् । यशसम् । अर्शआदित्वात् मत्वर्थीयोऽच् । व्यत्ययेन प्रत्ययात् पूर्वस्योदात्तत्वम् । दासप्रवर्गम् । दासयत्युपक्षपयति शत्रूनिति दासो भृत्यः । दसु उपक्षये । अस्मात् ण्यन्तात् पचाद्यच् । चित्त्वादन्तोदात्तत्वम् । तदेव बहुव्रीहिस्वरेण शिष्यते । सुदंससा । ‘ सोर्मनसी अलोमोषसी ' इति बहुव्रीहावुत्तरपदाद्युदात्तत्वम् । या । ‘ सुपां सुलुक् ' इति अमः डादेशः ॥
“May I obtain, Uṣas, that ample wealth with confers fame, posterity, troops of slaves, and is characterized by horses; which you, who abount in riches and are the giver of food, display, (when gratified) by hymns and holy sacrifices.”
O thou who shinest forth in wondrous glory, urged onward by thy strength, auspicious Lady,
Dawn, may I gain that wealth, renowned and ample, in brave sons, troops of slaves, far-famed for horses.
May I attain that wealth renowned and ample, With many heroes, troops of friends, and horses, O Dawn, that shinest forth with wondrous glory. Urged on by mighty strength, auspicious lady.
O Dawn, might I attain this glorious wealth, rich in good heroes, founded on horses, with alien-slaves as its forelock—
o you of good portion, who with fame of wondrous power radiate
forth, motivated by (desire for) the prize, to lofty (wealth).
Lass, Morgenröthe, mich das Gut erlangen, das reich erglänzt an Helden, Rossen, Knechten, Die du durch Ruhm und Heldenthat erstrahlest, zu grosser Gabe angeregt, o sel'ge.
Usas! Solch großen, zu Ansehen bringenden Reichtum an tüchtigen Söhnen möchte ich erlangen, bei dem Sklaven den Anfang und Rosse den Schluß bilden, die du Lohn anweisend in tatenschönem Ruhme erstrahlst, o Holde.
О Ушас, пусть достигну я богатства, приносящего славу,
Прекрасных мужей, с дасами в начале, с конями в конце,
О (ты,) что ярко сияешь удивительной славой,
Побужденная к наградам, счастливая, – высокого (богатства)!
विश्वा॑नि दे॒वी भुव॑नाभि॒चक्ष्या॑ प्रती॒ची चक्षु॑रुर्वि॒या वि भा॑ति । विश्वं॑ जी॒वं च॒रसे॑ बो॒धय॑न्ती॒ विश्व॑स्य॒ वाच॑मविदन्मना॒योः ॥
विश्वा॑नि । दे॒वी । भुव॑ना । अ॒भि॒ऽचक्ष्य॑ । प्र॒ती॒ची । चक्षुः॑ । उ॒र्वि॒या । वि । भा॒ति॒ । विश्व॑म् । जी॒वम् । च॒रसे॑ । बो॒धय॑न्ती । विश्व॑स्य । वाच॑म् । अ॒वि॒द॒त् । म॒ना॒योः ॥
देवी द्योतमानोषाः विश्वानि सर्वाणि भुवना भुवनानि भूतजातानि अभिचक्ष्य अभिप्रकाश्य प्रकाशवन्ति कृत्वा अनन्तरं प्रतीची प्रत्यङ्मुखी सती चक्षुः प्रकाशकेन तेजसा उर्विया उर्वी विस्तीर्णा सती वि भाति प्रकाशते । अपि च विश्वं जीवं सर्वं प्राणिजातं चरसे चरणाय स्वस्वव्यापारेषु प्रवर्तनाय बोधयन्ती निद्रातः सकाशात् उद्बोधयन्त्युषाः विश्वस्य सर्वस्य मनायोः मनसा युक्तस्य वाग्व्यवहारसमर्थस्य प्राणिजातस्य या वागस्ति तां वाचमविदत् अलभत । अत एवोषसः सूनृतावतीति संज्ञोपपन्ना भवति ॥ अभिचक्ष्य। चक्षिङ् व्यक्तायां वाचि'। अयं प्रकाशनार्थोऽपि । ‘ समासेऽनञ्पूर्वे० ' ( पा. सू. ७. १. ३७) इति क्त्वाप्रत्ययस्य ल्यबादेशः । प्रतीची। प्रतिपूर्वात् अञ्चतेः ‘ ऋत्विक् ' इत्यादिना क्विन् । ' अनिदिताम् । इति नलोपः । ‘ अञ्चतेश्चोपसंख्यानम् इति ङीप् । अचः' इति अकारलोपे ‘ चौ ' इति दीर्घत्वम् । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । उर्विया । उर्वीशब्दादुत्तरस्य सोः ‘इयाडियाजीकाराणां चोपसंख्यानम् ' ( पा. सू. ७. १. ३९. १) इति डियाजादेशः । आदेशसामर्थ्यात् तस्य लोपो न भवति । मनायोः । मन आत्मन इच्छति मनस्यति । सुप आत्मनः क्यच् ।' क्याच्छन्दसि ' इति उः । वर्णव्यापत्त्या सकारे आकारः । यद्वा । ‘ कर्तुः क्यङ् सलोपश्च ' इति क्यङ् सकारलोपश्च । ‘ अकृत्सार्वधातुकयोः' इति दीर्घः ॥
“The divine (Uṣas), having lighted up the whole world, spreads, expanding with her radiance, towards the west, arousing all living creatures to their labours; she hears the speech of all endowed with thought.”
Bending her looks on all the world, the Goddess shines, widely spreading with her bright eye westward.
Waking to motion every living creature, she understands the voice of each adorer.
Looking on all created things, the goddess Shines far and wide, facing the eye of Sūrya. Awaking every living soul to motion, She has aroused the voice of every thinker.
The goddess, overseeing all creatures, (like) an eye, facing toward them, shines forth widely.
Awakening all life to activity, she has found the speech of every
zealous one.
Die Göttin, alle Wesen rings beschauend, erstrahlet weit, ihr Auge zu uns wendend, Zum Wandern alles, was da lebt erweckend, hat jedes frommen Sängers Lied belauscht sie.
Alle Geschöpfe überschauend erstrahlt die Göttin weithin, jedem Auge zugewandt. Alles was lebt zum Gehen erweckend hat sie die Rede eines jeden Dichtenden gefunden;
Озирая все существа, богиня,
Обращенная навстречу (любому) взору, сияет далеко (вокруг).
Пробуждая к движению все живое,
Она встречает речь (каждого) преданного (поэта).
पुन॑:पुन॒र्जाय॑माना पुरा॒णी स॑मा॒नं वर्ण॑म॒भि शुम्भ॑माना । श्व॒घ्नीव॑ कृ॒त्नुर्विज॑ आमिना॒ना मर्त॑स्य दे॒वी ज॒रय॒न्त्यायु॑: ॥
पुनः॑ऽपुनः । जाय॑माना । पु॒रा॒णी । स॒मा॒नम् । वर्ण॑म् । अ॒भि । शुम्भ॑माना । श्व॒घ्नीऽइ॑व । कृ॒त्नुः । विजः॑ । आ॒ऽमि॒ना॒ना । मर्त॑स्य । दे॒वी । ज॒रय॑न्ती । आयुः॑ ॥
पुनःपुनर्जायमाना प्रतिदिवसं सूर्योदयात्पूर्वं प्रादुर्भवन्ती पुराणी चिरंतनी नित्येत्यर्थः । यस्मात् समानं वर्णम् एकमेव रूपम् अभि प्राप्य शुम्भमाना शोभमाना । विभिन्नेष्वपि दिवसेष्वस्या ऐकरूप्येण अवस्थानान्नित्यत्वमित्यर्थः । एवंगुणविशिष्टा देवी देवनशीलोषाः मर्तस्य मरणधर्मणः सर्वस्य प्राणिजातस्य आयुः जीवनं जरयन्ती ऊनयन्ती वर्तते । बह्वीषुषःसु अतीतासु हि सर्वेषामायुर्हीयते । उषाश्च पुनःपुनर्जायमानेत्युक्तं अतः सैवायुर्जरयति । तत्र दृष्टान्तः । कृत्नुः कर्तनशीला श्वघ्नीव व्याधस्त्रीव । सा यथा विजः चलतः पक्षिणः आमिनाना पक्षादिच्छेदनेन हिंसन्ती तेषामायुर्जरयति तद्वत् । पुराणी । पुरा इत्यस्मात् अव्ययात् ‘ सायंचिरंप्राह्णे° ' ( पा. सू. ४. ३. २३ ) इत्यादिना भवार्थे ट्युप्रत्ययः । ‘ पुराणप्रोक्तेषु ब्राह्मणकल्पेषु' ( पा. सू. ४. ३. १०५ ) इति निपातनात् तुडभावः । योरनादेशः । टित्त्वात् ङीप् । व्यत्ययेन अन्तोदात्तत्वम् । शुम्भमाना । शुम्भ दीप्तौ'। शपः पित्त्वादनुदात्तत्वम् । शानचो लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । श्वघ्नी । शुना मृगान् हतवान् श्वहा। ‘बहुलं छन्दसि' (पा. सू. ३.२.८८) इति वचनात् ब्रह्मादिव्यतिरिक्तेऽप्युपपदे हन्तेः क्विप् । ऋन्नेभ्यो ङीप्' इति ङीप् । ‘ अल्लोपोऽनः' इति अकारलोपः । ‘ हो हन्तेः । इति घत्वम् । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । कृत्नुः । ‘ कृती छेदने '। औणादिकः क्नुप्रत्ययः । विजः । ‘ ओविजी भयचलनयोः । विजन्ति चलन्तीति विजः पक्षिणः । आमिनाना । ‘ मीञ् हिंसायाम् । क्रैयादिकः । ‘ प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । शानचश्चित्त्वादन्तोदात्तत्वम् ॥ ॥ २५॥
“The divine and ancient Uṣas, born again and again and bright with unchanging hues, wastes away the life of a mortal, like the wife of a hunter cutting up and dividing the birds.”
Ancient of days, againagain born newly, decking her beauty with the self-same raiment.
The Goddess wastes away the life of mortals, like a skilled hunter cutting birds in pieces.
Born newly again and again though ancient, Herself adorning with the selfsame colour, The goddess wears away the life of mortals, Like stakes diminished by a skilful gambler.
Being born again and again though ancient, (always) beautifying herself to the same hue,
like a successful (gambler) with the best throw who diminishes the stake (of his opponent), the goddess keeps diminishing the lifetime of the mortal as she ages him.
Die alte Göttin, immer neu geboren, erglänzend immer mit derselben Farbe; Wie seine Würfel birgt der schlaue Spieler, so lässt das Leben sie des Menschen altern
Die uralte, immer wieder geborene Göttin, die sich in der gleichen Farbe geputzt, alt machend und die Lebenszeit des Sterblichen vermindernd wie der geschickte Glücksspieler die schlechten Würfe.
Древняя, рождающаяся снова и снова,
Украшающая себя одинаковым цветом,
Уменьшающая, как ловкий счастливый игрок – ставки (противника),
Срок жизни смертного, (эта) старящая богиня.
व्यू॒र्ण्व॒ती दि॒वो अन्ताँ॑ अबो॒ध्यप॒ स्वसा॑रं सनु॒तर्यु॑योति । प्र॒मि॒न॒ती म॑नु॒ष्या॑ यु॒गानि॒ योषा॑ जा॒रस्य॒ चक्ष॑सा॒ वि भा॑ति ॥
वि॒ऽऊ॒र्ण्व॒ती । दि॒वः । अन्ता॑न् । अ॒बो॒धि॒ । अप॑ । स्वसा॑रम् । स॒नु॒तः । यु॒यो॒ति॒ । प्र॒ऽमि॒न॒ती । म॒नु॒ष्या॑ । यु॒गानि॑ । योषा॑ । जा॒रस्य॑ । चक्ष॑सा । वि । भा॒ति॒ ॥
दिवः नभसः अन्तान प्रान्तान् व्यूर्ण्वती विवृतांस्तमसा वियुक्तान् कुर्वत्युषाः अबोधि सर्वैः प्राणिभिरज्ञायि ज्ञाताभूत् । तदनन्तरं स्वसारम् उषसः प्रादुर्भावे सति स्वयमेव सरन्तीं निशां सनुतः । अन्तर्हितनामैतत् । अन्तर्हितप्रदेशे अप युयोति अपगमय्य पृथक्करोति । मनुष्या मनुष्याणां संबधीनि युगानि कृतत्रेतादीनि प्रमिनती स्वगमनागमनाभ्यां प्रकर्षेण हिंसन्ती जारस्य रात्रेर्जरयितुः सूर्यस्य योषा जायोषाः चक्षसा आत्मीयेन प्रकाशेन वि भाति विशेषेण प्रकाशते ॥ व्यूर्ण्वती। ‘ ऊर्णुञ् आच्छादने । विपूर्वात् अस्मात् लटः शतृ। ‘ उगितश्च' इति ङीप् । ‘ शतुरनुमः० इति नद्या उदात्तत्वम् । सनुतः । एतदन्तोदात्तं स्वरादिषु निपातितम् । अतोऽव्ययसंज्ञायाम् ‘ अव्ययादाप्सुपः' इति सप्तम्या लुक् । युयोति । ‘यु मिश्रणामिश्रणयोः । ‘ बहुलं छन्दसि' इति शपः श्लुः । मनुष्या । सुपां सुलुक्° ' इति षष्ठ्या डादेशः । युगानि । युजेः करणे कर्मणि वा घञ् । ‘ चजोः कु घिण्ण्यतोः ' इति कुत्वम् । उञ्छादिषु कालविशेषे रथाद्युपकरणे च युगशब्दपाठात् लघूपधगुणाभावः (पा. सू. ६. १. १६०. ग. )।' उञ्छादीनां च ' इत्यन्तोदात्तत्वम् । जारस्य । “ दारजारौ कर्तरि णिलुक्च' (पा. सू. ३. ३. २०. ४ ) इति घञन्तो निपात्यते ॥
“She has been seen illuminating the boundaries of the sky, and driving into disappearance the spontaneously-retiring (night); wearing away the ages of the human race, she shines with light like the bride of the sun.”
She hath appeared discovering heaven's borders: to the far distance she drives off her Sister.
Diminishing the days of human creatures, the Lady shines with all her lover's splendour.
The ends of heaven disclosing, she awakens; To distance far she banishes her sister. Diminishing the years of life, the maiden Flushes afar with the light of her lover.
Uncovering the ends of heaven, she has awakened. She keeps her sister [=Night] far away.
Diminishing human (life-)spans, the maiden radiates forth with the eye of her swain [=Sun].
Sie ist erwacht, des Himmels Rand enthüllend, und ihre Schwester treibt sie in die Ferne; Aufreibend stets die menschlichen Geschlechter, erstrahlt die Jungfrau in dem Blick des Buhlen.
Des Himmels Enden enthüllend ist sie erwacht; sie treibt die Schwester weit fort. Die menschlichen Lebenszeiten schmälernd erstrahlt die junge Frau mit dem Auge ihres Buhlen.
Она пробудилась, раскрывая края неба.
Далеко прочь она прогоняет (свою) сестру.
Уменьшая людские поколения,
Юная женщина сверкает глазом (своего) возлюбленного.
प॒शून्न चि॒त्रा सु॒भगा॑ प्रथा॒ना सिन्धु॒र्न क्षोद॑ उर्वि॒या व्य॑श्वैत् । अमि॑नती॒ दैव्या॑नि व्र॒तानि॒ सूर्य॑स्य चेति र॒श्मिभि॑र्दृशा॒ना ॥
प॒शून् । न । चि॒त्रा । सु॒ऽभगा॑ । प्र॒था॒ना । सिन्धुः॑ । न । क्षोदः॑ । उ॒र्वि॒या । वि । अ॒श्वै॒त् । अमि॑नती । दैव्या॑नि । व्र॒तानि॑ । सूर्य॑स्य । चे॒ति॒ । र॒श्मिऽभिः॑ । दृ॒शा॒ना ॥
सुभगा शोभनधना चित्रा चायनीया पूजनीयोषाः पशून्न यथा पशून् गोपालकोऽरण्ये विस्तारयति तथा प्रथाना तेजांसि विस्तारयन्ती उर्विया उर्वी महती एवंभूता सा व्यश्वैत् सर्वं जगत् व्याप्नोत् । तत्र दृष्टान्तः । सिन्धुर्न क्षोदः । यथा स्यन्दनशीलमुदकं निम्नदेशेऽचिरादेव व्याप्नोति तद्वत्। सैवोषाः सूर्यस्य रश्मिभिः किरणैः सह दृशाना दृश्यमाना सती चेति प्रज्ञाता आसीत् । किं कुर्वती । दैव्यानि देवसंबन्धीनि व्रतानि दर्शपूर्णमासादीनि कर्माणि अमिनती अहिंसती । अनुष्ठाने यजमानान् प्रवर्तयन्तीत्यर्थः। उषसः प्रादुर्भावानन्तरं हि अग्निहोत्रादीनि सर्वाणि कर्माण्यनुष्ठीयन्ते न रात्रौ। ‘ न सायमस्ति देवया अजुष्टम् ' (ऋ. सं. ५, ७७. २ ) इति श्रुतेः ॥ प्रथाना ।' प्रथ प्रख्याने '। अस्मात् अन्तर्भावितण्यर्थात् ताच्छीलिकः चानश् । ‘ बहुलं छन्दसि ' इति शपो लुक् । सिन्धुः । ‘ स्यन्दू प्रस्रवणे ' । ‘ स्यन्देः संप्रसारणं धश्च ' ( उ. सू. १. ११ ) इति उप्रत्ययः । नित्' इत्यनुवृत्तेराद्युदात्तत्वम् । अश्वैत् । टुओश्वि गतिवृद्ध्योः । लुङि अङ्चङोर्विकल्पितत्वात् (पा. सू. ३. ३. ५८; ४९ ) च्लेः सिच् । आगमानुशासनस्यानित्यत्वात् इडभावः । ‘ सिचि वृद्धिः० ' ( पा. . ७. २. १ )। अनिडादित्वात् ' हृयन्तक्षण° ' इति वृद्धिप्रतिषेधाभावः। ‘ बहुलं छन्दसि ( पा. सू. ७, ३, ९७ ) इति ईडागमाभावः । ‘ स्कोः संयोगाद्योः ० ' इति सलोपः। चेति । ‘ चिती संज्ञाने । कर्मणि लुङि ‘ बहुलं छन्दस्यमायोगेऽपि ' इति अडभावः । दृशाना । दृशेः कर्मणि लटः शानच् । ‘बहुलं छन्दसि ' इति विकरणस्य लुक् ॥
“The affluent and adorable Uṣas has sent her rays abroad, as (a cowherd drives) the cattle (to pasture), and spreads expansive, like flowing water; she is beheld associated with the rays of the sun, unimpeding sacred ceremonies.”
The bright, the blessed One shines forth extending her rays like kine, as a flood rolls his waters.
Never transgressing the divine commandments, she is beheld visible with the sunbeams.
Gracious and bright, spreading her rays like cattle, As a river its flood, afar she glimmers. Infringing not the gods' unchanging statutes, She flushes radiant with the beams of Sūrya.
The bright, well-portioned one spreading herself as if (dispersing) cattle, like a river (spreading) its surge, she has whitened forth widely. Not belittling the divine commandments, she has come into view,
appearing along with the rays of the sun.
Die helle, sel'ge leuchtet, ihre Strahlen wie Heerden breitend, wie das Meer die Wogen, Nie weichend von der gottgesetzten Ordnung, erschien sie sichtbar durch der Sonne Strahlen.
Ihre Strahlen wie die Rinder ausbreitend ist die Farbenprächtige Holde weithin erglänzt wie die Stromflut. Die göttlichen Gebote nicht schmälernd, läßt sie sich sehen mit den Strahlen des Sonnegottes erscheinend.
Яркая, счастливая, разгоняя (лучи), как скот (на пастбище),
Она засветилась далеко (вокруг), словно река в водовороте.
Не нарушающая божественных заветов,
Она проявляет себя, становясь видимой с лучами солнца.
उष॒स्तच्चि॒त्रमा भ॑रा॒स्मभ्यं॑ वाजिनीवति । येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥
उषः॑ । तत् । चि॒त्रम् । आ । भ॒र॒ । अ॒स्मभ्य॑म् । वा॒जि॒नी॒ऽव॒ति॒ । येन॑ । तो॒कम् । च॒ । तन॑यम् । च॒ । धाम॑हे ॥
हे वाजिनीवति । वाजो हविर्लक्षणमन्नम् । तद्युक्ता क्रिया वाजिनी । तया क्रियया युक्ते उषः उषोदेवते अस्मभ्यं चित्रं चायनीयं तत् धनम् आ भर आहर प्रयच्छ । येन धनेन तोकं पुत्रं तनयं तत्पुत्रं च धामहे दध्महे धारयामः । अत्र निरुक्तम् - उषस्तच्चित्रं चायनीयं धनमाहरास्मभ्यमन्नवति येन पुत्रांश्च पौत्रांश्च दधीमहि ' (निरु. १२. ६) इति ॥ धामहे । दधातेर्लटि बहुलं छन्दसि ' इति शपो लुक् । व्यत्ययेन आद्युदात्तत्वम् । यद्वा । लोटि ‘ आडुत्तमस्य पिच्च' इति आडागमः प्रत्ययस्य पिद्वद्भावश्च । अतः प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । अस्मिन् पक्षे एत ऐ (पा. सू. ३. ४. ९३) इति ऐत्वाभावो व्यत्ययेन द्रष्टव्यः । यद्वृत्तयोगादनिघातः ॥
“Uṣas, possessor of food, bring us that various wealth by which we may sustain sons and grandsons.”
O Dawn enriched with ample wealth, bestow on us the wondrous gift
Wherewith we may support children and children's sons.
O Dawn, bring us that brilliant wealth, O thou that bearest rich rewards, Whereby both sons and grandsons we may well maintain.
Dawn, bring that bright (gift) here to us—you who are rich in
prize mares—
by which we may acquire both progeny and posterity.
O gabenreiches Morgenroth, die schöne Gabe bring uns her, Durch welche Kind und Kindeskind uns wird zu Theil.
Usas, bring uns das ansehnliche Geschenk, du an Belohnungen reiche, durch das wir Samen und Nachkommenschaft erlangen!
О Ушас, принеси нам этот яркий (дар),
О богатая наградами,
С помощью которого мы установим продолжение рода!
उषो॑ अ॒द्येह गो॑म॒त्यश्वा॑वति विभावरि । रे॒वद॒स्मे व्यु॑च्छ सूनृतावति ॥
उषः॑ । अ॒द्य । इ॒ह । गो॒ऽम॒ति॒ । अश्व॑ऽवति । वि॒भा॒ऽव॒रि॒ । रे॒वत् । अ॒स्मे । वि । उ॒च्छ॒ । सू॒नृ॒ता॒ऽव॒ति॒ ॥
हे गोमति अस्मभ्यं दातव्यैर्गोभिर्युक्ते तथा अश्वावति अश्वैर्युक्ते विभावरि विशिष्टप्रकाशोपेते सूनृतावति । प्रियसत्यात्मिका वाक् सूनृता । तादृश्या वाचा युक्ते एवंभूते हे उषः उषोदेवते अद्य इदानीं प्रभातसमये इह अस्मिन् देशे अस्मे अस्माकं रेवत् धनयुक्तं कर्म यथा भवति तथा व्युच्छ नैशं तमो निवारय । अश्वावति। मन्त्रे सोमाश्वेन्द्रिय ' इति मतौ दीर्घत्वम् । पादादित्वात् आमन्त्रितस्य आष्टमिकनिघाताभावः। रेवत् । ‘ रयेर्मतौ बहुलम् ' (पा. सू. ६. १.३७.६ ) इति संप्रसारणम् । ‘ छन्दसीरः' इति मतुपो वत्वम् । रेशब्दाच्च मतुप उदात्तत्वं वक्तव्यम् ' (का, ६. १. १७६. १) इति मतुप उदात्तत्वम् । उच्छ ।' उछी विवासे' । विवासो वर्जनम् ॥
“Luminous Uṣas, possessor of cows and horses, true of speech, dawn here today upon this (ceremony), that is to bring us wealth.”
Thou radiant mover of sweet sounds, with wealth of horses and of kine
Shine thou on us this day, O Dawn auspiciously.
Refulgent Dawn, to-day and here, Thou that art rich in kine and steeds, Shine forth on us abundant wealth, goddess benign.
Dawn, here today—o radiant one rich in cows and horses—
richly dawn forth to us, o liberal-spirited one.
Erstrahl', o leuchtend Morgenroth, uns heute, wonnereiches du, Begabt mit Rossen, Rindern und mit reichem Gut.
Usas, an Rindern, Rossen reiche, strahlende, leuchte uns heute hier reichliches Gut zu, du Gunstreiche!
О Ушас, приди сюда сегодня, о богатая коровами,
Богатая конями, ярко сверкающая!
Воссвети нам богатство, о благодатная!
यु॒क्ष्वा हि वा॑जिनीव॒त्यश्वाँ॑ अ॒द्यारु॒णाँ उ॑षः । अथा॑ नो॒ विश्वा॒ सौभ॑गा॒न्या व॑ह ॥
यु॒क्ष्व । हि । वा॒जि॒नी॒ऽव॒ति॒ । अश्वा॑न् । अ॒द्य । अ॒रु॒णान् । उ॒षः॒ । अथ॑ । नः॒ । विश्वा॑ । सौभ॑गानि । आ । व॒ह॒ ॥
हे वाजिनीवति हविर्लक्षणान्नवति उषः उषोदेवते अरुणान् अरुणवर्णान् अश्वान् अश्वस्थानीयान् गोविशेषान् अद्य अस्मिन् काले युक्ष्वा हि योजयैव । हिः अवधारणे । अथ अनन्तरं रथमारुह्य विश्वा सौभगालि सर्वाणि सौभाग्यानि नः अस्मभ्यम् आ वह आनय ॥ अश्वान् । ‘ दीर्घादटि समानपादे' इति संहितायां नकारस्य रुत्वम् । अतोऽटि नित्यम्' इति सानुनासिक आकारः । सौभगानि । सुभगान्मन्त्रे' इति उद्गात्रादिषु पाठात् भावकर्मणोरर्थयोः ‘ प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् ' इति अञ्प्रत्ययः । ‘ हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ' इति उभयपदवृद्धौ प्राप्तायां सर्वविधीनां छन्दसि विकल्पितत्वादत्रोत्तरपदवृद्धिर्न भवति ( का. ७. ३. १९) इत्युक्तम् ॥ ॥ २६ ॥
“Possessor of food, Uṣas, yoke, indeed, today your purple steeds and bring to us all good things.”
O Dawn enriched with holy rites, yoke to thy car thy purple steeds,
And then bring thou unto us all felicities.
Yoke, Dawn, to-day thy ruddy steeds, O thou that bearest rich rewards: Then on thy car to us all fortune's gifts convey.
So yoke the ruddy horses today! O Dawn rich in prize mares;
then convey to us all good portions.
O gabenreiches Morgenroth, die rothen Rosse schirre heut, Und fahre dann uns alles schöne Glück herbei.
So schirr denn, o Usas, an Belohnungen reiche, heute die rötlichen Rosse und fahr uns alle Glücksgüter her!
Запрягай же, о богатая наградой,
Сегодня алых коней, о Ушас,
И привези нам все счастливые дары!
अश्वि॑ना व॒र्तिर॒स्मदा गोम॑द्दस्रा॒ हिर॑ण्यवत् । अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतम् ॥
अश्वि॑ना । व॒र्तिः । अ॒स्मत् । आ । गोऽम॑त् । द॒स्रा॒ । हिर॑ण्यऽवत् । अ॒र्वाक् । रथ॑म् । सऽम॑नसा । नि । य॒च्छ॒त॒म् ॥
उषःसाहचर्यात् बुद्धिस्थौ अश्विनौ इदमादिकेन तृचेन स्तूयेते । हे अश्विना अश्ववन्तौ व्यापनशीलौ वा देवौ दस्रा शत्रूणामुपक्षपयितारौ अस्मत् अस्माकं वर्तिः वर्तनहेतुभूतं गृहम् आ समन्तात् गोमत् बहुभिर्गोंभिर्युक्तं हिरण्यवत् हितरमणीयधनयुक्तं च यथा भवति तथा समनसा समानमनस्कौ सन्तौ युवां युष्मदीयं रथम् अर्वाक् अर्वाचीनम् अस्मदीयगृहमभिमुखं नि यच्छतम् आवर्तयतम् ॥ अश्विना । ‘ सुपां सुलुक्' इति आकारः । वर्तिः । वर्ततेऽस्मिन्निति वर्तिर्गृहम् । औणादिक इसिप्रत्ययः। अस्मत् । सुपां सुलुक्' इति षष्ठ्या लुक्। समनसा। समानं मनो ययोस्तौ। ‘ समानस्य च्छन्दसि° ' इति सभावः ॥
“Aśvins, destroyers of foes, turn with favourable intentions your chariot towards our abode, which contains cattle and gold.”
O Asvins wonderful in act, do ye unanimous direct
Your chariot to our home wealthy in kine and gold.
Aśvins, (drive) your circuit that brings cows and gold, right up to us, wondrous ones.
Stop your chariot nearby, like-minded ones.
O Ritter, lenkt zu unserm Hof, o hehre, reich an Rind und Ross, Ihr gleichgesinnten nahe euren Wagen her.
Ihr Asvin, bis zu uns macht eure Umfahrt, die Rinder und Gold bringt, ihr Meister! Hierher lenkend haltet eines Sinnes euren Wagen an!
О Ашвины, (совершите) к нам (свой) объезд,
Приносящий коров, приносящий золото, о чудотворные!
Сюда (направляясь), единодушные, остановите колесницу!
यावि॒त्था श्लोक॒मा दि॒वो ज्योति॒र्जना॑य च॒क्रथु॑: । आ न॒ ऊर्जं॑ वहतमश्विना यु॒वम् ॥
यौ । इ॒त्था । श्लोक॑म् । आ । दि॒वः । ज्योतिः॑ । जना॑य । च॒क्रथु॑ह् । आ । नः॒ । ऊर्ज॑म् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् ॥
हे अश्विनौ यौ युवां दिवः द्युलोकात् श्लोकम् उपश्लोकनीयं प्रशंसनीयं ज्योतिः तेजः इत्था इत्थमस्माभिरनुभूयमानेन प्रकारेण चक्रथुः कृतवन्तौ । केषांचिन्मतेन सूर्यचन्द्रमसावश्विनौ उच्यते । तदुक्तं यास्केन - ‘ तत्कावश्विनौ द्यावापृथिव्यावित्येकेऽहोरात्रावित्येके सूर्याचन्द्रमसावित्येके ( निरु. १२. १ ) इति । तथा च प्रकाशकत्वं तयोरुपपन्नम् । तौ युवं युवां नः अस्मभ्यम् ऊर्जं बलप्रदमन्नम् आ वहतं आनयतं प्रयच्छतम् ॥ श्लोकम् । ‘ श्लोकृ संघाते । अयं स्तुत्यर्थोऽपि । कर्मणि घञ् । ञित्त्वादाद्युदात्तत्वम् ॥
“Aśvins, who have sent adorable light from heaven to man, bring us strength.”
Ye who brought down the hymn from heaven, a light that giveth light to man,
Do ye, O Asvins, bring strength hither unto us.
You two, who have made your signal-call (reach) all the way to heaven and at the same time made light for the people,
convey nourishment here to us, you Aśvins.
Die ihr vom Himmel wahren Ruhm und Licht dem Menschen habt geschafft, Ihr Ritter beide, fahrt uns Labetrunk herbei.
Die ihr zu dieser Stunde des Tages euren Weckruf erhebt und der Menschheit Licht gemacht habt, ihr Asvin führet uns Stärkung zu!
Вы, что сейчас (испустили) клич с неба
(И) породили свет для человека,
О Ашвины, привезите нам подкрепление!
एह दे॒वा म॑यो॒भुवा॑ द॒स्रा हिर॑ण्यवर्तनी । उ॒ष॒र्बुधो॑ वहन्तु॒ सोम॑पीतये ॥
आ । इ॒ह । दे॒वा । म॒यः॒ऽभुवा॑ । द॒स्रा । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । उ॒षः॒ऽबुधः॑ । व॒ह॒न्तु॒ । सोम॑ऽपीतये ॥
उषर्बुधः उषसि प्रबुद्धा अश्वाः इह अस्मिन् यागे सोमपीतये सोमपानाय दस्रा शत्रूणामुपक्षपयितारावश्विनौ आ वहन्तु आनयन्तु । कीदृशौ । देवा देवनशीलौ दानादिगुणयुक्तौ वा मयोभुवा मयस आरोग्यप्रदस्य सुखस्य भावयितारौ । अश्विनौ वै देवानां भिषजौ' (ऐ. ब्रा. १. १८) इति श्रुतेः । हिरण्यवर्तनी । वर्ततेऽनेनेति व्युत्पत्त्या वर्तनिशब्देन रथ उच्यते । सुवर्णमयो वर्तनिर्ययोस्तौ॥ देवेत्यादिषु त्रिषु • सुपां सुलुक्° ' इति आकारः । सोमपीतये । 'पा पाने' । भावे क्तिनि ‘ घुमास्था ' इति ईत्वम् । सोमस्य पीतिः सोमपीतिः । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ २७ ॥
“May the steeds awakened at dawn bring hither, to drink the Soma, the divine Aśvins, who are the givers o fhappiness, the destroyers of foes, seated in a golden chariot.”
Hither may they who wake at dawn bring, to drink Soma both the Gods
Health-givers Wonder-Workers, borne on paths of gold.
The two gods, embodiments of joy, wondrous, of golden course— let (the priests) waking at dawn convey them here, for soma-drinking.
Das hehre, holde Götterpaar, auf goldnem Pfade mögen her Früh wache Rosse fahren zu dem Somatrunk.
Rinder sollen die frühwachen Priester die beiden Götter, die heilsamen Meister mit goldenen Rädern zum Somatrunk fahren.
Сюда два бога, приносящих счастье,
Чудотворных, (на колеснице) с золотыми колесами,
Пробуждающихся на заре, пусть приедут для питья сомы!