अग्नी॑षोमावि॒मं सु मे॑ शृणु॒तं वृ॑षणा॒ हव॑म् । प्रति॑ सू॒क्तानि॑ हर्यतं॒ भव॑तं दा॒शुषे॒ मय॑: ॥
अग्नी॑षोमौ । इ॒मम् । सु । मे॒ । शृ॒णु॒तम् । वृ॒ष॒णा॒ । हव॑म् । प्रति॑ । सु॒ऽउ॒क्तानि॑ । ह॒र्य॒त॒म् । भव॑तम् । दा॒शुषे॑ । मयः॑ ॥
वृषणा वृषणौ कामानां वर्षितारौ हे अग्नीषोमौ इमम् इदानीं प्रयुज्यमानं मे मदीयं हवम् आह्वानं सु शृणुतं सम्यगवगच्छतम् । सूक्तानि शोभनानि स्तुतिलक्षणान्यस्माभिः कृतानि वचांसि प्रति हर्यतं प्रत्येकं कामयेथाम् । तदनन्तरं दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय मयः मयसः सुखस्य दातारौ भवतम् ॥ अग्नीषोमौ । अग्निश्च सोमश्च । द्वन्द्वे ‘ ईदग्नेः सोमवरुणयोः ' ( पा. सू. ६. ३. २७) इति ईत्वम् ।' अग्नेः स्तुत्स्तोमसोमाः ' ( पा. सू. ८. ३. ८२ ) इति षत्वम् । देवताद्वन्द्वे च ' इत्युभयपदप्रकृतिस्वरे प्राप्ते ‘आमन्त्रितस्य च ' इत्याद्युदात्तत्वम् । वृषणा । ‘ सुपां सुलुक्' ' इति आकारः । वा षपूर्वस्य ' इति विकल्पनादुपधाया दीर्घाभावः। हवम् । ‘भावेऽनुपसर्गस्य' इति ह्वयतेः अप् संप्रसारणं च। सूक्तानि । सुपूर्वात् वक्तेः कर्मणि निष्ठा। ‘ सूपमानात् क्तः' इत्युत्तरपदान्तोदात्तत्वम् । हर्यतम् । हर्य गतिकान्त्योः '। भौवादिकः ॥
“Agni and Soma, showerers (of desires), favourably hear this my invocation, graciously accept my hymns, and bestow felicity on the donor (of the oblation).”
AGNI and Soma, mighty Pair, graciously hearken to my call,
Accept in friendly wise my hymn, and prosper him who offers gifts.
Agni and Soma, hear this call of mine, you bulls.
Delight in the well-spoken hymns. Become refreshment for the
pious man.
O Agni-Soma, höret recht, ihr Stiere, diesen meinen Ruf; Die schönen Sprüche nehmet an, und seid zur Lust dem Opferer.
Agni und Soma, ihr Bullen, höret fein auf diesen Ruf von mir, nehmet die schönen Worte gut auf, seid dem Opferspender eine Freude!
О Агни и Сома, два быка, услышьте
Как следует этот мой зов!
Примите благосклонно гимны!
Будьте на радость для почитающего (вас)!
अग्नी॑षोमा॒ यो अ॒द्य वा॑मि॒दं वच॑: सप॒र्यति॑ । तस्मै॑ धत्तं सु॒वीर्यं॒ गवां॒ पोषं॒ स्वश्व्य॑म् ॥
अग्नी॑षोमा । यः । अ॒द्य । वा॒म् । इ॒दम् । वचः॑ । स॒प॒र्यति॑ । तस्मै॑ । ध॒त्त॒म् । सु॒ऽवीर्य॑म् । गवा॑म् । पोष॑म् । सु॒ऽअश्व्य॑म् ॥
हे अग्नीषोमौ यः यजमानः अद्य अस्मिन् कर्मणि वां युवाभ्यां युष्मदर्थम् इदं स्तुतिलक्षणं वचः वाक्यं सपर्यंति पूजितं करोति तस्मै यजमानाय गवां पशूनां पोषम् अभिवृद्धिं धत्तं प्रयच्छतम् । कीदृशं पोषम् । सुवीर्यं शोभनेन वीर्येण सामर्थ्येनोपेतं स्वश्व्यं शोभनैरश्वैर्युक्तम् ॥ गवाम् । ‘सावेकाचः' इति प्राप्तस्य विभक्त्युदात्तत्वस्य ‘न गोश्वन्साववर्ण ' इति प्रतिषेधः ॥
“Agni and Soma, grant to him who addresses this prayer to you both, store of cattle with sound strength and good horses.”
The man who honours you to-day, Agni and Soma, with this hymn,
Bestow on him heroic strength, increase of kine, and noble steeds.
Agni and Soma, whoever today renders this speech as service for you two,
for him establish an abundance of heroes, the thriving of cattle, an
abundance of horses.
O Agni-Soma, dem der heut mit diesem Liede euch verehrt, Dem reicht der Rinder Mehrung dar und reiche Schar an Ross und Mann.
Agni und Soma! Der euch heute diese Rede weiht, dem bringet die Meisterschaft, Gedeihen der Rinder, Besitz guter Rosse!
О Агни и Сома, кто сегодня вам
Эту речь почтительно преподносит,
Того наделите прекрасными мужами,
Изобилием коров, обладанием прекрасными конями!
अग्नी॑षोमा॒ य आहु॑तिं॒ यो वां॒ दाशा॑द्ध॒विष्कृ॑तिम् । स प्र॒जया॑ सु॒वीर्यं॒ विश्व॒मायु॒र्व्य॑श्नवत् ॥
अग्नी॑षोमा । यः । आहु॑तिम् । यः । वा॒म् । दासा॑त् । ह॒विःऽकृ॑तिम् । सः । प्र॒ऽजया॑ । सु॒ऽवीर्य॑म् । विश्व॑म् । आयुः॑ । वि । अ॒श्न॒व॒त् ॥
हे अग्नीषोमौ यः यजमानः आहुतिम् आज्याहुतिं वां युवाभ्यां दाशात् दद्यात् । अथवा हविष्कृतिं हविषा चरुपुरोडाशादिना कृताम् आहुतिं यः यजमानो दद्यात् । सः यजमानः प्रजया पुत्रपौत्रादिना युक्तं सुवीर्यं शोभनवीर्ययुक्तं विश्व सर्वम् आयुः जीवनं व्यश्नवत् व्याप्नोतु ॥ आहुतिम् । जुहोतेः क्तिनि ' तादौ च° ' इति गतेः प्रकृतिस्वरत्वम् । दाशात् ।' दाशृ दाने '। लेटि आडागमः ॥ यद्वृत्तयोगादनिघातः । हविष्कृतिम् । हविषः कृतिः करणं यस्यामाहुतौ । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । नित्यं समासेऽनुत्तरपदस्थस्य ' इति विसर्जनीयस्य षत्वम् । अश्नवत् । अश्नोतेर्व्यत्ययेन परस्मैपदम् । लेटि अडागमः ॥
“Agni and Soma, may he who offers you the oblation of clarified butter, enjoy sound strength, with progeny, through all his life.”
The man who offers holy oil and burnt oblations unto you,
Agni and Soma, shall enjoy great strength, with offspring, all his life.
Agni and Soma, whoever will piously perform a poured offering or the preparation of an oblation for you,
he along with his offspring will attain to an abundance of heroes and a complete lifespan.
O Agni-Soma, wer mit Trank und Butterspende euch verehrt, Der mög' durch Kinder Heldenschar erreichen und des Lebens Ziel.
Agni und Soma! Wer euch eine Spende, wer euch eine Opferveranstaltung weiht, der soll mit seinen Nachkommen die Meisterschaft und das volle Lebensalter erreichen.
О Агни и Сома, кто – возлияние,
Кто вам жертвенное действие посвящает,
Тот со (своим) потомством получит
Прекрасных мужей, полный срок жизни.
अग्नी॑षोमा॒ चेति॒ तद्वी॒र्यं॑ वां॒ यदमु॑ष्णीतमव॒सं प॒णिं गाः । अवा॑तिरतं॒ बृस॑यस्य॒ शेषोऽवि॑न्दतं॒ ज्योति॒रेकं॑ ब॒हुभ्य॑: ॥
अग्नी॑षोमा । चेति॑ । तत् । वी॒र्य॑म् । वा॒म् । यत् । अमु॑ष्णीतम् । अ॒व॒सम् । प॒णिम् । गाः । अव॑ । अ॒ति॒र॒त॒म् । बृस॑यस्य । शेषः॑ । अवि॑न्दतम् । ज्योतिः॑ । एक॑म् । ब॒हुऽभ्यः॑ ॥
हे अग्नीषोमौ वां युवयोः तत् वक्ष्यमाणं वीर्यं सामर्थ्यं चेति अस्माभिर्ज्ञातमभूत् । यत् येन वीर्येण गाः अवसं गोरूपमन्नं पणिं पणेः । विभक्तिव्यत्ययः । एतन्नाम्नोऽसुरात् अमुष्णीतं अपाहार्ष्टम् । तथा बृसयस्य । वृसिः वेष्टनार्थः । वृसयति सर्वं वेष्टयतीति बृसयोऽसुरस्त्वष्टा । तस्यासुरस्य शेषः अपत्यम् । शेष इत्यपत्यनाम शिष्यते प्रयतः ' (निरु. ३. २ ) इति यास्कः । त्वष्टृसकाशादुत्पन्नं वृत्रम् अवातिरतम् अवधिष्टम् । अवतिरतिर्वधकर्मा । प्राणापानरूपयोर्युवयोर्वृत्रेऽनवस्थानात् स मरणं प्राप्तः । तथा चाम्नायते- ‘ तस्माज्जञ्जभ्यमानादग्नीषोमौ निरक्रामतां प्राणापानौ वा एनं तदजहिताम् ' ( तै. सं. २. ५. २. ४ ) इति । ततो वृत्रवधानन्तरं ज्योतिः द्योतमानं सूर्यम् एकं नभसि गच्छन्तं बहुभ्यः जनेभ्यो बहूनामर्थाय अविन्दतम् अलप्साथाम् । एतत् सर्वं येन वीर्येण क्रियते तदस्माभिर्ज्ञातमित्यर्थः ॥ चेति ।' चिती संज्ञाने ' । लुङि' चिण् भावकर्मणोः ' ( पा.सू. ३. १. ६६ ) इति च्लेः चिणादेशः । ‘ चिणो लुक्' इति तशब्दस्य लुक् । अमुष्णीतम् ।' मुष स्तेये ' । क्रैयादिकः । अवसम् । अवतेरौणादिकः असच् । शेषः । ‘सुपां सुलुक् ' इति द्वितीयायाः सुः । एकम् । ' इण् गतौ । ‘ इण्भीकापाशल्यतिमर्चिभ्यः कन्' (उ. सू. ३. ३२३ ) इति कन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥
“Agni and Soma, that prowess of yours, by which you have carried off the cows that were the food of Paṇi, is (well) known to us; you have slain the offspring of Bṛsya and you have obtained the luminary (the sun), for the benefit of the many.”
Agni and Soma, famed is that your. prowess wherewith ye stole the kine, his food, from Pani.
Ye caused the brood of Brsaya to perish; ye found the light, the single light for many.
Agni and Soma, this heroic deed of you two has become conspicuous— that you stole the provender, the cows from the niggard.
You brought low the posterity of Br̥saya. You found the single light for the many.
Bekannt ist Agni-Soma dies eur Machtwerk, dass ihr dem Pani Rinder nahmt und Zehrung, Des Brisaja Geschlecht habt ihr zerschmettert; und Licht erlangt, das eine für die vielen.
Agni und Soma! Diese Heldentat von euch ist bekannt, daß ihr dem Pani seine Zehrung, die Kühe raubtet. Ihr unterdrückt des Brisaya Nachkommenschaft und fandet das Licht für viele.
О Агни и Сома, известно такое ваше героическое деяние,
Что вы отняли пищу у Пани (и) коров.
Вы уничтожили потомство Брисаи.
Вы нашли свет: один – для многих.
यु॒वमे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् । यु॒वं सिन्धूँ॑र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतं गृभी॒तान् ॥
यु॒वम् । ए॒तानि॑ । दि॒वि । रो॒च॒नानि॑ । अ॒ग्निः । च॒ । सो॒म॒ । सक्र॑तू॒ इति॒ सऽक्र॑तू । अ॒ध॒त्त॒म् । यु॒वम् । सिन्धू॑न् । अ॒भिऽश॑स्तेः । अ॒व॒द्यात् । अग्नी॑षोमौ । अमु॑ञ्चतम् । गृ॒भी॒तान् ॥
हे सोम त्वम् अग्निश्च सक्रतू समानकर्माणौ सन्तौ युवं युवां रोचनानि रोचमानानि दीप्यमानानि एतानि अस्माभिर्निशि दृश्यमानानि ताराग्रहादीनि ज्योतींषि दिवि द्युलोके अधत्तम् अधारयतम् । उत्तरार्धस्येयमाख्यायिका । इन्द्रो वृत्रं हत्वा ब्रह्महत्याया भीतः सन् पृथिव्यां वृक्षेषु स्त्रीष्वप्सु च तां ब्रह्महत्यां न्यमार्क्षीत् तासामपां शुद्धिरग्नीषोमाभ्यां जातेति । ब्रह्महत्यांशेन पापेन गृभीतान् गृहीतानाक्रान्तान् सिन्धून् नदीविशेषान् हे अग्नीषोमौ युवाम् अभिशस्तेः अभिशस्यमानादभितः प्रकटितात् अवद्यात् तस्मात् पापात् अमुञ्चतं मुक्तवन्तौ। यद्वा। वृत्रः इन्द्रेण हतः सन् नदीषु पपात । ततो मृतेन वृत्रशरीरेण नद्यः सर्वा दुष्टा बभूवुः। तथा च तैत्तिरीयकम् - ‘इन्द्रो वृत्रमहन् सोऽपोऽभ्यम्रियत तासां यन्मेध्यं यज्ञियं सदेवमासीत्तदपोदक्रामत् ' ( तै. ब्रा. ३. २. ५. १ ) इति । तेन दोषेण गृहीता नदीस्तस्माद्दोषादग्नीषोमौ मुक्तवन्तौ ॥ रोचनानि ।' रुच दीप्तौ । ‘ अनुदात्तेतश्च हलादेः ' इति युच् । सिन्धून् ।' दीर्घादटि समानपादे' इति नकारस्य रुत्वम् । अत्रानुनासिकः । इति अनुनासिकः । गृभीतान् ।' हृग्रहोर्भः' इति भत्वम् ॥
“You two, Agni and Soma, acting together, have sustained these constallations in the sky; you have liberated the rivers that had been defiled from the notorious imputation.”
Agni and Soma, joined in operation ye have set up the shining lights in heaven.
From curse and from reproach, Agni and Soma, ye freed the rivers that were bound in fetters.
You, Soma and Agni, of like resolve, placed these lights in heaven. You, Agni and Soma, released from imprecation and from reproach the rivers that had been held back.
Schönwirkend setztet Agni ihr und Soma dort an den Himmel diese hellen Sterne; Ihr Agni-Soma löstet vom Verderben und von der Schmach die festgehaltnen Ströme.
Ihr beiden, Agni und Soma, setztet eines Sinnes diese Lichter an den Himmel. Ihr beide, Agni und Soma, habt die festgehaltenen Flüsse aus Schimpf und Schande erlöst.
Вы двое: Агни, а также Сома, равные по силе духа,
Поместили на небо эти светлые пространства.
Вы реки захваченные, о Агни и Сома,
Освободили от проклятья, от позора.
आन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यं परि॑ श्ये॒नो अद्रे॑: । अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कम् ॥
आ । अ॒न्यम् । दि॒वः । मा॒त॒रिश्वा॑ । ज॒भा॒र॒ । अम॑थ्नात् । अ॒न्यम् । परि॑ । श्ये॒नः । अद्रेः॑ । अग्नी॑षोमा । ब्रह्म॑णा । व॒वृ॒धा॒ना । उ॒रुम् । य॒ज्ञाय॑ । च॒क्र॒थुः॒ । ऊँ॒ इति॑ । लो॒कम् ॥
हे अग्नीषोमौ युवयोर्मध्ये अन्यम् एकमग्निं मातरिश्वा वायुः दिवः द्युलोकात् आ जभार भृगवे यजमानाय आजहार । तथा च मन्त्रान्तरम् - ' द्विजन्मानं रयिमिव प्रशस्तं रातिं भरद्भृगवे मातरिश्वा' (ऋ. सं. १.६०.१ ) इति। श्येनः शंसनीयगतिमान्पक्षी पक्ष्याकारा गायत्री अन्यं सोमम् अद्रेः परि मेरोरुपर्यवस्थितात् स्वर्गात् अमथ्नात् बलादाहृतवती । एवं महानुभावौ युवां ब्रह्मणा स्रष्ट्रा मन्त्ररूपेण स्तोत्रेण हविर्लक्षणेनान्नेन वा ववृधाना वर्धमानौ युवां यज्ञाय अन्येषां देवानां यागाय उरुं विस्तीर्णं लोकं स्थानं चक्रथुः कृतवन्तौ। उ इत्येतत् पादपूरणम् । आज्यभागदेवतयोरग्नीषोमयोः उत्तरार्धदक्षिणार्धयोर्हूयते। तन्मध्येऽन्यदेवत्यानि सर्वाणि हवींषि हूयन्ते। तन्मध्यमं स्थानमग्नीषोमकृतम् । तथा च तैत्तिरीयकम्- राजानौ वा एतौ देवतानां यदग्नीषोमावन्तरा देवता इज्येते देवतानां विधृत्यै ' ( तै. सं. २. ६. २. १-२ ) इति ॥ ववृधाना । वृधेर्लिटः कानच् । छान्दसमभ्यासस्य दीर्घत्वम् । सुपां सुलुक् ' इति आकारः ॥ ॥ २८ ॥
“Agni and Soma, the wind brought one of you from heaven, a hawk carried off the other by force from the summit of the mountain; growing vast by praise, you have made the world wide for (the performance of) sacrifice.”
One of you Matarisvan brought from heaven, the Falcon rent the other from the mountain.
Strengthened by holy prayer Agni and Soma have made us ample room for sacrificing.
Mātariśvan bore the one here from heaven; the falcon stole the other from the rock.
Agni and Soma, having grown strong through a sacred formulation, you have made wide space for the sacrifice.
Den einen bracht' vom Himmel Matariçvan, den andern holte vom Gebirg' der Adler; O Agni-Soma, durch Gebet gekräftigt, habt ihr dem Opfer weiten Raum bereitet.
Den einen hat Matarisvan vom Himmel gebracht, den anderen riß der Adler vom Felsen weg. Agni und Soma! Durch feierliche Rede gestärkt habt ihr dem Opfer volle Ausdehnung verschafft.
Одного (из вас) Матаришван принес с неба.
Другого орел похитил со скалы.
О Агни и Сома, усиленные молитвой,
Вы создали широкое место для жертвы.
अग्नी॑षोमा ह॒विष॒: प्रस्थि॑तस्य वी॒तं हर्य॑तं वृषणा जु॒षेथा॑म् । सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒ यज॑मानाय॒ शं योः ॥
अग्नी॑षोमा । ह॒विषः॑ । प्रऽस्थि॑तस्य । वी॒तम् । हर्य॑तम् । वृ॒ष॒णा॒ । जु॒षेथा॑म् । सु॒ऽशर्मा॑णा । सु॒ऽअव॑सा । हि । भू॒तम् । अथ॑ । ध॒त्त॒म् । यज॑मानाय । शम् । योः ॥
हे अग्नीषोमौ प्रस्थितस्य होमार्थमाहवनीयसमीपं प्राप्तं हविषः इदं हविः वीतं भक्षयतम् । तदनन्तरं च हर्यतं अस्मान् कामयेथाम्। हे वृषणा कामानां वर्षितारौ जुषेथाम् अस्मदीयं परिचरणं सेवेथाम् । तदनन्तरं सुशर्मणा शोभनसुखौ स्ववसा हि शोभनरक्षणौ च भूतम् अस्माकं भवतम् । अथ अनन्तरं हविर्दत्तवते यजमानाय शं शमनीयानां रोगाणां शमनं योः पृथक्कर्तव्यानां भयानां यावनं पृथक्करणं च धत्तं विधत्तं कुरुतम् । उक्तं च यास्केन- शमनं च रोगाणां यावनं च भयानाम् ( निरु. ४. २१ ) इति ॥ हविषः । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी । वीतम् । ‘वी गतिप्रजनकान्त्यशनखादनेषु' । थसस्तम् । अदादित्वात् शपो लुक् । वीतं च हर्यतं चेति चार्थप्रतीतेः ‘चादिलोपे विभाषा' इति प्रथमायास्तिङ्विभक्तेर्निघातप्रतिषेधः! हर्यतम् । पादादित्वात् निघाताभावः । जुषेथाम् । वृषणा इत्यामन्त्रितस्य ‘ आमन्त्रितं पूर्वम् ' इति अविद्यमानवत्त्वे सति तिङः परत्वात् निघाताभावः । सुशर्माणा स्ववसा । उभयत्र बहुव्रीहौ ‘ सोर्मनसी अलोमोषसी ' इत्युत्तरपदाद्युदात्तत्वम् । भूतम् । लोटि ‘ बहुलं छन्दसि' इति शपो लुक् ॥
“Agni and Soma, partake of the proffered oblation; be gracious to us; showerers (of desires), be plural ased; prosperous and diligent protectors, be propitious, and grant to the sacrificer health and exemption from illness.”
Taste, Agni, Soma, this prepared oblation; accept it, Mighty Ones, and let it please you.
Vouchsafe us good protection and kind favour: grant to the sacrificer health and riches.
Agni and Soma, the oblation set before you—pursue it; yearn for it, bulls; enjoy it.
Since you are providers of good shelter and good help, therefore
establish luck and lifetime for the sacrificer.
Vom dargereichten Trank geniesst, o Stiere, o Agni-Soma, nehmt ihn an, erquickt euch; Denn ihr seid reich an Schutz und reich an Hülfe, drum schenkt nun auch dem Opfrer Heil und Segen.
Agni und Soma, verlanget, gelüstet nach dem vorgesetzten Opfer, ihr Bullen, laßt´s euch munden! Ihr habt ja guten Schirm und Schutz, so bringet dem Opfernden Glück und Heil!
О Агни и Сома, вкусите предложенного жертвенного возлияния,
Примите (его) благосклонно, о два быка, наслаждайтесь (им)!
Ведь у вас хорошая защита, хорошая помощь:
Так даруйте же жертвователю счастье и благо!
यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्याद्दे॑व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ । तस्य॑ व्र॒तं र॑क्षतं पा॒तमंह॑सो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् ॥
यः । अ॒ग्नीषोमा॑ । ह॒विषा॑ । स॒प॒र्यात् । दे॒व॒द्रीचा॑ । मन॑सा । यः । घृ॒तेन॑ । तस्य॑ । व्र॒तम् । र॒क्ष॒त॒म् । पा॒तम् । अंह॑सः । वि॒शे । जना॑य । महि॑ । शर्म॑ । य॒च्छ॒त॒म् ॥
यः यजमानः अग्नीषोमा अग्नीषोमौ देवद्रीचा देवानञ्चता देवतापरायणेन श्रद्धायुक्तेन मनसा अन्तःकरणेन युक्तः सन् हविषा चरुपुरोडाशादिना सपर्यात् सपर्यति परिचरति । यः च यजमानः घृतेन आज्येनाप्नीषोमौ परिचरति । तस्य यजमानस्य व्रतं कर्म रक्षतम् । अंहसः पापात् तं च यजमानं पातं रक्षतम् । विशे यागेषु प्रविशते तस्मै जनाय यजमानाय महि महत् प्रभूतं शर्म सुखं यच्छतं दत्तम् । अग्नीषोमा । देवताद्वन्द्वे च ' इति उभयपदप्रकृतिस्वरत्वम् । सपर्यात् । ‘सपर पूजायाम् ' । कण्ड्वादिः । लेटि आडागमः । देवद्रीचा । देवानञ्चतीति देवद्र्यङ् । अञ्चतेः ' ऋत्विक् ' इत्यादिना क्विन् । ' अनिदिताम्' इति नलोपः । ‘ विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये' (पा. सू. ६. ३. ९२ ) इति देवशब्दस्य टेः अद्र्यादेशः । तृतीयैकवचने ‘ अचः' इति अकारलोपे ‘चौ ' इति दीर्घत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते ‘अद्रिसध्र्योरन्तोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम् ' ( पा. सू. ६. ३. ९५. १ ) इति वचनात् अद्र्यादेशः अन्तोदात्त: । विशे । ‘ सावेकाचः' इति विभक्तेरुदात्तत्वम् ॥
“Agni and Soma, protect his sacrifice and defend him from illness, who, with a mind devoted to the gods, worships you with clarified butter and oblations; grant to the man engaged (in devotion) extreme felicity.”
Whoso with oil and poured oblation honours, with God-devoted heart, Agni and Soma,--
Protect his sacrifice, preserve him from distress, grant to the sacrificer great felicity.
Whoever will serve Agni and Soma with an oblation, with a mind turned toward the gods, with ghee,
guard his (ritual) ordinance; protect him from narrow straits; to his clan, to his people extend great shelter.
Wer euch mit Trank, o Agni-Soma, ehret, mit gottergebnem Herzen, wer mit Butter, Ja, dessen Werk beschirmt ihr, schützt ihn vor Gefahr, dem Haus, den Leuten reichet grossen Schutz ihr dar.
Wer Agni und Soma mit Opfer ehrt, wer mit gottgerichtetem Denken, wer mit Schmalz, dessen Dienst nehmet beide in Obhut; schützet ihn vor Not, gewähret dem Clane, dem Volk euren mächtigen Schutz!
Кто почитает Агни и Сому жертвенным возлиянием,
Кто – мыслью, обращенной к богам, кто – жиром, –
Охраняйте обет того (человека), защитите (его) от узости!
Даруйте великую защиту племени (и) народу!
अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनतं॒ गिर॑: । सं दे॑व॒त्रा ब॑भूवथुः ॥
अग्नी॑षोमा । सऽवे॑दसा । सहू॑ती॒ इति॒ सऽहू॑ती । व॒न॒त॒म् । गिरः॑ । सम् । दे॒व॒ऽत्रा । ब॒भू॒व॒थुः॒ ॥
हे अग्नीषोमौ युवां सवेदसा समानेनैकेन वेदसा हविर्लक्षणेन धनेन युक्तौ सहूती समानह्वानौ च सन्तौ गिरः अस्मदीयाः स्तुतीः वनतं संभजेथाम् । देवत्रा देवेषु सर्वेषु यौ युवां सं बभूवथुः संभूतौ संभावितौ प्रशस्तौ स्थः । ‘ राजानौ वा एतौ देवतानां यदग्नीषोमौ' (तै. सं. २. ६. २. १-२ ) इति श्रुतेः ॥ सवेदसा । समानं वेदो ययोः । समानस्य च्छन्दसि ' इति सभावः । वनतम्। ‘वन षण संभक्तौ '। देवत्रा। ' देवमनुष्यपुरुषपुरुमर्त्य ' इत्यादिना सप्तम्यर्थे त्राप्रत्ययः ॥
“Agni and Soma, endowed with the like wealth, and invoked by a common invocation, share our praises, for you have (ever) been the chief of the gods.”
Invoked together, mates in wealth, Agni-Soma, accept our hymns:
Together be among the Gods.
O Agni and Soma, who have common property and a common invocation—crave our hymns.
You two have come together among the gods.
Zugleich gerufen, gleich an Gut seid, Agni-Soma, hold dem Lied, Zugleich seid bei den Göttern ihr.
Agni und Soma, die ihr Besitz und Anrufung gemeinsam habt, nehmet die Lobrede gut auf! An göttlichem Rang stehet ihr gleich.
О Агни и Сома, вместе владеющие (жертвой),
Вместе призываемые, одобрите (наши) хвалебные песни!
Среди богов вы бываете вместе.
अग्नी॑षोमाव॒नेन॑ वां॒ यो वां॑ घृ॒तेन॒ दाश॑ति । तस्मै॑ दीदयतं बृ॒हत् ॥
अग्नी॑षोमौ । अ॒नेन॑ । वा॒म् । यः । वा॒म् । घृ॒तेन॑ । दाश॑ति । तस्मै॑ । दी॒द॒य॒त॒म् । बृ॒हत् ॥
हे अग्नीषोमौ वां युवयोः संबन्धी यः यजमानः अनेन घृतेन उत्पवनादिभिः संस्कृतेनाज्येन युक्तं हविः वां युवाभ्यां दाशति प्रयच्छति तस्मै यजमानाय बृहत् प्रभूतं धनं दीदयतं प्रकाशयतं प्रयच्छतमित्यर्थः । दाशति । दाशृ दाने '। शप्तिपोः पित्त्वादनुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः । दीदयतम् । दीदयतिः। दीप्तिकर्मा ॥
“Agni and Soma, give ample (recompense) to him who presents to you both, this clarified butter.”
Agni and Soma, unto him who worships you with holy oil
Shine forth an ample recompense.
Agni and Soma, whoever piously honors you with this (oblation), who honors you with ghee,
for him shine loftily.
Der euch mit diesem Liede ehrt, mit Butter, Agni-Soma, euch, Dem strahlet hohes Gut herbei.
Agni und Soma! Wer euch mit diesem Opfer, wer euch mit Schmalz beschenkt, dem leuchtet hoch auf!
О Агни и Сома, кто почитает вас
Этой (жертвой), кто (почитает) вас жиром, –
Сделайте, чтоб для него высоко засверкало (богатство)!
अग्नी॑षोमावि॒मानि॑ नो यु॒वं ह॒व्या जु॑जोषतम् । आ या॑त॒मुप॑ न॒: सचा॑ ॥
अग्नी॑षोमौ । इ॒मानि॑ । नः॒ । यु॒वम् । ह॒व्या । जु॒जो॒ष॒त॒म् । आ । या॒त॒म् । उप॑ । नः॒ । सचा॑ ॥
हे अग्नीषोमौ युवं युवां नः अस्मदीयानि इमानि हव्या हवींषि जुजोषतं सेवेथाम् । तदर्थं नः अस्मान् सचा सह युवाम् उप आ यातं उपागच्छतम् ॥ जुजोषतम् । ‘जुषी प्रीतिसेवनयोः । लोटि व्यत्ययेन शप्। छान्दसं द्विर्वचनम् । यद्वा। विकरणस्य ‘बहुलं छन्दसि' इति श्लुः । ततो व्यत्ययेन शप् । ' बहुलं छन्दसीति वक्तव्यम्' इति वचनात् ‘नाभ्यस्तस्याचि पिति' इति लघूपधगुणप्रतिषेधाभावः ॥
“Agni and Soma, bepleased with these our oblations, come to us together.”
Agni and Soma, be ye pleased with these oblations brought to you,
And come, together, nigh to us.
Agni and Soma, you will enjoy these oblations of ours here.
Together drive right up to us.
Lasst diesen unsern Opfertrank gefallen, Agni-Soma, euch, Und kommt vereinigt zu uns her.
Agni und Soma! Laßt euch diese Opferspenden von uns Munden, kommt zusammen her zu uns!
О Агни и Сома, наслаждайтесь вы
Этими нашими жертвенными возлияниями!
Приходите к нам вместе!
अग्नी॑षोमा पिपृ॒तमर्व॑तो न॒ आ प्या॑यन्तामु॒स्रिया॑ हव्य॒सूद॑: । अ॒स्मे बला॑नि म॒घव॑त्सु धत्तं कृणु॒तं नो॑ अध्व॒रं श्रु॑ष्टि॒मन्त॑म् ॥
अग्नी॑षोमा । पि॒पृ॒तम् । अर्व॑तः । नः॒ । आ । प्या॒य॒न्ता॒म् । उ॒स्रियाः॑ । ह॒व्य॒ऽसू॒दः॑ । अ॒स्मे इति॑ । बला॑नि । म॒घव॑त्ऽसु । ध॒त्त॒म् । कृ॒णु॒तम् । नः॒ । अ॒ध्व॒रम् । श्रु॒ष्टि॒ऽमन्त॑म् ॥
हे अग्नीषोमौ नः अस्माकम् अर्वतः अश्वान् पिपृतं पालयतम् । हव्यसूदः क्षीरादिहविषामुत्पादयित्र्यः उस्रियाः अस्मदीया गावश्च आ प्यायन्ताम् आप्यायिताः प्रवृद्धाः सन्तु । मघवत्सु हविर्लक्षणधनयुक्तेषु अस्मे अस्मासु बलानि धत्तं स्थापयतम् । तथा नः अस्माकम् अध्वरं यागं श्रुष्टिमन्तं धनयुक्तं कृणुतं कुरुतम् ॥ पिपृतम् । पॄ पालनपूरणयोः । पृ इत्येके'। जुहोत्यादित्वात् शपः श्लुः । ‘ अर्तिपिपर्त्योश्च ' इति अभ्यासस्य इत्वम् । हव्यसूदः । हव्यं सूदन्ते क्षरन्तीति हन्यसूदः। ‘ षूद क्षरणे'। क्विप् च ' इति क्विप् । अस्मे । ‘सुपां सुलुक् ' इति सप्तम्याः शेआदेशः । श्रुष्टिमन्तम् । श्रुष्टीति धननाम । शु आशु अश्यते व्याप्यते इति श्रुष्टिः । पृषोदरादिः। ‘ ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् ॥ ॥ २९ ॥ ॥ १४ ॥
“Agni and Soma, cherish our horses, and may our cows, affordin g(milk that yields butter for) oblations, be well nourished; give to us, who are affluent, strength (to perform) religious rites, and make our sacrifice productive of wealth.”
Agni and Soma, cherish well our horses, and let our cows be fat who yield oblations.
Grant power to us and to our wealthy patrons, and cause our holy rites to be successful.
Agni and Soma, deliver our steeds (to safety). Let the ruddy (cows) who sweeten the oblations swell up.
In us and in our benefactors establish powers. Give our ceremony an attentive hearing.
Most of the next 22 hymns (94–115) are attributed to Kutsa Āṅgirasa by the Anukramaṇī. Though a few (99–100, alternatively 105) have other poets named, the presence of the Kutsa refrain in both 100 and 105 (99 is a one-verse hymn) supports the unity of the collection. The Kutsa refrain, in triṣṭubh, “This let Mitra and Varuṇa grant to us, and Aditi, River, and Earth and Heaven,” occupies the last hemistich of the last verse of every hymn except I.97 (a gāyatrī hymn), 99 (a one-verse hymn), and 104 (though this last hymn is in triṣṭubh).
The Agni hymns (94–99) are each dedicated to a different form of Agni. There follow, in the normal order, five hymns to Indra, three to the All Gods, with miscel laneous other divinities making up the collection. The collection is at a generally high level of poetic craftsmanship, but we will only single out for special mention 104, a challenging Indra hymn, 105, a famous and enigmatic All God hymn, and the lovely Dawn hymn 113.
O Agni, Soma, lasset unsre Rosse gedeihen, und macht unsre Kühe fett, die die Opfertränke versüssen; gebt Kräfte uns und den Opferherrn und lasst unser Opferwerk Erhörung finden.
Agni uns Soma! Helft unsern Rennern durch; machet unsere Kühe milchreich, die die Opferspende zubereiten! Verleihet unseren Gönnern Stärke und schaffet unserem Gottesdienst Erhörung!
О Агни и Сома, проведите (благополучно) наших скакунов!
Сделайте набухшими коров, (чье молоко) приправляет жертву!
Дайте сил нам (и нашим) покровителям!
Сделайте наш обряд успешным!