इ॒मं स्तोम॒मर्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ सं म॑हेमा मनी॒षया॑ । भ॒द्रा हि न॒: प्रम॑तिरस्य सं॒सद्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
इ॒मम् । स्तोम॑म् । अर्ह॑ते जा॒तऽवे॑दसे । रथ॑म्ऽइव । सम् । म॒हे॒म॒ । म॒नी॒षया॑ । भ॒द्रा । हि । नः॒ । प्रऽम॑तिः । अ॒स्य॒ । स॒म्ऽसदि॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥
अर्हते पूज्याय जातवेदसे जातानामुत्पन्नानां वेदित्रे जातप्रज्ञाय जातधनाय वाग्नये मनीषया निशितया बुद्ध्या इमम् एतत्सूक्तरूपं स्तोमं स्तोत्रं रथमिव यथा तक्षा रथं संस्करोति तथा सं महेम सम्यक् पूजितं कुर्मः । अस्य अग्नेः संसदि संभजने नः अस्माकं प्रमतिः प्रकृष्टा बुद्धिः भद्रा हि कल्याणी समर्था खलु । अतस्तया बुद्ध्या स्तुम इत्यर्थः । हे अग्ने तव सख्ये अस्माकं त्वया सह सखित्वे सति वयं मा रिषाम हिंसिता न भवाम । अस्मान् रक्षेत्यर्थः ॥ अर्हते। ‘अर्ह पूजायाम्। ‘ अर्हः प्रशंसायाम् ' ( पा. सू. ३. २. १३३) इति लटः शत्रादेशः । शपः पित्त्वादनुदात्तत्वम् । शतुश्च अदुपदेशात् लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । महेम । ‘ मह पूजायाम् । रिषाम् । ‘ रिष हिंसायाम्' । व्यत्ययेन शः । तव । ‘युष्मदस्मदोर्सि। ' इत्याद्युदात्तत्वम् ।
“To him who is worthy of praise, and all-knowing, we construct, with our minds, this hymn, as (a workman makes) a car; happy is our understanding when engaged in his adoration; let us not suffer injury, Agni, through your friendship.”
FOR Jatavedas worthy of our praise will we frame with our mind this eulogy as 'twere a car.
For good, in his assembly, is this care of ours. Let us not, in thy friendship, Agni, suffer harm.
We have sent forward 1 with thoughtful mind this song of praise like a chariot to the worthy Gâtavedas. For blissful is his care for us in his companionship. Agni! May we suffer no harm in thy friendship.
For Jātavedas, who deserves this praise, we would bring it into being like a chariot, with our inspired thought,
for his solicitude for us in the assembly is beneficial. – O Agni, while in company with you may we not come to harm.
Dem Wesenkenner, der's verdient, ihm haben wir dies Lob bereitet kunstvoll einem Wagen gleich; Denn heilvoll ist uns seine Sorge in dem Rath, in deiner Freundschaft, Agni, treff' uns nimmer Leid.
Dies Loblied haben wir für Jatavedas, der es verdient, mit Bedacht wie einen Wagen zusammengefügt, denn seine Fürsorge bringt uns in der Versammlung Glück. O Agni, in deiner Freundschaft sollen wir nicht zu Schaden kommen.
Это восхваление для достойного Джатаведаса
Мы хотим торжественно создать с молитвой, как колесницу -
Ведь его забота о нас приносит счастье в собрании.
О Агни, дружа с тобой, да не потерпим мы вреда!
यस्मै॒ त्वमा॒यज॑से॒ स सा॑धत्यन॒र्वा क्षे॑ति॒ दध॑ते सु॒वीर्य॑म् । स तू॑ताव॒ नैन॑मश्नोत्यंह॒तिरग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
यस्मै॑ । त्वम् । आ॒ऽयज॑से । सः । सा॒ध॒ति॒ । अ॒न॒र्वा । क्षे॒ति॒ । दध॑ते । सु॒ऽवीर्य॑म् । सः । तू॒ता॒व॒ । न । ए॒न॒म् । अ॒श्नो॒ति॒ । अं॒ह॒तिः । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥
यस्मै यजमानाय हे अग्ने त्वम् आयजसे देवानाभिमुख्येन यजसि सः यजमानः साधति स्वाभिलषितं साधयति । प्राप्नोतीत्यर्थः। किंच स यजमानः अनर्वा शत्रुभिरप्रत्यृतः सन् क्षेति निवसति । तथा सुवीर्यं शोभनवीर्योपेतं धनं दधते धारयति । प्राप्नोतीत्यर्थः। धृत्वा च सः यजमानः तूताव वर्धते । एनं यजमानम् अंहतिः आर्तिर्दारिद्र्यं न अश्नोति न प्राप्नोति । अन्यत् पूर्ववत् ॥ साधति । ‘ षिधु संराद्धौ । णिचि • सिध्यतेरपारलौकिके ' ( पा. सू. ६. १. ४९ ) इति आत्वम् । ‘ छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् “ णेरनिटि ' इति णिलोपः । क्षेति । ' क्षि निवासगत्योः '।' बहुलं छन्दसि ' इति विकरणस्य लुक् । दधते । दध धारणे' । भौवादिकः । तूताव । तु इति वृद्ध्यर्थः सौत्रो धातुः । अस्मात् छान्दसो लिट् । तुजादित्वात् अभ्यासस्य दीर्घत्वम् । अश्नोति । व्यत्ययेन परस्मैपदम् । अंहतिः । ‘ हन्तेरहं च' ( उ. सू. ४. ५०२ ) इति अतिप्रत्ययः । ‘ चित् ' इत्यनुवृत्तेः अन्तोदात्तत्वम् ॥
“He, for whom you sacrifice, accomplishes (his objects), abides free from aggression, and enjoys (wealth, the source of) strength; he prospers, and poverty never approaches him; let us not suffer injury, Agni, through your friendship.”
The man for whom thou sacrificest prospereth, dwelleth without a foe, gaineth heroic might.
He waxeth strong, distress never approacheth him. Let us not, in thy friendship, Agni, suffer harm.
He prospers for whom thou performest the sacrifice; he dwells untouched 1; he acquires abundance of heroes. He is strong; no distress overtakes him. Agni! May we suffer no harm in thy friendship.
For whom you perform sacrifice, that one reaches his goal. Without assault he dwells in peace; he will acquire good heroes en masse.
He is powerful; constraint does not reach him. – O Agni, while in
company with you may we not come to harm.
Für wen du Opfer bringest, der gelangt zum Ziel, der wohnet sicher und gewinnt sich Heldenkraft, Zu Macht gelangt er, nie erreicht Bedrängniss ihn; in deiner Freundschaft, Agni, treff' uns nimmer Leid.
Für wen du opferst, der hat Erfolg, er lebt ohne Widersacher im Frieden, erlangt die Meisterschaft; er kommt zur Geltung, keine Not sucht ihn heim. - O Agni, in deiner Freundschaft sollen wir nicht zu Schaden kommen.
Для кого ты приносишь жертвы, тот идет прямо к цели,
Он мирно живет, не подвергаясь нападениям, приобретает прекрасных мужей,
Он силен, он не впадет в нужду.
О Агни, дружа с тобой, да не потерпим мы вреда!
श॒केम॑ त्वा स॒मिधं॑ सा॒धया॒ धिय॒स्त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् । त्वमा॑दि॒त्याँ आ व॑ह॒ तान्ह्यु१॒॑श्मस्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
श॒केम॑ । त्वा॒ । स॒म्ऽइध॑म् । सा॒धय॑ । धियः॑ । त्वे॒ । दे॒वाः । ह॒विः । अ॒द॒न्ति॒ । आऽहु॑तम् । त्वम् । आ॒दि॒त्यान् । आ । व॒ह॒ । तान् । हि । उ॒श्मसि॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥
हे अग्ने त्वा त्वां समिधं सम्यगिद्धं कर्तुं शकेम शक्ता भूयास्म । त्वं च धियः अस्मदीयानि दर्शपूर्णमासादीनि कर्माणि साधय निष्पादय । त्वया हि सर्वे यागा निष्पाद्यन्ते । यस्मात् त्वे त्वय्यग्नौ आहुतम् ऋत्विग्भिः प्रक्षिप्तं चरुपुरोडाशादिकं हविः देवाः अदन्ति भक्षयन्ति । तस्मात् त्वं साधयेत्यर्थः । अपि च त्वम् आदित्यान् अदितेः पुत्रान् सर्वान् देवान् आ वह अस्मद्यज्ञार्थमानय । 'तान् हि इदानीमेव वयम् उश्मसि कामयामहे । अन्यत् पूर्ववत् ॥ शकेम । ‘शक्लृ शक्तौ । लिङ्याशिष्यङ्' । अदुपदेशात् लसार्वधातुकानुदात्तत्वेऽङ एव स्वरः शिष्यते। समिधम् । ‘ ञिइन्धी दीप्तौ । अस्मात् संपदादिलक्षणः कर्मणि क्विप् । त्वे । ‘सुपां सुलुक्' इति सप्तम्येकवचनस्य शेआदेशः । उश्मसि । “ वश कान्तौ ' । इदन्तो मसिः । अदादित्वात् शपो लुक् । ‘ ग्रहिज्या ' इत्यादिना संप्रसारणम् ॥
“May we be able to kindle you; perfect the rite, for through you the gods partake of the offered oblations; bring hither the Ādityas, for we love them; let us not suffer injury, Agni, through your friendship.”
May we have power to kindle thee. Fulfil our thoughts. In thee the Gods eat the presented offering,
Bring hither the Adityas, for we long for them. Let us not in thy friendship, Agni, suffer harm.
May we be able to light thee. Prosper our prayers. The gods eat the sacrificial food that is offered in thee. Bring thou hither the Âdityas, for we long for them. Agni! May we suffer no harm in thy friendship.
Might we be able to kindle you. Send our insights to their goal. The gods eat the oblation poured in you.
Convey the Ādityas here, for we are eager for them. – O Agni, while in company with you may we not come to harm.
Gib Kraft dich zu entzünden, segne das Gebet; in dir geniesst die Götterschar den Opferguss; Fahr die Aditja's her, denn die begehren wir; in deiner Freundschaft, Agni, treff' uns nimmer Leid.
Möchten wir im Stande sein dich zu entzünden. Bring unsere Absichten in Erfüllung! In dir genießen die Götter die geopferte Opfergabe. Fahr du die Aditya´s hierher, denn diese wünschen wir! - O Agni, in deiner Freundschaft sollen wir nicht zu Schaden kommen.
Да будем мы в силах тебя зажечь! Веди прямо к цели (наши) молитвы!
В тебе вкушают боги возлитое жертвоприношение.
Ты Адитьев привези! Это их мы желаем.
О Агни, дружа с тобой, да не потерпим мы вреда!
भरा॑मे॒ध्मं कृ॒णवा॑मा ह॒वींषि॑ ते चि॒तय॑न्त॒: पर्व॑णापर्वणा व॒यम् । जी॒वात॑वे प्रत॒रं सा॑धया॒ धियोऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
भरा॑म । इ॒ध्मम् । कृ॒णवा॑म । ह॒वींषि॑ । ते॒ । चि॒तय॑न्तः । पर्व॑णाऽपर्वणा । व॒यम् । जी॒वात॑वे । प्र॒ऽत॒रम् । सा॒ध॒य॒ । धियः॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥
हे अग्ने त्वद्यागार्थम् इध्मम् इन्धनसाधनमेकविंशतिदार्वात्मकं समित्समूहं भराम संपादयाम। तदनन्तरं ते तुभ्यं हवींषि चरुपुरोडाशादिलक्षणान्यन्नानि वयं कृणवाम करवाम । किं कुर्वन्तः । पर्वणापर्वणा प्रतिपक्षमावृत्ताभ्यां दर्शपूर्णमासाभ्यां चितयन्तः त्वां प्रज्ञापयन्तः । स त्वं जीवातवे अस्माकं जीवनौषधाय चिरकालावस्थानाय धियः कर्माण्यग्निहोत्रादीनि प्रतरं प्रकृष्टतरं साधय निष्पादय । अन्यत् समानम् ॥ चितयन्तः ॥ ‘ चिती संज्ञाने' । संज्ञापूर्वकस्य विधेरनित्यत्वात् लघूपधगुणाभावः । पर्वणापर्वणा । नित्यवीप्सयोः' इति वीप्सायां द्विर्भावः। तस्य परमाम्रेडितम् इति परस्याम्रेडितसंज्ञायाम् ‘ अनुदात्तं च ' इत्यनुदात्तत्वम् । प्रतरम् । तरबन्तात् प्रशब्दात् क्रियाप्रकर्षे वर्तमानात् “ अमु च च्छन्दसि ' ( पा. सू. ५. ४. १२ ) इति अमुप्रत्ययः ॥
“We bring fuel, we offer oblations, reminding you of the successive seasons (of worship); do you thoroughly complete the rite, in order to prolong our lives; let us not suffer injury, Agni, through your friendship.”
We will bring fuel and prepare burnt offerings, reminding thee at each successive festival.
Fulfil our thought that so we may prolong our lives. Let us not in thy friendship, Agni, suffer harm.
Let us bring fuel and prepare sacrificial gifts for thee, awaking thy attention at each joint 1 (of the month). Help forward our prayers that we may live. Agni! May we suffer no harm in thy friendship.
We shall bring the kindling, and we shall make oblations to you, while being attentive at each (ritual) juncture.
For us to live longer, send our insights to their goal. – O Agni, while in company with you may we not come to harm.
Wir wollen Holz dir bringen und dir Opfer weihn, die wir zu jeder Opferzeit voll Andacht sind, Zu langem Leben lass die Bitten uns gedeihn; in deiner Freundschaft, Agni, treff' uns nimmer Leid.
Wir wollen dir Brennholz bringen, dir Opfer bereiten, achtsam, an jedem Mondwechsel. Bring unsere Absichten in Erfüllung, daß wir noch länger leben. - O Agni, in deiner Freundschaft sollen wir nicht zu Schaden kommen.
Мы будем приносить дрова, мы будем готовить тебе жертвенные возлияния,
Внимательные, при каждом изменении луны.
Чтобы мы дольше жили, веди прямо к цели (наши) молитвы!
О Агни, дружа с тобой, да не потерпим мы вреда!
वि॒शां गो॒पा अ॑स्य चरन्ति ज॒न्तवो॑ द्वि॒पच्च॒ यदु॒त चतु॑ष्पद॒क्तुभि॑: । चि॒त्रः प्र॑के॒त उ॒षसो॑ म॒हाँ अ॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
वि॒शाम् । गो॒पाः । अ॒स्य॒ । च॒र॒न्ति॒ । ज॒न्तवः॑ । द्वि॒ऽपत् । च॒ । यत् । उ॒त । चतुः॑ऽपत् । अ॒क्तुऽभिः॑ । चि॒त्रः । प्र॒ऽके॒तः । उ॒षसः॑ । म॒हान् । अ॒सि॒ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥
अस्य अग्नेः जन्तवः जाता रश्मयः विशां सर्वेषां प्राणिनां गोपाः । गोपायितारो रक्षकाः सन्तः चरन्ति उद्गच्छन्ति । तदनन्तरं यत् च द्विपत् द्विपात् मनुष्यादिकमस्ति उत अपि च चतुष्पत् चतुष्पात् गवादिकं यदस्ति तदुभयम् 'अक्तुभिः अञ्जकैः अस्य रश्मिभिरक्तम् आश्लिष्टमभूत् । हे अग्ने चित्रः विचित्रदीप्तियुक्तः प्रकेतः रात्रावन्धकारावृतानां सर्वेषां प्रज्ञापयिता प्रदर्शयिता उषसः उषोदेवताया अपि महान गुणैरधिकः असि भवसि । उषास्तु रात्रेश्चरमभागे प्रकाशयति अग्निस्तु सर्वस्यां रात्रौ प्रकाशयतीति तस्य गुणाधिक्यम् ॥ गोपाः । ‘ गुपू रक्षणे'। ‘गुपूधूपविच्छिं ' (पा. सू. ३. १. २८) इति आयप्रत्ययः । अस्मात् क्विप् । अतो लोपः । ‘ वेरपृक्तलोपाद्वलि लोपो बलीयान्' इति पूर्वं वलि लोपः। न चातो लोपस्य स्थानिवत्त्वं, ‘न पदान्त' इत्यादिना यलोपं प्रति तन्निषेधात्। द्विपत् । द्वौ पादावस्येति बहुव्रीहौ ‘ संख्यासुपूर्वस्य ' ( पा. सू. ५. ४. १४० ) इति पादशब्दस्य अन्त्यलोपः समासान्तः । अयस्मयादित्वेन भत्वे ' पादः पत्' ( पा. सू. ६. ४. १३० ) इति पद्भावः । एकदेशविकृतस्यानन्यवत्त्वात् ( परिभा. ३७ ) ‘ द्वित्रिभ्यां पाद्दन्मूर्धसु° ' ( पा. सू. ६. २. १९७ ) इत्युत्तरपदान्तोदात्तत्वम् । चतुष्पत् । पूर्ववत् समासान्तः पद्भावश्च । ‘ इदुदुपधस्य चाप्रत्ययस्य ' इति विसर्जनीयस्य षत्वम् । ‘त्रः संख्यायाः ' (फि. सू. २८) इति चतुर्शब्द आद्युदात्तः । स एव बहुव्रीहिस्वरेण शिष्यते ॥ ॥ ३० ॥
“His genitive al (flames), the preservers of mankind, spread around, and both bipeds and quadrupeds are enlivened by his rays; shining with various lustre, and illuminating (the world by night), you are superior to the dawn; let us not, Agni, suffer injury through your friendship.”
His ministers move forth, the guardians of the folk, protecting quadruped and biped with their rays.
Mighty art thou, the wondrous herald of the Dawn. Let us not in thy friendship, Agni, suffer harm.
(He is) the shepherd of the clans 1; by his nightly light the creatures walk, the two-footed and four-footed. Thou art the bright, great splendour of dawn. Agni! May we suffer no harm in thy friendship.
His kinfolk [=flames], the herdsmen of the clans, (of) both the
two-footed and the four-footed, roam by night.
You are the great, bright sign of dawn. – O Agni, while in company with you may we not come to harm.
Als Hausbehüter schreiten seine Diener vor, sie, die behüten in den Nächten Mensch und Thier; Des Morgens helles, grosses Licht bist, Agni, du, in deiner Freundschaft, Agni, treff' uns nimmer Leid.
Du bist der Hirt der Ansiedlungen; als seine Angehörigen kommen Zweifüßler und Vierfüßler während der Nächte. Du bist das prächtige große Vorgesicht der Morgenröte. - O Agni, in deiner Freundschaft sollen wir nicht zu Schaden kommen.
(Агни -) пастух племен. Бродят по ночам
Его существа: двуногие и (те,) что четвероногие!
Яркий провозвестник утренней зари, ты, велик.
О Агни, дружа о тобой, да не потерпим мы вреда!
त्वम॑ध्व॒र्युरु॒त होता॑सि पू॒र्व्यः प्र॑शा॒स्ता पोता॑ ज॒नुषा॑ पु॒रोहि॑तः । विश्वा॑ वि॒द्वाँ आर्त्वि॑ज्या धीर पुष्य॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
त्वम् । अ॒ध्व॒र्युः । उ॒त । होता॑ । अ॒सि॒ । पू॒र्व्यः । प्र॒ऽशा॒स्ता । पोता॑ । ज॒नुषा॑ । पु॒रःऽहि॑तः । विश्वा॑ । वि॒द्वान् । आर्त्वि॑ज्या । धी॒र॒ । पु॒ष्य॒सि॒ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥
हे अग्ने त्वम् अध्वर्युः अध्वरस्य यागस्य नेता देवान्प्रति प्रेरयिता यद्वा यागे आध्वर्यवस्य कर्ता भवसि । अध्वर्यौ मनुष्ये जठररूपेण वागिन्द्रियाधिष्ठातृत्वेन वावस्थाय यागनिष्पादकः असि । उत अपि च पूर्व्यः मुख्यः होता देवानामाह्वाता पूर्ववद्धोतर्यवस्थाय हौत्रस्य कर्मणः कर्ता वा असि भवसि । मानुषो होता अमुख्यः । तदपेक्षयास्य मुख्यत्वम् । तथा प्रशास्ता प्रकर्षेण शास्ता सर्वेषां शिक्षकोऽसि । यद्वा । ‘ होतर्यज पोतर्यज' इत्यादिना प्रेषेण शास्तीति मैत्रावरुणः प्रशास्ता । पूर्ववत् तस्मिन्नवस्थाय यागनिष्पादकोऽसि। पोता यज्ञस्य पावयिता शोधयितासि । यद्वा पोतृनामकस्य ऋत्विजः पूर्ववदधिष्ठाय यागनिष्पादकोऽसि । तथा जनुषा जन्मना स्वाभाव्येन पुरोहितः पुरस्तादागामिनि स्वर्गादौ हितोऽनुकूलाचरणोऽसि । यद्वा । सर्वेषु कर्मसु पूर्वस्यां दिश्याहवनीये स्थापितोऽसि । अथवा पुरोहितो ब्रह्मा देवपुरोहितस्य बृहस्पतेः प्रतिनिधित्वात् । तथा च मन्त्रान्तरम्-’ बृहस्पतिर्देवानां ब्रह्माहं मनुष्याणाम् ' (तै. ब्रा. ३. ७. ६. ३) इति । अतस्तस्मिन्ब्रह्मणि पूर्ववदवस्थाय तद्रूपः सन् विश्वा सर्वाणि 'आर्त्विज्या ऋत्विजः कर्माण्यध्वर्यवादीनि विद्वान् जानंस्त्वं हे धीर प्राज्ञ अग्ने पुष्यसि न्यूनाधिकभावराहित्येन संपूर्णानि करोषि । अन्यत् समानम् ॥ जनुषा । जनेरुसिः । पुरोहितः । दधातेः कर्मणि निष्ठा । पूर्वाधर' इत्यादिना असिप्रत्ययान्तः पूरस्शब्दोऽन्तोदात्तः । ‘ तद्धितश्चासर्वविभक्तिः' इति अव्ययसंज्ञायां ‘ पुरोऽव्ययम्' इति मतित्वात् ‘ गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । आर्वि शज्या । ब्राह्मणादित्वात् ष्यञ् । ञित्त्वादाद्युदात्तत्वम् ॥
“You are the sacrificing or the invoking priest, you are the principal (presenter of the offering), the director (of the ceremonies), their performer, or by birth the family priest; thus conversant with all the priestly functions, you perform perfectly the rite; let us not, Agni, suffer injury through your friendship.”
Thou art Presenter and the chief Invoker, thou Director, Purifier, great High Priest by birth.
Knowing all priestly work thou perfectest it, Sage. Let us not in thy friendship, Agni, suffer harm.
Thou art the Adhvaryu and the ancient Hotri, the Prasâstri 1, the Potri, the born Purohita 2. Knowing the duties of every priest thou givest success, O wise one. Agni! May we suffer no harm in thy friendship.
You are the Adhvaryu and the primordial Hotar, the Praśāstar and the Potar, by birth the one placed in front [/Purohita].
Wise, you prosper all the priestly offices, o insightful one. – O Agni, while in company with you may we not come to harm.
Von alters her bist Priester du und Opferer, Anweiser, Läutrer, Hauses Priester von Geburt Und aller Opferdienste kundig blühest du; in deiner Freundschaft, Agni, treff' uns nimmer Leid.
Du bist der Adhvaryu und der allerbeste Hotri, der Prasastri, Potri, schon von Geburt der Vorsteher des Opfers. Alle Priesterämter bringst du kundig zur Blüte, o Weiser. - O Agni, in deiner Freundschaft sollen wir nicht zu Schaden kommen.
Ты адхварью, а также первый хотар,
Прашастар, потар, по рождению поставленный во главе (обряда).
Знаток, ты даешь расцвести всем жреческим обязанностям, о мудрый.
О Агни, дружа с тобой, да не потерпим мы вреда!
यो वि॒श्वत॑: सु॒प्रती॑कः स॒दृङ्ङसि॑ दू॒रे चि॒त्सन्त॒ळिदि॒वाति॑ रोचसे । रात्र्या॑श्चि॒दन्धो॒ अति॑ देव पश्य॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
यः । वि॒श्वतः॑ । सु॒ऽप्रती॑कः । स॒ऽदृङ् । असि॑ । दू॒रे । चि॒त् । सन् । त॒ळित्ऽइ॑व । अति॑ । रो॒च॒से॒ । रात्र्याः॑ । चि॒त् । अन्धः॑ । अति॑ । दे॒व॒ । प॒श्य॒सि॒ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥
हे अग्ने यः त्वं सुप्रतीकः शोभनाङ्गः सन् विश्वतः सर्वस्मादपि सदृङ्ङसि अन्यूनः सदृशो भवसि स त्वं दूरे चित् सन् दूरेऽपि वर्तमानः सन् तळिदिव । अन्तिकनामैतत् । अन्तिके वर्तमान इव अति रोचसे अतिशयेन दीप्यसे । तदुक्तं यास्केन- दूरेऽपि सन्नन्तिक इव संदृश्यसे ( निरु. ३. ११ ) इति। रात्र्याश्चित् रात्रेरपि रात्रेः संबन्धिनम् अन्धः बहुलमन्धकारमपि हे देव द्योतमान अग्ने अति पश्यसि अतीत्य प्रकाशसे । अन्यत् पूर्ववत् ॥ सुप्रतीकः । शोभनं प्रतीकोऽङ्गं यस्य । क्रत्वादयश्च ' इत्युत्तरपदाद्युदात्तत्वम् । सदृङ्। ‘ समानान्ययोश्चेति वक्तव्यम् ( पा. सू. ३. २. ६०. १ ) इति समानोपपदात् दृशेः क्विन् । दृग्दृशवतुषु ' ( पा. सू. ६. ३. ८९ ) इति समानस्य सभावः । ‘ दृक्स्ववःस्वतवसां छन्दसि ' ( पा. सू. ७. १. ८३ ) इति नुम् । संयोगान्तलोपः । क्विन्प्रत्ययस्य कुः' इति कुत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । रात्र्याः । ‘ रात्रेश्चाजसौ ' ( पा. सू. ४. १. ३१ ) इति ङीप् ॥
“You are of graceful form, and alike on every side, and, although remote, shine as if nigh; you see, divine Agni, beyond the darkness of night; let us not, Agni suffer injury through your friendship.”
Lovely of form art thou, alike on every side; though far, thou shinest brightly as if close at hand.
O God, thou seest through even the dark of night. Let us not in thy friendship, Agni, suffer harm.
Thou who art beautiful, of like appearance on all sides, thou shinest forth even when afar like lightning. Thou seest, O god, even over the darkness of night. Agni! May we suffer no harm in thy friendship.
You of lovely face who have the same appearance in all directions— even though far in the distance, you shine across (it [=distance]) as if right there.
You see across even the blind darkness of night. – O Agni, while in
company with you may we not come to harm.
Der du gleich schön von allen Seiten bist zu schaun, wie in der Nähe strahlst du, ob du fern auch seist; Das Dunkel auch der Nacht durchschauest du, o Gott, in deiner Freundschaft, Agni, treff' uns nimmer Leid.
Der du nach allen Seiten ein schönes Angesicht, den gleichen Anblick bietest, du leuchtest, auch wenn du in der Ferne bist, herüber, als wärest du Nahe. Du Gott blickst auch durch das Dunkel der Nacht. - O Agni, in deiner Freundschaft sollen wir nicht zu Schaden kommen.
Ты, что во все стороны обращен одинаково прекрасным ликом,
Даже находясь далеко, ярко светишь, словно молния.
Ты видишь даже сквозь ночной мрак, о бог.
О Агни, дружа с тобой, да не потерпим мы вреда!
पूर्वो॑ देवा भवतु सुन्व॒तो रथो॒ऽस्माकं॒ शंसो॑ अ॒भ्य॑स्तु दू॒ढ्य॑: । तदा जा॑नीतो॒त पु॑ष्यता॒ वचोऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
पू॒र्वः॑ । दे॒वाः॒ । भ॒व॒तु॒ । सु॒न्व॒तः । रथः॑ । अ॒स्माकम् । शंसः॑ । अ॒भि । अ॒स्तु॒ । दुः॒ऽध्यः॑ । तत् । आ । जा॒नी॒त॒ । उ॒त । पु॒ष्य॒त॒ । वचः॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥
हे देवाः अग्न्यवयवभूताः सर्वे देवाः सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य रथः पूर्वः अन्येषामयजमानानां रथेभ्यो मुख्यः भवतु । अपि च अस्माकं शंसः शंसनीयमभिशापरूपं पापं दूढ्यः दुर्धियः पापबुद्धीन् अस्मदनिष्टाचरणपराञ्छत्रून अभ्यस्तु अभिभवतु तान् बाधताम् । तत् इदं मद्वाक्यं हे देवाः आ जानीत आभिमुख्येनावगच्छत । उत अपि च तत् वचः अस्मदीयं वचनं तदर्थाचरणेन पुष्यत प्रवर्धयत । हे सर्वदेवात्मक अग्ने । सख्ये इत्यादि पूर्ववत् ॥ सुन्वतः । ‘ शतुरनुमः० ' इति विभक्तेरुदात्तत्वम् । शंसः । शंस्यते कीर्य् ते इति शंसोऽभिशापः । कर्मणि घञ् । ञित्त्वादाद्युदात्तत्वम् । दूढ्यः । दुष्टं ध्यायन्तीति दुर्धियः । ‘ ध्यै चिन्तायाम्' इत्यस्मात् ‘क्विप् च ' इति क्विप् । दृशिग्रहणानुवृत्तेस्तस्य च विध्यन्तरोपसंग्रहार्थत्वात् संप्रसारणम् । पृषोदरादिषु ' ध्यै च इति पाठात् दुरो रेफस्योत्वं उत्तरपदादेः ष्टुत्वं च ॥
“Gods, let the chariot of the offerer of the libation be foremost; let our denunciations overwhelm the wicked; understand and fulfil my words let us not suffer injury, Agni, through your friendship.”
Gods, foremost be his car who pours libations out, and let our hymn prevail o'er evil-hearted men.
Attend to this our speech and make it prosper well. Let us not in thy friendship, Agni, suffer harm.
May the chariot of him who presses Soma, be to the front 1, O gods. May our curse overcome the malicious ones. Accept (O gods) this prayer and make it prosper. Agni! May we suffer no harm in thy friendship.
Let the chariot of the soma-presser be in front, o gods, and let our recitation dominate those whose insight is evil.
Take heed of this speech (of ours) and prosper it. – O Agni, while in company with you may we not come to harm.
Des Somapressers Wagen schaff' voran, o Gott; die bösgesinnten überwinde unser Spruch; Dies Wort beachtet und verleihet ihm Gedeihn! in deiner Freundschaft, Agni, treff' uns nimmer Leid.
Der Wagen des Somapressenden soll der vorderste sein, ihr Götter; unsere Rede soll die Übelgesinnten überbieten. Versteht dies Wort auch recht und erfüllet es! - O Agni, in deiner Freundschaft sollen wir nicht zu Schaden kommen.
Да будет первой, о боги, колесница выжимающего (сому)!
Наша торжественная речь да одержит верх над злоумышленниками!
Признайте эту речь и дайте (ей) процветать!
О Агни, дружа с тобой, да не потерпим мы вреда!
व॒धैर्दु॒:शंसाँ॒ अप॑ दू॒ढ्यो॑ जहि दू॒रे वा॒ ये अन्ति॑ वा॒ के चि॑द॒त्रिण॑: । अथा॑ य॒ज्ञाय॑ गृण॒ते सु॒गं कृ॒ध्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
व॒धैः । दुः॒ऽशंसा॑न् । अप॑ । दुः॒ऽध्यः॑ । ज॒हि॒ । दू॒रे । वा॒ । ये । अन्ति॑ । वा॒ । के । चि॒त् । अ॒त्रिणः॑ । अथ॑ । य॒ज्ञाय॑ । गृ॒ण॒ते॒ । सु॒ऽगम् । कृ॒धि॒ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥
हे अग्ने त्वं वधैः हननसाधनैरायुधैः दुःशंसान दुःखेन कीर्तनीयान् दूढ्यः दुर्धियः पापबुद्धीन अप जहि वधं प्रापय । ये के चित् ये केचन दूरे विप्रकृष्टदेशे वा अन्तिके समीपदेशे वा वर्तमानाः अत्रिणः अत्तारो राक्षसादयो विद्यन्ते तान् दुर्धियोऽप जहीत्यर्थः । अथ अनन्तरं यज्ञाय यज्ञपतये गृणते त्वां स्तुवते यजमानाय सुगं शोभनं मार्गं कृधि कुरु । अन्यत् पूर्ववत् ॥ वधैः । ‘ हनश्च वधः' इति हन्तेः करणेऽप् वधादेशश्च । स च अदन्तोऽन्तोदात्तः । तस्यातो लोपे सति उदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वम् । दुःशंसान् । 'ईषद्दुःसुषु ' इति कर्मणि खल् । ' लिति' इति प्रत्ययात् पूर्वस्योदात्तत्वम् । जहि । लोटि हिः । 'हन्तेर्जः' इति जादेशः । तस्य • असिद्धवदत्रा भात्' इति असिद्धत्वात् हेर्लुगभावः । अन्ति । अन्तिकस्य ‘कादिलोपो बहुलम्' इति कलोपः । अत्रिणः । ‘ अदेस्त्रिनि च ' इति त्रिनिप्रत्ययः । इकारो नकारपरित्राणार्थः । गृणते । शतुरनुमः । इति विभक्तेरुदात्तत्वम् । सुगम् । ‘ सुदुरोरधिकरणे ' ( पा. सू. ३. २. ४८. ३ ) इति गमेर्डः । कृधि । श्रुशृणुपॄकृवृभ्यश्छन्दसि ' इति हेर्धिः । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् ॥
“Overcome with your fatal (weapons) the wicked and the impious, all who are enemies, whether distant or near; and then provide an easy (path) for the sacrificer who praises you; let us not, Agni, suffer injury through your friendship.”
Smite with thy weapons those of evil speech and thought, devouring demons, whether near or far away.
Then to the singer give free way for sacrifice. Let us not in thy friendship, Agni, suffer harm.
Strike away with thy weapons those who curse us, the malicious ones, all ghouls, be they near or afar. And make a good path to the sacrifice of him who praises thee. Agni! May we suffer no harm in thy friendship.
With fatal weapons strike away those of evil recitation and of evil insight, and whatever rapacious ones are in the distance or nearby.
Then for the sacrifice and for the singer make an easy way. – O Agni, while in company with you may we not come to harm.
Mit Keulen schlag' den bösgesinnten Flucher fort, die Feinde alle, sein sie nahe oder fern, Und schaff' dem Opfer und dem Sänger freie Bahn; in deiner Freundschaft, Agni, treff' uns nimmer Leid.
Mit diesen Waffen schlag die Lästerer, die Übelgesinnten fort, alle Atrin´s, die fern und nah sind, und bereite dem Sänger für das Opfer gute Bahn! - O Agni, in deiner Freundschaft sollen wir nicht zu Schaden kommen.
Смертельным оружием разбей клеветников, злоумышленников,
Кто близко, кто далеко – всяких атринов!
Затем создай певцу для жертвы легко проходимый, (путь)!
О Агни, дружа с тобой, да не потерпим мы вреда!
यदयु॑क्था अरु॒षा रोहि॑ता॒ रथे॒ वात॑जूता वृष॒भस्ये॑व ते॒ रव॑: । आदि॑न्वसि व॒निनो॑ धू॒मके॑तु॒नाग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
यत् । अयु॑क्थाः । अ॒रु॒षा । रोहि॑ता । रथे॑ । वात॑ऽजूता । वृ॒ष॒भस्य॑ऽइव । ते॒ । आत् । इ॒न्व॒सि॒ । व॒निनः॑ । धू॒मऽके॑तुना । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥
हे अग्ने अरुषा आरोचमानौ रोहिता लोहितवर्णौ। रोहित इत्यग्नेरश्वस्याख्या ‘रोहितोऽग्नेः' (नि. १. १५.२ ) इति दर्शनात् । ‘रोहितेन त्वाग्निर्देवतां गमयतु' (तै. सं. १. ७. ४. ३) इति मन्त्रवर्णाच्च । ‘ एते वै देवाश्वाः' (तै. सं. १. ७. ४. ३ ) इति हि तत्र व्याख्यातम् । वातजूता । वातस्य वायोर्जूतं जवो वेग इव वेगो ययोस्तौ। ईदृशावश्वौ रथे यत् यदा अयुक्थाः अयोजयः तदानीं वनानि दहतः ते तव रवः शब्दः वृषभस्येव दृप्तस्य महोक्षस्य शब्द इव गम्भीरो भवति । आत् अनन्तरं वनिनः वनसंबद्धान वृक्षान् धूमकेतुना धूमः केतुः प्रज्ञापको यस्य तादृशेन रश्मिना इन्वसि व्याप्नोषि । अन्यत् पूर्ववत् ॥ अयुक्थाः । ‘ युजिर योगे' । लुङि ‘झलो झलि ' इति सकारलोपः । अरुषेत्यादिद्विवचनेषु ‘ सुपां सुलुक्° ' इति आकारः । रवः । ‘ रु शब्दे'।' ऋदोरप्' इति भावे अप । इन्वसि । इवि व्याप्तौ '। भौवादिकः । इदित्त्वात् नुम् ॥ ॥ ३१ ॥
“When you have yoked the bright red horses (ete vai devāśvāḥ: Taittirīya Saṃhitā 1.7.4.3), swift as the wind, to your car, your roar is like that of a bull, and you enwrap the forest trees with a banner of smoke; let us not, Agni, suffer injury through your friendship.”
When to thy chariot thou hadst yoked two red steeds and two ruddy steeds, wind-sped, thy roar was like a bull's.
Thou with smoke-bannered flame attackest forest trees. Let us not in thy friendship, Agni, suffer harm.
When thou hast yoked to thy chariot the two ruddy, red horses, whom the wind drives forward, and thy roaring is like that of a bull, then thou movest the trees with thy banner of smoke 1. Agni! May we suffer no harm in thy friendship.
When you have harnessed the pair of ruddy, wind-sped chestnuts to your chariot and your bellowing is like that of a bull,
then you spur on the trees [/the winners] with (a flame) whose beacon is smoke. – O Agni, while in company with you may we not come
to harm.
Wenn windbewegte rothe Flammenrosse du geschirrt an deinen Wagen, brüllst du wie ein Stier, Bezwingst des Waldes Bäume mit dem Rauchpanier; in deiner Freundschaft, Agni, treff' uns nimmer Leid.
Wenn du die beiden roten, lohfarbenen, windschnellen Rosse an den Wagen geschirrt hast, so ist dein Gebrüll wie das des Bullen. Dann bewegest du die Bäume mit deinem rauchfahnigen Wagen. - O Agni, in deiner Freundschaft sollen wir nicht zu Schaden kommen.
Как только ты запряг в колесницу двоих алых, красных (коней),
Поторапливаемых ветром, рев твой (становится), как у быка.
Затем ты овладеваешь лесными деревьями (своим пламенем) с дымом-знаменем,
О Агни, дружа с тобой, да не потерпим мы вреда!
अध॑ स्व॒नादु॒त बि॑भ्युः पत॒त्रिणो॑ द्र॒प्सा यत्ते॑ यव॒सादो॒ व्यस्थि॑रन् । सु॒गं तत्ते॑ ताव॒केभ्यो॒ रथे॒भ्योऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
अध॑ । स्व॒नात् । उ॒त । बि॒भ्युः॒ । प॒त॒त्रिणः॑ । द्र॒प्सा । यत् । ते॒ । य॒व॒स॒ऽअदः॑ । वि । अस्थि॑रन् । सु॒ऽगम् । तत् । ते॒ । ता॒व॒केभ्यः॑ । र॒थे॒भ्यः । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥
हे अग्ने अध दग्धुं वनप्रवेशानन्तरं स्वनात् त्वदीयात् पूर्वोक्तगम्भीरशब्दात् । उतशब्दोऽप्यर्थः । पतत्रिणः पक्षिणोऽपि बिभ्युः बिभ्यति भयं प्राप्नुवन्ति । उत्पतनेन देशान्तरं गन्तुं समर्थाः पक्षिणोऽपि यदा भयं प्राप्नुवन्ति किमु वक्तव्यमन्येषां तत्रत्यानां वृकादीनां भीतिर्जायते इति । अतस्त्वयि वनं प्रविशति सर्वे प्राणिनो भयं प्राप्नुवन्तीत्यर्थः । तादृशस्य ते तव द्रप्साः ज्वालैकदेशाः यवसादः यवसानामरण्ये वर्तमानानां तृणानामत्तारः सन्तः यत् यदा व्यस्थिरन विविधमवतिष्ठन्ते तत् तदा ते तव सर्वमरण्यं सुगं सुखेन गन्तुं शक्यम् । अतः तावकेभ्यः त्वदीयेभ्यः रथेभ्यः च तदरण्यं सुगं भवति । पूर्वं प्रवृत्तैर्ज्वालाग्रैः तृणादिषु दग्धेषु सत्सु त्वदीया रथाः प्रतिबन्धमन्तरेण पश्चाद्गच्छन्तीति भावः। अन्यत् समानम् ॥ बिभ्युः । ‘ ञिभी भये । छान्दसो लिट् । ‘ एरनेकाचः० ' इति यण् । व्यस्थिरन् । ‘ समवप्रविभ्यः' इति तिष्ठतेरात्मनेपदम् । लुङि व्यत्ययेन झस्य रन् । स्थाध्वोरिच्च' इति इस्वम् । ‘ ह्रस्वादङ्गात् ' ( पा. सू. ८. २. २७) इति सलोपः । तावकेभ्यः । ‘ तवकममकावेकवचने' ( पा. सू. ४. ३. ३ ) इति युष्मदस्तवकादेशः ॥ ।
“At your roaring, even the birds are terrified; when your flames consuming the grass, have spread in all directions, (the wood) is easy of access to you and to your chariots; let us not, Agni, suffer injury through your friendship.”
Then at thy roar the very birds are terrified, when, eating-up the grass, thy sparks fly forth abroad.
Then is it easy for thee and thy car to pass. Let us not in thy friendship, Agni, suffer harm.
And when thy grass-consuming sparks are scattered, the winged (birds) 1 also fear the noise. Then all goes well with thee and thy chariots. Agni! May we suffer no harm in thy friendship.
And then the winged are afraid of your roar, when your “drops” [=sparks], consuming the grasslands, have spread out.
That (makes) an easy way for your own little “chariots” [=flames?]. – O Agni, while in company with you may we not come to harm.
Dann fürchten sich vor deinem Lärm die Vögel auch, wenn deine Funken grasverzehrend weithin sprühn; Da ist für dich und deine Wagen gute Bahn, in deiner Freundschaft, Agni, treff' uns nimmer Leid.
Dann haben auch die Vögel vor deinem Getöse Furcht, wenn deine grasfressenden Funken stoben, dann ist für deine Wagen gute Bahn. - O Agni, in deiner Freundschaft sollen wir nicht zu Schaden kommen.
А от шума (твоего) пугаются птицы,
Когда разлетелись твои искры, сжирающие траву.
Тогда для твоих колесниц путь легко преодолим.
О Агни, дружа с тобой, да не потерпим мы вреда!
अ॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाय॑सेऽवया॒तां म॒रुतां॒ हेळो॒ अद्भु॑तः । मृ॒ळा सु नो॒ भूत्वे॑षां॒ मन॒: पुन॒रग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
अ॒यम् । मि॒त्रस्य॑ । वरु॑णस्य । धाय॑से । अ॒व॒ऽया॒ताम् । म॒रुता॒म् । हेळः॑ । अद्भु॑तः । मृ॒ळ । सु । नः॒ । भूतु॑ । ए॒षा॒म् । मनः॑ । पुनः॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥
अयम् अग्नेः स्तोता मित्रस्य अहरभिमानिनो देवस्य वरुणस्य राज्यभिमानिनश्च संबन्धिने धायसे धारणायावस्थापनाय भवतु । मित्रावरुणाविममग्नेः स्तोतारं धारयतामित्यर्थः । अवयाताम् अवस्ताद्गच्छतां स्वर्गलोकस्याधस्तादन्तरिक्षे वर्तमानानां मरुताम् एतत्संज्ञानां देवानां हेळः क्रोधः अद्भुतः महान् भवति । अद्भुत इत्येतन्महन्नाम । तस्मात् क्रोधात् इममग्नेः स्तोतारं मित्रावरुणौ रक्षतामिति शेषः । अपि च नः अस्मान हे अग्ने सु मृळ सुष्ठु मृडय सुखय । एषां मरुतां मनः च पुनः भूतु पुनरपि प्रसन्नं भवतु । अन्यत् समानम् ॥ धायसे ।' वहिहाधाञ्भ्यश्छन्दसि इति भावे असुन् । नित्' इत्यनुवृत्तेः ‘ आतो युक् चिण्कृतोः' इति युक् । अवयाताम् । ‘ या प्रापणे '। अस्मात् अवपूर्वात् लटः शतृ । ‘ शतुरनुमः०' इति विभक्तेरुदात्तत्वम् । मृळ ।“ मृड सुखने । छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् ‘णेरनिटि' इति णिलोपः । द्व्यचोऽतस्तिङः इति संहितायां दीर्घत्वम् । भूतु ।' बहुलं छन्दसि ' इति शपो लुक् ॥
“May this, (your adorer) enjoy the support of Mitra and of Varuṇa; wonderful is the fury of the Maruts; (dwellers in the region) below (the heavens), encourage us, and may their minds again (be gracious) to us; let us not suffer injury, Agni, through your friendship.”
He hath the Power to soothe Mitra and Varuna: wonderful is the Maruts' wrath when they descend.
Be gracious; let their hearts he turned to us again. Let us not in thy friendship, Agni, suffer harm.
He makes Mitra and Varuna get refreshing drink. He mysteriously turns away the anger of the Maruts 1. Be merciful towards us. May their mind be again (as it was before). Agni! May we suffer no harm in thy friendship.
This (Agni) here is to be suckled, as the unerring appeaser of the anger of Mitra and Varuṇa and of the Maruts.
Have mercy upon us! Let the mind of these (gods) be once again (as before). – O Agni, while in company with you may we not come
to harm.
Du bist geschickt zur Sühnung Mitra's, Varuna's, gewaltig ist der niedergehnden Maruts Grimm, Sei gnädig, lass uns wiederkehren ihre Huld; in deiner Freundschaft, Agni, treff' uns nimmer Leid.
Er dient Mitra und Varuna zur Befriedigung, er soll den Groll der Marut abbitten, der Unbegreifliche. Sei du uns fein gnädig! Ihr Sinn soll wieder geneigt sein! - O Agni, in deiner Freundschaft sollen wir nicht zu Schaden kommen.
Этот (Агни) для удовлетворения Митры (и) Варуны
Пусть отведет гнев Марутов, (он,) удивительный!
Будь очень милостив к нам! Да вернется (к нам) их мысль!
О Агни, дружа с тобой, да не потерпим мы вреда!
दे॒वो दे॒वाना॑मसि मि॒त्रो अद्भु॑तो॒ वसु॒र्वसू॑नामसि॒ चारु॑रध्व॒रे । शर्म॑न्त्स्याम॒ तव॑ स॒प्रथ॑स्त॒मेऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
दे॒वः । दे॒वाना॑म् । अ॒सि॒ । मि॒त्रः । अद्भु॑तः । वसुः॑ । वसू॑नाम् । अ॒सि॒ । चारुः॑ । अ॒ध्व॒रे । शर्म॑न् । स्या॒म॒ । तव॑ । स॒प्रथः॑ऽतमे । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥
हे अग्ने देवः द्योतमानस्त्वं देवानां सर्वेषाम् अद्भुतः महान् मित्रः असि प्रौढः सखा भवसि । तथा चारुः शोभनस्त्वम् अध्वरे यज्ञे वसूनां सर्वेषां धनानां वसुः असि निवासयिता भवसि । अतोऽस्माकं वसूनि देहीत्यर्थः । किंच सप्रथस्तमे सर्वतः पृथुतमेऽतिशयेन विस्तीर्णे तव त्वत्संबन्धिनि शर्मणि यज्ञगृहे स्याम वर्तमाना भवेम । अन्यत् पूर्ववत् ॥ शर्मन् । सुपां सुलुक् । इति सप्तम्या लुक् ॥
“You, brilliant (Agni), are the especial friend of the gods; you, who are graceful in the sacrifice are the confirmer of all riches; may we be present in your most spacious chamber of sacrifice; let us not, Agni, suffer injury through your friendship.”
Thou art a God, thou art the wondrous Friend of Gods, the Vasu of the Vasus, fair in sacrifice.
Under, thine own most wide protection may we dwell. Let us not in thy friendship, Agni, suffer harm.
Thou art god of the gods, a wonderful Mitra (i. e. friend, of the gods) 1. Thou art the Vasu of the Vasus, welcome at the sacrifice. May we be under thy most wide-reaching protection. Agni! May we suffer no harm in thy friendship.
As a god, of the gods you are Mitra, the unerring ally. As a Vasu [/good one], of the Vasus you are the one beloved at the rite.
Might we be in your broadest shelter. – O Agni, while in company with you may we not come to harm.
Ein Gott bist du, der Götter wunderbarer Freund, der guten guter, angenehm beim Opferfest, Lass uns in deinem ausgedehntsten Schutze stehn; in deiner Freundschaft, Agni, treff' uns nimmer Leid.
Du bist der Gott unter den Göttern der heimliche Mitra, du der Vasu unter den Vasu´s bist der Liebling bei dem Gottesdienst. Wir möchten in deinem ausgedehntesten Schutz sein. - O Agni, in deiner Freundschaft sollen wir nicht zu Schaden kommen.
Ты бог среди богов, ты союзник удивительный,
Ты Васу среди Васу, ты любимец при обряде.
Да будем мы под твоим самым широким щитом!
О Агни, дружа с тобой, да не потерпим мы вреда!
तत्ते॑ भ॒द्रं यत्समि॑द्ध॒: स्वे दमे॒ सोमा॑हुतो॒ जर॑से मृळ॒यत्त॑मः । दधा॑सि॒ रत्नं॒ द्रवि॑णं च दा॒शुषेऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
तत् । ते॒ । भ॒द्रम् । यत् । सम्ऽइ॑द्धः । स्वे । दमे॑ । सोम॑ऽआहुतः । जर॑से । मृ॒ळ॒यत्ऽत॑मः । दधा॑सि । रत्न॑म् । द्रवि॑णम् । च॒ । दा॒शुषे॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥
हे अग्ने ते त्वत्संबन्धि उत् खलु भद्रं भजनीयम् । प्रशस्तमित्यर्थः । किं पुनस्तत् । स्वे दमे स्वकीये उत्तरवेदिलक्षणे निवासस्थाने । तस्यैष स्वो लोको यदुत्तरवेदीनाभिः ' ( ऐ. ब्रा. १ २८ ) इति श्रुतेः । तस्यामुत्तरवेद्यां समिद्धः सम्यगिद्धः प्रज्वलितः सोमाहुतः हुतेन सोमरसेन संतर्पितः सन् जरसे ऋत्विग्भिः स्तूयसे इति यदस्ति तद्भद्रमित्यर्थः । एवं प्रशस्तस्त्वं मृळयत्तमः अतिशयेनास्माकं सुखयिता भूत्वा रत्नं रमणीयं कर्मफलं वा द्रविणं धनं च दाशुषे हविर्दत्तवते यजमानाय दधासि प्रयच्छसि । अन्यत् समानम् ॥ समिद्धः । ‘ ञिइन्धी दीप्तौ । कर्मणि निष्ठा । ‘ श्वीदितो निष्ठायाम् ' इति इट्प्रतिषेधः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । सोमाहुतः ॥ सोमेनाहुतः । तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । जरसे । जरतिः स्तुतिकर्मा । व्यत्ययेन कर्मणि कर्तृप्रत्ययः। यद्वृत्तयोगादनिघातः । दधासि। ‘ अनुदात्ते च ' इति अभ्यस्तस्य आद्युदात्तत्वम् ॥
“plural asant is it to you when you are lighted in your own abode, and propitiated by libations, are praised (by the priests); then, much delighted, you give rewards and riches to the worshipper; let us not, Agni, suffer injury through your friendship.”
This is thy grace that, kindled in thine own abode, invoked with Soma thou soundest forth most benign,
Thou givest wealth and treasure to the worshipper. Let us not in thy friendship, Agni, suffer harm.
That is thy glorious (nature) that when kindled in thy own house, and fed with Soma, thou art awake 1, the most merciful one. Thou bestowest treasures and wealth on the worshipper. Agni! May we suffer no harm in thy friendship.
This is your benefit—that, when kindled in your own house and bepoured with soma, you remain wakeful as the most merciful
(of gods).
You provide property and treasure to the man who ritually serves. – O Agni, while in company with you may we not come to harm.
Das ist dein Segen, dass entflammt im eignen Haus, getränkt mit Soma du in höchster Gnade rauschst, Du spendest Schatz und Reichthum dem Verehrenden; in deiner Freundschaft, Agni, treff' uns nimmer Leid.
Das ist das Gute von dir, daß du im eigenen Hause entzündet, mit Soma begossen, gnädigst wach bleibst. Du bringst dem Opferspender Belohnung und Gut. - O Agni, in deiner Freundschaft sollen wir nicht zu Schaden kommen.
То в тебе приносит счастье, что зажженный в своем доме
Политый сомой, ты бодрствуешь как самый снисходительный (бог).
Ты даешь сокровище и богатство почитающему (тебя).
О Агни, дружа с тобой, да не потерпим мы вреда!
यस्मै॒ त्वं सु॑द्रविणो॒ ददा॑शोऽनागा॒स्त्वम॑दिते स॒र्वता॑ता । यं भ॒द्रेण॒ शव॑सा चो॒दया॑सि प्र॒जाव॑ता॒ राध॑सा॒ ते स्या॑म ॥
यस्मै॑ । त्वम् । सु॒ऽद्र॒वि॒णः॒ । ददा॑शः । अ॒ना॒गाः॒ऽत्वम् । अ॒दि॒ते॒ । स॒र्वऽता॑ता । यम् । भ॒द्रेण॑ । शव॑सा । चो॒दया॑सि । प्र॒जाऽव॑ता । राध॑सा । ते॒ । स्या॒म॒ ॥
हे सुद्रविणः शोभनधन अदिते अखण्डनीयाग्ने सर्वताता सर्वासु कर्मततिषु यद्वा सर्वेषु यज्ञेषु वर्तमानाय यस्मै यजमानाय अनागास्त्वम् अपापत्वं पापराहित्येन कर्मार्हतां त्वं ददाशः प्रयच्छसि स यजमानः समृद्धो भवति । यं च यजमानं भद्रेण भजनीयेन कल्याणेन शवसा बलेन चोदयासि संयोजयसि सोऽपि समृद्धो भवति । वयं च स्तोतारः प्रजावता प्रजाभिः पुत्रपौत्रैर्युक्तेन ते राधसा त्वया दत्तेन धनेन युक्ताः स्याम भवेम ॥ सुद्रविणः । शोभनानि द्रविणानि धनानि यस्य । ‘ द्रु गतौ । द्रुदक्षिभ्यामिनन् ' ( उ. सू. २. २०८)। द्रविणशब्दस्यान्ते सकारोपजनश्छान्दसः । ददाशः । ‘ दाशृ दाने ' । लेट अडागमः। ‘बहुलं छन्दसि' इति शपः श्लुः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । सर्वताता। सर्वदेवात्तातिल' इति स्वार्थे तातिल्प्रत्ययः। यास्कपक्षे तु सर्वाः स्तुतयो येषु यागेष्विति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वर्णव्यापत्त्या आत्वम् । उभयत्रापि सुपां सुलुक्' इति सप्तम्या डादेशः । चोदयासि । ‘ चुद प्रेरणे' । लेटि आडागमः ॥
“(Fortunate is the worshipper) to whom, (assiduos) in all pious works, you, possessor of riches, invisible Agni, grant exemption from sin, whom you associate with auspicious strength, may he be (enriched) by you with wealth that comprehends progeny.”
To whom thou, Lord of goodly riches, grantest freedom from every sin with perfect wholeness,
Whom with good strength thou quikenest, with children and wealth--may we be they, Eternal Being.
May we be of those to whom thou, O possessor of beautiful wealth, O Aditi 1, art pleased to grant sinlessness in health and wealth 2, and whom thou wilt quicken with glorious strength and with abundance of progeny.
For whom you will perform ritual service, o you possessing good property, for whom there is blamelessness in his entirety, o Aditi
[=Innocence],
and whom you will rouse with your beneficial power and with
generosity that provides offspring—might we be those.
Wenn irgend einen du, o reicher, ew'ger, Schuldlosigkeit und Wohlergehn gewährest, Und ihn mit reicher Geisteskraft erfüllest und kinderreichem Gut, so thu' an uns das.
Wem du auch, reich an Gut, wie Aditi Schuldlosigkeit in vollem Maße gewähren wirst, wen du auch mit löblicher Kraft anspornen wirst, mit kinderreichem Lohn - zu denen möchten wir gehören.
Кого ты, о обладатель прекрасного богатства, наделяешь
В полной мере состоянием безгрешности, о (ты,-) Адити,
Кого ты побуждаешь благою силой,
Даром, приносящим потомство, – мы хотели бы быть ими!
स त्वम॑ग्ने सौभग॒त्वस्य॑ वि॒द्वान॒स्माक॒मायु॒: प्र ति॑रे॒ह दे॑व । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
सः । त्वम् । अ॒ग्ने॒ । सौ॒भ॒ग॒ऽत्वस्य॑ । वि॒द्वान् । अ॒स्माक॑म् । आयुः॑ । प्र । ति॒र॒ । इ॒ह । दे॒व॒ । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
हे देव दानादिगुणयुक्त अग्ने सः पूर्वोक्तगुणविशिष्टः त्वं सौभगत्वस्य सुभगत्वं सौभाग्यं विद्वान् जानन् इह अस्मिन् कर्मणि अस्माकमायुः प्र तिर प्रवर्धय । प्रपूर्वस्तिरतिर्वर्धनार्थः । त्वया वर्धितं नः अस्माकं तत् आयुः मित्रादयः षड्दैवताः ममहन्तां पूजयन्तां रक्षन्त्वित्यर्थः । मित्रः प्रमीतेस्त्राता वरुणः अनिष्टानां निवारयिता अदितिः अदीना अखण्डनीया वा देवमाता सिन्धुः स्यन्दनशीलोदकात्मा देवता पृथिवी प्रथिता भूदेवता। उत इति समुच्चये। द्यौः प्रकाशमाना द्युलोकात्मा देवता । एताश्च सर्वा अग्निना प्रवर्धितमायुर्ममहन्तामिति पूर्वत्रान्वयः ॥ सौभगत्वस्य । सुभगस्य भावः सौभगम् ।' सुभगान्मन्त्रे ' इति उद्गात्रादिषु पाठात् भावे अञ् । पुनरपि भावप्रत्ययोत्पत्तिश्छान्दसी । ममहन्ताम् । ‘ मह पूजायाम् ' । भौवादिकः। लोटि • बहुलं छन्दसि ' इति शपः श्लुः । तुजादित्वात् अभ्यासस्य दीर्घत्वम् ॥ ॥ ३२ ॥
“Do you, divine Agni, who kno what is good fortune, on this occasion prolong our existence, and may Mitra, Varuṇa, Aditi, ocean, earth and heaven, preserve it to us.”
Such, Agni, thou who knowest all good fortune, God, lengthen here the days of our existence.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.
Do thou, O Agni, thou who knowest (how to grant) happiness, prolong our life here, O God! May Mitra and Varuna grant us this, may Aditi, the Sindhu, the Earth, and the Sky 1!
You, o Agni, knowing the quality of good fortune—for us extend our lifetime here, o god.
– This let Mitra and Varuṇa grant to us, and Aditi, River, and Earth and Heaven.
O Agni, du, des hohen Glückes kundig, o Gott, verlängre unser Erdenleben; Das mög' uns Mitra, Varuna gewähren und Aditi, das Meer, und Erd' und Himmel.
Du, Agni, weißt, was Glück ist; verlängere du Gott unser Leben hier! Das sollen uns Mitra, Varuna gewähren, Aditi, die Sindhu, Erde und der Himmel!
Ты, о Агни, знаток того, что нужно для счастья.
Продли срок нашей жизни, о бог!
Пусть нам это щедро даруют Митра, Варуна,
Адити, Синдху, Земля и Небо!