द्वे विरू॑पे चरत॒: स्वर्थे॑ अ॒न्यान्या॑ व॒त्समुप॑ धापयेते । हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावा॑ञ्छु॒क्रो अ॒न्यस्यां॑ ददृशे सु॒वर्चा॑: ॥
द्वे । विरू॑पे॒ इति॒ विऽरू॑पे । च॒र॒तः॒ । स्वर्थे॒ इति॑ सु॒ऽअर्थे॑ । अ॒न्याऽअ॑न्या । व॒त्सम् । उप॑ । धा॒प॒ये॒ते॒ इति॑ । हरिः॑ । अ॒न्यस्या॑म् । भव॑ति । स्व॒धाऽवा॑न् । शु॒क्रः । अ॒न्यस्या॑म् । द॒दृ॒शे॒ । सु॒ऽवर्चाः॑ ॥
स्वर्थे स्वरणे शोभनगमनागमने । यद्वा । अर्थः प्रयोजनम् । शोभनप्रयोजनोपेते विरूपे विषमरूपे शुक्लकृष्णतया नानारूपे द्वे अहोरात्रे चरतः पुनःपुनः पर्यावर्तेते । ते चाहोरात्रे अग्नेः सूर्यस्य च जनन्यौ । तत्र रात्रेः पुत्रः सूर्यः । स हि गर्भवत् रात्रावन्तर्हितः सन् तस्याः चरमभागादुत्पद्यते। अह्नः पुत्रोऽग्निः । स हि तत्र विद्यमानोऽपि प्रकाशराहित्येन असत्कल्पः सन् तस्मात् अह्नः सकाशात् निर्मुक्तः प्रकाशमानं स्वात्मानं लभते । अनयोरेतयोः पुत्रत्वं च तैत्तिरीयैराम्नायते- तयोरेतौ वत्सौ । अग्निश्चादित्यश्च । रात्रेर्वत्सः । श्वेत आदित्यः । अह्नोऽग्निः । ताम्रो अरुणः' ( तै. आ. १. १०) इति । ते चाहोरात्रे वत्सं स्वं स्वं पुत्रम्" अन्यान्या परस्परव्यतिहारेण उप धापयेते स्वकीय रसं पाययतः । यद्रात्र्या कर्तव्यं स्वपुत्रस्यादित्यस्य रसस्य पायनं तदहः करोति । यदह्ना कर्तव्यं स्वपुत्रस्याग्नेः रसस्य पायनं तद्रात्रिः करोति । एतच्च सायंप्रातःकालीनाहुत्यभिप्रायम् । श्रूयते च-’ तस्मादग्नये सायं हूयते सूर्याय प्रातः ' ( तै. ब्रा. २. १. २. ६ ) इति । यस्मादेवं तस्मात् अन्यस्यां स्वजनन्याः अन्यस्याम् अहरात्मिकायामग्नेर्जनन्यां हरिः रसहरणशील आदित्यः स्वधावान् हविर्लक्षणान्नवान् भवति । शुक्रः निर्मलदीप्तिरग्निः स्वजनन्याः अन्यस्यां रात्र्यामादित्यस्य जनन्यां सुवर्चाः शोभनदीप्तियुक्तः सन् ददृशे दृश्यते ॥ स्वर्थे । ऋ गतौ । ‘ उषिकुषिगार्तिभ्यस्थन्' इति भावे कर्मणि वा थन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । शोभनोऽर्थो ययोस्ते । ‘ आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् । अन्यान्या। ‘ कर्मव्यतिहारे सर्वनाम्नो हे भवत इति वक्तव्यं समासवच्च बहुलम् ' ( पा. म. ८. १. १२. ११) इति द्विर्भावः । बहुलग्रहणात् समासवद्भावाभावे । तस्य परमाम्रेडितम्' इति परस्याम्रेडितसंज्ञायाम् ' अनुदात्तं च ' इति आम्रेडितानुदात्तत्वम् । धापयेते । धेट् पाने '। ‘ आदेचः०' इति आत्वम् । ततो हेतुमति णिच् ।' अर्तिह्री ' ( पा. सू. ७, ३. ३६ ) इत्यादिना धातोः पुगागमः । तत्र हि लक्षणप्रतिपदोक्तपरिभाषा नास्तीति ज्ञापितं ‘शाच्छासाह्वाव्या° ' इति कृतात्वानां निर्देशेन । स हि युक्प्राप्तिख्यापनार्थः । यदि तत्र लक्षणप्रतिपदोक्तपरिभाषया पुक् न प्राप्नोति सोऽनर्थकः स्यात् । तस्मात् अध्यापयति इत्यादाविव धापयेते इत्यत्रापि पुगागमः सिद्धः । ‘ निगरणचलनार्थेभ्यश्च । ( पा . सू . १. ३. ८७ ) इति प्राप्तस्य परस्मैपदस्य पादिषु धेट उपसंख्यानम् ' (पा. सू. १, ३. ८९. १) इति प्रतिषेधात् आत्मनेपदम् । हरिः । ‘ हृञ् हरणे'। औणादिकः इन्प्रत्ययः । ञ्नित्यादिर्नित्यम्' इत्यादाद्युदात्तत्वम् । भवति । ‘ एकान्याभ्यां समर्थाभ्याम् (पा. सू. ८. १. ६५) इति प्रथमायाः तिङ्विभक्तेः निघातप्रतिषेधः । ददृशे । दृशेः ‘छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लिट् । सुवर्चाः । शोभनं वर्चस्तेजो यस्य । ‘सोर्मनसी अलोमोषसी' इत्युत्तरपदाद्युदात्तत्वम् ॥
“Two periods, of different complexions, revolve for their own purposes, and each in succession severally nourishes a son; in one, Hari is the receiver of oblations, in the other, the brilliant Agni is beheld.”
To fair goals travel Two unlike in semblance: each in succession nourishes an infant.
One bears a Godlike Babe of golden colour; bright and fair-shining, is he with the other.
Two (sisters) of different shapes wander along, pursuing a good aim. The one and the other suckles the calf 1. With the one (the calf) is golden, moving according to its wont 2. With the other it is seen clear, full of fine splendour.
The two of different form [=Night and Dawn] proceed, having (the same) good goal: one after the other, the two suckle their calf.
At the one [=Dawn] he becomes tawny, possessing his own powers; in the other [=Night] he is seen blazing, intensely lustrous.
Zwei ungleichfarb'ge gehn zu schönem Ziele, ihr Junges säugend, eine um die andre; Selbstherrlich golden glänzt es bei der einen, mit weisser Flamme strahlt es bei der andern.
Zwei ungleiche Kühe wandeln, einem schönen Ziele folgend; eine um die andere säugen sie ihr Kalb. Während es bei der einen goldgelb ist, seinem eigenen Triebe folgend, erscheint es bei der anderen hell in schönem Glanze.
Две (коровы) разного вида бродят с прекрасной целью:
Одна за другой они кормят теленка.
У одной он бывает золотистым, следуя своему обычаю,
У другой он кажется ясным, с прекрасным блеском.
दशे॒मं त्वष्टु॑र्जनयन्त॒ गर्भ॒मत॑न्द्रासो युव॒तयो॒ विभृ॑त्रम् । ति॒ग्मानी॑कं॒ स्वय॑शसं॒ जने॑षु वि॒रोच॑मानं॒ परि॑ षीं नयन्ति ॥
दश॑ । इ॒मम् । त्वष्टुः॑ । ज॒न॒य॒न्त॒ । गर्भ॑म् । अत॑न्द्रासः । यु॒व॒तयः॑ । विऽभृ॑त्रम् । ति॒ग्मऽअ॑नी॑कम् । स्वऽय॑शसम् । जने॑षु । वि॒ऽरोच॑मानम् । परि॑ । सी॒म् । न॒य॒न्ति॒ ॥
अतन्द्रासः स्वकार्ये जगतः पोषणेऽनलसाः आलस्यरहितः जागरूका इत्यर्थः । युवतयः नित्यतरुण्यः जरामरणरहिता इत्यर्थः । एवंभूताः दश प्राच्याद्या दशसंख्याकाः दिशः गर्भं मेघेषु गर्भरूपेणान्तर्वर्तमानं त्वष्टुः दीप्तात् मध्यमात् वायोः सकाशात् जनयन्त वैद्युतमग्निम् उत्पादयन्ति । यद्वा दशसंख्याका अङ्गुलयस्त्वष्टुर्दीप्तस्य वायोः गर्भं स्वकारणभूते वायौ गर्भरूपेण वर्तमानम् । अग्नेर्हि वायुः कारणं ‘वायोरग्निः' (तै, आ. ८.१) इति श्रुतेः । एवंभूतम् इमम् अग्निम् अरण्योः सकाशात् जनयन्त उत्पादयन्ति। कीदृश्योऽङ्गुलयः । अतन्द्रासः पुनःपुनः कर्मकरणे आलस्यरहिताः । युवतयः अपृथक्कृत्य वर्तमानाः । एकस्मिन्पाणौ संहत्यावस्थिता इत्यर्थः । कीदृशमग्निम् । विभृत्रं सर्वेषु भूतेषु विहृतम् । जाठररूपेण विभज्य वर्तमानमित्यर्थः । तिग्मानीकं तीक्ष्णमुखं तीक्ष्णतेजसम् । अत एव हि वैद्युताग्निदर्शने दृष्टिः प्रतिहन्यते । स्वयशसं स्वायत्तयशस्कम् । अतिशयेन यशस्विनमित्यर्थः । जनेषु जनपदेषु सर्वदेशेषु विरोचमानं विशेषेण दीप्यमानम् । बहूनामुपकारकमित्यर्थः । एवंभूतं सीम् एनमग्निं परि परितः सर्वतः नयन्ति स्वस्वोपकाराय सर्वे जनाः स्वकीयं देशं प्रापयन्ति ॥ त्वष्टुः । ‘ त्विष दीप्तौ ।' नप्तृनेष्टृत्वष्टृ' ( उ. सू. २. २५२ ) इत्यादिना उणादिषु तृनन्तः निपातितः । अतो नित्त्वादाद्युदात्तत्वम् । विभृत्रम् । हृञ् हरणे'। अस्मात् कर्मणि निष्ठा। छान्दसो रेफोपजनः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । ‘ हृग्रहोर्भः' इति भत्वम् । यद्वा औणादिकः क्प्र त्ययः । तिग्मानीकम् । ‘तिज निशाने '। युजिरुचितिजां कुत्वं च ' ( उ. सू. १, १४३ )इति मक् ।' अन प्राणने '।' अनिदृशिभ्यां च ' इति कीकन् । तिग्मं तीक्ष्णमनीकं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । परि षीम् । पूर्वपदात्' इति षत्वम् ॥
“The vigilant and youthful Ten beget, through the wind, this embryo Agni, inherent (in all beings), sharp-visaged, universally renowned, shining among men; him they conduct (to every dwelling).”
Tvastar's ten daughters, vigilant and youthful, produced this Infant borne to sundry quarters.
They bear around him whose long flames are pointed, fulgent among mankind with native splendour.
The ten unwearied 1 young women 2 have brought forth this widely-spread germ of Tvashtri 3. Him, the sharp-faced (Agni) who is endowed with his own splendour, the shining one, they 4 carry around among men.
The ten (fingers) beget this babe of Tvaṣṭar—the tireless young women (beget the babe) to be carried about.
Sharp-faced, self-glorious, shining widely among the peoples—him do they lead around.
Zehn Jungfraun, nie ermattend, zeugten diesen, des Tvaschtar Spross, der weithin sich verbreitet; Sie führen ihn, dess Schneide scharf ist, rings um, ihn, der bei Menschen strahlt in eignem Glanze.
Zehn Finger erzeugten diesen Sprössling des Tvastri, die unermüdlichen Jungfrauen das Tragekind. Ihn, der ein scharfes Angesicht hat, bei den Menschen von selbst Ansehen genießt, den strahlenden führen sie herum.
Десять (пальцев) породили этого отпрыска Тваштара,
Неутомимые юные жены – того, кого надо носить с места на место.
Остроликого, обладающего собственным блеском среди людей,
Ярко сверкающего – они водят его вокруг.
त्रीणि॒ जाना॒ परि॑ भूषन्त्यस्य समु॒द्र एकं॑ दि॒व्येक॑म॒प्सु । पूर्वा॒मनु॒ प्र दिशं॒ पार्थि॑वानामृ॒तून्प्र॒शास॒द्वि द॑धावनु॒ष्ठु ॥
त्रीणि॑ । जाना॑ । परि॑ । भू॒ष॒न्ति॒ । अ॒स्य॒ । स॒मु॒द्रे । एक॑म् । दि॒वि । एक॑म् । अ॒प्ऽसु । पूर्वा॑म् । अनु॑ । प्र । दिश॑म् । पार्थि॑वानाम् । ऋ॒तून् । प्र॒ऽशास॑त् । वि । द॒धौ॒ । अ॒नु॒ष्ठु ॥
अस्य अग्नेः त्रीणि त्रिसंख्याकानि जाना जननानि जन्मानि परि भूषन्ति परितः सर्वतोऽलंकुर्वन्ति । यद्वा परीत्येष समित्येतस्य स्थाने । अस्याग्नेस्त्रीणि जन्मानि संभवन्ति । समुद्रे अब्धौ वडवानलरूपेण एकं जन्म । दिवि द्युलोके आदित्यात्मना एकम् । अप्सु । आपः इति अन्तरिक्षनाम । अन्तरिक्षे वैद्युताग्निरूपेणैकम् । एवमग्निस्त्रेधात्मानं विभज्य त्रिषु स्थानेषु वर्तते इत्यर्थः । तत्रादित्यात्मना वर्तमानः सोऽग्निः ऋतूनु वसन्ताद्यान् षडृतून प्रशासत् प्रकर्षेण विभक्ततया ज्ञापयन् पार्थिवानां पृथिव्याः संबन्धिनां सर्वेषां प्राणिनां पूर्वां प्राचीं प्र दिशं प्रकृष्टां ककुभम् । अनुष्ठु इत्येतदव्ययं सम्यक्शब्दसमानार्थं सुष्ठ्विति यथा । सम्यगनुक्रमेण वि दधौ कृतवान् । स्वतो भेदरहितयोरखण्डयोर्दिक्कालयोः प्राच्यादिभेदो वसन्तादिभेदश्च सूर्यगत्या निष्पाद्यते । अतः सूर्य एव तयोः कर्तेत्यर्थः ॥ जाना । जनी प्रादुर्भावे ' । घञ्। ‘ कर्षात्वतः° ' इत्यन्तोदात्तत्वे प्राप्ते वृषादेराकृतिगणत्वादाद्युदात्तत्वम् । शेश्छन्दसि बहुलम्' इति शेर्लोपः । भूषन्ति । ‘ भूष अलंकारे'। भौवादिकः । यद्वा । भवतेर्लेटि सिब्बहुलं लेटि ' इति सिप् । आगमानुशासनस्यानित्यत्वात् इडभावः, संज्ञापूर्वकस्य विधेरनित्यत्वात् गुणाभावश्च । दिवि । अप्सु । उभयत्र ऊडिदम्' इति विभक्तेः उदात्तत्वम् । पार्थिवानाम् ।' पृथिव्या ञाञौ ' इति प्राग्दीव्यतीयः अञ्प्रत्ययः । प्रशासत् । ‘ शासु अनुशिष्टौ ' । अस्मात् लटः शतृ ।' जक्षित्यादयः षट्' इति अभ्यस्तसंज्ञायां नाभ्यस्ताच्छतुः । इति नुम्प्रतिषेधः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अनुष्ठु ।' अपदुःसुषु स्थः ' ( उ. सू. १. २५) इति विधीयमानः कुप्रत्ययो बहुलवचनात् तिष्ठतेरनुपूर्वादपि भवति ॥
“They contemplate three plural ces of his birth; one in the ocean, one in the heaven, one in the firmament; and, dividing the seasons of the year for the benefit of earthly creatures, he formed, in regular succession, the eastern quarteṛ ”
Three several places of his birth they honour, in mid-air, in the heaven, and in the waters.
Governing in the east of earthly regions, the seasons hath he stablished in their order.
They celebrate his three births: one in the sea, one in heaven, one in the waters 1. In the eastern region 2 he commanding determines the seasons of the dwellers on earth by his present power 3.
They attend upon his three births: one in the sea, one in the heaven, in the waters.
(Going) forth along the forward quarter of the earthly realms [=to
the east], directing the (ritual) sequences, he has distributed them in proper order.
Drei Stätten preist man seiner Zeugung, eine im Luftmeer, ein' im Himmel und im Wasser; Gebietend in der Erdenräume Osten hat er sogleich vertheilt die Jahreszeiten.
Seine drei Geburten umfassen sie im Geiste: die eine im Meere, eine in den Gewässern. Die östliche Gegend der irdischen Räume kennend hat er die Zeiten bestimmend richtig eingeteilt.
Почитают три его рожденья:
Одно в море, одно на небе, (одно) в водах.
Исходя из восточной стороны, земным обитателям
Он назначил времена года, распределил (их), как положено.
क इ॒मं वो॑ नि॒ण्यमा चि॑केत व॒त्सो मा॒तॄर्ज॑नयत स्व॒धाभि॑: । ब॒ह्वी॒नां गर्भो॑ अ॒पसा॑मु॒पस्था॑न्म॒हान्क॒विर्निश्च॑रति स्व॒धावा॑न् ॥
कः । इ॒मम् । वः॒ । नि॒ण्यम् । आ । चि॒के॒त॒ । व॒त्सः । मा॒तॄः । ज॒न॒य॒त॒ । स्व॒ऽधाभिः॑ । ब॒ह्वी॒नाम् । गर्भः॑ । अ॒पसा॑म् । उ॒पऽस्था॑त् । म॒हान् । क॒विः । निः । च॒र॒ति॒ । स्व॒धाऽवा॑न् ॥
हे ऋत्विग्यजमानाः निण्यं निर्णीतम् । अन्तर्हितनामैतत् । अबादिषु गर्भरूपेणान्तर्हितम् । तथा च मन्त्रान्तरम्-' गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्चरथाम्' ( ऋ. सं. १. ७०. २) इति । एवंभूतम् इमम् अग्निं वः युष्माकं मध्ये कः आ चिकेत को जानाति । न कोऽपीत्यर्थः । सोऽयमग्निः वत्सः मेघस्थानामपां वैद्युताग्निरूपेण पुत्रस्थानीयः सन् 'मातॄः तस्य मातृस्थानीयानि वृष्ट्युदकानि स्वधाभिः हविर्लक्षणैरन्नैः जनयत उत्पादयति । तथा च स्मर्यते- अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ' ( मनु. ३. ७६ ) इति । अपि च बह्वीनां मेघस्थानामपां गर्भः वैद्युतरूपेण गर्भस्थानीयः सोऽग्निः अपसामुपस्थात् समुद्रात् निश्चरति औषसाग्निरूपेणादित्यः सन्निर्गच्छति । कीदृशः । महान् तेजसा प्रौढः कविः क्रान्तदर्शी स्वधावान् हविर्लक्षणान्नवान् । एक एवाग्निर्होमनिष्पादकलक्षणेन पार्थिवरूपेण वैद्युतात्मना औषसरूपेण आदित्यात्मना च विभज्य वर्तते इत्यर्थः ॥ चिकेत । ‘ कित ज्ञाने' । छान्दसो लिट् । जनयत । ‘ जनीजॄष्क्नसुरञ्जोऽमन्ताश्च ' इति मित्त्वात् ‘मितां ह्रस्वः' इति ह्रस्वत्वम् । पूर्ववत् छान्दसो लङ् । बह्वीनाम् । ‘ नित्यं छन्दसि ' ( पा. सू. ४. १. ४६ ) इति बहुशब्दात् ङीष् । ‘ ङ्याश्छन्दसि बहुलम् ' (पा. सू. ६. १. १७८) इति नाम उदात्तत्वम् । अपसाम् । ‘ आप्लृ व्याप्तौ ।' आपः कर्माख्यायां ह्रस्वो नुट् च वा ' ( उ. सू. ४. ६४७ ) इति बहुलवचनादकर्माख्यायामपि आप्नोतेः असिप्रत्ययः ह्रस्वश्च । उपस्थात् । उपतिष्ठन्त्यापोऽत्र इत्युपस्थः । ‘ आतश्चेोपसर्गे' इति ‘कृत्यल्युटो बहुलम्' इति बहुलवचनात् अधिकरणे कप्रत्ययः । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् ॥
“Which of you discerns the hidden Agni? a son, he begets his mothers by oblations; the germ of many (waters), he issues from the ocrean, mighty and wise, the recipient of oblations.”
Who of you knows this secret One? The Infant by his own nature hath brought forth his Mothers.
The germ of many, from the waters' bosom he goes forth, wise and great, of Godlike nature.
Who among you has understood this hidden (god)? 1 The calf has by itself given birth to its mothers 2. The germ of many (mothers), the great seer, moving by his own strength, comes forward from the lap of the active ones 3.
Who of you perceives this one in hiding? The calf begets his mothers with its own powers.
The babe moves away from the lap of the many hardworking women, the great poet possessing his own powers.
Wer von euch hat gesehn ihn, den verborgnen? durch eigne Kraft erschuf der Sohn die Mütter; Er geht hervor, der Spross der vielen thät'gen, aus ihrem Schooss, selbstschaffend, gross und weise.
Wer von euch hat diesen Verborgenen erkannt? Das Kalb erzeugte nach eigenem Ermessen seine Mütter. Als ihr Sproß geht der große Seher aus dem Schoße der vielen Tätigen, eigenem Triebe folgend, hervor.
Кто из вас распознал этого тайного?
Теленок породил матерей по своим обычаям.
Из лона этих деятельных (матерей) выходит
Отпрыск, великий поэт, следующий своему обычаю.
आ॒विष्ट्यो॑ वर्धते॒ चारु॑रासु जि॒ह्माना॑मू॒र्ध्वः स्वय॑शा उ॒पस्थे॑ । उ॒भे त्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात्प्रती॒ची सिं॒हं प्रति॑ जोषयेते ॥
आ॒विःऽत्यः॑ । व॒र्ध॒ते॒ । चारुः॑ । आ॒सु॒ । जि॒ह्माना॑म् । ऊ॒र्ध्वः । स्वऽय॑शाः । उ॒पऽस्थे॑ । उ॒भे इति॑ । त्वष्टुः॑ । बि॒भ्य॒तुः॒ । जाय॑मानात् । प्र॒ती॒ची इति॑ । सिं॒हम् । प्रति॑ । जो॒ष॒ये॒ते॒ इति॑ ॥
आसु मेघस्थास्वप्सु वैद्युतात्मना वर्तमानोऽग्निः चारुः शोभनदीप्तिः सन् आविष्ट्यो वर्धते आविर्भूतः प्रकाशमानो वृद्धिं प्राप्नोति । किं कुर्वन् । जिह्मानां कुटिलानां मेघेषु तिर्यगवस्थितानां तासामपाम् उपस्थे उत्सङ्गे स्वयशाः स्वायत्तयशस्कोऽग्निः ऊर्ध्वः ऊर्ध्वज्वलनः सन् । स्वकारणभूतास्वप्सु तिर्यगवस्थितास्वपि स्वयमूर्ध्वं ज्वलन्नित्यर्थः । तदुक्तं वैशेषिकैः-’ अग्नेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनम् अणुमनसोराद्यं कर्मैतान्यदृष्टकारितानि' इति । अपि च उभे द्यावापृथिव्यौ त्वष्टुः दीप्तात् जायमानात् उत्पद्यमानात्तस्मादग्नेः बिभ्यतुः भयं प्रापतुः । तदनन्तरमुत्पन्नं सिंहं सहनशीलमभिभवनशीलं तमग्निं प्रतीची प्रत्यञ्चन्त्यौ प्रतिगच्छन्त्यौ आभिमुख्येन प्राप्नुवन्त्यौ जोषयेते सेवेते । यास्कस्त्वाह- आविरावेदनात्तत्त्यो वर्धते चारुरासु चारु चरतेर्जिह्मं जिहीतेरूर्ध्व उच्छ्रितो भवति स्वयशा आत्मयशा उपस्थ उपस्थान उभे त्वष्टुर्बिभ्यतुर्जायमानात्प्रतीची सिंहं प्रति जोषयेते द्यावापृथिव्याविति वाहोरात्रे इति वारणी इति वापि चैते प्रत्यक्ते सिंहं सहनं प्रत्यासेवेते' (निरु. ८. १५) इति ॥ आविष्ट्यः । आविःशब्दात् छन्दसि ' (पा. सू. ४. २. १०४. १ ) इति शैषिकस्त्यप् । ह्रस्वात्तादौ तद्धिते ' (पा. सू. ८. ३. १०१ ) इति षत्वम् । आसु । इदमोऽन्वादेशे° ' इति अशादेशोऽनुदात्तः, विभक्तिश्च सुप्त्वादनुदात्ता इति सर्वानुदात्तत्वम् । न च ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वं शङ्कनीयम् । अन्तोदात्तादिदंशब्दाद्धि तद्विधीयते । प्रतीची । प्रतिपूर्वात् अञ्चतेः ' ऋत्विक् ' इत्यादिना क्विन् ।' अनिदिताम्' इति नलोपः । ‘ अञ्चतेश्चोपसंख्यानम् ' इति ङीप् । अचः' इति अकारलोपे चौ ' इति दीर्घत्वम् । उदात्तनिविस्वरेण ङीप उदात्तत्वम् । ‘ वा छन्दसि ' इति पूर्वसवर्णदीर्घः । जोषयेते । ‘जुषी प्रीतिसेवनयोः । स्वार्थे णिच् ॥ ॥ १ ॥
“Appearing amongst them (the waters), the bright-shining (Agni) increases, rising above the flanks of the waving waters, spreading his own renown; both (heaven and earth) are alarmed, as the radiant Agni is born, and, approaching the lion, they pay him honour.”
Visible, fair, he grows in native brightness uplifted in the lap of waving waters.
When he was born both Tvastar's worlds were frightened: they turn to him and reverence the Lion.
1 The fair (child Agni) grows up visibly in them in his own glory, standing erect in the lap of the down-streaming (waters). Both (Heaven and Earth) fled away in fear of (the son of) Tvashtri 2, when he was born, but turning back they caress the lion.
The beloved one, manifest, grows strong among them—the self-glorious one upright in the lap of those aslant.
Both (world-halves) are afraid of (the babe) of Tvaṣṭar while he is being born, (but turning) back to face him, the two give the lion pleasure in return.
Der schöne wächst in ihnen sich enthüllend, selbstherrlich aufrecht in dem Schooss der schrägen, Vor dem gebornen bebt des Tvaschtar Weltpaar, und schmeichelnd wenden beide sich zum Löwen.
Sichtbar geworden wächst der Liebling in ihnen, aufrecht stehend im Schoße der Querliegenden, der von uns selbst zu ansehen kommt. Beide Welten haben Furcht vor dem Sproß des Tvastri. Dem Löwen sich zuwendend kommen beide ihm freundlich entgegen.
(Став) видимым, милый растет в них,
Прямой в лоне лежащих наискось, обладающий собственным блеском.
Обе половины вселенной боятся рождающегося от Тваштара.
Обращенные ко льву, обе они рады (его) принять.
उ॒भे भ॒द्रे जो॑षयेते॒ न मेने॒ गावो॒ न वा॒श्रा उप॑ तस्थु॒रेवै॑: । स दक्षा॑णां॒ दक्ष॑पतिर्बभूवा॒ञ्जन्ति॒ यं द॑क्षिण॒तो ह॒विर्भि॑: ॥
उ॒भे इति॑ । भ॒द्रे इति॑ । जो॒ष॒ये॒ते॒ इति॑ । न । मेने॑ । गावः॑ । न । वा॒श्राः । उप॑ । त॒स्थुः॒ । एवैः॑ । सः । दक्षा॑णाम् । दक्ष॑ऽपतिः । ब॒भू॒व॒ । अ॒ञ्जन्ति॑ । यम् । द॒क्षि॒ण॒तः । ह॒विःऽभिः॑ ॥
उभे अहश्च रात्रिश्च । यद्वा उभे द्यावापृथिव्यौ । अरणी वा । भद्रे भजनीये शोभनाङ्ग्यौ मेने स्त्रियौ जोषयेते न सेवेते इव । यथा शोभने स्त्रियौ चामरहस्ते राजानमुभयतः सेवेते एवं द्यावापृथिव्यौ एनमग्निमुभयतः सेवेते इत्यर्थः । अपि च वाश्राः हम्भारवं कुर्वत्यः गावो न गावो यथा एवैः स्वकीयैश्चरित्रैरादरातिशयेन स्वकीयान् वत्सान् उप तस्थुः संगच्छन्ते तथेममग्निं द्यावापृथिव्यौ उपस्थिते भवतः । पूर्वं सेवनमात्रमुक्तम् इदानीं पुन: गोनिदर्शनेन तत्रैवादिरातिशयो द्योत्यते। अतः सः अग्निः दक्षाणां सर्वेषां बलानां दक्षपतिः बलाधिपतिः बभूव आसीत् । बलानां मध्ये यदतिशयितं बलं तस्याधिपतिर्बभूवेत्यर्थः । यम् अग्निं दक्षिणतः आहवनीयस्य दक्षिणभागे अवस्थिताः ऋत्विजः हविर्भिः चरुपुरोडाशादिभिः अञ्जन्ति आर्द्रीकुर्वन्ति तर्पयन्ति सोऽग्निरिति पूर्वेणान्वयः ॥ वाश्राः । ‘ वाशृ शब्दे'। ‘ स्फायितञ्चि° ' इत्यादिना रक् । एवैः । ‘ इण् गतौ ' ‘इण्शीङ्भ्यां वन्' इति भावे वन्प्रत्ययः ॥
“Both the auspicious ones (day and night or two pieces of wood rubbed together to produce flame) wait upon him like two feminine le attendants, as lowing kine (follow their calves) by the paths (that they have gone); he has been the lord of might among the mighty, whom (the priests) on the right (of the altar) anoint.”
The Two auspicious Ones, like women, tend him: like lowing cows they seek him in their manner.
He is the Lord of Might among the mighty; him, on the right, they balm with their oblations.
They caress him both, like two kind women; like lowing cows they have approached him in their own way. He has become the lord of all powers 1, he whom they anoint with sacrificial gifts from the right side 2.
Both give pleasure like excellent wives. Like bellowing cows they (all [=men]) have reverently approached (him) in their own ways.
He has become the skill-lord of skills, whom they anoint from the right (/south) with oblations.
Wie Fraun liebkosen ihn die beiden schönen, wie Kühe brüllend nahn sie ihm in Eile; Er war von je der kräft'ge Herr der Kräfte, den sie mit Tränken rechts sich wendend salben.
Beide suchen ihm zu gefallen wie zwei holde Frauen dem Manne. Wie brüllende Kühe kamen sie in Eile zu ihm. Er ward der Herr der Kräfte, den sie von rechts her mit Opferspenden salben.
Обе они рады (его принять), как две счастливые жены.
Словно мычащие коровы, они (всегда) находятся рядом (с ним) по своей привычке.
Он был господином сил действия,
Которого они мажут жертвенными возлияниями, (подходя к нему) справа.
उद्यं॑यमीति सवि॒तेव॑ बा॒हू उ॒भे सिचौ॑ यतते भी॒म ऋ॒ञ्जन् । उच्छु॒क्रमत्क॑मजते सि॒मस्मा॒न्नवा॑ मा॒तृभ्यो॒ वस॑ना जहाति ॥
उत् । यं॒य॒मी॒ति॒ । स॒वि॒ताऽइ॑व । बा॒हू इति॑ । उ॒भे इति॑ । सिचौ॑ । य॒त॒ते॒ । भी॒मः । ऋ॒ञ्जन् । उत् । शु॒क्रम् । अत्क॑म् । अ॒ज॒ते॒ । सि॒मस्मा॑त् । नवा॑ । मा॒तृऽभ्यः॒ । वस॑ना । ज॒हा॒ति॒ ॥
सवितेव सर्वस्य प्रेरकः आदित्यो थथा बाहू बाहुस्थानीयान् रश्मीनुद्गमयति तथायमौषसोऽग्निः स्वकीयानि तेजांसि उद्यंयमीति भृशमुद्यतान्यूर्ध्वाभिमुखानि करोति । तदनन्तरं भीमः सर्वेषां भयंकरोऽग्निः उभे 'सिचौ उभे द्यावापृथिव्यौ ऋञ्जन प्रसाधयन् स्वतेजसालंकुर्वन् यतते स्वव्यापारे प्रयतते । तदनन्तरं सिमस्मात् सर्वस्माद् भूतजातात् शुक्रं दीप्तम् अत्कं सारभूतं रसम् उत् अजते रश्मिभिर् ऊर्ध्वम् आदत्ते । अपि च मातृभ्यः स्वमातृस्थानीयेभ्यो वृष्ट्युदकेभ्यः सकाशात् नवा नवानि प्रत्याग्राणि वसना सर्वस्य जगतः आच्छादकानि तेजांसि जहाति उद्गमयति ॥ यंयमीति । ‘ यम उपरमे' । अस्मात् यङ्लुकि 'नुगतोऽनुनासिकान्तस्य ' ( पा. सू. ७. ४. ८५ ) इति अभ्यासस्य नुगागमः । एतच्चानुस्वारोपलक्षणार्थम् । सिचौ । “ षिचिर् क्षरणे '। सिञ्चतः फलेन संयोजयतः इति सिचौ द्यावापृथिव्यौ । ‘ क्विप् च ' इति क्विप् । यतते ।' यती प्रयत्ने । अत्कम् । ‘ अत सातत्यगमने '। ‘ इण्भीकापाशल्यतिमर्चिभ्यः कन्' ( उ. सू. ३. ३२३) इति कन् । नित्त्वादाद्युदात्तत्वम् । सिमस्मात्। सिमशब्दः सर्वशब्दपर्यायः । नवा वसना । उभयत्र ‘शेश्छन्दसि बहुलम्' इति शेर्लोपः । जहाति । ‘ ओहाक् त्यागे' । जौहोत्यादिकः ॥
“Like the sun, he stretches forth his arms, and the formidable Agni, decorating both heaven and earth (with brightness), labours (in his duties); he draws up from everything the essential (moisture), and clothes (the earth) with new vestments (derived) from his maternal (rains).”
Like Savitar his arms with might he stretches; awful, he strives grasping the world's two borders.
He forces out from all a brilliant vesture, yea, from his Mothers draws he forth new raiment.
He raises his arms again and again like Savitri 1. He the terrible pressing on ranges both wings 2 (of his army). He raises up his bright vesture from himself alone 3. He gives new garments to his mothers.
Like Savitar, he raises up his arms again and again.
He aligns himself along the two seams (of the world?), the fearsome one charging straight on.
He thrusts his blazing cloak up from his very self;
he leaves behind new clothes for his mothers.
Er streckt empor wie Savitar die Arme, nach beiden Rändern dringt der hehre strebend, Ein Lichtgewand holt er hervor aus allem, und übergibt den Müttern neue Kleider.
Wie Savitri hebt er die Arme empor; eifert beide Heeresreihen an, wenn der Furchtbare vorauseilt. Aus sich selbst zieht er seine lichte Bekleidung; den Müttern läßt er ihre neuen Gewänder.
Он мощно воздевает кверху руки, словно Савитар.
Оба края одежды соединяет страшный, простираясь.
Из себя самого извлекает он прозрачное покрывало.
Новую одежду он оставляет родителям.
त्वे॒षं रू॒पं कृ॑णुत॒ उत्त॑रं॒ यत्स॑म्पृञ्चा॒नः सद॑ने॒ गोभि॑र॒द्भिः । क॒विर्बु॒ध्नं परि॑ मर्मृज्यते॒ धीः सा दे॒वता॑ता॒ समि॑तिर्बभूव ॥
त्वे॒षम् । रू॒पम् । कृ॒णुते॒ । उत्ऽत॑रम् । यत् । स॒म्ऽपृ॒ञ्चा॒नः । सद॑ने॒ । गोऽभिः॑ । अ॒त्ऽभिः । क॒विः । बु॒ध्नम् । परि॑ । म॒र्मृ॒ज्य॒ते॒ । धीः । सा । दे॒वता॑ता । सम्ऽइ॑तिः । ब॒भू॒व॒ ॥
सदने अन्तरिक्षे गोभिः गन्त्रीभिः अद्भिः मेघस्थाभिः सह संपृञ्चानः वैद्युतरूपेण संयुक्तः सन् त्वेषं दीप्तं सर्वैर्द्रष्टुमशक्यम् उत्तरम् उत्कृष्टतरं रूपं वैद्युतं प्रकाशं यत् यदा कृणुते करोति तदानीं कविः क्रान्तदर्शी धीः सर्वेषां धारकः सोऽग्निः बुध्नं सर्वस्योदकस्य मूलभूतमन्तरिक्षं परि मर्मृज्यते परितो मार्ष्टि स्वतेजसाच्छादयति । तस्याग्नेः सा देवताता देवेन देवनशीलेनाग्निना तता विस्तारिता दीप्तिरस्माभिः स्तुता सती समितिर्बभूव तेजसां संहतिर्भवति ॥ संपृञ्चानः । ‘पृची संपर्के'। रौधादिकः । अस्मात् लटः शानच् । ' श्नसोरल्लोपः' इति अकारलोपः । सीदन्त्यस्मिन् गन्धर्वादय इति सदनमन्तरिक्षम् । अधिकरणे ल्युट् । मर्मज्यते । ‘ मृजूष् शुद्धौ । अस्मात् यङि ‘ मर्मृज्यते मर्मृज्यमानास उपसंख्यानम् ' (पा. सू. ७. ४. ९१. १) इति निपातनात् अभ्यासस्य रुगागमः । देवताता । देवेन तता देवताता । तनोतेः कर्मणि निष्ठा ।' अनुदात्तोपदेश' ' इत्यादिना अनुनासिकलोपः । व्यत्ययेन आत्वम् ।' तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
“Associated in the firmament with the moving waters, he assumes an excellent and lustrous form, and the wise sustainer (of all things) sweeps over the source (of the rains with his radiance), whence a concentration of light is spread abroad by the sportive deity.”
He makes him a most noble form of splendour, decking him in his home with milk and waters.
The Sage adorns the depths of air with wisdom: this is the meeting where the Gods are worshipped.
He assumes his fierce appearance which is above (i. e. the lightning?), being united with the cows 1, the waters in his seat. The prayer purifies the bottom of the seer (?) 2. This was the meeting among the gods 3.
He makes for himself a glittering form, which is (even) higher, as he mingles with the cows and waters in his seat.
The poet keeps grooming his foundation all around, while his insight is being groomed. He has become the meeting point with the assemblage of the gods.
Er schafft sich seine Lichtgestalt, die höchste, in seinem Sitz mit Milch und Flut sich mischend; Der weise schmückt mit Andacht aus den Boden, so hat er sich vereinigt mit den Göttern.
Er nimmt seine funkelnde Gestalt an, die sein oberes Gewand ist, wenn er an seinem Platz mit Kuhschmalz, mit Wasser in Berührung kommt. Der Seher und sein Denken umstreicht die Unterlage des Agni. Er wurde beim Gottesdienst der Versammlungsort der Götter.
Он принимает искрящуюся, высшую форму,
Когда смешивается на сиденье с коровьим (молоком), с водами.
Поэт – (его) поэтическая мысль – очищает кругом основание (жертвенного места).
Он всегда был встречей с миром богов.
उ॒रु ते॒ ज्रय॒: पर्ये॑ति बु॒ध्नं वि॒रोच॑मानं महि॒षस्य॒ धाम॑ । विश्वे॑भिरग्ने॒ स्वय॑शोभिरि॒द्धोऽद॑ब्धेभिः पा॒युभि॑: पाह्य॒स्मान् ॥
उ॒रु । ते॒ । ज्रयः॑ । परि॑ । ए॒ति॒ । बु॒ध्नम् । वि॒ऽरोच॑मानम् । म॒हि॒षस्य॑ । धाम॑ । विश्वे॑भिः । अ॒ग्ने॒ । स्वय॑शःऽभिः । इ॒द्धः । अद॑ब्धेभिः । पा॒युऽभिः॑ । पा॒हि॒ । अ॒स्मान् ॥
महिषस्य महतः ते तव ज्रयः राक्षसादीनामभिभावुकं विरोचमानं विशेषेण दीप्यमानम् उरु विस्तीर्णं धाम तेज: बुध्नम् अपां मूलभूतमन्तरिक्षं पर्येति परितो व्याप्नोति । हे अग्ने इद्धः अस्माभिः प्रज्वलितः सन् विश्वेभिः सर्वैः स्वयशोभिः स्वकीयैरात्मीयैस्तेजोभिः अस्मान् पाहि रक्ष । कीदृशैः । अदब्धेभिः राक्षसादिभिरहिंसितैः पायुभिः पालनशक्तैः ॥ ज्रयः । ‘ जि ज्रि अभिभवे ' । असुन् । अदब्धेभिः । ‘ दम्भु दम्भे'। निष्ठायां यस्य विभाषा' इति इट्प्रतिषेधः । ‘ अनिदिताम् ' इति नलोपः । ‘ झषस्तथोर्धोऽधः' इति धत्वम् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । “ बहुलं छन्दसि ' इति भिस ऐसभावः ॥
“The vast and victorious radiance of you, the mighty one, pervades the firmament; Agni, who have been kindled by us, preserve us with all your undiminished and protecting glories.”
Wide through the firmament spreads forth triumphant the far-resplendent strength of thee the Mighty.
Kindled by us do thou preserve us, Agni, with all thy self-bright undiminished succours.
The wide space encompasses thy base, the resplendent foundation 1 of the buffalo. Agni! Being kindled protect us with all thy undeceivable guardians who are endowed with their own splendour.
Your broad expanse encompasses your foundation, the wide-shining domain of the buffalo.
When kindled, o Agni, protect us with all your self-glorious,
undeceivable protectors.234 I.96
Dein weiter Umfang, er umfasst den Boden, das Haus des Stieres, welches weithin leuchtet; Entflammt mit aller eignen Pracht, o Agni, behüte uns mit zuverläss'gen Hütern.
Dein weiter Lauf umkreist die Unterlage, den strahlenden Ursprungsort des Büffels. Agni, schütze uns entflammt mit allen deinen unbeirrten selbstherrlichen Schutzgeistern!
Широкая твоя поверхность движется вокруг основания (жертвенного места).
Сверкающей родины быка.
О Агни, зажженный, защити нас всеми
(Своими) защитниками, обладающими собственным блеском, не терпящими обмана!
धन्व॒न्त्स्रोत॑: कृणुते गा॒तुमू॒र्मिं शु॒क्रैरू॒र्मिभि॑र॒भि न॑क्षति॒ क्षाम् । विश्वा॒ सना॑नि ज॒ठरे॑षु धत्ते॒ऽन्तर्नवा॑सु चरति प्र॒सूषु॑ ॥
धन्व॑न् । स्रोतः॑ । कृ॒णु॒ते॒ । ग॒तुम् । ऊ॒र्मिम् । शु॒क्रैः । ऊ॒र्मिऽभिः॑ । अ॒भि । न॒क्ष॒ति॒ । क्षाम् । विश्वा॑ । सना॑नि । ज॒ठरे॑षु । ध॒त्ते॒ । अ॒न्तः । नवा॑सु । च॒र॒ति॒ । प्र॒ऽसूषु॑ ॥
धन्वन् नभसि गातुं गमनशीलम् ऊर्मिम् उदकसंघम् अयमग्निः स्रोतः कृणुते स्रोतसा प्रवाहरूपेण युक्तं करोति । शुक्रैः निर्मलैः ऊर्मिभिः तैर्जलसंघैः क्षां भूमिम् अभि नक्षति अभिव्याप्नोति । स्वतेजोभिरन्तरिक्षे जलसंघमुत्पाद्य तेन सर्वा भूमिमभिवर्षतीत्यर्थः । पश्चात् विश्वा सर्वाणि सनानि । अन्ननामैतत् । सर्वाण्यन्नानि जठरेषु धत्ते अवस्थापयति । तदर्थं नवासु वृष्ट्यनन्तरमुत्पन्नासु प्रसूषु सर्वेषामन्नानां प्रसवित्रीष्वोषधीषु पाकार्थम् अन्तः चरति मध्ये वर्तते । अन्तरवस्थितेन भौमाग्निना सर्वा ओषधयः पच्यन्ते ॥ धन्वन् । ‘रिवि रवि धवि गत्यर्थाः । इदित्त्वात् नुम् । 'कनिन्युवृषि° ' इत्यादिना कनिन् ।' सुपां सुलुक् ' इति सप्तम्या लुक्। ‘ धन्वान्तरिक्षं धन्वन्त्यस्मादापः ' (निरु. ५. ५) इति यास्कः । नित्त्वात् आद्युदात्तत्वम् । गातुम् । ‘ गाङ् गतौ ।' कमिमनिजनि” ' इत्यादिना तुप्रत्ययः । ऊर्मिम् । “ अर्तेरू च ' इति मिप्रत्ययः । मक्षति। ‘ नक्ष गतौ ॥
“He causes the waters to flow in a torrent through the sky, and with those pure waves he inundates the earth; he gathers all (articles of) food in the stomach, and for that purpose sojourns in the new-sprung parents (of the gain).”
In dry spots he makes stream, and course, and torrent, and inundates the earth with floods that glisten.
All ancient things within his maw he gathers, and moves among the new fresh-sprouting grasses.
On the dry ground he produces a stream 1, a course, a flood. With his bright floods he reaches the earth. Whatever is old he receives into his belly. He moves about within the young sprouting grass 2.
He makes himself a stream in the wasteland, a way, and a wave. With blazing waves he reaches the ground.
He takes all the old things [=dry wood] in his bellies; he roams within the new, fruitful (plants).
Im Trocknen schafft er Strom sich, Bahn und Woge, mit hellen Wogen dringt er zu der Erde; Er nimmt das Alte alles in den Leib auf, und eilt hinein in immer neue Mütter.
Ein Strom auf dürrem Lande macht er sich Bahn, treibt seine Woge; mit lichten Wogen sucht er die Erde auf. Alles alte Holz steckt er in seine Bäuche und geht in die frischen Pflanzen ein.
Источник в сухой земле, он пролагает путь, (гонит) волну.
Светлыми волнами он добирается до земли.
Все старое он поглощает (своими) внутренностями.
Он входит внутрь свежих побегов.
ए॒वा नो॑ अग्ने स॒मिधा॑ वृधा॒नो रे॒वत्पा॑वक॒ श्रव॑स॒स वि भा॑हि । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
ए॒व । नः॒ । अ॒ग्ने॒ । स॒म्ऽइधा॑ । वृ॒धा॒नः । रे॒वत् । पा॒व॒क॒ । श्रव॑से । वि । भा॒हि॒ । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
हे पावक शोधक अग्ने समिधा अस्माभिर्दत्तेन समिदादिद्रव्येण एव एवमुक्तप्रकारेण वृधानः वर्धमानः सन् रेवत् रयिमते धनयुक्ताय नः अस्माकं श्रवसे अन्नाय वि भाहि विशेषेण दीप्यस्व । अस्माकं तादृशमन्नं प्रयच्छेत्यर्थः । नः अस्माकं तत् अन्नं मित्रादयः ममहन्तां पूजयन्तां रक्षन्त्वित्यर्थः । उतशब्दः समुच्चये । पृथिवी च द्यौश्चेत्यर्थः ॥ एव । ‘ निपातस्य च ' इति संहितायां दीर्घः । वृधानः । वृधेः अन्तर्भावितण्यर्थात् ताच्छीलिकः चानश् । ‘बहुलं छन्दसि ' इति शपो लुक् । चानशः सार्वधातुकत्वेन ङित्त्वात् लघूपधगुणाभावः । लसार्वधातुकत्वाभावेनानुदात्तत्वाभावे चित्स्वर एव शिष्यते । रेवत् । रयिशब्दात् मतुप् । ‘रयेर्मतौ बहुलम्' इति संप्रसारणम् । ‘ छन्दसीरः' इति मतुपो वत्दम् । “ रेशब्दाच्च° ( का. ६. १. १७६. १ ) इति मतुप उदात्तत्वम् । ‘सुपां सुलुक्' इति चतुर्थ्या लुक् ॥ ॥ २ ॥
“Agni, who are the purifier, growing with the fuel we have supplied, blaze for the sake of (securing) food to us, who are possessed of wealth; and may Mitra, Varuṇa, Aditi--ocean, earth, and heaven, preserve it to us.”
Fed with our fuel, purifying Agni, so blaze to us auspiciously for glory.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.
Thus, O Agni, being strengthened by fuel, shine thou to us with wealth-giving shine, O purifier, for the sake of glory. May Mitra and Varuna grant us this, may Aditi, Sindhu, the Earth, and the Sky!
In just this way, o Agni, as you grow strong though the kindling wood, shine out richly for fame, o pure one.
– This let Mitra and Varuṇa grant to us, and Aditi, River, and Earth and Heaven.
O Agni, so durch unser Brennholz wachsend erstrahle reich, o Flammender, zum Ruhme; Das mög' uns Mitra, Varuna gewähren und Aditi, das Meer, und Erd' und Himmel.
Nun strahle, am Brennholz erstarkend, o Agni, reiches Gut aus, uns zum Ruhme, du Lauterer! - Das sollen uns Mitra, Varuna gewähren, Aditi, Sindhu, Erde und Himmel.
Так, о Агни, усиленный дровами,
Богатство, о чистый, воссияй нам для славы!
Пусть нам щедро это даруют Митра, Варуна,
Адити, Синдху, Земля и Небо!