स प्र॒त्नथा॒ सह॑सा॒ जाय॑मानः स॒द्यः काव्या॑नि॒ बळ॑धत्त॒ विश्वा॑ । आप॑श्च मि॒त्रं धि॒षणा॑ च साधन्दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥
सः । प्र॒त्नऽथा॑ । सह॑सा । जाय॑मानः । स॒द्यः । काव्या॑नि । बट् । अ॒ध॒त्त॒ । विश्वा॑ । आपः॑ । च॒ । मि॒त्रम् । धि॒षणा॑ । च॒ । सा॒ध॒न् । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒ऽदाम् ॥
सहसा बलेन जायमानः निर्मथनेनोत्पद्यमानः सः अग्निः सद्यः तदानीमुत्पत्त्यनन्तरमेव प्रत्नथा प्रत्न इव चिरंतन इव विश्वा विश्वानि सर्वाणि काव्यानि कवेः क्रान्तदर्शिनः प्रगल्भस्य कर्माणि बट् सत्यम् अधत्त अधारयत् । पूर्वं विद्यमान इवाग्निरुत्पत्तिसमकालमेव स्वकीयं हविर्वहनादिकं सर्वं कार्यमकरोदित्यर्थः । इममग्निं वैद्युतरूपेण वर्तमानं मेघेष्ववस्थिताः आपश्च धिषणा च या माध्यमिका वाक् सा च मित्रं सखिभूतं साधन् साधयन्ति कुवन्ति । तमिमं द्रविणोदां द्रविणस्य धनस्य दातारम् अग्निं देवाः ऋत्विज: धारयन् गार्हपत्यादिरूपेण धारयन्ति । यद्वा । देवा एवेन्द्रादय इममग्निं द्रविणोदां हविर्लक्षणस्य धनस्य दातारं कृत्वा दूत्ये धारयन् धारयन्ति ॥ प्रत्नथा । ‘ प्रत्नपूर्व विश्वेमात्थाल् छन्दसि ' इति इवार्थे थाल्प्रत्ययः । काव्यानि । कवेः कर्म काव्यम् । ‘ गुणवचनब्राह्मणादिभ्य:०' इति ष्यञ् । ञित्त्वादाद्युदात्तत्वम् । साधन् । ‘ षिधु संराद्धौ । णौ ‘ सिध्यतेरपारलौकिके' (पा. सू. ६. १, ४९ ) इति आत्वम् । लेटि अडागमः । ‘ इतश्च लोप:° इति इकारलोपः । ‘ छन्दस्युभयथा ' इति शपः आर्धधातुकत्वात् ‘ णेरनिटि ' इति णिलोपः। द्रविणोदाम् । द्रविणानि ददातीति द्रविणोदाः । द्रु गतौ । द्रुदक्षिभ्यामिनन् ' । छान्दसः पूर्वपदस्य सुक् । “ अन्येभ्योऽपि दृश्यन्ते' इति ददातेः विच् । सकारान्तं त्वसुनि कृते निष्पद्यते ॥ ।
“Engendered by force, Agni verily appropriates, as soon as born, the offerings of the sages; the waters and voice make him their friend, and the gods retain him as the giver of (sacrificial) wealth.”
HE in the ancient way by strength engendered, lo! straight hath taken to himself all wisdom.
The waters and the bowl have made him friendly. The Gods possessed the wealth bestowing Agni.
Being born by strength 1 in the ancient way, lo! he (Agni) has assumed instantly all the qualities of a sage. The Waters and the Dhishanâ 2 have furthered the friend (Mitra 3). The gods have held Agni as the giver of wealth.
Being born with strength as of old, at once he has acquired all poetic powers—yes indeed!
Both the waters and the holy place [=earth] make the ally [=Agni]
succeed. – The gods uphold Agni, the wealth-giver.
Nach alter Art durch Kraft erzeugt nahm Agni fürwahr sogleich sich alle Seherkräfte; Den Freund beglückte Flut und Opfergabe; als Schätzespender wahrten ihn die Götter.
Nach alter Weise durch Kraft geboren erlangte er wahrhaftig sofort alle Sehergaben. Die Wasser und die Dhisana schließen Freundschaft. - Die Götter erhalten Agni, den Schätzespender.
Рождаемый силой прежним способом
Он, действительно, сразу получил все поэтические дарования.
Воды и вдохновение заключили союз.
Боги поддерживают Агни – дарителя богатства.
स पूर्व॑या नि॒विदा॑ क॒व्यता॒योरि॒माः प्र॒जा अ॑जनय॒न्मनू॑नाम् । वि॒वस्व॑ता॒ चक्ष॑सा॒ द्याम॒पश्च॑ दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥
सः । पूर्व॑या । नि॒ऽविदा॑ । क॒व्यता॑ । आ॒योः । इ॒माः । प्र॒ऽजाः । अ॒ज॒न॒य॒त् । मनू॑नाम् । वि॒वस्व॑ता । चक्ष॑सा । द्याम् । अ॒पः । च॒ । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒ऽदाम् ॥
सः अग्निः पूर्वया प्रथमया • अग्निर्दैवेद्धः' इत्यादिकया निविदा कव्यता गुणिनिष्ठगुणाभिधानलक्षणां स्तुतिं कुर्वता आयोः मनोः संबन्धिनोक्थेन च स्तूयमानः सोऽग्निः मनूनां संबन्धिनीः इमाः प्रजाः अजनयत् उदपादयत् । मनुना स्तुतः सन् मानवीः सर्वाः प्रजा अजनयदित्यर्थः । तथा विवस्वता विवासनवता विशेषेणाच्छादयता चक्षसा आत्मीयेन तेजसा द्यां द्युलोकम् अपश्च अन्तरिक्षं च व्याप्नोतीति शेषः । अन्यत् समानम् ॥ कव्यता । ‘ कु शब्दे । ‘ अचो यत्' इति भावे यत् । कव्यं कवनं स्तुतिं करोति । तत्करोति । ( पा. सू. ३. १. २६. ५) इति णिच् । तदन्तात् क्विप् । ‘ बहुलमन्यत्रापि संज्ञाच्छन्दसोः' इति णिलुक् । ततस्तुक् । धातुस्वरेणान्तोदात्तत्वम् । आयोः । इण् गतौ । ‘ छन्दसीणः' इति उष्प्रत्ययः ॥
“(Propitiated) by the primitive laudatory hymn of Āyu, he created the progeny of Manus, and pervades, with his all-investing splendour, the heavens and the firmament; the gods retain Agni as the giver of (sacrificial) wealth.”
At Ayu's ancient call he by his wisdom gave all this progeny of men their being,
And, by refulgent light, heaven and the waters. The Gods possessed the wealth bestowing Agni.
By the ancient Nivid 1, by Âyu's 2 wisdom he has procreated these children of men. With his irradiating look 3 (he has procreated) the Sky and the Waters. The gods have held Agni as the giver of wealth.
With the age-old formal invocation [=nivid] and the poetic power of Āyu he begot these offspring of Manu’s people;
with Vivasvant [=Sun] as his eye (he begot) heaven and the waters. – The gods uphold Agni, the wealth-giver.
Nach alter Vorschrift durch des Menschen Weisheit erzeugte Agni diese Menschenkinder Durch funkelndes Erglänzen, Himmel, Wasser, als Schätzespender wahrten ihn die Götter.
Mit altem Spruch durch die Dichtkunst des Asya hervorgebracht erzeugte er diese Nachkommen des Menschen; mit Vivasvat als Auge bescheint er den Himmel und die Gewässer. - Die Götter erhalten Agni, den Schätzespender.
Благодаря древнему приглашению, благодаря поэтическому искусству Аю
Он породил это потомство людей.
С помощью Вивасвата как глаза (он озирает) небо и воды.
Боги поддерживают Агни – дарителя богатства.
तमी॑ळत प्रथ॒मं य॑ज्ञ॒साधं॒ विश॒ आरी॒राहु॑तमृञ्जसा॒नम् । ऊ॒र्जः पु॒त्रं भ॑र॒तं सृ॒प्रदा॑नुं दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥
तम् । इ॒ळ॒त॒ । प्र॒थ॒मम् । य॒ज्ञ॒ऽसाध॑म् । विशः॑ । आरीः॑ । आऽहु॑तम् । ऋ॒ञ्ज॒सा॒नम् । ऊ॒र्जः । पु॒त्रम् । भ॒र॒तम् । सृ॒प्रऽदा॑नुम् । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒ऽदाम् ॥
हे विशः सर्वे मनुष्याः आरीः अग्निं स्वामिनं गच्छन्त्यो यूयं तम् अग्निम् ईळत स्तुध्वम् । कीदृशम् । प्रथमं सर्वेषु देवेषु मुख्यं यज्ञसाधं यज्ञस्य दर्शपूर्णमासादेः साधकं निष्पादकं आहुतं हविर्भिस्तर्पितं ऋञ्जसानं स्तोत्रैः प्रसाध्यमानं ऊर्जः अन्नस्य पुत्रम् । भुक्तेनान्नेन जाठराग्नेर्वर्धनात् अग्नेरपुत्रत्वम् । भरतं हविषो भर्तारम् । यद्वा । प्राणरूपेण सर्वासां प्रजानां भर्तारम् । श्रूयते च- स्वदेहे । वा एष प्राणो भूत्वा प्रजा बिभर्ति तस्मादेष भरतः' इति । 'सृप्रदानुं सर्पणशीलदानयुक्तम् । अविच्छेदेन धनानि प्रयच्छन्तमित्यर्थः । देवाः इत्यादि गतम् ॥ ईळत । ‘ ईड स्तुतौ' । लोटि व्यत्ययेन परस्मैपदम् । 'बहुलं छन्दसि ' इति शपो लुगभावः । यज्ञसाधम् । यज्ञं साधयतीति यज्ञसात् । साधयतेः क्विप् । णेरनिटि ' इति णिलोपः । आरीः । ‘ऋ गतौ'।' सूचिसूत्रि' (पा. म. ३. १. २२. ३) इत्यादिना यङ्। 'यङोऽचि च' इति चशब्देन बहुलग्रहणानुकर्षणात् अनैमित्तिको लुक् । प्रत्ययलक्षणेन द्विर्भावे उरदत्वहलादिशेषौ ।' रुग्रिकौ च लुकि ' इति रुक् । यङ्लुगन्तात् औणादिकः किप्रत्ययः । यणादेशे ‘रो रि ' इति रेफलोपः । ‘ ढ्रलोपे पूर्वस्य ' इति दीर्घत्वम् । ‘कृदिकारादक्तिनः' इति ङीष्। जसि ‘वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । व्यत्ययेन आद्युदात्तत्वम् । ऋञ्जसानम् । ऋञ्जतिः प्रसाधनकर्मा । ‘ ऋञ्जिवृधिमन्दिसहिभ्यः कित्' (उ. सू. २. २४४ ) इति कर्मणि असानच् । भरतम् । भृञ् भरणे'।' भृमृद्दशि ' इत्यादिना अतच् । सृप्रदानुम् । सृप्लृ गतौ ।स्फायितञ्चि' ' इत्यादिना रक् । सृप्रो दानुर्दानं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
“Approachinghim,let all men adore Agni, the chief (of the gods), the accomplisher of sacrifices, who is gratified by oblations and propitiated by praises--the offspring of food, the sustainer of (all men), the giver of continual gifts; the gods retain Agni as the giver of (sacrificial) wealth. ”
Praise him, ye Aryan folk, as chief performer of sacrifice adored and ever toiling,
Well-tended, Son of Strength, the Constant Giver. The Gods possessed the wealth bestowing Agni.
The Âryan clans magnified 1 him as the first performer of sacrifices, as receiving offerings, as striving forward, the son of strength, the Bharata 2, the bestower of mighty rain (?) 3. The gods have held Agni as the giver of wealth.
The Ārya clans solemnly invoke him as the foremost one, bringing the sacrifice to success when bepoured, aiming straight,
the son of nourishment, the Bharata, possessing buttery drops. – The gods uphold Agni, the wealth-giver.
Den Agni als den ersten Opfrer preise der Arjer Stamm, den thätigen, getränkten, Den hehren Sohn der Kraft, der reichlich spendet, als Schätzespender wahrten ihn die Götter.
Ihn beriefen die arischen Stämme als den ersten Opferausrichter, den mit Schmalz begossenen, bevorzugten, den Sohn der Kraft, den Bharata, der breite Gabe hat. - Die Götter erhalten Agni, den Schätzespender.
Его призвали арийские племена
Как первого исполнителя жертвоприношения, политого (жиром), рвущегося вперед,
Сына силы, Бхарату, чьи дары обильны (?).
Боги поддерживают Агни – дарителя богатства.
स मा॑त॒रिश्वा॑ पुरु॒वार॑पुष्टिर्वि॒दद्गा॒तुं तन॑याय स्व॒र्वित् । वि॒शां गो॒पा ज॑नि॒ता रोद॑स्योर्दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥
सः । मा॒त॒रिश्वा॑ । पु॒रु॒वार॑ऽपुष्टिः । वि॒दत् । गा॒तुम् । तन॑याय । स्वः॒ऽवित् । वि॒शाम् । गो॒पाः । ज॒नि॒ता । रोद॑स्योः । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒ऽदाम् ॥
सः अग्निः तनयाय अस्मदीयाय पुत्राय गातुम् अनुष्ठानमार्गं विदत् लम्भयतु । कीदृशः । मातरिश्वा मातरि सर्वस्य जगतो निर्मातरि अन्तरिक्षे श्वसन वर्तमानः पुरुवारपुष्टिः । पुरुभिर्बहुभिर्वारा वरणीया पुष्टिरभिवृद्धिर्यस्य स तथोक्तः । स्वर्वित् स्वः स्वर्गस्य यागद्वारेण लम्भयिता विशां सर्वासां प्रजानां गोपाः गोपायिता रक्षिता रोदस्योः द्यावापृथिव्योः जनिता जनयितोत्पादयिता । देवाः इत्यादि गतम् ॥ मातरिश्वा । श्वन्नुक्षन्' इत्यादौ मातृशब्दोपपदात् ‘श्वस प्राणने' इत्यस्मात् कनिन्प्रत्ययान्तो निपात्यते। विदत् ।' विद्लृ लाभे'। अस्मात् अन्तर्भावितण्यर्थात् छान्दसो लुङ् । लृदित्त्वात् च्लेः अङादेशः । पादादित्वात् निघाताभावः । जनिता ।' जनिता मन्त्रे' (पा. सू. ६. ४. ५३ ) इति तृचि णिलोपो निपात्यते ॥
“May Agni, the dweller in the firmament, the nourisher with abundant benefits, the bestower of svarga, the protector of mankind, the progenitor of heaven and earth, instrumental uct my sons in the right way; the gods retain Agni as the giver of (sacrificial) wealth.”
That Matarisvan rich in wealth and treasure, light-winner, finds a pathway for his offspring.
Guard of our folk, Father of earth and heaven. The Gods possessed the wealth bestowing Agni.
He, Mâtarisvan 1, the lord of bountiful prosperity, has found a path for (his?) offspring, he who has found the sun, the shepherd of the clans, the begetter of the two worlds. The gods have held Agni as the giver of wealth.
As Mātariśvan he brings prosperity filled with many desirable things; as the finder of the sun, he finds a way for his lineage. He is the herdsman of the clans, the begetter of the two worlds. – The gods uphold Agni, the wealth-giver.
Der Mutterspross, der Gutvermehrer Agni, verleihe Glanz und Wohlfahrt unserm Stamme, Der Menschen Hüter, beider Welten Zeuger; als Schätzespender wahrten ihn die Götter.
Er, der Matarisvan, der vielbegehrten Wohlstand hat, er fand freie Bahn für die Nachkommenschaft, der Himmelslichtfinder, der Hirt der Ansiedlungen, der Erzeuger beider Welten. - Die Götter erhalten Agni, den Schätzespender.
Этот Матаришван, чье процветание – богатые сокровища,
Нашел выход для потомства, нашел солнце,
Охранитель племен, родитель двух миров.
Боги поддерживают Агни – дарителя богатства.
नक्तो॒षासा॒ वर्ण॑मा॒मेम्या॑ने धा॒पये॑ते॒ शिशु॒मेकं॑ समी॒ची । द्यावा॒क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥
नक्तो॒षसा॑ । वर्ण॑म् । आ॒मेम्या॑ने॒ इत्या॒ऽमेम्या॑ने । धा॒पये॑ते॒ इति॑ । शिशु॑म् । एक॑म् । स॒मी॒ची॒ इति॑ स॒म्ऽई॒ची । द्यावा॒क्षामा॑ । रु॒क्मः । अ॒न्तः । वि । भा॒ति॒ । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒ऽदाम् ॥
नक्तोषासा रात्रिरहश्च वर्णं स्वकीयं स्वरूपम् आमेम्याने परस्परं पुनःपुनर्हिंसन्त्यौ समीची संगते संश्लिष्टे एवंभूते अहस्त्रियामे एकं शिशुम् अह्नः पुत्रमग्निं धापयेते हवींषि पाययेते । रुक्मः रोचमानः सोऽग्निः द्यावाक्षामा द्यावापृथिव्योः अन्तः मध्ये वि भाति विशेषेण प्रकाशते ।अन्यत् पूर्ववत् ॥ नक्तोषसा । नक्ता इति रात्रिनाम । नक्ता उषाश्च नक्तोषसा । ' सुपां सुलुक्' इति विभक्तेः आकारः । ‘ अन्येषामपि ' इति सांहितिकमुपधादीर्घत्वम्। ' देवताद्वन्द्वे च ' इति पूर्वोत्तरपदयोः युगपत्प्रकृतिस्वरत्वम् । आमेम्याने । “ मीङ् हिंसायाम् ' । अस्मात् यङ्लुगन्तात् व्यत्ययेन शानच् । ‘ अदादिवच्च' इति वचनात् शपो लुक् । ‘एरनेकाचः' इति यण् । “ अभ्यस्तानामादिः' इति आद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । धापयेते । ‘ धेट् पाने' । अस्मात् ण्यन्तात् “ निगरणचलन ' ( पा. सू. १. ३. ८७ ) इति प्राप्तस्य परस्मैपदस्य ‘पादिषु धेट उपसंख्यानम् ' (पा. सू. १. ३. ८९. १ ) इति वचनात् ‘न पादम्याङ्यम ' (पा. सू. १. ३. ८९ ) इति प्रतिषेधः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते । पादादित्वात् निघाताभावः । समीची। संपूर्वात् अञ्चतेः ‘ऋत्विक् ' इत्यादिना क्विन् । ‘अनिदिताम्' इति नलोपः । समः समि' (पा. सू. ६. ३. ९३ ) इति सम्यादेशः । ‘ अञ्चतेश्चोपसंख्यानम्' इति ङीप् । “ अचः' इति अकारलोपे चौ ' इति दीर्घत्वम् । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम्। पदकारस्य त्वयमभिप्रायः । ‘ उद ईत् ' ( पा. सू. ६. ४. १३९ ) इति विधीयमानम् ईत्वं सम उत्तरस्याप्यञ्चतेर्व्यत्ययेन भवतीति । ‘बा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । द्यावाक्षामा । ' दिवो द्यावा' इति द्यावादेशः । ‘सुपां सुलुक्' इति षष्ठ्याः डादेशः । देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥ ॥३॥
“The night and the day, mutually effacing each other's comlexion, give nourishment combined together, to one infant, who, radiant, shines between earth and heaven the gods retain Agni as the giver of (sacrificial) wealth.”
Night and Dawn, changing each the other's colour, meeting together suckle one same Infant:
Golden between the heaven and earth he shineth. The Gods possessed the wealth bestowing Agni.
Night and Dawn, who constantly destroy each other's appearance, suckle one young calf 1 unitedly 2. The piece of gold 3 shines between Heaven and Earth. The gods have held Agni as the giver of wealth.
Night and Dawn, ever exchanging their color, together suckle their single child.
Between heaven and earth the bright ornament shines out. – The gods uphold Agni, the wealth-giver.
In Farben wechselnd säugen Nacht und Morgen den einen Spross, gemeinsam ihn ernährend; Er strahlet golden zwischen Erd' und Himmel; als Schätzespender wahrten ihn die Götter.
Nacht und Morgen, die die Farbe wechseln, säugen gemeinsam das eine Junge. Zwischen Himmel und Erde erglänzt er wie ein Goldschmuck. - Die Götter erhalten Agni, den Schätzespender.
Ночь и утренняя заря, сменяющие друг друга по цвету,
Вместе кормят одного дитятю.
Золотое украшение между небом и землей, он ярко сверкает.
Боги поддерживают Агни – дарителя богатства.
रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां य॒ज्ञस्य॑ के॒तुर्म॑न्म॒साध॑नो॒ वेः । अ॒मृ॒त॒त्वं रक्ष॑माणास एनं दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥
रा॒यः । बु॒ध्नः । स॒म्ऽगम॑नः । वसू॑नाम् । य॒ज्ञस्य॑ । के॒तुः । म॒न्म॒ऽसाध॑नः । वेः । अ॒मृ॒त॒ऽत्वम् । रक्ष॑माणासः । ए॒न॒म् । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒ऽदाम् ॥
योऽग्निः रायः धनस्य बुध्नः मूलभूतः । आहुतिद्वारा सर्वेषां धनानां कारणत्वात् । वसूनां निवासहेतूनां धनानां संगमनः संगमयिता स्तोतॄणां प्रापयिता यज्ञस्य दर्शपूर्णमासादेः केतुः केतयिता ज्ञापयिता वेः आत्मानमभिगच्छतः पुरुषस्य मन्मसाधनः मननीयस्याभिलषितस्य साधयिता अमृतत्वं स्वकीयामरणत्वं रक्षमाणासः पालयन्तः देवाः एनं धनस्य दातारम् अग्निं धारयन्ति ॥ रायः । ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वम् । संगमनः । नन्द्यादिलक्षणो ल्युः । वेः । वी गत्यादिषु । अस्मात् औणादिकः इप्रत्ययः टिलोपश्च ॥
“The source of opulence, the bestower of riches, the director of the sacrifice, the accomplisher of the desires (of the man) who has recourse to him; him the gods, preserving their immortality, retain as the giver of (sacrificial) wealth.”
Root of wealth, gathering-place of treasures, banner of sacrifice, who grants the suppliant's wishes:
Preserving him as their own life immortal, the Gods possessed the wealth-bestowing Agni.
(He is) the base of wealth, the assembler of all goods 1, the beacon of sacrifice, the fulfiller of thought, the bird 2. In order to guard their immortality the gods have held him, Agni, as the giver of wealth.
The foundation of wealth, the assembler of goods, the beacon of the sacrifice, the bird bringing our thoughts to success.
Protecting their immortality, protecting him, the gods uphold Agni, the wealth-giver.
Des Reichthums Boden und der Schätze Sammler, des Opfers Fahn', des Sängers Wunscherfüller; Ihn schützend als Unsterblichkeits-Gewährer, als Schätzespender wahrten ihn die Götter.
Die Grundlage des Reichtums, der Sammler der Schätze, des Opfers Banner, die Erfüller der Gebete, der Vogel - Ihre Unsterblichkeit wahrend erhalten die Götter Agni, den Schätzespender.
Основа богатства, стечение благ,
Знамя жертвы, исполнитель молитв, птица...
Охраняя (свое) бессмертие,
Боги поддерживают этого Агни – дарителя богатства.
नू च॑ पु॒रा च॒ सद॑नं रयी॒णां जा॒तस्य॑ च॒ जाय॑मानस्य च॒ क्षाम् । स॒तश्च॑ गो॒पां भव॑तश्च॒ भूरे॑र्दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥
नु । च॒ । पु॒रा । च॒ । सद॑नम् । र॒यी॒णाम् । जा॒तस्य॑ । च॒ । जाय॑मानस्य । च॒ । क्षाम् । स॒तः । च॒ । गो॒पाम् । भव॑तः । च॒ । भूरेः॑ । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒ऽदाम् ॥
नू च इति निपातसमुदायः अद्य इत्यस्यार्थे । 'नू चिदिति निपातः पुराणनवयोर्नु च' ( निरु. ४.१७) इति यास्कः । नू च अद्य अस्मिन्काले पुरा च रयीणां सर्वेषां धनानां सदनम् आवासस्थानं जातस्य उत्पन्नस्य कार्यजातस्य जायमानस्य उत्पद्यमानस्य च क्षां निवासयितारं सतश्च सर्वत्र विद्यमानस्वभावस्य नित्यस्य चाकाशादेः भवतश्च सद्भावं प्राप्नुवतः भूरेः असंख्यातस्य अन्यस्य च भूतजातस्य गोपां गोपायितारं रक्षितारं द्रविणोदां धनप्रदं एवंगुणविशिष्टम् अग्निं देवाः धारयन् हविर्वोढृत्वेन धारयन्ति । नू च । ऋचि तुनुघ°' इति दीर्घः। रयीणाम् । ‘ नामन्यतरस्याम्' इति नाम उदात्तत्वम् । क्षाम् । ‘क्षि निवासगत्योः '। अस्मात् णिच् । वृद्ध्यायादेशौ। ण्यन्तात् क्विप् । णेरनिटि' इति णिलोपः । ‘ वेरपृक्तलोपाद्वलि लोपो बलीयान्' इति पूर्वं ‘ लोपो व्योर्वलि' इति यलोपः । न च णिलोपस्य स्थानिवत्त्वं, न पदान्तद्विर्वचनवरेयलोप ' इति प्रतिषेधात् । यद्वा । ‘ क्षै जै षै क्षये । अस्मात् क्विप् ।' आदेचः० ' इति आत्वम् । सतः । अस्तेः शतरि अदादित्वात् शपो लुकू । ‘ श्नसोरल्लोपः' इति अकारलोपः । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् ॥
“The gods retain Agni as the giver of (sacrificial) wealth, who now is, and heretofore has been, the abode of riches, the receptacle of all that has been, and all that will be, born, and the preserver of all (that) exists, (as well as of all) that are coming into existence.”
Now and of old the home of wealth, the mansion of what is born and what was born aforetime,
Guard of what is and what will be hereafter,--the Gods possessed the wealth bestowing Agni.
Him who is now and who was formerly the abode of wealth, the earth 1 (i. e. the dwelling-place or support) of what is born and of what will be born, the shepherd and guardian of what is and of much that comes into being. The gods have held Agni as the giver of wealth.
Both now and before the seat of riches, the ground of what has been born and is being born,
the herdsman of what is and of much coming into being—Agni, the wealth-giver, do the gods uphold.
Den Sitz der Schätze jetzt und vormals, Agni, den Boden des gebornen und zukünft'gen, Der viel behütet, was da ist und sein wird, als Schätzespender wahrten ihn die Götter.
Ihn, der jetzt und vormals der Sitz der Reichtümer ist, die Heimstätte des Geborenen und Zukünftigen, den Hüter des Seienden und des vielen Werdenden. - Die Götter erhalten Agni, den Schätzespender.
(Его, кто) и сейчас, и прежде – сиденье богатств,
Обиталище рожденного и рождающегося,
Защитник сущего и много будущего –
Боги поддерживают этого Агни – дарителя богатства.
द्र॒वि॒णो॒दा द्रवि॑णसस्तु॒रस्य॑ द्रविणो॒दाः सन॑रस्य॒ प्र यं॑सत् । द्र॒वि॒णो॒दा वी॒रव॑ती॒मिषं॑ नो द्रविणो॒दा रा॑सते दी॒र्घमायु॑: ॥
द्र॒वि॒णः॒ऽदाः । द्रवि॑णसः । तु॒रस्य॑ । द्र॒वि॒णः॒ऽदाः । सन॑रस्य । प्र । यं॒स॒त् । द्र॒वि॒णः॒ऽदाः । वी॒रऽव॑तीम् । इष॑म् । नः॒ । द्रव॒ि॒णः॒ऽदाः । रा॒स॒ते॒ । दी॒र्घम् । आयुः॑ ॥
द्रविणोदाः द्रविणस्य धनस्य बलस्य वा दाता अग्निः तुरस्य त्वरमाणस्य चलतो जङ्गमस्य द्रविणसः धनस्य बलस्य वा एकदेशं प्र यंसत् अस्मभ्यं प्रयच्छतु । तथा द्रविणोदाः सनरस्य सननीयस्य संभजनीयस्य स्थावररूपस्य धनस्यैकदेशं प्रयच्छतु । अपि च द्रविणोदाः वीरवतीं वीरैः पुत्रादिभिः युक्तम् इषम् अन्नं नः अस्मभ्यं प्रयच्छतु । तथा द्रविणोदाः दीर्घमायुः अस्मभ्यं रासते प्रयच्छतु ॥ तुरस्य । तुर त्वरणे ' । इगुपधलक्षणः कः । सनरस्य । वन षण संभक्तौ ' । ‘ कृदरादयश्च ' ( उ. सू. ५. ७१९ ) इति अरन्प्रत्ययः । यंसत् । ‘ यम उपरमे'। लेटि अडागमः । ‘ सिब्बहुलं लेटि' इति सिप् । रासते । रा दाने ' । पूर्ववत् लेटि सिप् । व्यत्ययेन आत्मनेपदम् ॥
“May Draviṇodā grant us (a portion) of moveable wealth; may Draviṇodā grant us (a portion) of that which is stationary; may Draviṇodā give us food attended byprogeny; may Draviṇodā bestow upon us long life.”
May the Wealth-Giver grant us conquering riches; may the Wealth-Giver grant us wealth with heroes.
May the Wealth-Giver grant us food with offspring, and length of days may the Wealth-Giver send us.
May (Agni,) the giver of wealth, present us with quick wealth. May the giver of wealth (present us with wealth) united with strong men 1. The giver of wealth (should grant us) food together with valiant heroes. The giver of wealth should grant us long life.
The wealth-giver (shall offer) of his surpassing wealth; the wealth-giver shall offer of (his wealth) along with superior men.
The wealth-giver (shall grant) us refreshment accompanied by heroes; the wealth-giver shall grant long lifetime.
Der Schätzespender schenke viele Schätze, an Männern reiche uns der Schätzespender, Und heldenreiches Gut der Schätzespender, der Schätzespender geb' uns langes Leben.
Der Schätzespender möge uns etwas von dem überlegenen Schatze der Schätze-spender von dem aus Männern bestehenden geben. Der Schätzespender möge uns das Labsal vieler Söhne, der Schätzespender langes Leben schenken.
(Пусть) даритель богатства – превосходным богатством
Пусть даритель богатства (нас) наделит (богатством), состоящим из мужей!
(Пусть) даритель богатства – нам подкрепление из героев,
Пусть даритель богатства (нам) даст долгий срок жизни!
ए॒वा नो॑ अग्ने स॒मिधा॑ वृधा॒नो रे॒वत्पा॑वक॒ श्रव॑स॒॒ वि भा॑हि । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
ए॒व । नः॒ । अ॒ग्ने॒ । स॒म्ऽइधा॑ । वृ॒धा॒नः । रे॒वत् । पा॒व॒क॒ । श्रव॑से । वि । भा॒हि॒ । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
व्याख्यातेयं पूर्वसूक्ते। अक्षरार्थस्तु। हे शोधक अग्ने एवमस्माभिर्दत्तेन समिदादिद्रव्येण वृधानः वर्धमानः सन् नः अस्माकं धनयुक्तायान्नाय विशेषेण प्रकाशस्व। अस्माकं तत् अन्नं मित्रादयः ममहन्तां पूजयन्तां रक्षन्त्वित्यर्थः । तथा सिन्धुः अब्देवता द्यावापृथिव्यौ च ममहन्ताम् ॥४॥
“Thus, Agni, who are the purifier gowing with the fuel (we have supplied), blaze for the sake of securing food to us, who are possessed of wealth and may Mitra, Varuṇa, Aditi--ocean, earth, and heaven, preserve it to us.”
Fed with our fuel, purifying Agni, so blaze to us auspiciously for glory.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.
In just this way, o Agni, as you grow strong though the kindling wood, shine out richly for fame, o pure one.
– This let Mitra and Varuṇa grant to us, and Aditi, River, and Earth and Heaven.
O Agni, so durch unser Brennholz wachsend erstrahle reich, o Flammender, zum Ruhme; Das mög' uns Mitra, Varuna gewähren und Aditi, das Meer, und Erd' und Himmel.
Nun strahle, am Brennholz erstarkend, o Agni, reiches Gut aus, uns zum Ruhme, du Lauterer! - Das sollen uns Mitra, Varuna gewähren, Aditi, Sindhu, Erde und Himmel!
Так, о Агни, усиленный дровами,
Богатство, о чистый, воссияет нам для славы!
Пусть нам щедро это даруют Митра, Варуна,
Адити, Синдху, Земля и Небо!