वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः । इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण ॥
वै॒श्वा॒न॒रस्य॑ । सु॒ऽम॒तौ । स्या॒म॒ । राजा॑ । हि । क॒म् । भुव॑नानाम् । अ॒भि॒ऽश्रीः । इ॒तः । जा॒तः । विश्व॑म् । इ॒दम् । वि । च॒ष्टे॒ । वै॒श्वा॒न॒रः । य॒त॒ते॒ । सूर्ये॑ण ॥
वैश्वानरस्य विश्वेषां नराणां लोकान्तरनेतृत्वेन स्वामित्वेन वा संबन्धिनोऽग्नेः सुमतौ शोभनायामनुग्रहात्मिकायां बुद्धौ स्याम अनुग्राह्यत्वेन वर्तमाना भवेम । हि कम् इत्येतत् हिशब्दार्थे । स हि वैश्वानरः अभिश्रीः अभिश्रयणीयः अभिमुख्येन सेवितव्यः सन् भुवनानां सर्वेषां भूतजातानां राजा स्वामी भवति । यः वैश्वानरः अग्निः इतः अस्मादरणिद्वयात् जातमात्रः एव इदं सर्वं जगत् वि चष्टे विशेषेण पश्यति प्रातरुद्यता सूर्येण च यतते संयतते संगच्छते । ‘ उद्यन्तं वावादित्यमग्निरनुसमारोहति' (तै. ब्रा. २. १. २. १०) इति तैत्तिरीयकम् । यद्वा । पार्थिवस्याग्नेस्तेजांस्युद्गच्छन्ति सूर्यकिरणाश्चाधोमुखं प्रसरन्ति । तयोः संगमनं दृष्ट्वा ‘वैश्वानरो यतते सूर्येण ' इति ऋषिर्ब्रूते । तथा च यास्कः-’ अमुतोऽमुष्य रश्मयः प्रादुर्भवन्तीतोऽस्यार्चिषस्तयोर्भासोः संसंगं दृष्ट्वैमवक्ष्यत् ' ( निरु. ७. २३ ) इति । एवंभूतस्य महानुभावस्य वैश्वानरस्य सुमतौ स्यामेति संबन्धः ॥ वैश्वानरस्य । विश्वेषां नराणां संबन्धी । “ नरे संज्ञायाम् ' ( पा. सू. ६. ३. १२९ ) इति पूर्वपदस्य दीर्घत्वम् । ‘ तस्येदम्' इति अण् । सुमतौ । शोभना मतिः सुमतिः । ‘ तादौ च° ' इति गतेः प्रकृतिस्वरे प्राप्ते ‘ मन्क्तिन्° ' इत्यादिना उत्तरपदान्तोदात्तत्वम् । ननु तत्र ‘ कारकात्' इत्यनुवृत्तेर्गतेरुत्तरस्य क्तिनो न प्राप्नोति । एवं तर्हि मतिर्मननम् । भावे क्तिन् । शोभनं मननं यस्यां बुद्धौ सा सुमतिः । ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । चष्टे । ‘ चक्षिङ् व्यक्तायां वाचि' । अयं पश्यतिकर्मा च । अदादित्वात् शपो लुक् ।' स्कोः संयोगाद्योः' इति कलोपः । यतते । ‘ यती प्रयत्ने ' ॥
“May we continue in the favour of Vaiśvānara, for verily he is the august sovereign of all beings; as soon as genitive rated from this (wood), he surveys the universe; he accompanies the rising sun.”
Still in Vaisvanara's grace may we continue: yea, he is King supreme o'er all things living.
Sprung hence to life upon this All he looketh. Vaisvanara hath rivalry with Surya.
May we dwell in the favour of (Agni) Vaisvânara. He indeed is a king, leading all beings to gloriousness 1. As soon as born from here he looks over this whole world. Vaisvânara unites with the Sun 2.
May we enjoy the loving kindness of Vaiśvanara,
For he is the king, the orderer of the worlds
Hence born he discerneth all the (earth),
Vaiśvanara vieth with the sun.
Might we be in the favor of Vaiśvānara, for he is the king and full glory of the creatures.
Born from here, he surveys this whole (world). Vaiśvānara aligns himself with the sun.
Wir mögen in des Männerhortes Huld sein; denn er als König ist der Wesen Segner; Von hier entsprossen überschaut dies All er, der Männerhort wetteifert mit der Sonne.
Wir möchten in der Gunst des Vaisvanara stehen, denn er ist ja der König, der Oberherr der Geschöpfe. Hier geboren überschaut er von da dieses All. Vaisvanara wetteifert mit der Sonne.
Да будем мы в милости у Вайшванары:
Ведь он царь, высший властитель существ.
Рожденный отсюда, он озирает все это.
Вайшванара равняется на солнце.
पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश । वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥
पृ॒ष्टः । दि॒वि । पृ॒ष्टः । अ॒ग्निः । पृ॒थि॒व्याम् । पृ॒ष्टः । विश्वाः॑ । ओष॑धीः । आ । वि॒वे॒श॒ । वै॒श्वा॒न॒रः । सह॑सा । पृ॒ष्टः । अ॒ग्निः । सः । नः॒ । दिवा॑ । सः । रि॒षः । पा॒तु॒ । नक्त॑म् ॥
अयं वैश्वानरः अग्निः दिवि द्युलोके आदित्यात्मना पृष्टः संस्पृष्टः यद्वा निषिक्तो निहितो वर्तते । तथा पृथिव्यां भूमौ गार्हपत्यादिरूपेण पृष्टः संस्पृष्टो निहितो वा । तथा विश्वाः सर्वाः ओषधीः पृष्टः संस्पृष्टः सः अग्निः आ विवेश पाकार्थमन्तः प्रविष्टवान् । अन्तःप्रविष्टेन पार्थिवेनाग्निना' हि सर्वा ओषधयः पच्यन्ते। सहसा परेषामसाधारणेन बलेन पृष्टः संस्पृष्टः वैश्वानरः नः अस्मान् दिवा अह्नि रिषः हिंसतः शत्रोः पातु रक्षतु । तथा सः वैश्वानरः नक्तं रात्रवप्यस्मान् हिंसकात् पातु ॥ पृष्टः । ‘ स्पृश संस्पर्शने '। छान्दसः सकारलोपः । यद्वा । ‘ पृषु सेचने ' । निष्ठायां यस्य विभाषा ' इति इट्प्रतिषेधः । दिवि । ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वम् । पृथिव्याम् ।' उदात्तयण: ' इति विभक्तिरुदात्ता । रिषः । रिष हिंसायाम् ' । ‘ क्विप् च' इति क्विप् ।' सावेकाचः' इति पञ्चम्या उदात्तत्वम् ।
“Agni, who is present in the sky, and present upon earth, and who, present, has pervaded all herbs; may the Agni Vaiśvānara, who is present in vigour, guard us night and day, against our enemies”
Present in heaven, in earth, all-present Agni,--all plants that grow on ground hath he pervaded.
May Agni, may Vaisvanara with vigour, present, preserve us day and night from foemen.
Agni who has been looked and longed for 1 in Heaven, who has been looked for on Earth—he who has been looked for, has entered all herbs. May Agni Vaisvânara, who has strongly been looked for, protect us from harm by day and by night.
Desired in the sky, Agni, desired on earth,
Desired he entereth all the plants;
Agni Vaiśvanara eagerly desired,
May he by day [1] and night protect us from the foe.
Sought in heaven and sought on earth, being sought, Agni entered all the plants.
Sought forcefully, let Agni Vaiśvānara protect us from harm by day and by night.
Begehrt im Himmel Agni und auf Erden, begehrt auch ging er ein in alle Pflanzen, Mit Kraft begehrt der Hort der Männer, Agni, er schütze uns bei Tag und Nacht vor Feinden.
Im Himmel gesucht, auf Erden gesucht ist der gesuchte Agni in alle Pflanzen eingegangen. Mit Kraft gesucht wird der Agni Vaisvanara; er soll uns am Tag und Nachts vor Schaden behüten.
Тот, кого ищут на небе, кого ищут на земле,
Агни, которого ищут, вошел во все растения.
Агни-Вайшванара, которого решительно ищут,
Да охранит он нас днем от беды, (да охранит) он ночью!
वैश्वा॑नर॒ तव॒ तत्स॒त्यम॑स्त्व॒स्मान्रायो॑ म॒घवा॑नः सचन्ताम् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
वैश्वा॑नर । तव॑ । तत् । स॒त्यम् । अ॒स्तु॒ । अ॒स्मान् । रायः॑ । म॒घवा॑नः । स॒च॒न्ता॒म् । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
हे वैश्वानर तव तत् त्वदीयं तत् अस्माभिः क्रियमाणं कर्म सत्यमस्तु अवितथफल भवतु । ततः अस्मान् मघवानः मघवन्तः धनवन्तः रायः धनवदतिप्रियाः पुत्राः सचन्तां सेवन्ताम् । एवं यदस्माभिः प्रार्थितं नः अस्मदीयं तत् मित्रः अहरभिमानी देवः वरुणः रात्र्यभिमानी अदितिः अदीना देवमाता सिन्धुः स्यन्दनशीलोदकाभिमानी देवः । उतशब्दः समुच्चये । एते सर्वे मित्रादयः ममहन्तां पूजयन्ताम् पालयन्तामित्यर्थः ॥ ॥ ६ ॥
“Vaiśvānara, may this (your adoration be attended) by real (fruit); may precious treasure wait uon us, and may Mitra, Varuṇa, Aditi--ocean, earth, and heaven, preserve them to us].”
Be this thy truth, Vaisvanara, to us-ward: let wealth in rich abundance gather round us.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.
Vaisvânara! May this be true of thee: may wealth and liberal givers attend us! May Mitra and Varuna grant us this, may Aditi, the Sindhu, the Earth, and the Sky!
Vaiśvānara, let this come true of you: let riches and generous patrons accompany us.
– This let Mitra and Varuṇa grant to us, and Aditi, River, and Earth and Heaven.
O Männerhort, das mache du zur Wahrheit: uns werde Gut zu Theil und reiche Geber. Das mög' uns Mitra, Varuna gewähren, und Aditi, das Meer, und Erd' und Himmel.
Vaisvanara!Das soll dir wahr werden: Uns sollen Reichtümer und freigebige Gönner zufallen. Das sollen uns Mitra, Varuna gewähren, Aditi, Sindhu, Erde und Himmel!
О Вайшванара, да будет это у тебя истинно:
Да последуют за нами богатства и щедрые покровители!
Пусть нам щедро это даруют Митра, Варуна,
Адити, Синдху, Земля и Небо!