जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒ वेद॑: । स न॑: पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒तात्य॒ग्निः ॥
ज॒तऽवे॑दसे । सु॒न॒वा॒म॒ । सोम॑म् । अ॒रा॒ति॒ऽय॒तः । नि । द॒हा॒ति॒ । वेदः॑ । सः । नः॒ । प॒र्ष॒त् । अति॑ । दुः॒ऽगानि॑ । विश्वा॑ । ना॒वाऽइ॑व । सिन्धु॑म् । दुः॒ऽइ॒ता । अति॑ । अ॒ग्निः ॥
जातवेदसे जातानामुत्पत्तिमतां सर्वेषां वेदित्रे यद्वा जातैः सर्वैः प्राणिभिर्ज्ञायमानाय जातधनाय जातप्रज्ञाय वा अग्नये लतारूपं सोमं सुनवाम अभिषुणुयाम । जातवेदोगुणकमग्निं यष्टुं सोमाभिषवं करवामेत्यर्थः । सः अग्निः अरातीयतः अरातिं शत्रुमिवास्मानाचरतः शत्रोः वेदः धनं नि दहाति नितरां दहतु भस्मीकरोतु । अपि च सः अग्निः नः अस्मान् विश्वा विश्वानि सर्वाणि दुर्गाणि दुर्गमनानि भोक्तुमशक्यानि दुःखानि अति पर्षत् अतिपारयतु अतिक्रमय्य दुःखरहितं सुखं प्रापयतु । तत्र दृष्टान्तः । नावेव सिन्धुम् । यथा कश्चित् कर्णधारो ग्राहादिभिर्दुष्टसत्त्वैराकुलितां नदीं नावा तारयति तद्वत् । तथा दुरिता दुरितानि दुःखहेतुभूतानि पापानि अस्मान् अग्निः अति पारयतु । दुःखनिमित्तात् पापादपि अस्मानुत्तारयत्वित्यर्थः । अत्र निरुक्तं-जातवेदाः कस्मात् जातानि वेद जातानि वैनं विदुर्जाते जाते विद्यत इति वा जातवित्तो वा जातधनो वा जातविद्यो वा जातप्रज्ञो वा यत्तज्जातःपशूनविन्दतेति तज्जातवेदसो जातवेदस्त्वमिति हि ब्राह्मणम्' ( निरु. ७. १९) इत्यादि ॥ जातवेदसे । जातानि वेत्तीति जातवेदाः। गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च' इति वचनात् कारकपूर्वात् वेत्तेरसुन् पूर्वपदप्रकृतिस्वरत्वं च । अरातीयतः । न विद्यते रातिर्दानमस्मिन्नित्यरातिः शत्रुः । तमिव अस्मानाचरति । 'उपमानादाचारे ' ( पा. सू. ३. १. १०) इति उपमानभूतात् कर्मणः क्यच् । क्यजन्तात् लटः शतृ । ‘ शतुरनुमः' इति ङसः उदात्तत्वम् । दहाति । ‘ दह भस्मीकरणे '। लेटि आडागमः । विद्यते लभ्यते इति वेदः धनम् । विद्लृ लाभे '। औणादिकः कर्मणि असुन् । पर्षत् । ‘ पॄ पालनपूरणयोः' । अस्मात् अन्तर्भावितण्यर्थात् लेटि अडागमः । ‘ सिब्बहुलं लेटि' इति सिप् । दुर्गाणि । दुःखेन गम्यते एष्विति ‘सुदुरोरधिकरणे ' इति गमेः डः ॥ ॥ ७ ॥
“We offer oblations of Soma to Jātavedas, may he consume the wealth of those who feel enmity against us; may he transport us over all difficulties; may Agni convey us, as in a boat over a river, across all wickedness.”
FOR Jatavedas let us press the Soma: may he consume the wealth of the malignant.
May Agni carry us through all our troubles, through grief as in a boat across the river.
Let us press Soma for Gâtavedas 1. May he burn down the property of the niggard 2. May he, Agni, bring us across all troubles, across all difficulties, as across a stream with a boat.
For Jātavedas we will press soma. He will burn down the property of the hostile.
He will carry us across all difficult passages, across difficult transits, as if with a boat across a river—Agni.
Dem Wesenkenner lasst uns Soma brauen, des Bösen Reichthum möge er verbrennen, Uns fahre Agni über alle Leiden durch die Gefahr, wie auf dem Schiff durch Stromflut.
Dem Jatavedas wollen wir Soma pressen; er soll das Besitztum des Mißgünstigen niederbrennen. Er führe uns über alle Schwierigkeiten, Agni über die Fährlichkeiten wie mit dem Schiff über den Strom.
Мы хотим выжать сому для Джатаведаса.
Да спалит он имущество враждебного!
Да перевезет он нас через все трудности,
Как на лодке через реку, Агни – через опасности!