अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग॒न्वान्तम॑सो॒ ज्योति॒षागा॑त् । अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ॥
अग्ने॑ । बृ॒हन् । उ॒षसा॑म् । ऊ॒र्ध्वः । अ॒स्था॒त् । निः॒ऽज॒ग॒न्वान् । तम॑सः । ज्योति॑षा । आ । अ॒गा॒त् । अ॒ग्निः । भा॒नुना॑ । रुश॑ता । सु॒ऽअङ्गः॑ । आ । जा॒तः । विश्वा॑ । सद्मा॑नि । अ॒प्राः॒ ॥
बृहन् महानेषोऽग्निः उषसाम् अग्रे उषसामुपर्युषःकाले ऊर्ध्वः प्रज्वलितः सन् ज्वालारूपेण अस्थात् तिष्ठति। ततः तमसः। रात्रिनामैतत् । रात्रेः निर्जगन्वान् निर्गतः ॥ गमेः क्वसाविडभावे रूपम् ॥ निगतो निष्क्रान्तवान् सोऽग्निः ज्योतिषा स्वीयेन तेजसा लक्षितः सन् आगात् । गार्हपत्याद्विह्रियमाण आहवनीयं प्रत्यागच्छति । अनन्तरं स्वङ्गः शोभनज्वालावयवः जातः कर्मार्थं समुत्पन्न एषः अग्निः रुशता। रोचतेर्ज्वलतिकर्मण इदं रूपम् । आरोचमानेन । यद्वा । रुशतिर्हिंसार्थः। तमसां हिंसकेन । भानुना तेजसा विश्वा सद्मानि सर्वाल्ँलोकान् यद्वा सदनानि यज्ञगृहाणि आ अप्राः आपूरयति । ‘प्रा पूरणे'।' तिङां तिङो भवन्ति' इति तिपः सिबादेशः । अत्र वाजसनेयकम्-‘अग्रे बृहन्नुषसामूर्ध्वो अस्थादित्यग्रे ह्येष बृहन्नुषसामूर्ध्वस्तिष्ठति । निर्जगन्वान्तमसो ज्योतिषागादिति निर्जगन्वान् रात्रेस्तमसो ज्योतिषैति । अग्निर्भानुना रुशता स्वङ्ग इत्यग्निर्वा एष भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्रा इतीमे वै लोका विश्वा सद्मानि तानेष जात आपूरयति' (श. ब्रा. ६. ७. ३. १०) इति ॥
“The great fire from beginning of dawn has sprung aloft, and coming forth from the darkness has comewith radiance. Agni, the bright-bodied, as soon as born, fills all dwellings with shining light.”
HIGH hath the Mighty risen before the dawning, and come to us with light from out the darkness.
Fair-shapen Agni with white-shining splendour hath filled at birth all human habitations.
At the forefront of the dawns he has stood upright on high. Having gone out from darkness, he has come here with light.
With his luminous beam, Agni, beautiful of limb, has filled all the seats at his birth.
Beim Morgen-Anbruch steht der hohe aufrecht, mit Lichtschein kommt er aus dem Dunkel steigend, Mit hellem Glanz hat Agni, schön an Gliedern, geboren nun erfüllt die Sitze alle.
Noch vor den Morgenröten hat er sich hoch aufgerichtet; aus dem Dunkel heraustretend ist er mit seinem Lichte gekommen. Agni mit hellem Scheine, von schönen Gliedern hat eben geboren alle Wohnsitze erfüllt.
(Еще) до зорь он поднялся высоко вверх;
Выйдя из мрака, он пришел со (своим) светом.
Агни со светлым сиянием, с прекрасными членами,
(Едва) родившись, заполнил все селения.
स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु । चि॒त्रः शिशु॒: परि॒ तमां॑स्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः ॥
सः । जा॒तः । गर्भः॑ । अ॒सि॒ । रोद॑स्योः । अग्ने॑ । चारुः॑ । विऽभृ॑तः । ओष॑धीषु । चि॒त्रः । शिशुः॑ । परि॑ । तमां॑सि । अ॒क्तून् । प्र । मा॒तृऽभ्यः॑ । अधि॑ । कनि॑क्रदत् । गाः॒ ॥
हे अग्ने जातः उत्पन्नः चारुः कल्याणरूपः ओषधीषु ओषधिविकारेश्वरणीषु विभृतः विशेषेण मथितो यद्वा विभृतः आहवनीयाद्त्यामना विविधं ह्रियमाण ओषधीषु वर्तमानः सः त्वं रोदस्योः द्यावापृथियोः गर्भोsसि गर्भो भवसि । अग्निरूप आदित्यरूपश्चेति । किंच चित्रः चित्रवर्णः ‘काली कराली च मनोजवा' (मु. उ. १. २. ४) इत्यादि सप्तजिह्वाभिः नानारूपः यद्वा चित्रश्चायनीयः शिशुः ओषधीनां शिशुरग्निः तमांसि अक्तून् रात्रिवत् कृष्णान् शत्रूंश्च परि भवसि । स्वतेजसाभिभवसि । स त्वं मातृभ्यः मातृभूताभ्य ओषधीभ्यः । अधिः पञ्चम्यर्थद्योतकः । ताभ्यः कनिक्रदत् पुनःपुनः शब्दं कुर्वन् प्र गाः प्रगच्छसि प्रजायसे ॥
“When born, you, O Agni, are the embryo of heaven and earth, beautiful, borne about in the plural nts;variegated, infantine, you disperse the noctural glooms; you issue roaring loudly from the maternal (sources).”
Thou, being born, art Child of Earth and Heaven, parted among the plants in beauty, Agni!
The glooms of night thou, Brilliant Babe, subduest, and art come forth, loud roaring, from thy Mothers.
At your birth you are the embryo of the two world-halves, o Agni, the beloved one dispersed among the plants.
A brilliant babe, circling around the dark shades and the nights, you have come forth from your mothers, constantly roaring.
Du bist erzeugt als Spross der beiden Welten, o Agni, schön vertheilt in die Gewächse; Das lichte Füllen kommt durch Nacht und Dunkel von seinen Müttern her und wiehert laut nun.
Du bist als das Kind der beiden Welten geboren, o Agni, als der Liebling, in den Pflanzen verteilt. Als Wunderkind hast du das Dunkel, die Nächte überwunden. Brüllend bist du aus deinen Müttern hervorgegangen.
Ты рожден как отпрыск двух половин мироздания,
Как любимец, о Агни, разнесенный среди растений.
Ослепительное дитя, ты (пре)одолел мрак (и) ночи.
Громко реви, ты вышел из (своих) матерей.
विष्णु॑रि॒त्था प॑र॒मम॑स्य वि॒द्वाञ्जा॒तो बृ॒हन्न॒भि पा॑ति तृ॒तीय॑म् । आ॒सा यद॑स्य॒ पयो॒ अक्र॑त॒ स्वं सचे॑तसो अ॒भ्य॑र्च॒न्त्यत्र॑ ॥
विष्णुः॑ । इ॒त्था । प॒र॒मम् । अ॒स्य॒ । वि॒द्वान् । जा॒तः । बृ॒हन् । अ॒भि । पा॒ति॒ । तृ॒तीय॑म् । आ॒सा । यत् । अ॒स्य॒ । पयः॑ । अक्र॑त । स्वम् । सऽचे॑तसः । अ॒भि । अ॒र्च॒न्ति॒ । अत्र॑ ॥
विद्वान् जानाना जातः प्रादुर्भूतः बृहन् महान् विष्णुः इत्था इत्थमनेन प्रकारेण विष्णुः स्थापनशीलो ज्ञानादिगुणयुक्तोऽग्निः अस्य इमं तृतीयं त्रयाणां पूरकं त्रितं माम् अभि पाति अभिरक्षतु । 'एकतो द्वितस्त्रित इति त्रयो बभूवुः' (निरु. ४. ६) इति यास्केनोक्तम् । किंच अस्य अग्नेः स्वम् आत्मीयं पयः उदकम् आसा आस्येन यत् यदा अक्रत कुर्वन्ति यजमाना याचन्ते तदानीम् अत्र अस्मिल्ँलोके स्थिताः स्तोतरः सचेतसः समानमनस्का भूत्वैनम् अभ्यर्चन्ति अभिष्टुवन्ति ॥
“May he, who as soon as manifested is vast and wise, and thus (universally) pervading, defend (me),his third (manifestation); and when (the worshippers) ask with their mouths for his own water, animated by onepurpose, they praise him in this world.”
Here, being manifested, lofty Visnu, full wise, protects his own supremest station.
When they have offered in his mouth their sweet milk, to him with one accord they sing forth praises.
In just such a way as Viṣṇu, knowing his farthest (step), at his birth he protects on high the third (seat?).
When with their mouth they have made their own milk [=poetry] for him, they with single mind chant to him here.
Vischnu fürwahr, der Agni's höchsten Ort kennt, beschützt den dritten Ort, der hochgeborne; Wenn dessen Milch zur seinen er gemacht hat, dann preisen ihn die weisen, hier erscheinend.
Als Vishnu dort seinen höchsten Ort kennend, behütet der Geborene, der Hohe, den dritten Geburtsort. Wann sie mit ihrem Munde die ihm gehörige Milch bereitet haben, dann verehren sie ihn hier einmütig.
Как (это свойственно) Вишну, зная свое высшее (местоприбывание),
(Едва) родившись, высокий охраняет третье (местоприбывание).
Когда через (его) уста они получили себе его собственное молоко,
Они, единодушные, воспевают его здесь.
अत॑ उ त्वा पितु॒भृतो॒ जनि॑त्रीरन्ना॒वृधं॒ प्रति॑ चर॒न्त्यन्नै॑: । ता ईं॒ प्रत्ये॑षि॒ पुन॑र॒न्यरू॑पा॒ असि॒ त्वं वि॒क्षु मानु॑षीषु॒ होता॑ ॥
अतः॑ । ऊँ॒ इति॑ । त्वा॒ । पि॒तु॒ऽभृतः॑ । जनि॑त्रीः । अ॒न्न॒ऽवृध॑म् । प्रति॑ । च॒र॒न्ति॒ । अन्नैः॑ । ताः । ई॒म् । प्रति॑ । ए॒षि॒ । पुनः॑ । अ॒न्यऽरू॑पाः । असि॑ । त्वम् । वि॒क्षु । मानु॑षीषु । होता॑ ॥
हे अग्ने अतः । उ इत्यवधारणे । अस्मादेव कारणात् पितुभृतः पितुनान्नेन सर्वस्य जगतो धारयित्र्यः पोषयित्र्यो वा जनित्रीः जनयित्र्य ओषधयः अन्नावृधम् अन्नस्य वर्धकं त्वा त्वाम् अन्नैः हेतुभिः प्रति चरन्ति परिचरन्ति अभिगच्छन्ति । ततस्त्वम् ईम् एना: ताः ओषधीः प्रत्येषि प्रतिगच्छसि । पुनरपि अन्यरूपाः जीर्णा ओषधीर्दावभूतस्त्वं गच्छसि । किंच मानुषीषु मनुष्यजातिषु विक्षु प्रजासु । यद्वा। विश्वग्निहोत्रादिक्रियास्वभिनिविशन्तीषु मानुषीषु मनुष्यजातिषु । होता देवानामाह्वाता होमनिष्पादको वा असि भवसि । मनुष्येषु स्थित इत्यर्थे ब्राह्मणं-- देवो ह्येष मर्त्येषु' (तै. सं. ६. १. ४. ६-७ ) इति ॥
“Therefore, the genitive trices (of all things, the herbs), the cherishers (of all) with food, wait on you whoare the augmenter of food, with (sacrificial) viands; you visit them again, when they have assumed other forms,you among human beings the invoker (of the gods).”
Thence bearing food the Mothers come to meet thee, with food for thee who givest food its increase.
These in their altered form again thou meetest. Thou art Invoking Priest in homes of mortals.
And then your birth-givers [=kindling wood], bringing nurture, proceed toward you, who are strengthened by food, with food;
you go toward them in turn as they (acquire) other forms [=burn]. You are the Hotar among the clans of Manu.
Drum kommen auch die Mütter, die dich nähren, mit Speisen her zu dir, der Speisen gern hat, Und wieder nahest du den neu geschmückten, du bist der Priester in der Menschen Häusern.
Dann kommen dir, dem durch Speise Wachsenden, die Nahrung bringenden Erzeugerinnen mit Speisen entgegen. Zu ihnen kehrst du wieder zurück, wenn die andere Gestalt angenommen haben. Du bist der Opferpriester unter den menschlichen Stämmen.
Поэтому-то несущие питание родительницы к тебе,
Растущему от еды, и приближаются с едой.
И к ним ты снова возвращаешься, когда у них другой облик.
Ты хотар среди людских племен.
होता॑रं चि॒त्रर॑थमध्व॒रस्य॑ य॒ज्ञस्य॑यज्ञस्य के॒तुं रुश॑न्तम् । प्रत्य॑र्धिं दे॒वस्य॑देवस्य म॒ह्ना श्रि॒या त्व१॒॑ग्निमति॑थिं॒ जना॑नाम् ॥
होता॑रम् । चि॒त्रऽर॑थम् । अ॒ध्व॒रस्य॑ । य॒ज्ञस्य॑ऽयज्ञस्य । के॒तुम् । रुश॑न्तम् । प्रति॑ऽअर्धिम् । दे॒वस्य॑ऽदेवस्य । म॒ह्ना । श्रि॒या । त्वम् । अ॒ग्निम् । अति॑थिम् । जना॑नाम् ॥
अध्वरस्य यज्ञस्य होतारम् एतन्नामानमृत्विजं यद्वा होतारं देवानामाह्वातारं चित्ररथं नानारूपरथमध्वरस्य रक्षोभिरहिंसितस्य यज्ञस्य सर्वस्य यज्ञस्य केतुं प्रज्ञापकं पताकास्थानीयं वा रुशन्तं श्वेतवर्णं मह्ना स्वमहत्त्वेन देवस्यदेवस्य सर्वेषां देवानाम् अर्धिम् इन्द्रं प्रति भवन्तम् । यत्सर्वेषामधिमिन्द्रं प्रति' इति ब्राह्मणम् । तादृशं जनानां यजमानानाम् अतिथिम् अतिथिवत् पूज्यम् अग्निं तु क्षिप्रं श्रिया श्रियोऽर्थं वयं स्तुमः ॥
“(We worship) Agni for prosperity, you, who are the invoker of the gods, the many-colouredconveyance of the saacrifice, the brilliant banner of every offering, the surpasser of every other deity in might, theguest of men.”
Priest of the holy rite, with car that glitters, refulgent Banner of each act of worship,
Sharinging every God through might and glory, even Agni Guest of men I summon hither.
(They chant) to the Hotar of the rite, possessing a brilliant chariot, the luminous beacon of every sacrifice,
to Agni, who is the half-sharer with every god in his greatness, but in his beauty the guest of the peoples.
Den Priester ihn des Fests mit lichtem Wagen, der hell erstrahlt als Fahne jedes Opfers, Der gleich an Macht ist mit den Göttern allen, der Menschen Gast, den Agni, schmückt mit Glanz aus.
Den Hotri des Gottesdienstes mit dem wunderbaren Wagen, das hellfarbige Banner jeglichen Opfers, den Agni, der durch seine Größe jeglichem Gotte gleichberechtigt ist, vermöge seines Vorrangs aber der Gast der Menschen ist-
Хотара на обряде, обладающего яркой колесницей,
Светлое знамя каждой жертвы,
Агни, получающего равную долю по сравнению с любым богом благодаря (своему) величию,
Но благодаря (своему) блеску (остающегося) гостем у людей, ( – его я призываю).
स तु वस्त्रा॒ण्यध॒ पेश॑नानि॒ वसा॑नो अ॒ग्निर्नाभा॑ पृथि॒व्याः । अ॒रु॒षो जा॒तः प॒द इळा॑याः पु॒रोहि॑तो राजन्यक्षी॒ह दे॒वान् ॥
सः । तु । वस्त्रा॑णि । अध॑ । पेश॑नानि । वसा॑नः । अ॒ग्निः । नाभा॑ । पृ॒थि॒व्याः । अ॒रु॒षः । जा॒तः । प॒दे । इळा॑याः । पु॒रःऽहि॑तः । रा॒ज॒न् । य॒क्षि॒ । इ॒ह । दे॒वान् ॥
हे राजन् दीप्यमानाग्ने वस्त्राणि आच्छादकानि तेजांसि अध अपि च पेशनानि तेषां तेजसां कार्यशौक्ल्यादीनि रूपाणि । यद्वा । अधानन्तरं पेशनानि । पेश इति हिरण्यनाम । हिरण्यवत् हिरण्यसदृशानि भास्वराणि तेजांसि । वसानः अच्छादयन् पृथिव्याः नाभा नाभौ नाभिस्थानीये इळायाः पदे उत्तरवेद्याम् । एतद्वा इळायास्पदं यदुत्तरवेदीनाभिः' (ऐ. ब्रा. १. २८) इत्याम्नानात् । तस्यां जातः समुत्पन्नः अरुषः अरोचमानो यः अग्निः एवंविधोऽसि स त्वं पुरोहितः पुरतो निहितः पूर्वस्यां दिशि आहवनीयायतने स्थापितः सन् इह अस्मिन् यज्ञे देवान् इन्द्रादीन् यक्षि यज पूजय ॥
“Arrayed in splendid garments, that Agni (abides) on the navel of the earth; do you, royal (Agni), whoare radiant, born on the foot-mark of Iḷā, offer worship here as Purohita to the gods.”
So Agni stands on earth's most central station, invested in well-decorated garments.
Born, red of hue, where men pour out libations, O King, as great High Priest bring the Gods hither.
Agni, donning garments and ornaments on the navel of earth,
ruddy at birth in the footprint of the refreshment—when set in front, o king, sacrifice to the gods here.
Doch er, gehüllt in prächtige Gewänder, der Agni steht im Mittelpunkt der Erde; Geboren, flammend in dem Sitz der Andacht, o König, bring als Opfrer her die Götter.
Nun soll doch Agni kommen, sich in zierliche Gewänder kleidend im Mittelpunkt der Erde! Rötlich geboren mögest du an der Stätte der Labung als Bevollmächtigter, o König, die Götter hier verehren!
И вот одетый в разукрашенные одежды,
Агни (пребывает) на пупе земли.
Рожденный алым, на месте Иды –
Почти здесь богов как пурохита, о царь!
आ हि द्यावा॑पृथि॒वी अ॑ग्न उ॒भे सदा॑ पु॒त्रो न मा॒तरा॑ त॒तन्थ॑ । प्र या॒ह्यच्छो॑श॒तो य॑वि॒ष्ठाथा व॑ह सहस्ये॒ह दे॒वान् ॥
आ । हि । द्यावा॑पृथि॒वी इति॑ । अ॒ग्ने॒ । उ॒भे इति॑ । सदा॑ । पु॒त्रः । न । मा॒तरा॑ । त॒तन्थ॑ । प्र । या॒हि॒ । अच्छ॑ । उ॒श॒तः । य॒वि॒ष्ठ॒ । अथ॑ । आ । व॒ह॒ । स॒ह॒स्य॒ । इ॒ह । दे॒वान् ॥
हे अग्ने त्वम् उभे द्यावापृथिवी द्यावापृथिव्यौ सदा सर्वदा आ ततन्थ आतेनिथ । स्वतेजोभिर्विस्तारयसि खलु ॥ बभूथा ततन्थ' इति थलि निपातितः । तत्र दृष्टान्तः। पुत्रो न यथा पुत्रः मातरा मातापितरौ क्षीणौ धनैस्तनोति तद्वत् । किंच हे यविष्ठ युवतम स त्वम् उशतः कामयमानान् अच्छ अभिलक्ष्य प्र याहि प्रकर्षेणागच्छ । अथ अनन्तरं हे सहस्य सहसो बलस्य पुत्र हे अग्ने त्वम् इह अस्मदीये यज्ञे देवान् इन्द्रादीन् आ वह* प्रापय ॥ ॥२९॥
“You have, ever sustained, Agni, both heaven and earth, as a son (supports) his parents; come,youngest (of the gods), to the presence of those desiring (you); son of strength, bring here the gods.”
Over the earth and over heaven, O Agni, thou, Son, hast ever spread above thy Parents.
Come, Youthfullest! to those who long to meet thee, and hither bring the Gods, O Mighty Victor.
Because you have ever extended through heaven and earth, Agni, as a son extends both his parents,
drive forth to those eager ones and convey the gods here, o youngest
powerful one.
Denn du, o Agni, hältst ja Erd' und Himmel, gleich wie der Sohn die Aeltern fest umschlungen, Geh zu den Göttern, die nach dir verlangen, und fahr sie her, o jüngster, o gewalt'ger.
Denn du, Agni, hast Himmel und Erde, alle beide jederzeit durchzogen, wie der Sohn seine Eltern fortpflanzt. Zieh hin zu den Verlangenden, du Jüngster, und fahre die Götter hierher, du Gewaltiger:
Ты весь, о Агни, небо и землю, обоих
Протягивал всегда, как сын (продолжает своих) родителей.
Двигайся вперед к жаждущим (тебе), о самый юный,
И привези, о могучий, сюда богов!