ओ चि॒त्सखा॑यं स॒ख्या व॑वृत्यां ति॒रः पु॒रू चि॑दर्ण॒वं ज॑ग॒न्वान् । पि॒तुर्नपा॑त॒मा द॑धीत वे॒धा अधि॒ क्षमि॑ प्रत॒रं दीध्या॑नः ॥
ओ इति॑ । चि॒त् । सखा॑यम् । स॒ख्या । व॒वृ॒त्या॒म् । ति॒रः । पु॒रु । चि॒त् । अ॒र्ण॒वम् । ज॒ग॒न्वान् । पि॒तुः । नपा॑तम् । आ । द॒धी॒त॒ । वे॒धाः । अधि॑ । क्षमि॑ । प्र॒ऽत॒रम् । दीध्या॑नः ॥
अत्रास्मिन् सूक्ते वैवस्वतयोर्यमयम्योः संवाद उच्यते । अस्यामृचि यमं प्रति यमी प्रोवाच । तिरः अन्तर्हितमप्रकाशमानम् । निर्जनप्रदेशमित्यर्थः । पुरु चित् बह्वपि विस्तीर्णं च अर्णवं समुद्रैकदेशमवान्तरद्वीपं जगन्वान् गतवती यमी । चित् इति पूजार्थे । पूजितमिष्टम् । श्रेष्ठमित्यर्थः। सखायं गर्भवासादारभ्य सखीभूतं यमं सख्या सख्याय स्त्रीपुरुषसंपर्कजनितमित्रत्वाय ओ ववृत्याम् आवर्तयामि । आभिमुख्येन स्थित्वा लज्जां परित्यज्य त्वत्संभोग करोमीत्यर्थः । ‘धर्मस्य त्वरिता गतिः' इति न्यायेन कामस्य त्वरितत्वात् । अपि च पितुः आवयोर्भविष्यतः पुत्रस्य पितृभूतस्य तवार्थाय अधि क्षमि अधि पृथिव्याम् । पृथिवीस्थानीये ममोदर इत्यर्थः । प्रतरं प्रकृष्टम्। सर्वगुणोपेतमित्यर्थः । नपातं गर्भलक्षणमपत्यं वेधाः विधाता प्रजापतिः दीध्यानः आवयोरनुरूपस्य पुत्रस्य जननार्थमावां ध्यायन आ दधीत। ‘प्रजापतिर्धाता गर्भं दधातु ते ' (ऋ. सं. १०. १८४. १) इत्युक्तत्वात् ॥ ।
“(Yami speaks). I invite my friend to friendship, having come over the vast and desert ocean; mayVedhas, after reflecting, plural ce in the earth the offsprig (of you) the father, edowed with excellent qualities.”
FAIN would I win my friend to kindly friendship. So may the Sage, come through the air's wide ocean,
Remembering the earth and days to follow, obtain a son, the issue of his father.
[Yamī:] I would turn my partner right here to partnership—even though he has gone across many (realms), across the flood.
A (ritual) adept should provide a grandson for his father, envisioning his furtherance on the earth.
»Zur schuld'gen Freundschaft will den Freund ich locken; durch Luft und Meer auch würd' ich zu ihm eilen; Der holde setze her den Spross des Vaters, hinblickend auf den künft'gen Stamm auf Erden.«
Ich möchte doch den Freund zu einem Freundschaftsdienst bewegen. Auch wenn er noch so viele Meilen über das Meer gekommen ist, sollte er kommen. Ein musterhafter Mann soll einen Enkel seines Vaters bekommen, wenn er weiter die Zukunft der Erden bedenkt.
Как бы я хотела повернуть друга к дружбе,
Даже если он прошел много (еджан) через бурный поток!
Предусмотрительный хотел бы иметь внука (своего) отца,
Представляя себе (своего) продолжателя на земле.
Яма:
न ते॒ सखा॑ स॒ख्यं व॑ष्ट्ये॒तत्सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति । म॒हस्पु॒त्रासो॒ असु॑रस्य वी॒रा दि॒वो ध॒र्तार॑ उर्वि॒या परि॑ ख्यन् ॥
न । ते॒ । सखा॑ । स॒ख्यम् । व॒ष्टि॒ । ए॒तत् । सऽल॑क्ष्मा । यत् । विषु॑ऽरूपा । भवा॑ति । म॒हः । पु॒त्रासः॑ । असु॑रस्य । वी॒राः । दि॒वः । ध॒र्तारः॑ । उ॒र्वि॒या । परि॑ । ख्य॒न् ॥
यम आत्मानं परोक्षीकृत्य यमीं प्रत्युवाच । हे यमि ते तव सखा गर्भवासलक्षणेन सखीभूतो यमः एतत् ईदृशं त्वयोक्तं स्त्रीपुरुषलक्षणं सख्यं न वष्टि न कामयते । यत् यस्मात् कारणात् यमी सलक्ष्मा समानयोनित्वलक्षणा विषुरूपा भगिनीत्वाद्विषमरूपा भवाति भवति । तस्मान्न वष्टीत्यर्थः । इदानीं 'तिरः पुरू चिदर्णवं जगन्वान्' इत्यस्य प्रतिवचनमुच्यते । महः महतः असुरस्य प्राणवतः प्रज्ञावतो वा प्रजापतेः पुत्रासः पुत्रभूताः वीराः । ‘वीरो वीरयत्यमित्रान् वेतेर्वा स्याद्गतिकर्मणो वीरयतेर्वा' (निरु. १. ७) इति निरुक्तम् । शत्रूणां विविधमीरयितारः धर्तारः धारयितारः दिवः द्युलोकस्य । प्रदर्शनमेतत् । द्युप्रभृतीनां लोकानामित्यर्थः । - - - ॥
“(Yama speaks). Your friend desires not this friendship, for although of one origin, she is of differentform; the hero sons of the great asura (are) the upholders of heaven, enjoying vast renown.”
Thy friend loves not the friendship which considers her who is near in kindred as stranger.
Sons of the mighty Asura, the Heroes, supporters of the heavens, see far around them.
[Yama:] Your partner doesn’t want that partnership, in that she [=sexual partner] will have the same “marks” [=family characteristics] (though) dissimilar form [=gender].
The sons of the great one, the heroes of the Lord, the upholders of
heaven, look around widely.
Dein Freund verlangt nach solcher Freundschaft nimmer, als wär die gleichentsprungne fremden Ursprungs, Des grossen Geistes Söhne, seine Mannen, des Himmels Träger können weithin schauen.
Solche Freundschaft will dein Freund nicht, daß Blutsverwandtes wie Fremdartiges werde. Die Söhne des großen Asura, seine Mannen, des Himmels Erhalter schauen weit und breit umher.
Твой друг не хочет такой дружбы,
Когда (женщина) с одинаковыми признаками становится чужой.
Сыновья великого Асуры, герои,
Поддерживатели неба, смотрят далеко вокруг.
Ями:
उ॒शन्ति॑ घा॒ ते अ॒मृता॑स ए॒तदेक॑स्य चित्त्य॒जसं॒ मर्त्य॑स्य । नि ते॒ मनो॒ मन॑सि धाय्य॒स्मे जन्यु॒: पति॑स्त॒न्व१॒॑मा वि॑विश्याः ॥
उ॒शन्ति॑ । घ॒ । ते । अ॒मृता॑सः । ए॒तत् । एक॑स्य । चि॒त् । त्य॒जस॑म् । मर्त्य॑स्य । नि । ते॒ । मनः॑ । मन॑सि । धा॒यि॒ । अ॒स्मे इति॑ । जन्युः॑ । पतिः॑ । त॒न्व॑म् । आ । वि॒वि॒श्याः॒ ॥
पुनरपि यमी यमं प्रत्युवाच । घ इति निपातोऽप्यर्थे । हे यम ते प्रसिद्धाः अमृतासः प्रजापत्यादयो देवा अपि एतत् ईदृशं शास्त्रेणागम्यत्वेनोक्तं त्यजसम्। त्यज्यते परस्मै प्रदीयते इति त्यजसं दुहितृभगिन्यादिस्त्रीजातम् । उशन्ति कामयन्ते । एकस्य चित् सर्वस्य जगतः मुख्यस्यापि प्रजापत्यादेः स्वदुहितृभगिन्यादीनां संबन्धोऽस्तीति शेषः । अतः कारणात् ते तव मनः चित्तम् अस्मे अस्माकम् । ममेत्यर्थः। मनसि चित्ते नि धायि निधीयताम् । अहं त्वां कामये त्वं मामपि कामयस्वेत्यर्थः । अपि च । जन्युः इति लुप्तोपममेतत् । जन्युरिव यथा जनयिता प्रजापतिः पतिः भर्ता भूत्वा स्वदुहितुः शरीरं संभोगेनाविष्टवान् तथा त्वमपि मम पतिर्भूत्वा तन्वं मदीयं शरीरम् आ विविश्याः संभोगेनाविश । योनौ प्रजननप्रक्षेपोपगूहनचुम्बनादिना मां संभुङ्क्ष्वेत्यर्थः ॥
“(Yami speaks). The immortals take plural asure in (a union) like this which is forbidden to every mortal; letyour mind then concur with mine, and as the progenitor (of all) was the husband (of his daughter), do you enjoymy person n.”
Yea, this the Immortals seek of thee with longing, progeny of the sole existing mortal.
Then let thy soul and mine be knit together, and as a loving husband take thy consort.
[Yamī:] The immortals do want this: a legacy of the one and only mortal. Your mind has (already) been set upon my mind, upon me. As husband, you should enter the body of (your) wife.
»Die Götter eben sind's, die dieses wollen, vom einzigen der Menschen einen Sprössling; Es ist uns eng geschlossen Seel' an Seele, so geh als Gatte in der Gattin Leib ein.«
Die Unsterblichen wollen gerade das: einen Leibeserben von dem einzigen Sterblichen. Dein Sinn soll sich unserem Sinne fügen; als Gatte sollst du in deines Weibes Leib eingehen!
Эти бессмертные желают вот чего:
Отпрыска от одного единственного смертного.
Пусть твоя мысль покоится в нашей мысли!
Пусть войдешь ты в (мое) тело, как муж к жене!
Яма:
न यत्पु॒रा च॑कृ॒मा कद्ध॑ नू॒नमृ॒ता वद॑न्तो॒ अनृ॑तं रपेम । ग॒न्ध॒र्वो अ॒प्स्वप्या॑ च॒ योषा॒ सा नो॒ नाभि॑: पर॒मं जा॒मि तन्नौ॑ ॥
न । यत् । पु॒रा । च॒कृ॒म॒ । कत् । ह॒ । नू॒नम् । ऋ॒ता । वद॑न्तः । अनृ॑तम् । र॒पे॒म॒ । ग॒न्ध॒र्वः । अ॒प्ऽसु । अप्या॑ । च॒ । योषा॑ । सा । नः॒ । नाभिः॑ । प॒र॒मम् । जा॒मि । तत् । नौ॒ ॥
यमो यमीं पुनर्रूमीते । पुरा पूर्वं प्रजापतिः यत् अगम्यागमनमपरिमितसामर्थ्योपेतत्वात् कृतवान् तथा वयं न चकृम नाकुर्म । वयम् ऋता ऋतानि सत्यानि वदन्तः ब्रुवन्तः अनृतम् असत्यं कद्ध कदा खलु नूनं निश्चितं रपेम वदेम । न कदाचिदपीत्यर्थः । अगम्यागमनं न कुर्म इति यावत् । अपि च अप्सु । अन्तरिक्षनामैतत् । अन्तरिक्षे स्थितः गन्धर्वः गवां रश्मीनामुदकानां वा धारयिता आदित्यः अप्या अन्तरिक्षस्था सा प्रसिद्धा योषा आदित्यस्य भार्या सरण्यूः च नः नावावयोः नाभिः उत्पत्तिस्थानम् । मातापितरावित्यर्थः । तत् तस्मात् कारणात् नौ आवयोः जामि बान्धवमुत्कृष्टम्। एवं सत्यावयोरगम्यागमनरूपत्वात् कर्तुमयुक्तं तस्मादेतन्न करोमीत्यभिप्रायः ॥
“(Yama speak). We have not done what was done formerly; for how can we who speak truth, utter nowthat which is untrue? Gandharva (the sun) was in the watery (firmament), and the water was his bride. She is ourcommon hence our near affinity.”
Shall we do now what we ne'er did aforetime? we who spake righteously now talk impurely?
Gandharva in the floods, the Dame of Waters-such is our bond, such our most lofty kinship.
[Yama:] What we have not done before, should (we do it) now? While proclaiming truths, we would [/should we] murmur untruth?
The Gandharva in the waters and the watery maiden—that is our
umbilical tie; therefore our kinship is of the highest.
Wie? sollen jetzt wir thun, was nie wir thaten, das Rechte redend doch dem Unrecht fröhnen? Gandharva in dem Luftmeer und die Meerfrau sind Aeltern uns, und wir die Nächstverwandten.
Was wir früher nicht getan haben, sollen wir das jetzt tun? Das Rechte redend würden wir Unrechtes flüstern. Gandharva in dem Wasser und die Wasserfrau, die sind unser Ursprung, das ist unsere höchste Blutsverwandtschaft.
Чего раньше мы не делали, как же это (сделать) сейчас?
(Громко) говоря истинное, шептать мы будем неистинное?
Гандхарва в водах и водяная женщина –
Это наше происхождение, это наше высшее родство.
Ями:
गर्भे॒ नु नौ॑ जनि॒ता दम्प॑ती कर्दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः । नकि॑रस्य॒ प्र मि॑नन्ति व्र॒तानि॒ वेद॑ नाव॒स्य पृ॑थि॒वी उ॒त द्यौः ॥
गर्भे॑ । नु । नौ॒ । ज॒नि॒ता । दम्प॑ती॒ इति॒ दम्ऽप॑ती । कः॒ । दे॒वः । त्वष्टा॑ । स॒वि॒ता । वि॒श्वऽरू॑पः । नकिः॑ । अ॒स्य॒ । प्र । मि॒न॒न्ति॒ । व्र॒तानि॑ । वेद॑ । नौ॒ । अ॒स्य । पृ॒थि॒वी । उ॒त । द्यौः ॥
त्वष्टा रूपाणां कर्ता सविता सर्वेषां शुभाशुभस्य प्रेरकः विश्वरूपः सर्वात्मकः देवः दानादिगुणयुक्तः जनिता जनयिता प्रजापतिः गर्भे नु गर्भावस्थायामेव नौ आवां दंपती जायापती कः कृतवान् एकोदरे सहवासित्वात् । अस्य प्रजापतेः व्रतानि कर्माणि नकिः प्र मिनन्ति न केचित् प्रहिंसन्ति । न लोपयन्तीत्यर्थः । अतः कारणाद्गर्भावस्थायामेवावयोः प्रजापतिकृते दंपतित्वे सति संभोगं कुर्वित्यर्थः । अपि च नौ आवयोः अस्य इदं मातुरुदरे सहवासजनितं दंपतित्वं पृथिवी भूमिः वेद जानाति । उत अपि च द्यौः द्युलोकोऽपि जानाति ॥ ॥ ६ ॥
“(Yami speaks). The divine omniform genitive rator Tvaṣṭā, the progenitor, made us two husband andwife, even in the womb: none frustrate his undertaking; earth and heaven are conscious of this our (union).”
Even in the womb God Tvastar, Vivifier, shaping all forms, Creator, made us consorts.
None violates his holy ordinances: that we are his the heavens and earth acknowledge.
[Yamī:] (Even) in the womb the Begetter made us two a married couple, god Tvaṣṭar, the impeller who provides all forms.
No one transgresses his commandments. Heaven and Earth take heed of this about us.
»Im Mutterleib schon zeugte uns zu Gatten Gott Tvaschtar, der gestaltenreiche Bildner, Und dessen Ordnung darf man nicht verletzen, dess sind uns Zeugen Himmel auch und Erde.«
Schon im Mutterleib hat uns der Schöpfer zu Ehegatten gemacht, der Gott Tvastri, der Bestimmer, der alle Formen bildet. Nicht übertreten sie seine Gebote; dessen sind uns Erde und Himmel Zeugen.
Ведь еще в утробе прародитель создал нас двоими супругами,
Бог Тваштар, побудитель, творящий все формы.
Никто не нарушает его обетов.
Свидетели нам в этом – Земля и Небо.
Яма:
को अ॒स्य वे॑द प्रथ॒मस्याह्न॒: क ईं॑ ददर्श॒ क इ॒ह प्र वो॑चत् । बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ कदु॑ ब्रव आहनो॒ वीच्या॒ नॄन् ॥
कः । अ॒स्य । वे॒द॒ । प्र॒थ॒मस्य॑ । अह्नः॑ । कः । ई॒म् । द॒द॒र्श॒ । कः । इ॒ह । प्र । वो॒च॒त् । बृ॒हत् । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ । कत् । ऊँ॒ इति॑ । ब्र॒वः॒ । आ॒ह॒नः॒ । वीच्या॑ । नॄन् ॥
प्रथमस्याह्नः संबन्धि अस्य इदमन्योन्यसंगमनं कः वेद जानाति । प्रथमेऽहनि यत्क्रियते तदनुमानमाश्रित्य न कश्चिदपि ज्ञातुं शक्नोतीत्यर्थः । इह अस्मिन् प्रदेशे प्रत्यक्षतः क ईम् इदं संगमनं ददर्श पश्यति कः प्र वोचत् प्रख्यापयति । न कोऽपीत्यर्थः । मित्रस्य वरुणस्य मित्रावरुणयोः बृहत् महत् धाम स्थानमहोरात्रं यदस्ति तत्र नॄन् मनुष्यान् वीच्या नरकेण हे आहनः आहन्तर्मर्यादया हिंसितः । स्वकृतशुभाशुभकर्मापेक्षया मनुष्यादिप्राणिनां नरकपातेन स्वर्गप्रापणेन निग्रहानुग्रहयोः कर्तरित्यर्थः । एवंभूत हे यम त्वं कदु ब्रवः किं वा ब्रवीषि ॥
“(Yama speaks). Who knows anything of this (his) first day (of existence)? Who has beheld it? Whohas here revealed it? The dwelling of Mitra and of Varuṇa is vast. What say you, who punishes men with hell?”
Who knows that earliest day whereof thou speakest? Who hatb beheld it? Who can here declare it?
Great is the Law of Varuna and Mitra. What, wanton! wilt thou say to men to tempt them?
[Yama:] Who knows about this first day? Who has seen it; who will proclaim it here?
Lofty is the ordinance of Mitra and Varuṇa. Will you speak about
superior men [=gods] with deviant (speech), lubricious one?
Wer hat von diesem ersten Tage Kunde? wer sah ihn? und wer mag es hier verkünden? Gross ist die Schöpfung Varuna's und Mitra's. Was sprichst du, üpp'ge, fälschlich von den Männern?
Wer weiß von jenem ersten Tage, wer hat ihn gesehen? Wer kann es hier aussagen? Hoch steht das Gesetz des Mitra und Varuna! Was willst du Zudringliche gegenteilig den Männern sagen?
Кто знает об этом первом дне?
Кто видел его? Кто здесь возвестит?
Высоко установление Митры (и) Варуны.
О сладострастная, что же ты обращаешься с (таким) соблазном к мужчинам?
Ями:
य॒मस्य॑ मा य॒म्यं१॒॑ काम॒ आग॑न्त्समा॒ने योनौ॑ सह॒शेय्या॑य । जा॒येव॒ पत्ये॑ त॒न्वं॑ रिरिच्यां॒ वि चि॑द्वृहेव॒ रथ्ये॑व च॒क्रा ॥
य॒मस्य॑ । मा॒ । य॒म्य॑म् । कामः॑ । आ । अ॒ग॒न् । स॒मा॒ने । योनौ॑ । स॒ह॒ऽशेय्या॑य । जा॒याऽइ॑व । पत्ये॑ । त॒न्व॑म् । रि॒रि॒च्या॒म् । वि । चि॒त् । वृ॒हे॒व॒ । रथ्या॑ऽइव । च॒क्रा ॥
यमस्य तव कामः अभिलाषः यम्यं यमीं मा मां प्रति आगन् आगच्छतु । ममोपरि तव यमस्य संभोगेच्छा जायतामित्यर्थः । किमर्थम् । समाने योनौ एकस्मिन् स्थाने शय्याख्ये सहशेय्याय सहशयनार्थम् । तदनन्तरं पूर्णमनोरथा सती जायेव पत्ये यथा भार्या पत्युरर्थाय परया प्रीत्या विश्वस्ता सती रतिकामा स्वशरीरं प्रकाशयति एवं तन्वम् आत्मीयं शरीरं रिरिच्यां विविच्याम् । त्वदर्थं प्रकाशयेयमित्यर्थः । किंच । 'चित् इति पूरणः । वि वृहेव । ‘वृहू उद्यमने' । धर्मार्थकामान् विविधमुद्यच्छावः । तत्र दृष्टान्तः । रथ्येव चक्रा । रथस्यावयवभूते चक्रे यथा रथमुद्यच्छतस्तद्वत् ॥
“(Yami speaks). The desire of Yama has approached me Yamī, to lie with him in the same bed; I willabandon my person n as a wife to her husband; let us exert ourselves in union like the two wheels of a wagon.”
I, Yami, am possessed by love of Yama, that I may rest on the same couch beside him.
I as a wife would yield me to my husband. Like car-wheels let us speed to meet each other.
[Yamī:] Desire for Yama has come to me, Yamī, to lie together in the same womb [/place].
Like a wife to her husband I would yield my body. We would “let ’er rip” like two chariot wheels.
»Mich, Jamī, hat zum Jama Lust ergriffen, mit ihm vereint zu ruhn in gleichem Bette; Ich geb' mich hin als Gattin dir dem Gatten, wir woll'n uns tummeln wie des Wagens Räder.«
Über mich Yami ist die Liebe zu Yama gekommen, mit ihm auf gleichem Lager zusammen zu liegen. Wie das Weib dem Gatten will ich den Leib hingeben. Wir wollen hin und her schieben wie die Wagenräder!
Ко мне, Ями, пришла любовь к Яме,
Чтобы лечь с ним на совместное ложе.
Как жена мужу, хочу я отдать (свое) тело.
Да будем мы двое кататься туда-сюда, как колеса колесницы!
Яма:
न ति॑ष्ठन्ति॒ न नि मि॑षन्त्ये॒ते दे॒वानां॒ स्पश॑ इ॒ह ये चर॑न्ति । अ॒न्येन॒ मदा॑हनो याहि॒ तूयं॒ तेन॒ वि वृ॑ह॒ रथ्ये॑व च॒क्रा ॥
न । ति॒ष्ठ॒न्ति॒ । न । नि । मि॒ष॒न्ति॒ । ए॒ते । दे॒वाना॑म् । स्पशः॑ । इ॒ह । ये । चर॑न्ति । अ॒न्येन॑ । मत् । आ॒ह॒नः॒ । या॒हि॒ । तूय॑म् । तेन॑ । वि । वृ॒हे॒व॒ । रथ्या॑ऽइव । च॒क्रा ॥
यम्या प्रख्यातो यमः पुनराह । इह अस्मिल्ँलोके देवानां संबन्धिनः ये स्पशः अहोरात्रादयश्चाराः चरन्ति सर्वेषां शुभाशुभलक्षणकर्मप्रत्यवेक्षणार्थं परिभ्रमन्ति एते चाराः क्षणमात्रमपि चरणव्यापाररहिताः न तिष्ठन्ति । न नि मिषन्ति मेषणं न कुर्वन्ति । शुभमशुभं वा यः करोति तं निरीक्षन्ते चेत्यर्थः । हे आहनः ममापहन्त्रि असह्यभाषणेन दुःखयित्रि त्वं मत् मत्तः अन्येन त्वत्सदृशेन सह तूयं क्षिप्रं याहि संगच्छ । गत्वा च तेन वि वृह धर्मार्थकामानुद्यच्छ । तत्र दृष्टान्तः । रथ्येव चक्रा । यथा रथावयवभूते चक्रे रथमुद्यच्छतस्तद्वत् ॥
“(Yama speaks). The spies of the gods, which wander upon earth, never stop, never close their eyeṣAssociate quickly, destructress, with some other than with me, and exert yourselves in union, like the two wheelsof a wagon.”
They stand not still, they never close their eyelids, those sentinels of Gods who wander round us.
Not me-go quickly, wanton, with another, and hasten like a chariot wheel to meet him.
[Yama:] They do not stand still; they do not blink—the spies of the gods who roam about here.
With another than me, lubricious one, drive off straightaway; with him “let ’er rip” like two chariot wheels.
Nie stehen diese still noch schlummern je sie, die hier umwandern als der Götter Späher; Geh, lüsterne, zu einem andern eilig und tummle dich mit dem wie Wagenräder.
Jene stehen nie still, noch schließen sie die Augen, die als Späher der Götter hienieden umgehen. Mit einem anderen als mir geh alsbald, du Zudringliche, mit dem schiebe hin und her wie die Wagenräder!
Не стоят (на месте), не смыкают глаз те,
Что бродят здесь как соглядатаи богов.
К другому, чем я, иди скорее, сладострастная!
С ним катайся туда-сюда, как колеса колесницы!
Ями:
रात्री॑भिरस्मा॒ अह॑भिर्दशस्ये॒त्सूर्य॑स्य॒ चक्षु॒र्मुहु॒रुन्मि॑मीयात् । दि॒वा पृ॑थि॒व्या मि॑थु॒ना सब॑न्धू य॒मीर्य॒मस्य॑ बिभृया॒दजा॑मि ॥
रात्री॑भिः । अ॒स्मै॒ । अह॑ऽभिः । द॒श॒स्ये॒त् । सूर्य॑स्य । चक्षुः॑ । मुहुः॑ । उत् । मि॒मी॒या॒त् । दि॒वा । पृ॒थि॒व्या । मि॒थु॒ना । सब॑न्धू॒ इति॒ सऽब॑न्धू । य॒मीः । य॒मस्य॑ । बि॒भृ॒या॒त् । अजा॑मि ॥
रात्रिभिः अहभिः अहोरात्रयोः अस्मै यमाय कल्पितं भागं सर्वो यजमानः दशस्येत् प्रयच्छतु । सूर्यस्य संबन्धि चक्षुः तेजः मुहुः मुहुः अस्मै यमाय उन्मिमीयात् उदेतु। दिवा पृथिव्या द्यावापृथिवीभ्यां सह मिथुना मिथुनौ सबन्धू समानबन्धू अहोरात्रे अस्मै यमाय । एतज्ज्ञात्वा इयं यमीः यमस्य अजामि अभ्रातरं बिभृयात् धारयतु । यानेन परिगृह्णात्वित्यर्थः ॥
“(Yami speaks). To him (Yam) let every worshipper sacrifice both day and night, on him let the eye ofthe Sun repeatedly rise; (for him may) the kindred pair (day and night unite) with heaven and earth. Yama willadhere to the non- affinity of Yama.”
May Surya's eye with days and nights endow him, and ever may his light spread out before him.
In heaven and earth the kindred Pair commingle. On Yam! be the unbrotherly act of Yama.
[Yamī:] Night and day she would do service to him. She could for an instant trip up the eye of the sun.
The couple has the same (kin-)ties as Heaven and Earth. Yamī could bear the unbrotherly (act) of Yama.
»Sie will bei Tag und Nacht ihm gern bereit stehn, der Sonne Auge mög' ein Weilchen schlummern, Gleich Erd' und Himmel paaren sich Geschwister; gern will des Jama Blutschuld Jamī tragen.«
Sie würde ihm Tag und Nacht gefällig sein, sie würde für ein Weilchen das Auge der Sonne täuschen. Mit Himmel und Erde steht das Paar in gleichem Verwandtschaftsverhältnis. Yami würde des Yama ungeschwisterliches Tun auf sich nehmen.
Ночами и днями она услаждала бы его.
В (один) миг обманула бы глаз солнца.
У (нашей) пары такое же родство, как у Неба и Земли.
Ями взяла бы (на себя) (поступок) Ямы, не подобающей родне.
Яма:
आ घा॒ ता ग॑च्छा॒नुत्त॑रा यु॒गानि॒ यत्र॑ जा॒मय॑: कृ॒णव॒न्नजा॑मि । उप॑ बर्बृहि वृष॒भाय॑ बा॒हुम॒न्यमि॑च्छस्व सुभगे॒ पतिं॒ मत् ॥
आ । घ॒ । ता । ग॒च्छा॒न् । उत्ऽत॑रा । यु॒गानि॑ । यत्र॑ । जा॒मयः॑ । कृ॒णव॑न् । अजा॑मि । उप॑ । बर्बृ॑हि । वृ॒ष॒भाय॑ । बा॒हुम् । अ॒न्यम् । इ॒च्छ॒स्व॒ । सु॒ऽभ॒गे॒ । पति॑म् । मत् ॥
यत्र येषु कालेषु जामयः भगिन्यः अजामि अभ्रातरं पतिं कृणवन् करिष्यन्ति ता तानि उत्तरा उत्तराणि युगानि कालविशेषाः आ गच्छान् आगमिष्यन्ति। घ इति पूरणः । यस्मादेवं तस्माद्धे सुभगे त्वमिदानीं मत् मत्तः अन्यं पतिं भर्तारम् इच्छस्व कामयस्व । तदनन्तरं वृषभाय तव योनौ रेतः सेक्त्रे पुरुषाय आत्मीयं बाहुम् उप बर्बृहि। शयनकाल उपबर्हणं कुरु ॥ ॥ ७ ॥
“(Yama speaks). The subsequent ages will come, when sisters will choose one who is not a brother (asa husband); therefore, auspicious one, choose another husband than me, and make your arm a pillow for yourmate.”
Sure there will come succeeding times when brothers and sisters will do acts unmeet for kinsfolk.
Not me, O fair one,-seek another husband, and make thine arm a pillow for thy consort.
[Yama:] Later generations will come, in which kin will perform the unkindred (act).
Keep plumping up your arm as pillow for a (real) bull. Seek another than me as husband, well-portioned one.
Wohl mögen kommen spätere Geschlechter, wo Blutsverwandte Blutschuld auf sich laden, So schlinge fest den Arm um einen Gatten, wähl' einen andern dir, als mich, o Schöne.
Es werden später solche Geschlechter kommen, wo Geschwister Ungeschwisterliches treiben. Leg einem Bullen deinen Arm unter, such dir einen anderen als mich zum Gatten, Holde!
Придут, конечно, те последующие поколения,
Когда родные будут совершать (поступок), не подобающий родне.
Подкладывай руку для (какого-нибудь) быка,
Ищи себе, прекрасная, другого, чем я, мужа!
Ями:
किं भ्राता॑स॒द्यद॑ना॒थं भवा॑ति॒ किमु॒ स्वसा॒ यन्निॠ॑तिर्नि॒गच्छा॑त् । काम॑मूता ब॒ह्वे॒३॒॑तद्र॑पामि त॒न्वा॑ मे त॒न्वं१॒॑ सं पि॑पृग्धि ॥
किम् । भ्राता॑ । अ॒स॒त् । यत् । अ॒ना॒थम् । भवा॑ति । किम् । ऊँ॒ इति॑ । स्वसा॑ । यत् । निःऽऋ॑तिः । नि॒ऽगच्छा॑त् । काम॑ऽमूता । ब॒हु । ए॒तत् । र॒पा॒मि॒ । त॒न्वा॑ । मे॒ । त॒न्व॑म् । सम् । पि॒पृ॒ग्धि॒ ॥
यमी यमेन प्रत्याख्याता पुनराह । यत् यस्मिन् भ्रातरि सति स्वस्रादिकम् अनाथं नाथरहितं भवति सः भ्राता किम् असत् किं भवति । न भवतीत्यर्थः । किंच यस्यां भगिन्यां सत्यां भ्रातरं निर्ऋतिः दुःखं निगच्छात् नियमेन गच्छति प्राप्नोति सा स्वसा किमु किं वा भवति । भ्रातृभगिन्योश्च परस्परं प्रीतिर्येन केनचिदुपायेनावश्यं कार्येत्यभिप्रायः। साहं काममूता कामेन मूर्च्छिता सती बहु नानाप्रकारम् एतत् ईदृशमुक्तं वक्ष्यमाणं च रपामि प्रलपामि । एतज्ज्ञात्वा मे मम तन्वा शरीरेण तन्वं शरीरं सं पिपृग्धि संपर्चय । संभोगेन संश्लेषय। मां सम्यग्भुङ्क्ष्वेत्यर्थः ॥
“(Yami speaks). Is he a brother whose sister has no lord? Is she a sister (whose brother) misfortuneapproaches? Overcome by desire, I strongly urge this one request; unite your person n with mine.”
Is he a brother when no lord is left her? Is she a sister when Destruction cometh?
Forced by my love these many words I utter. Come near, and hold me in thy close embraces.
[Yamī:] What will “brother” (mean) when there will be no refuge. And what will “sister,” if Dissolution will come down?
Driven by desire many times I murmur this: mingle your body with
my body.
»Was ist der Bruder, wenn er ohne Schutz lässt, und was die Schwester, wenn ihr naht Verderben, Von Lieb' ergriffen fleh' ich stets dies eine, lass deinen Leib mit meinem sich vermischen.«
Was soll dann der Bruder, wenn man schutzlos sein soll? Was die Schwester, wenn das Verderben hereinbrechen soll? Von Liebe toll flüstere ich das immer wieder: Vereine deinen Leib mit dem meinen!
К чему тогда есть брат, если приходится быть беззащитной?
И к чему сестра, если (все равно) обрушится небытие?
Обезумев от любви, я шепчу это снова и снова:
Соедини (свое) тело с моим телом!
Яма:
न वा उ॑ ते त॒न्वा॑ त॒न्वं१॒॑ सं प॑पृच्यां पा॒पमा॑हु॒र्यः स्वसा॑रं नि॒गच्छा॑त् । अ॒न्येन॒ मत्प्र॒मुद॑: कल्पयस्व॒ न ते॒ भ्राता॑ सुभगे वष्ट्ये॒तत् ॥
न । वै । ऊँ॒ इति॑ । ते॒ । त॒न्वा॑ । त॒न्व॑म् । सम् । प॒पृ॒च्या॒म् । पा॒पम् । आ॒हुः॒ । यः । स्वसा॑रम् । नि॒ऽगच्छा॑त् । अ॒न्येन॑ । मत् । प्र॒ऽमुदः॑ । क॒ल्प॒य॒स्व॒ । न । ते॒ । भ्राता॑ । सु॒ऽभ॒गे॒ । व॒ष्टि॒ । ए॒तत् ॥
यमो यमीं प्रत्युक्तवान् । हे यमि ते तव तन्वा शरीरेण तन्वम् आत्मीयं शरीरं न वै सं पपृच्यां नैव संपर्चयामि । नैवाहं त्वां संभोक्तुमिच्छामीत्यर्थः । यः भ्राता स्वसारं भगिनीं निगच्छात् नियमेनोपगच्छति । संभुङ्त्श इत्यर्थः । तं पापं पापकारिणम् आहुः । शिष्टा वदन्ति । एतज्ज्ञात्वा हे सुभगे सुष्ठु भजनीये हे यमि त्वं मत् मत्तः अन्येन त्वद्योग्येन पुरुषेण सह प्रमुदः संभोगलक्षणान् प्रहर्षान् कल्पयस्व समर्थय । ते तव भ्राता यमः एतत् ईदृशं त्वया सह मैथुनं कर्तुं न वष्टि न कामयते । नेच्छति ॥
“(Yama speaks). I will not unite my person n with yours; they call him who approaches a sister, a sinneṛEnjoy plural asure with some other than me; your brother, auspicious one, has no such desire.”
I will not fold mine arms about thy body: they call it sin when one comes near his sister.
Not me,-prepare thy pleasures with another: thy brother seeks not this from thee, O fair one.
[Yama:] Verily, I must not mingle my body with your body. They call him evil who will go down on his sister.
With another than me arrange your pleasures. Your brother does not want this, well-portioned one.
Nicht will mit deinem Leib ich meinen mischen, für sündhaft gilt's, der Schwester sich zu gatten Mit anderem als mir geniess der Freuden, danach verlangt dein Bruder nicht, o schöne.
Nie will ich meinen Leib mit deinem vereinen. Einen Schlechten nennen sie den, der zur Schwester geht. Mit einem anderen als mir bereite dir die Freuden! Dein Bruder wünscht solches nicht, o Holde.
Никогда не стану я соединять (свое) тело с твоим телом!
Плохим называют (того), кто войдет к сестре.
Готовь себе любовные утехи с другим, чем я!
Твой брат, о прекрасная, не хочет этого.
Ями:
ब॒तो ब॑तासि यम॒ नैव ते॒ मनो॒ हृद॑यं चाविदाम । अ॒न्या किल॒ त्वां क॒क्ष्ये॑व यु॒क्तं परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षम् ॥
ब॒तः । ब॒त॒ । अ॒सि॒ । य॒म॒ । न । ए॒व । ते॒ । मनः॑ । हृद॑यम् । च॒ । अ॒वि॒दा॒म॒ । अ॒न्या । किल॑ । त्वाम् । क॒क्ष्या॑ऽइव । यु॒क्तम् । परि॑ । स्व॒जा॒ते॒ । लिबु॑जाऽइव । वृ॒क्षम् ॥
यमी प्रत्युवाच । हे यम त्वं बतः दुर्बलः असि । बत इति निपातः खेदानुकम्पयोः । अनुकम्प्यश्चासि । ते त्वदीयं मनः मनोगतं संकल्पं हृदयं च बुद्धिगतमध्यवसायं च नैव अविदाम वयं न जानीम एव । मत्तः अन्या काचित् स्त्री त्वां परि ष्वजाते किल । तत्र दृष्टान्तद्वयमुच्यते । कक्ष्येव युक्तम् । यथा कक्ष्या रज्जुर्युक्तमात्मना संबद्धमश्वं परिष्वजते तद्वत् । लिबुजेव वृक्षम् । यथा लिबुजा व्रततिर्गाढं वृक्षं परिष्वजते तद्वच्च । अन्यस्यां स्त्रियामासक्तस्त्वं मां परिष्वङ्क्तुं नेच्छसीत्यर्थः ॥
“(Yami speaks). Alas, Yama, you are feeble; we understand not your mind or your heart. Some otherfemale embraces you as a girth a horse, or as a creeper a tree.”
Alas! thou art indeed a weakling, Yama we find in thee no trace of heart or spirit.
As round the tree the woodbine clings, another will cling albout thee girt as with a girdle.
[Yamī:] You jerk, you really are a jerk, Yama! Truly we have not found mind and heart in you.
Another (woman) will surely embrace you, like a girthband a yoked
(horse), like a vine a tree.
»Ein Stein fürwahr bist Jama du, und niemals hab ich dein Herz und deinen Sinn gewonnen, Ein andres Weib wird wie das Ross der Leibgurt und wie den Baum die Ranke dich umschlingen.«
O Elend, ein Elender bist du, Yama! Mitnichten haben wir Sinn und Herz von dir gewonnen. Eine andere wird dich gewiß umschlingen wie der Gurt das geschirrte Roß, wie die Rankepflanze den Baum.
Ну и жалок же ты, Яма! Ни разума,
Ни сердца у тебя не смогли мы отыскать!
Другая, конечно, будет обнимать тебя,
Как подпруга – упряжного (коня), как лиана – дерево!
Яма:
अ॒न्यमू॒ षु त्वं य॑म्य॒न्य उ॒ त्वां परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षम् । तस्य॑ वा॒ त्वं मन॑ इ॒च्छा स वा॒ तवाधा॑ कृणुष्व सं॒विदं॒ सुभ॑द्राम् ॥
अ॒न्यम् । ऊँ॒ इति॑ । सु । त्वम् । य॒मि॒ । अ॒न्यः । ऊँ॒ इति॑ । त्वाम् । परि॑ । स्व॒जा॒ते॒ । लिबु॑जाऽइव । वृ॒क्षम् । तस्य॑ । वा॒ । त्वम् । मनः॑ । इ॒च्छा । सः । वा॒ । तव॑ । अध॑ । कृ॒णु॒ष्व॒ । स॒म्ऽविद॑म् । सुऽभ॑द्राम् ॥
यमः पुनरप्याह । हे यमि त्वम् अन्यमु अन्यं पुरुषमेव सु सुष्ठु परिष्वज । अन्य उ अन्योऽपि पुरुषः त्वां परि ष्वजाते । तत्र दृष्टान्तः । लिबुजेव वृक्षम् । यथा वल्ली गाढं वृक्षं परिष्वजते तद्वत् । तथा सति । वाशब्दः समुच्चये । त्वं तस्य च पुरुषस्य मनः इच्छ कामय । तस्य त्वं वशवर्तिनी भवेत्यर्थः। सः च पुरुषः तव मन इच्छतु । अध अथ परस्परवशवर्तित्वानन्तरं त्वं तेन सह सुभद्रां सुकल्याणीं संविदं परस्परसंभोगसुखसंवित्तिं कृणुष्व कुरुष्व ॥ ॥८॥
“(Yama speaks). Do you, Yamī, embrace another; and let another embrace you as a creeper a tree;seek his affection, let him seek you; and make a happy union.”
Embrace another, Yami; let another, even as the woodbine rings the tree, enfold thee.
Win thou his heart and let him win thy fancy, and he shall form with thee a blest alliance.
[Yama:] You (will embrace) another, Yamī, and another will embrace you—like a vine a tree.
Seek his mind—or he yours. Then make yourself a very happy
compact.
So sollst auch du umschlingen einen andern, und er auch dich so wie der Baum die Ranke; Gewinne dessen Sinn und er den deinen, und schliess mit ihm die glücklichste Vermählung.
Auch du sollst fein einen anderen, o Yami, und dich ein anderer umschlingen wie die Rankepflanze den Baum! Dessen Sinn suche du zu gewinnen oder er deinen und mache mit ihm einen glücklichen Bund!
Другого и ты крепко (обними), о Ями, и другой тебя
Пусть обнимет, как лиана – дерево!
Это его мысль стремись покорить, а он – твою,
И (с ним) добейся счастливого согласия!