उद्बु॑ध्यध्वं॒ सम॑नसः सखाय॒: सम॒ग्निमि॑न्ध्वं ब॒हव॒: सनी॑ळाः । द॒धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीमिन्द्रा॑व॒तोऽव॑से॒ नि ह्व॑ये वः ॥
उत् । बु॒ध्य॒ध्व॒म् । सऽम॑नसः । स॒खा॒यः॒ । सम् । अ॒ग्निम् । इ॒न्ध्व॒म् । ब॒हवः॑ । सऽनी॑ळाः । द॒धि॒ऽक्राम् । अ॒ग्निम् । उ॒षस॑म् । च॒ । दे॒वीम् । इ॒न्द्र॒ऽव॒तः । अव॑से । नि । ह्व॒ये॒ । वः॒ ॥
अग्निं चेष्यमाणा ऋत्विजो वदन्ति । हे सखायः सखिभूता ऋत्विजः समनसः समानमनस्काः परस्परमद्रोग्धारः । अन्योन्यं कर्मानुकूला इत्यर्थः । तादृशा यूयम् उत् उत्कृष्टं बुध्यध्वं जानीध्वम् । उत्तरत्र युष्माकं कर्तव्यमेवोपदिशति । तथा अग्निं सम् इन्ध्वं सम्यग्दीपयध्वम् । ‘ ञिइन्धी दीप्तौ । रौधादिकः । लोटि ‘श्नसोरल्लोपः' इत्यल्लोपः। बहवः अनेके सनीळाः समाननिवासा एकस्यामेव शालायां निवसन्तः । अहं च दधिक्राम् एतन्नामिकां देवताम् अग्निमुषसं च देवीम् एतांस्त्रीन् देवान् इन्द्रावतः इन्द्रेण युक्तान वः युष्मान्’ अवसे अस्माकं रक्षणाय नि नितरां ह्वये आह्वयामि ॥
“Awake, friends, being all agreed; many in number, abiding in one dwelling, kindle Agni. I invoke you,Dadhikra, Agni, and the divine Uṣas, who are associated with Indra, for our protection.”
WAKE with one mind, my friends, and kindle Agni, ye who are many and who dwell together.
Agni and Dadhikras and Dawn the Goddess, you, Gods with Indra, I call down to help us.
Wake up of one mind, o comrades. Kindle the fire together, you who are many, but from the same nest.
I call down Dadhikrā, Agni, and goddess Dawn, all accompanied by Indra, to aid you.
Erwachet nun, ihr gleichgesinnten Freunde, entflammt die Glut, ihr vielen Hausgenossen, Dadhikra, Agni und die Morgengöttin nebst Indra ruf' ich euch herbei zur Hülfe.
Erwachet einmütig, ihr Genossen, zündet das Feuer an, all die vielen Gesellen! Ich rufe zu eurem Beistand Dadhikra, Agni und die Göttin Usas in Begleitung des Indra herbei.
Пробудитесь единодушно, о друзья!
Вместе зажгите огонь, (вы) многие из одного гнезда!
Дадхикра, Агни и богиню Ушас,
Сопровождаемых Индрой, я зову на помощь.
म॒न्द्रा कृ॑णुध्वं॒ धिय॒ आ त॑नुध्वं॒ नाव॑मरित्र॒पर॑णीं कृणुध्वम् । इष्कृ॑णुध्व॒मायु॒धारं॑ कृणुध्वं॒ प्राञ्चं॑ य॒ज्ञं प्र ण॑यता सखायः ॥
म॒न्द्रा । कृ॒णु॒ध्व॒म् । धियः॑ । आ । त॒नु॒ध्व॒म् । नाव॑म् । अ॒रि॒त्र॒ऽपर॑णीम् । कृ॒णु॒ध्व॒म् । इष्कृ॑णुध्वम् । आयु॒धा । अर॑म् । कृ॒णु॒ध्व॒म् । प्राञ्च॑म् । य॒ज्ञम् । प्र । न॒य॒त॒ । स॒खा॒यः॒ ॥
मन्द्रा मन्द्राणि मदकराणि स्तोत्राणि कृणुध्वं कुरुध्वं हे सखायः । ‘कृवि हिंसाकरणयोः । ‘ धिन्विकृण्व्योरच्च ' इत्युप्रत्यर्थः । अकारश्चान्तादेशः । यद्वा करोतेर्व्यत्ययेन श्नुः । तथा धियः कर्माणि चयनप्रदेशकर्षणादीनि आ तनुध्वं विस्तारयत । तथा अरित्रपरणीं कर्षणादिरूपेणारित्रेण पारयितव्यां नावं चयनाख्यां कृणुध्वं कुरुध्वम् । तथा आयुधा आयुधानि सीरयुगादीनि अरम् अलं कृणुध्वम् । हे सखायः ऋत्विजः प्राञ्चं प्रागञ्चनं यज्ञं यष्टव्यमग्निं प्र णयत प्रकर्षेण नयत । आदौ कर्षणं प्राञ्चं कुरुतेत्यर्थः ॥
“Construct exhilarating (hymns), spread forth praises, construct the ship which is propelled by oars,prepare your weapons, make ready, lead forth, O friends, the herald, the adorable (Agni).”
Make pleasant hymns, spin out your songs and praises: build ye a ship equipped with oars for transport.
Prepare the implements, make all things ready, and let the sacrifice, my friends, go forward.
Make things delightful; stretch out your insightful thoughts (on the loom); make a boat that crosses (the water) with its oars.
Set your weapons in order; prepare them right. Lead the sacrifice forth to the east, comrades.
Schafft, was erfreut, und webet die Gebete, durch Ruder lasst eur Schiff zum Ziele dringen; Nun macht zurecht und schmücket die Geräthe, das Opfer lasst, o Freunde, vorwärts schreiten.
Machet die Gedanken wohlgefällig, spannet die auf den Webstuhl, machet ein Schiff, das mit Rudern hinüber bringt, machet die Waffen fertig, haltet sie bereit, leitet das Opfer vorwärts, ihr Genossen!
Сделайте (все) приносящим радость, натяните поэтические мысли,
Создайте ладью, перевозящую на веслах,
Приведите в порядок оружие, держите (его) наготове,
Ведите жертву вперед, о друзья!
यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ॑ वपते॒ह बीज॑म् । गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ इत्सृ॒ण्य॑: प॒क्वमेया॑त् ॥
यु॒नक्त॑ । सीरा॑ । वि । यु॒गा । त॒नु॒ध्व॒म् । कृ॒ते । योनौ॑ । व॒प॒त॒ । इ॒ह । बीज॑म् । गि॒रा । च॒ । श्रु॒ष्टिः । सऽभ॑राः । अस॑त् । नः॒ । नेदी॑यः । इत् । सृ॒ण्यः॑ । प॒क्वम् । आ । इ॒या॒त् ॥
हे सखायो यूयं सीरा सीराणि युनक्त युङ्ध्वमनडुद्भिः सह । युजेर्लोटि ‘ तप्तनप्तनथनाश्च इति तबादेशः । अत एव अङित्त्वात् ' श्नसोरल्लोपः' इत्यल्लोपाभावः। तदर्थं युगा युगानि वि तनुध्वं विस्तारयध्वम् । कृते च योनौ इह सीतायां बीजं ग्राम्यमारण्यं च वपत निधत्त । तिलमाषव्रीह्यादिकं ग्राम्यसप्तकं वेणुश्यामाकनीवारादिकमारण्यबीजसप्तकं च कृष्टाकृष्टयोर्निवपतेत्यर्थः । ‘ सप्त ग्राम्याः कृष्टे सप्तारण्या अकृष्टे ' इत्यापस्तम्बः । तथा नः अस्माकं गिरा स्तुत्या प्रशस्त्या सहास्माकं श्रुष्टिः अन्नं सभराः सभरम् असत् भवति भवतु । तथा नेदीय इत् अन्तिकमेव सृण्यः । सृणिरङ्कुशः । अङ्कुशवद्वक्रो लवित्रः । पक्वं स्तम्बम् एयात् आभिमुख्येन गच्छतु । श्रुष्टिः सभरा असत् सृण्यः पक्वमेयादिति चशब्दानुवृत्तेः ‘चवायोगे प्रथमा ' इति प्रथमस्य निघाताभावः ॥
“Harness the plural ughs, fit on the yokes, now that the womb of earth is ready, sow the seed therein, andthrough our praise may there be abundant food; may (the grain) fall ripe towards the sickle.”
Lay on the yokes, and fasten well the traces: formed is the furrow, sow the seed within it.
Through song may we find bearing fraught with plenty: near to the ripened grain approach the sickle.
Hitch up the plows; stretch the yokes across; in a prepared womb strew the seed here.
If the hearing will be commensurate with our song, the ripe (grain)
should come even closer to our sickles.
Spannt an die Stränge, leget auf die Joche, der Schooss ist fertig, streut hinein den Samen; Durch Lied sei uns Erhörung reich an Gaben, recht nahe komm' die reife Frucht der Sichel.
Schirret die Pflüge an, stecket die Joche auf! Säet hier in den bereiten Schoß den Samen! Und wenn die Erhörung unserer Rede das Gleichgewicht halten wird, dann soll die reife Frucht noch näher als sonst an die Sicheln herankommen.
Запрягайте плуги с сеялками, надевайте хомуты!
Бросайте здесь семя в приготовленное лоно!
Когда же услышание придет в равновесие с (вашей) хвалебной песней,
Спелый (плод) еще ближе подойдет к серпам.
सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क् । धीरा॑ दे॒वेषु॑ सुम्न॒या ॥
सीरा॑ । यु॒ञ्ज॒न्ति॒ । क॒वयः॑ । यु॒गा । वि । त॒न्व॒ते॒ । पृथ॑क् । धीराः॑ । दे॒वेषु॑ । सु॒म्न॒ऽया ॥
कवयः मेधाविन ऋत्विजः सीरा सीराणि कर्षणसाधनानि युञ्जन्ति योजयन्ति । युगा युगान्यपि पृथक् परस्परं वि तन्वते भिन्नप्रदेशानि कुर्वन्ति । कीदृशाः कवयः । देवेषु विषये धीराः धीमन्तः । किमर्थम् । सुम्नया । सुम्नमिति सुखनाम । सुखेच्छया । सुम्नशब्दात् क्यजन्ताद्भावे ‘ अ प्रत्ययात्' इत्यकारप्रत्ययः । ‘सुपां सुलुक्' इति तृतीयाया आकारः । अथवा धीरा धीमन्तो देवेषु सुम्नया सुम्नेन । देवेषु सुखं भूयादिति । ‘सुपां सुलुक्' इति विभक्तेर्याजादेशः ॥
“The wise (priests) harness the plural ughs, they lay the yokes apart, firmly devoted through the desire ofhappiness.”
Wise, through desire of bliss from Gods, the skilful bind the traces fast, And lay the yokes on either side.
The poets hitch up the plows; they stretch the yokes across separately— the insightful ones in search of favor among the gods.
Die es verstehen, spannen die Stränge an und legen die Joche gesondert auf, die weisen voll Liebe zu den Göttern.
Die Seher schirren die Pflüge, sie stecken einzeln die Joche vor, die Kenner, um bei den Göttern Gunst zu erwirken.
Поэты запрягают плуги с сеялками,
По отдельности надевают хомуты
(Эти) мудрые ради благожелательности среди богов.
निरा॑हा॒वान्कृ॑णोतन॒ सं व॑र॒त्रा द॑धातन । सि॒ञ्चाम॑हा अव॒तमु॒द्रिणं॑ व॒यं सु॒षेक॒मनु॑पक्षितम् ॥
निः । आ॒ऽहा॒वान् । कृ॒णो॒त॒न॒ । सम् । व॒र॒त्राः । द॒धा॒त॒न॒ । सि॒ञ्चाम॑है । अ॒व॒तम् । उ॒द्रिण॑म् । व॒यम् । सु॒ऽसेक॑म् । अनु॑पऽक्षितम् ॥
हे सखायः आहावान् । आहूयन्ते पानार्थं गावोऽत्रेत्याहावा निपानानि । अत्रौचित्यादग्निचयनप्रदेशकर्षणार्थगोपानसाधनद्रुममयपानपात्राण्युच्यन्ते । तानाहावान् निः कृणोतन निष्कुरुत । आह्वयतेः ‘ निपानमाहावः (पा. सू. ३. ३. ७४ ) इति निपातितः । थाथादिस्वरः । कृणोतन । ‘ तप्तनप्' इत्यादिना तनप् । पित्त्वेनाङित्त्वाद्गुणः । ‘ श्नाभ्यस्तयोरातः' इत्याकारलोपः । किमर्थमाहावकरणं वरत्रस्थापनं चेति । अत्रोच्यते । वयम् अवतम् अवटं सिञ्चामहै। कीदृशमवटम् । उद्रिणम् उद्राववन्तं सुषेकं सुष्ठु सेक्तुं शक्यम् अनुपक्षितम् अनुपक्षीणं कदाचिदप्युदकोपक्षयरहितम्॥
“Set up the cattle-troughs, bind the straps to it; let us pour out (the water of) the well, which is full ofwater, fit to be poured out, and not easily exhausted.”
Arrange the buckets in their place securely fasten on the straps.
We will pour forth the well that hath a copious stream, fair-flowing well that never fails.
Bring out the buckets; fasten the cords together.
Let us dip out the watery wellspring that is easy to dip, unfailing.
Machet die Eimer zurecht, setzet die Riemen daran; wir wollen den wasserreichen Brunnen ausgiessen, den reichlich strömenden, unversieglichen.
Machet die Wassertröge fertig, befestiget die Seile! Aus dem wasserspendenden Brunnen wollen wir schöpfen, aus dem gut zu schöpfen ist, der nicht versiegt!
Приготовьте ведра,
Привяжите ремни:
Мы хотим черпать (воду) из колодца, полного воды,
Легко отдающего воду, из неиссякающего.
इष्कृ॑ताहावमव॒तं सु॑वर॒त्रं सु॑षेच॒नम् । उ॒द्रिणं॑ सिञ्चे॒ अक्षि॑तम् ॥
इष्कृ॑तऽआहावम् । अ॒व॒तम् । सु॒ऽव॒र॒त्रम् । सु॒ऽसे॒च॒नम् । उ॒द्रिण॑म् । सि॒ञ्चे॒ । अक्षि॑तम् ॥
इष्कृताहावं संस्कृताहावं अवतम् अवटं द्रोणं सिञ्चे सेचयामि । पुनः कीदृशमवतम् । सुवरत्रं शोभनवरत्रोपेतं सुषेचनं शोभनोदकसेकोपेतम् उद्रिणम् उद्राववन्तम् अक्षितम् अक्षीणम्॥॥१८॥
“I pour out (the water of) the well, whose cattle troughs are prepared, well fitted with straps, fit to bepoured out, full of water, inexhaustible.”
I pour the water from the well with pails prepared and goodly straps,
Unfailing, full, with plenteous stream.
The wellspring with its buckets prepared, with good cords, easy to dip, watery, unfailing do I dip.
Den Brunnen mit fertig gemachtem Eimer und schönem Riemen, den reichlich strömenden, den wasserreichen unversieglichen giesse ich aus.
Aus dem Brunnen mit dem bereiten Wassertrog, mit guten Seilen, aus dem gut zu schöpfen ist, aus dem wasserspendenden, der nicht versiegt, schöpfe ich.
Я черпаю из колодца с готовым ведром,
С хорошим ремнем, из легко отдающего воду,
Полного воды, неиссякающего.
प्री॒णी॒ताश्वा॑न्हि॒तं ज॑याथ स्वस्ति॒वाहं॒ रथ॒मित्कृ॑णुध्वम् । द्रोणा॑हावमव॒तमश्म॑चक्र॒मंस॑त्रकोशं सिञ्चता नृ॒पाण॑म् ॥
प्री॒णी॒त । अश्वा॑न् । हि॒तम् । ज॒या॒थ॒ । स्व॒स्ति॒ऽवाह॑म् । रथ॑म् । इत् । कृ॒णु॒ध्व॒म् । द्रोण॑ऽआहावम् । अ॒व॒तम् । अश्म॑ऽचक्रम् । अंस॑त्रऽकोशम् । सि॒ञ्च॒त॒ । नृ॒ऽपान॑म् ॥
हे ऋत्विजो यूयम् अश्वान् ब्यापनशीलान् बलीवर्दान् प्रीणीत उचितघासोदकादिप्रदानेन प्रीणयत । यथा क्षेत्रकर्षणाय प्रभवन्ति तथा कुरुतेत्यर्थः । तथा कृत्वा हितं चयनायोचितं कर्षणं जयाथ जयथ संपादयथ । तथा रथं चयनाख्यं हलाख्यं वा स्वस्तिवाहम् इत् सुखस्य वाहकमेव कृणुध्वं कुरुध्वम् । तदर्थं द्रोणाहावम् । आह्वयन्त्यत्र पानार्थं बलीवर्दानित्याहावो जलाधारः पात्रविशेषः । स च द्रोणमयो द्रुममय आहावो यस्य तादृशम् अवतम् अवटवन्निम्नभूतम् अश्मचक्रं व्याप्तक्रमणमश्ममयचक्रं वा अंसत्रकोशम् अंसत्रं कवचं यथा कायं रक्षति तद्वदुदकस्य कोशं कोशस्थानीयं नृपाणं नृणां कर्मनेतॄणां पानयोग्यमीदृशमवतं सिञ्चत हे ऋत्विजः । एवमृत्विक्स्तुतिर्वेति पक्षे। सूक्तस्य वैश्वदेवपक्ष एवं योजना। प्रीणीत प्रीणयताश्वान्। स्नानपानयोग्यान्नैः संग्रामयोग्यान् कुरुतेत्यर्थः । हितं जयाथ। हितमिति क्रियाविशेषणम् । कथं जयथ । बन्धुसुहृद्योते यथा हितं भवति तथा जयथ संग्रामम् । स्वस्तिवाहम् । स्वस्तीत्यविनाशनाम। अविनाशवाहनं रथमिद्रथं च कृणुध्वम् । इदिति चार्थे । अश्वं रथं च दृढं कृत्वा संग्रामभूमिं गत्वा । द्रोणाहावमित्यादीनि द्वितीयान्तानि कूपाख्यसंग्रामविशेषणानि सिञ्चतेत्यनेन संबध्यन्ते । द्रोणो द्रुममयः स एव रथ आहाव आहावस्थानीयो यस्य संग्रामस्य तम् । अवतम् । कूपनामैतत् । कूपं संग्रामाख्यम् । अश्मचक्रं कूपप्रान्तनिबद्धाश्मसदृशप्रहरणायुधवन्तम् । असनानि वा क्षेपणानि वा चक्राख्यायुधविशेषा यस्मिन् तम् । व्यासचरणवन्तं व्याप्तक्रमणवन्तं वा । चक्रं चक्रतेर्वा चरतेर्वा क्रामतेर्वा' (निरु.४.२७) इति निरुक्तम् । अंसत्रकोशम् । अंसत्राणि धनूंषि कवचानि च कोशस्थानीयानि यस्मिन् तं सिञ्चत। नृपाणं यस्मिन् योद्धार उदकवत्पीयन्ते मार्यन्ते तम् । ईदृशं कूपसदृशं संग्रामं सिञ्चत हे अस्मदीया योद्धारः। सूक्तस्य वैश्वदेवत्वाद्धे सैनिका विश्वेषां देवानां प्रसादेन सर्वमेतत्कुरुतेत्यर्थः । एवं ‘ निराहावान्' इत्यादिषु कूपरूपकव्याजेन संग्रामवर्णनमवगन्तव्यम् ॥
“Satisfy the horses, accomplish the good work (of plural ughing), equip a car laden with good fortune, pourout (the water of) the well, having wooden cattle-troughs having a stone rim, having a receptable like armour, fitfor the drinking of men.”
Refresh the horses, win the prize before you: equip a chariot fraught with happy fortune.
Pour forth the well with stone wheel, wooden buckets, the drink of heroes, with the trough for armour.
Make the horses happy: you will win the (prize that is) set. Just make your chariot one that brings well-being.
Dip out the wellspring whose buckets are the wooden (soma) cups, its wheel the (pressing) stone, its cask the (sheep’s fleece) sheathing, and which gives drink to men.
Erfrischt die Rosse und gewinnt den Kampfpreis, und euren Wagen lasst zum Heile fahren; Den Männer-Born ergiesst, dess Fass die Kufe, dess Rad der Pressstein, dessen Bett das Sieb ist.
Machet die Rosse freudig, dann werdet ihr den ausgesetzten Siegerpreis gewinnen. Machet euren Wagen zu einem Glücksfahrer! Schöpfet aus dem Brunnen, dessen Wassertrog die Somakufe, dessen Rad der Preßstein ist, dessen Eimer ein Panzer ist, aus dem die Männer trinken.
Доставьте коням удовольствие – (и) вы выиграете установленную (награду)!
Сделайте колесницу везущей счастье!
Черпайте из колодца с ведром-кадкой (для сомы),
С колесом-(давильным) камнем, с сосудом-панцирем, (колодца), из которых пьют мужи.
व्र॒जं कृ॑णुध्वं॒ स हि वो॑ नृ॒पाणो॒ वर्म॑ सीव्यध्वं बहु॒ला पृ॒थूनि॑ । पुर॑: कृणुध्व॒माय॑सी॒रधृ॑ष्टा॒ मा व॑: सुस्रोच्चम॒सो दृंह॑ता॒ तम् ॥
व्र॒जम् । कृ॒णु॒ध्व॒म् । सः । हि । वः॒ । नृ॒ऽपानः॑ । वर्म॑ । सी॒व्य॒ध्व॒म् । ब॒हु॒ला । पृ॒थूनि॑ । पुरः॑ । कृ॒णु॒ध्व॒म् । आय॑सीः । अधृ॑ष्टाः । मा । वः॒ । सु॒स्रो॒त् । च॒म॒सः । दृंह॑त । तम् ॥
हे ऋत्विजः व्रजं कृणुध्वं व्रजं गोष्ठं कुरुध्वम् । आशिरदोहार्थं गोस्थानं कुरुत । स हि स खलु वः नृपाणः नेतॄणां देवानां पातव्यः । देवपानसाधन इति । सांनाय्यरूपेण वाशिररूपेण वा गोः पयआदिकं देवाः पिबन्ति खलु । वर्म वर्माणि सीव्यध्वम् । वर्मवत्प्रधानस्योभयत आच्छादकत्वात् प्रयाजादीनि प्राच्यानि प्रतीच्यानि चाङ्गानि वर्माणि । तानि सीव्यध्वं 'दलयध्वम् । कुरुध्वमित्यर्थः । कीदृशानि वर्माणि । बहुला बहुलान्यनेकानि । तानि च पृथूनि विस्तीर्णानि । तथा पुरः पुराणि धिष्ण्यादीनि यष्टव्यानां देवानां वा पुरः शरीराणि आयसीः अयोमयवत्सारभूताः अधृष्टाः अन्यैः अधृष्याः । पूरणीया ग्रहा वा पुर इत्युच्यन्ते । तानुक्तलक्षणान् कुरुत। वः युष्मदीयः चमसः यज्ञाख्यो भक्षणसाधनश्चमस एव वा। चमसपक्षे सामान्येनैकवचनम् । मा सुस्रोत मा स्रवेत् । स्रवतेर्लडि ‘ बहुलं छन्दसि ' इति शप: श्लुः । तं दृंहत दृढीकुरुत । यथा विकलो न भवति तथा कुरुत । ‘ दृह दृहि वृद्धौ ' । भौवादिकः । तस्माल्लोटि इदित्त्वान्नुम् । ऋत्विक्स्तुतिपक्ष एवम् । वैश्वदेवपक्षे । अस्मदीया योद्धारो यूयम् । नरो योद्धारः पिबन्ति प्रत्यर्थिनां प्राणानिति नृपाणः । स तादृशो युष्मदीयः खलु । गोष्ठपक्षे नराणां पानसाधनः स खलु। पातेः ‘करणाधिकरणयोश्च ' इति ल्युट् । वर्म वर्मणि कवचानि सीव्यध्वं बहुलानि पृथूनि च यथा भवन्ति तथा । पुरः पुरीः कृणुध्वमायसीरन्यैरधृष्टाश्च । वश्चमसोऽदनसाधनो मा सुस्रोत् मा स्रवेत् । तं दृंहतेति । इति देवतानुग्रहलब्धबलो वदति ॥
“Construct the cow-stall, for that is the drinking plural ce of your leaders (the gods), fabricate armour,manifold and ample; make cities of metal and impregnable; let not the ladle leak, make it strong.”
Prepare the cow-stall, for there drink your heroes: stitch ye the coats of armour, wide and many.
Make iron forts, secure from all assailants let not your pitcher leak: stay it securely.
Make a pen (for it), for it gives drink to your men. Stitch (for it) (suits of) armor, ample and broad.
Make (for it) fortresses, metal and unassailable. Let the beaker not
leak: make it solid.
Den Kuhstall rüstet, der den Männern Trunk gibt, und flechtet eure dichten, breiten Panzer; Macht eure Burgen ehern, unbesiegbar, nicht leck sei euer Becher, machet fest ihn.
Machet einen Pferch, denn dieser dienet euren Herren zum Trunke! Nähet die Koller dicht und breit, machet eherne Burgen, unangreifbare! Nicht soll eure Schale lecken, machet sie fest!
Сделайте загон (для скота) – ведь он защищает ваших мужей!
Сшейте много широких щитов!
Сделайте железные крепости неприступными!
Да не протечет ваш кубок – сделайте его крепким!
आ वो॒ धियं॑ य॒ज्ञियां॑ वर्त ऊ॒तये॒ देवा॑ दे॒वीं य॑ज॒तां य॒ज्ञिया॑मि॒ह । सा नो॑ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥
आ । वः॒ । धिय॑म् । य॒ज्ञिया॑म् । व॒र्ते॒ । ऊ॒तये॑ । देवाः॑ । दे॒वीम् । य॒ज॒ताम् । य॒ज्ञिया॑म् । इ॒ह । सा । नः॒ । दु॒ही॒य॒त् । यव॑साऽइव । ग॒त्वी । स॒हस्र॑ऽधारा । पय॑सा । म॒ही । गौः ॥
हे देवाः स्तोतार ऋत्विजः वः युष्माकम् ऊतये यज्ञियां यज्ञार्हां धियं बुद्धिम् आ वर्ते प्रवर्तये । यद्वा । हे देवा ऋत्विजः वो यज्ञियां धियं युष्माकं कर्तव्यत्वेन संबन्धिनामस्माकमूतये रक्षणाय आ वत । अपि वा देवा एवं संबोध्याः । हे देवा: वो युष्माकं धियं बुद्धिमा वर्ते आवर्तयामि । किमर्थम् । ऊतयेऽस्माकं रक्षणाय । कीदृशीं धियम् । यज्ञियां यज्ञार्हां देवीं द्योतमानां यजतां पूज्याम् । इह अस्मिन् यागे अस्यां भूमौ वा । एको यज्ञियामिति शब्दः पूरणः । सा धीः नः अस्माकं दुहीयत् दुह्यात् । तत्र दृष्टान्तः । यवसेव यवसानि भक्षयित्वेव गत्वी पुनर्गोष्ठं गत्वा । पीत्वीतिवत् । पयसा सहस्रधारा मही महती गौः यथा दुग्धे तद्वत् ॥
“I attract, O gods, for my protection, your adorable, divine mine, which is deserving of sacrifice andworship here; may it milk forth for us, like a large cow with milk, giving a thousand strreams, (having eaten)fodder and returned.”
Hither, for help, I turn the holy heavenly mind of you the Holy Gods, that longs for sacrifice.
May it pour milk for us, even as a stately cow who, having sought the pasture, yields a thousand streams.
I turn toward you an insightful thought worthy of the sacrifice, for aid, o gods—a sacrificial goddess worthy of the sacrifice here.
She should yield her milk to us like a great cow with her milk in a
thousand streams who has gone to the pastures.
Euren heiligen Sinn wende ich zur Hülfe herbei, o Götter, den göttlichen, ehrwürdigen, heiligen; er ströme uns reichlich gleichwie die grosse tausendströmige Kuh von Milch strömt, nachdem sie auf die Weide gegangen ist.
Ich lenke euer opfergeneigtes Denken her zu unserem Beistand, ihr Götter, das göttliche, opferwerte, opfergeneigte hierher. Sie soll uns Milch geben, als ob sie auf die Weide gegangen wäre, die große Kuh, in tausend Strahlen mit ihrer Milch!
Я привлекаю вашу силу видения, связанную с жертвой, для помощи,
О боги, божественную, достойную жертв, связанную с жертвой, – сюда!
Пусть она доится для нас, словно великая корова
Тысячеструйная (своим) молоком, когда она отправилась на пастбище!
आ तू षि॑ञ्च॒ हरि॑मीं॒ द्रोरु॒पस्थे॒ वाशी॑भिस्तक्षताश्म॒न्मयी॑भिः । परि॑ ष्वजध्वं॒ दश॑ क॒क्ष्या॑भिरु॒भे धुरौ॒ प्रति॒ वह्निं॑ युनक्त ॥
आ । तु । सि॒ञ्च॒ । हरि॑म् । ई॒म् । द्रोः । उ॒पऽस्थे॑ । वाशी॑भिः । त॒क्ष॒त॒ । अ॒श्म॒न्ऽमयी॑भिः । परि॑ । स्व॒ज॒ध्व॒म् । दश॑ । क॒क्ष्या॑भिः । उ॒भे इति॑ । धुरौ॑ । प्रति॑ । वह्नि॑म् । यु॒न॒क्त॒ ॥
हे अध्वर्यो त्वम् ईम् एनं हरिं हरितवर्णं सोमं द्रोः दुमविकारस्य पात्रस्य उपस्थे उपरि आ सिञ्च आसेकं कुरु। तु इति पूरणः । तदर्थं हे पात्रसंपादिनः अश्मन्मयीभिः अयःशिलासारभूताभिः वाशीभिः तक्षत पात्राणि । नकारोपजनश्छान्दसः । मयटः टित्त्वात् ङीप् । तानि पात्राणि सोमपूर्णानि दश दशसंख्याकानि कक्ष्याभिः प्रकारैः पर्यायेण परि ष्वजध्वं संस्कुरुध्वम् । आसादयत । यद्वा । वाशीभिरश्मन्मयीभिर्हविर्धानशकटे तक्षत । ते च दश कक्ष्याभिर्दशसंख्याकाभिः रज्जुभिः परि ष्वजध्वम्। उभे धुरौ युगसंबन्धिन्यौ प्रति वह्नी वाहकावनड्वाहौ युनक्त। अथवायं मन्त्रश्चयनक्षेत्रकर्षणसाधनहलविषयतया व्याख्येयः ॥
“Pour out the golden-tinted Soma into the bowl of the wooden cup, fabricate it with the stone axes, girdit with ten bands, harness the beast of burden to the two poles (of the cart).”
Pour golden juice within the wooden vessel: with stone-made axes fashion ye and form it.
Embrace and compass it with tenfold girdle, and to both chariot-poles attach the car-horse.
Pour out the tawny (soma) into the lap of wood. Fashion (it [=wooden cup]) with axes made of stone.
Embrace (him [=Soma]) with ten girthbands. Yoke the draft-horse to the two chariot-poles.
Ergiess den goldnen in den Schooss des Holzes, und zimmert ihn mit steingeformten Aexten, Umschlinget ihn mit zehn gewundnen Gurten; das Zugthier schirrt an beide Deichselstangen.
Gieß doch den goldgelben Soma in den Schoß des Holzes ein; schnitzet mit steinernen Messern! Umschlinget ihn mit zehn Gurten, schirret das Zugtier an die Doppeldeichsel!
Черпайте же золотистый (сок) в лоне деревянного сосуда!
Вытесывайте (сосуды) каменистыми топорами!
Охватите (его) десятью поясами!
Впрягайте тяжеловоза в оба дышла!
उ॒भे धुरौ॒ वह्नि॑रा॒पिब्द॑मानो॒ऽन्तर्योने॑व चरति द्वि॒जानि॑: । वन॒स्पतिं॒ वन॒ आस्था॑पयध्वं॒ नि षू द॑धिध्व॒मख॑नन्त॒ उत्स॑म् ॥
उ॒भे इति॑ । धुरौ॑ । वह्निः॑ । आ॒ऽपिब्द॑मानः । अ॒न्तः । योना॑ऽइव । च॒र॒ति॒ । द्वि॒ऽजानिः॑ । वन॒स्पति॑म् । वने॑ । आ । अ॒स्था॒प॒य॒ध्व॒म् । नि । सु । द॒धि॒ध्व॒म् । अख॑नन्तः । उत्स॑म् ॥
हविर्धानशकटस्य उभे धुरी आपिब्दमानः आपिशब्दमानः वह्निः हविर्वाहकोऽनड्वान् योनौ अन्तः इव द्विजानिः द्विजायः तयोरन्तः चरति । तं वनस्पतिं वनस्पतिविकारं शकटं वने वनसंबन्धिनि वृक्षे । मेथीभूत इत्यर्थः । तत्र आस्थापयध्वम् । यद्वा । वने वननीये देश आस्थापयध्वम्। तत्पश्चात् तत्रत्यं सोमं सु सुष्ठु नि दधिध्वं सुखं यथा भवति तथा स्थापयतासन्द्याम् । अभिषवप्रदेशे च पश्चात् उत्सं तद्रसम् अखनन्तः संपादयतेत्यर्थः। अथवायमपि मन्त्रः कर्षणपरो व्याख्येयः । यस्य लाङ्गलस्योभे धुरावापिब्दमानोऽपिशब्दमानो वह्निरनड्वान् अन्तर्योनाविवेत्यादि समानम् । तादृशं वनस्पतिं वनस्पतिविकारं लाङ्गलं वने वननीये वपनार्थं कर्षणप्रदेश आस्थापयध्वम् । सु सुष्ठु सर्वत्र तं लाङ्गलं नि दधिध्वम् । उत्सं सेकसाधनं गर्तं सिक्तं वा प्रदेशमखनन्तः ॥
“The beast of burden pressed with the two cart-poles, moves as if on the womb of sacrifice having twowives. plural ce the chariot in the wood, without digging store up the Soma.”
Between both poles the car-horse goes pressed closely, as in his dwelling moves the doubly-wedded.
Lay in the wood the Soviran of the Forest, and sink the well although ye do not dig it.
The plodding draft-animal goes between the two chariot-poles like a man with two wives in bed [/into the vulva].
Make the lord of the wood [=tree/soma] stand in the wood. Set (it)
down well, without digging out the spring.
Fest eingefasst geht zwischen beiden Stangen das Zugthier wie ins Bett der zweibeweibte; Stellt in das Holz hin fest den Herrn des Holzes, obwol nicht grabend senkt den Brunnen nieder.
Zwischen beiden Deichseln bewegt sich fest auftretend das Zugtier, gleich einem Mann mit zwei Frauen im Bett. Stellet den Baum auf das Holz, leget fein einen Brunnen an, ohne zu graben!
Движется между обоих дышел зажатый тяжеловоз,
Словно муж с двумя женами – между двух лон.
Вставьте лесное дерево в древесину!
Хорошенько устройте колодец, хоть вы и не рыли (его)!
कपृ॑न्नरः कपृ॒थमुद्द॑धातन चो॒दय॑त खु॒दत॒ वाज॑सातये । नि॒ष्टि॒ग्र्य॑: पु॒त्रमा च्या॑वयो॒तय॒ इन्द्रं॑ स॒बाध॑ इ॒ह सोम॑पीतये ॥
कपृ॑त् । न॒रः॒ । क॒पृ॒थम् । उत् । द॒धा॒त॒न॒ । चो॒दय॑त । खु॒दत॑ । वाज॑ऽसातये । नि॒ष्टि॒ग्र्यः॑ । पु॒त्रम् । आ । च्या॒व॒य॒ । ऊ॒तये॑ । इन्द्र॑म् । स॒ऽबाधः॑ । इ॒ह । सोम॑ऽपीतये ॥
हे नरः नेतार ऋत्विजः एष इन्द्रः कपृत् । सुखस्य पूरको यष्टॄणां स्तोतॄणां च । कमिति सुखनाम । तं कपृथं सुखस्य पूरयितारमिन्द्रं चोदयत प्रेरयत खुदत खुर्दत क्रीडयत । खुर्द क्रीडायां' भौवादिकः । व्यत्ययेन शः । रेफलोपश्छान्दसः । संपिंष्ट संस्कुरुतेत्यर्थः । किमर्थम् । वाजसातये अन्नस्य लाभाय । तदेवाह । हे होतः निष्टिग्र्यः पुत्रम् । निष्टिं दितिं स्वसपत्नीं गिरतीहि निष्टिग्रीरदितिः । तस्याः पुत्रम् इन्द्रं सबाधः । सह पापैः प्रयासरूपैः कर्मभिर्बाध्यन्त इति सबाध ऋत्विजः। तथाविधा यूयं सोमपीतये तस्य सोमपानाय ऊतये अस्माकं रक्षणाय वा आ च्यवय । व्यत्ययेनैकवचनम्। आच्यावयतेत्यर्थः ॥ ॥ १९ ॥
“Indra, you leaders, is the giver of happiness; excite the giver of happiness, stimulate him, sport withhim for the acquisition of food, bring down here, O priests, Indra, the son of Niṣṭigrī, to drink the Soma.”
Indra is he, O men, who gives us happiness: sport, urge the giver of delight to win us strength
Bring quickly down, O priests, hither to give us aid, to drink the Soma, Indra Son of Nistigri.
The penis, the penis—raise it up, men. Rouse (it), stick (it in), to win the prize.
Hurry the son of Niṣṭigrī hither, for help, urgently (hurry) Indra here for soma-drinking.
Richtet empor, o Männer, das Glied, das sich weit dehnt, bewegt es, stosst es hinein zur Beutegewinnung, treibt her zum Somatrunke, den Sohn der Nischtigri, den Indra, ihn bestürmend.
Das Glied, ihr Männer, das richtet auf, machet fix, stoßet zu, um den Preis zu gewinnen! Bringe der Nisitigri Sohn her zur Gnade, den Indra dringlich hierher zum Somatrunk!
Уд, о мужи, уд поднимайте,
Приводите в движение, вталкивайте – для захвата награды!
Подтяни сына Ништигри, чтобы помог,
Сюда, настойчиво – Индру для питья сомы!