प्र ते॒ रथं॑ मिथू॒कृत॒मिन्द्रो॑ऽवतु धृष्णु॒या । अ॒स्मिन्ना॒जौ पु॑रुहूत श्र॒वाय्ये॑ धनभ॒क्षेषु॑ नोऽव ॥
प्र । ते॒ । रथ॑म् । मि॒थु॒ऽकृत॑म् । इन्द्रः॑ । अ॒व॒तु॒ । धृ॒ष्णु॒ऽया । अ॒स्मिन् । आ॒जौ । पु॒रु॒ऽहू॒त॒ । श्र॒वाय्ये॑ । ध॒न॒ऽभ॒क्षेषु॑ । नः॒ । अ॒व॒ ॥
हे मुद्गल ते रथं मिथूकृतं मिथःकृतमसहायं कृतम् । अथवा मिथुरिति मिथ्यानाम । अश्वादिभिः शून्यं कृतं धृष्णुया धर्षणशीलः इन्द्रोऽवतु रक्षतु । यद्वा । धृष्णुया धर्षणशीलेन वज्रेण । उभयत्र ‘सुपां सुलुक्' इति सुपो याजादेशः । अथ प्रत्यक्षकृतः । हे पुरुहूत बहुभिराहूतेन्द्र अस्मिन्नाजौ संग्रामेऽपहृतगोभिश्चौरैः कृते संग्रामे । कीदृशे । श्रवाय्ये श्रोतव्ये । विश्रुत इत्यर्थः । ‘ श्रुदक्षि° (उ, सू. ३.९६ ) इत्यादिना आय्यप्रत्ययः । धनभक्षेषु अस्मासु गोरूपधनभजनकामेषु सत्सु । यद्वा । गोरूपधनस्य भक्षकेषु चौरेषु जेतव्येषु सत्सु । न: अस्मान् अव रक्ष ॥
“May (Indra) by his prowess protect your cart (mudgala) that has no companion, defend us, O invokedof many, in this memorable conflict in the recovery of our wealth.”
FOR thee may Indra boldly speed the car that works on either side.
Favour us, Much-invoked! in this most glorious fight against the raiders of our wealth.
Let Indra advance your chariot boldly (though it be) wrongly made [/forming a sexual pair].
In this race in pursuit of fame and at the apportioning of spoils, help us, o much-invoked one.
Deinen wechselweise [nach beiden Seiten hin] wirkenden Streitwagen möge Indra kräftig fördern; o vielgerufner [Indra], in diesem rühmlichen Kampfe hilf uns bei der Erlangung der Beute.
Deinem vertauschten Wagen soll Indra kühnlich weiterhelfen! In diesem ruhmbringenden Wettlauf bei der Gewinnung des Preises hilf uns, Vielgerufener!
उत्स्म॒ वातो॑ वहति॒ वासो॑ऽस्या॒ अधि॑रथं॒ यदज॑यत्स॒हस्र॑म् । र॒थीर॑भून्मुद्ग॒लानी॒ गवि॑ष्टौ॒ भरे॑ कृ॒तं व्य॑चेदिन्द्रसे॒ना ॥
उत् । स्म॒ । वातः॑ । व॒ह॒ति॒ । वासः॑ । अ॒स्याः॒ । अधि॑ऽरथम् । यत् । अज॑यत् । स॒हस्र॑म् । र॒थीः । अ॒भू॒त् । मु॒द्ग॒लानी॑ । गवि॑ष्टौ । भरे॑ । कृ॒तम् । वि । अ॒चे॒त् । इ॒न्द्र॒ऽसे॒ना ॥
अस्याः ‘ रथीरभून्मुद्गलानी ' इति वक्ष्यमाणत्वादस्य मुद्गलस्य पत्न्याः सारथिभूतायाः वासः अंशुकं वातः वायुः उत् वहति ऊर्ध्वं प्रापयति । श्रमजनितस्वेदापनयाय । अथवा शीघ्ररथधावनजनितो वायुरंशुकं चालयतीत्यर्थः । कदेति उच्यते । यत् यदा अधिरथम् अधिकं रथमारुह्य सहस्रं सहस्रसंख्याकं गोसंघम् अजयत् तदा । यद्या गोसहस्रमजयदस्या इति वा योज्यम् । यद्योगाज्जयतेर्न निघातः । गविष्टौ गवामपहृतानामेषणे मुद्गलानी मुद्गलस्य स्त्री रथीरभूत् सारथिरभवत् । छान्दस आनुक् । इन्द्रसेना स्तुत्या परितुष्टस्येन्द्रस्य सेना । यद्वा । इन्द्रस्य शत्रूणां दारयितुर्मुद्गलस्य सेनानीरूपा मुद्गलानी । भरे संग्रामे कृतं संपादितं गोसंघं व्यचेत् व्यचिनोत् । शत्रुभ्यः पृथक्कृतवती । चयतेर्लङि • बहुलं छन्दसि' इति विकरणस्य लुक् ॥
“The wind raised her vesture when she won a thousand cart-loads. Mudgalānī was the charioteer inthe quest of the cattle, the army of Indra recovered (the spoil) taken in battle.”
Loose in the wind the woman's robe was streaming what time she won a car-load worth a thousand.
The charioteer in fight was Mudgalani: she Indra's dart, heaped up the prize of battle.
The wind kept lifting up her garment when she won a thousand (cattle) and a chariot in addition.
Mudgalānī was the charioteer in the quest for cattle; as “weapon of
Indra,” she pulled out the perfect (“hand” of dice) at the match.
Der Wind liess ihr Gewand im Kampfe flattern, als sie davontrug tausend Wagenlasten; Des Wagens Lenkerin war Mugdalānī, die Beute theilt nun aus des Indra Freundin.
Der Wind hob ihr Kleid empor, als sie die Tausende und einen Wagen dazu gewann. Frau Mudgala war die Wagenlenkerin in dem Bewerb um die Kühe. Indrasena hat den besten Wurf in dem Gewinnspiel getan.
अ॒न्तर्य॑च्छ॒ जिघां॑सतो॒ वज्र॑मिन्द्राभि॒दास॑तः । दास॑स्य वा मघव॒न्नार्य॑स्य वा सनु॒तर्य॑वया व॒धम् ॥
अ॒न्तः । य॒च्छ॒ । जिघां॑सतः । वज्र॑म् । इ॒न्द्र॒ । अ॒भि॒ऽदास॑तः । दास॑स्य । वा॒ । म॒घ॒ऽव॒न् । आर्य॑स्य । वा॒ । स॒नु॒तः । य॒व॒य॒ । व॒धम् ॥
हे इन्द्र जिघांसतः हन्तुमिच्छतः अभिदासतः अभिद्रुह्यतः शत्रोः वज्रम् अन्तर्यच्छ अन्तर्गमय । तदेवाह । हे मघवन् धनवन्निन्द्र दासस्य वा उपक्षीणस्याल्पस्य आर्यस्य अभिगन्तव्यस्य महतो वा शत्रोः वधम् । वज्रनामैतत् । हननसाधनं वज्रं सनुतः । अन्तर्हितनामैतत् । अन्तर्हितं गूढं प्रयुज्यमानं यवय पृथक्कुरु ॥
“Restrain, Indra, the thunderbolt of the malignant threatening (foe); ward off, Maghavan, the secretweapon (of our foe), be he Dāsa or Ārya.”
O Indra, cast thy bolt among assailants who would slaughter us:
The weapon both of Dasa and of Arya foe keep far away, O Maghavan.
Hold in check the mace of the assailant who seeks to smite (us), o Indra. Keep far away the murderous weapon, whether of the Dāsa or of the Ārya, o bounteous one.
Lenke, o Indra, deinen Blitz mitten unter die mordlustigen, die uns befeinden, halte fern, o mächtiger, sowol des Barbaren als des Ariers Mordwaffe.
Halte, Indra, die Keule des Bedrohenden auf, der zu Fall bringen will! Halte abseits das Geschoß des Dasa oder Ariers, du Gabenreicher!
उ॒द्नो ह्र॒दम॑पिब॒ज्जर्हृ॑षाण॒: कूटं॑ स्म तृं॒हद॒भिमा॑तिमेति । प्र मु॒ष्कभा॑र॒: श्रव॑ इ॒च्छमा॑नोऽजि॒रं बा॒हू अ॑भर॒त्सिषा॑सन् ॥
उ॒द्नः । ह्र॒दम् । अ॒पि॒ब॒त् । जर्हृ॑षाणः । कूट॑म् । स्म॒ । तृं॒हत् । अ॒भिऽमा॑तिम् । ए॒ति॒ । प्र । मु॒ष्कऽभा॑रः । श्रवः॑ । इ॒च्छमा॑नः । अ॒जि॒रम् । बा॒हू इति॑ । अ॒भ॒र॒त् । सिसा॑सन् ॥
अत्र वृषभः स्तूयते । वृषभः उद्नः उदकस्य ह्रदम् अगाधजलाशयम् अपिबत् जर्हषाणः अत्यन्त हर्षितः सन् । तथा कूटं पर्वतशृङ्गं चौरैर्गोपिधानार्थं निहितं तृंहत् स्म शृङ्गेण विहिंसितवान्। व्यदारयदित्यर्थः। तथा कृत्वा अभिमातिमेति शत्रुं गच्छति हन्तुम् । पश्चात् मुष्कभारः प्रवृद्धमुष्कः। प्रवृद्धस्य वृषभस्य हि मुष्कवृद्धिर्भवति । तथा प्रवृद्धो वृषभः श्रवः । श्रूयत इति श्रवो यशः । इच्छमानः इच्छन् अजिरं गमनशीलं शत्रुं बाहू बाहुभ्यां बाह्वोर्वा प्र अभरत् प्रहृतवान् । यद्वा अजिरमिति क्षिप्रनाम । क्षिप्रं सिषासन् संभक्तुमिच्छन् बाहू प्राभरत् । प्रसारितवानित्यर्थः ॥
“Rejoicing, he drank up the pool of water, he cleft the mountain peak, he went against the enemy;endowed with vigour, eager for fame, assailing the quick-moving (foe), he seized him with his two arms.”
The bull in joy had drunk a lake of water. His shattering horn encountered an opponent.
Swiftly, in vigorous strength, eager for glory, he stretched his forefeet, fain to win and triumph.
Growing ever more excited, he drank a lake of water. The “hammer” kept going, crushing hostility.
The (bull) with balls, seeking fame, striving to win, stretched out his forelegs vigorously.
Der muntre Stier trank einen See voll Wassers, zerschmetternd drang sein Horn dem Feind entgegen; Der Hodenträger, Ruhm begehrend, streckte behend die Füsse vor nach Beute strebend.
Er trank erregt einen See von Wasser aus; die Holzkeule ging den feindlichen Anschlag zerschmetternd. Der Großhodige, der nach Ruhm verlangte, streckte flink seine Vorderfüße aus, da er gewinnen wollte.
न्य॑क्रन्दयन्नुप॒यन्त॑ एन॒ममे॑हयन्वृष॒भं मध्य॑ आ॒जेः । तेन॒ सूभ॑र्वं श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः प्र॒धने॑ जिगाय ॥
नि । अ॒क्र॒न्द॒य॒न् । उ॒प॒ऽयन्तः॑ । ए॒न॒म् । अमे॑हयन् । वृ॒ष॒भम् । मध्ये॑ । आ॒जेः । तेन॑ । सूभ॑र्वम् । श॒तऽव॑त् । स॒हस्र॑म् । गवा॑म् । मुद्ग॑लः । प्र॒ऽधने॑ । जि॒गा॒य॒ ॥
मुद्गल आह । तेनेति तच्छब्दश्रुतेर्यच्छब्दाध्याहारः । यम् एनं वृषभं न्यक्रन्दयन् नितरां क्रन्दनमकुर्वन् । के। उपयन्तः समीपे गच्छन्तो नरः । यथा प्रचण्डेन क्रन्दनेन शत्रवो भीताः पलायन्ते तथाकुर्वन् । किम् । वृषभं वर्षकं सेक्तारम् आजेः संग्रामस्य मध्ये अमेहयन् मूत्रपुरीषोत्सर्गं विश्रामार्थं कारितवन्तः । सूभर्वम् । भर्वतिरत्तिकर्मा । शोभनचणकादिभक्षकम् । तादृशो यथा भवति तथा कृत्वेत्यर्थः । यद्वा एतद्गोसहस्रविशेषणम् । तेन उक्तरूपेण वृषभेण सूभर्वं सुष्ठु यवसास्वादि शतवत् शतोपेतं गवां सहस्रं मुद्गलः एतन्नामाहं प्रधने संग्रामे जिगाय अजैषम् ॥
“Approaching the bull, they made him roar in the midst of the battle. I, Mudgala, have thereby gained inwar hundreds and thousands of cattle well- pastured.”
They came anear the bull; they made him thunder, made him pour rain down ere the fight was ended.
And Mudgala thereby won in the contest well-pastured kine in hundreds and in thousands.
Coming at him, they made him bellow; they made the bull piss in the middle of the race.
(Yet) through him Mudgala won a thousand plus a hundred
well-nourished cattle in the contest.
Ihm nahend liessen laut den Stier sie brüllen und Wasser lassen mitten auf den Kampfplatz; Durch ihn erlangte Mudgala im Kampfe wohl hunderttausend wohlgenährte Rinder.
Die Herankommenden reizten ihn zum Brüllen, zum Harnen den Stier mitten im Wettlauf. Durch ihn gewann Mudgala ein wohlgenährtes Tausend Kühe samt Hundert bei dem Preisspiel.
क॒कर्द॑वे वृष॒भो यु॒क्त आ॑सी॒दवा॑वची॒त्सार॑थिरस्य के॒शी । दुधे॑र्यु॒क्तस्य॒ द्रव॑तः स॒हान॑स ऋ॒च्छन्ति॑ ष्मा नि॒ष्पदो॑ मुद्ग॒लानी॑म् ॥
क॒र्कऽदे॑वे । वृ॒ष॒भः । आ॒सी॒त् । अवा॑वचीत् । सार॑थिः । अ॒स्य॒ । के॒शी । दुधेः॑ । यु॒क्तस्य॑ । द्रव॑तः । स॒ह । अन॑सा । ऋ॒च्छन्ति॑ । स्म॒ । निः॒ऽपदः॑ । मु॒द्ग॒लानी॑म् ॥
ककर्दवे हिंसनाय शत्रूणां वृषभः वर्षिता गौः युक्त आसीत् रथे संबद्धोऽभूत् । केशी केशवान् प्रग्रहवान् अस्य राज्ञः रथस्य वा सारथिः । मुद्गलानीत्यर्थः । सारथ्यभिप्रायेण केशीति पुँलिङ्गता। अवावचीत् वृषभभयजनकं शत्रुभयजनकं वाक्रोशमकरोत् । अथवा । केशी केशिनी सारथिरस्य । अमुमित्यर्थः । अमुं वृषभं शब्दमकारयत् । ‘वच परिभाषणे' इत्यस्य केवलस्यान्तर्णीतण्यर्थस्य यङ्लुगन्तस्य लुङि रूपम् । अथवा । अस्य सारथिः सहायभूतः केशी प्रकृष्टकेशो वृषभोऽवावचीत् भृशमशब्दयत् । एवंभूतस्य दुधेः दुर्धरस्य अनसा सह द्रवतः शीघ्रं शत्रुमध्ये रथेन सह धावतो वृषभस्य भयंकरशब्देन निष्पदः निर्गच्छन्तो योद्धारः मुद्गलानीं मुद्गलस्य योषितं सारथिभूतां प्रति ऋच्छन्ति ष्म अगच्छन्नित्यर्थः । ‘ पाघ्रा इत्यादिना ऋच्छादेशः ॥ ॥ २० ॥
“The bull has been yoked for the destruction of the enemy; his long- haired yoke-fellow made him roar;”
In hope of victory that bull was harnessed: Kesi the driver urged him on with shouting.
As he ran swiftly with the car behind him his lifted heels pressed close on Mudgalani.
The bull was yoked for making “kaka” [=defecation] [?]. Its long-haired charioteer dodged and dodged,
but the droppings of the frenzied bull, yoked and running with the cart, kept hitting Mudgalānī.
Dem Knurrer war der Stier geschirrt zur Seite, es brüllte laut sein mähniger Genosse; Bis hin zur Mugdalānī drang der Aushauch des wilden Stiers der mit dem Wagen eilte.
Der Stier war an die Karre angejocht; sein langhaariger Wagenlenker schrie. Die Abgänge des wütigen Gespanns, das mit dem Karren lief, trafen die Frau Mudgala.
उ॒त प्र॒धिमुद॑हन्नस्य वि॒द्वानुपा॑युन॒ग्वंस॑ग॒मत्र॒ शिक्ष॑न् । इन्द्र॒ उदा॑व॒त्पति॒मघ्न्या॑ना॒मरं॑हत॒ पद्या॑भिः क॒कुद्मा॑न् ॥
उ॒त । प्र॒ऽधिम् । उत् । अ॒ह॒न् । अ॒स्य॒ । वि॒द्वान् । उप॑ । अ॒यु॒न॒क् । वंस॑गम् । अत्र॑ । शिक्ष॑न् । इन्द्रः॑ । उत् । आ॒व॒त् । पति॑म् । अघ्न्या॑नाम् । अरं॑हत । पद्या॑भिः । क॒कुत्ऽमा॑न् ॥
उत अपि च विद्वान् स मुद्गलः अस्य रथस्य प्रधिम् । प्रधिरक्षच्छिद्रकाष्ठः प्रान्तकाष्ठः। स च रथावयवानामुपलक्षकः । रथावयवम् उदहन् उदगमयत् । रथं संननाहेत्यर्थः । तदनन्तरम् अत्र रथे वंसगं वननीयगमनं वृषभं शिक्षन् शिक्षयन् रज्जुषु स्थापयन् उपायुनक् रथसमीपे युगेऽयोजयत् । युजेर्लङि तिपो हल्ङ्यादिलोपः । एवं सति इन्द्रः देवः अघ्न्यानाम् अहन्तव्यानां गवां पतिम् उत् उत्कृष्टम् आवत् रक्षामकरोत् । पश्चात् ककुद्मान् वृषभः पद्याभिः सरणिभिः अरंहत वेगेनागमत् । रहिर्गत्यर्थः ॥ .
“The sage (Mudgala) has fitted up the frame of the cart, he has harnessed the bull, training him to hiswork; Indra protected the lord of the inviolable (cows), the buffalo rushed along with speed.”
Deftly for him he stretched the car-pole forward, guided the bull thereto and firmly yoked him.
Indra vouchsafed the lord of cows his favour: with mighty steps the buffalo ran onward.
Understanding (the situation), he struck away the outer piece of its wheel, and he yoked up the bull there, working hard.
Indra helped out the husband of the prized cows: the hump-backed bull sped with his strides.1564 X.103
Den Radkranz hatte angefügt der kund'ge und angeschirrt den Büffel dort mit Weisheit; Und Indra war dem Herrn der Kühe hülfreich, der Buckelstier lief vor, die Hufe schwingend.
Und er hatte kundig sein Speichenbrett herausgeschlagen und den Stier daneben an ihn gespannt, den Versuch machend. Indra half dem Gemahl der Kühe; der Buckelochse lief in großen Sätzen.
शु॒नम॑ष्ट्रा॒व्य॑चरत्कप॒र्दी व॑र॒त्रायां॒ दार्वा॒नह्य॑मानः । नृ॒म्णानि॑ कृ॒ण्वन्ब॒हवे॒ जना॑य॒ गाः प॑स्पशा॒नस्तवि॑षीरधत्त ॥
शु॒नम् । अ॒ष्ट्रा॒ऽवी । अ॒च॒र॒त् । क॒प॒र्दी । व॒र॒त्रायाम् । दारु॑ । आ॒ऽनह्य॑मानः । नृ॒म्नानि॑ । कृ॒ण्वन् । ब॒हवे॑ । जना॑य । गाः । प॒स्प॒शा॒नः । तवि॑षीः । अ॒ध॒त्त॒ ॥
शुनम् इति सुखनाम। सुखं यथा भवति तथा । अष्ट्रावी । अष्ट्रा प्रतोदः तद्वान् । छान्दसो विनिः । कपर्दी कपर्दवान् अचरत् संचरति । किं कुर्वन् । वरत्रायां वध्रौ दारु काष्ठं रथाङ्गभूतम् आनह्यमानः सर्वतो बध्नन् । पुनः किं कुर्वन् । बहवे जनाय स्वपुत्रभृत्यादिलक्षणाय नृम्णानि धनानि शत्रुसंबन्धीनि सुखानि वा कृण्वन् । गाः पस्पशानः स्पृशन् । ' स्पश बाधनस्पर्शनयोः । छान्दसो लिटि कानच् । एवं कुर्वन् तविषीः बलानि अधत्त धते । जयं प्राप्नोतीत्यर्थः ॥
“Wielding the goad (Indra) with the braided hair proceeded happily, fastening the strap to the wood (ofwon hundreds and thousands of cattle in war.”
Touched by the goad the shaggy beast went nobly, bound to the pole by the yoke's thong of leather.
Performing deeds of might for many people, he, looking on the cows, gained strength and vigour.
Whip in hand, the man with braided hair achieved good fortune by binding the piece of wood to the strap.
Performing manly deeds for the many folk, keeping an eye on the cows, he [=bull?] assumed his powers.
Dem Stachel folgend schritt zum Heil der zott'ge, im Riemenwerk gebunden an das Zugscheit; Kraftthaten wirkend für die vielen Streiter, die Rinder schauend, nahm er grosse Kraft an.
Gut fuhr dabei der Mann mit dem Treibstock und der Haarschnecke, der das Holz an den Riemen festband. Mannestaten verrichtend vor vielem Volke, die Kühe vor Augen, legte er sich Kräfte zu.
इ॒मं तं प॑श्य वृष॒भस्य॒ युञ्जं॒ काष्ठा॑या॒ मध्ये॑ द्रुघ॒णं शया॑नम् । येन॑ जि॒गाय॑ श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः पृत॒नाज्ये॑षु ॥
इ॒मम् । तम् । प॒श्य॒ । वृ॒ष॒भस्य॑ । युञ्ज॑म् । काष्ठा॑याः । मध्ये॑ । द्र॒ुऽघ॒णम् । शया॑नम् । येन॑ । जि॒गाय॑ । स॒तऽव॑त् । स॒हस्र॑म् । गवा॑म् । मुद्ग॑लः । पृ॒त॒नाज्ये॑षु ॥
कंचन सखायं सेनादिसहायाभावेन जयविषय उपहासं कुर्वाणं प्रति ब्रवीति । राजा द्रुघणेन वृषभेण चाजिं जिगायेत्युक्तवान् । पूर्वं वृषभो वर्णितः । अत्र द्रुघणो वर्ण्यते । हे सखे तम् इमं द्रुघणं पश्य । कीदृशमिममिति उच्यते । ‘ युजेरसमासे' ( पा. सू. ७. १. ७१ ) इति नुम् । युञ्जम् । युज्यत इति युक् सखा । वृषभस्य सखिभूतम् । वृषभो यावन्तमर्थं साधयति तावन्तमेव साधयन्तमित्यर्थः । पुनः कीदृशम् । काष्ठाया मध्ये । ‘ आज्यन्तोऽपि काष्ठोच्यते' (निरु. २.१५) इति निरुक्तम् । आज्यन्तस्य मध्ये। संग्राम इत्यर्थः । तत्र शयानं हन्तव्यान् सर्वान् हत्वा सुखेन स्वपन्तं निर्व्यापारत्वेन वर्तमानम् । ईदृशं द्रुमसयं घनं पश्येत्यर्थः । येन द्रुघणेन शतवत् शतोपेतं गवां सहस्रं पृतनाज्येषु संग्रामेषु जिगाय अहमजैषं तमिमं पश्येति समन्वयः। जयतेर्लिट् । ‘ सन्लिटोर्जेः' इत्यभ्यासादुत्तरस्य कुत्वम् । मिपो णल् ॥
Here look upon this mace, this bull's companion, now lying midway on the field of battle.
Therewith hath Mudgala in ordered contest won for cattle for himself, a hundred thousand.
“Look at it here, the yokemate of the bull, the wooden club lying in the middle of the race course,
with which Mudgala won a thousand plus a hundred cattle in the
battle-drives.”
Sieh diese hier, die mit dem Stiere wirkte, die Keule, liegen mitten in der Rennbahn, Mit welcher hunderttausende der Rinder erbeutete Mugdala in der Feldschlacht.
Sieh da den Jochgenossen des Stiers, die Holzkeule mitten in der Rennbahn liegen, mit der Mudgala in den Wettkämpfen ein Tausend Kühe nebst Hundert gewonnen hat.
आ॒रे अ॒घा को न्वि१॒॑त्था द॑दर्श॒ यं यु॒ञ्जन्ति॒ तम्वा स्था॑पयन्ति । नास्मै॒ तृणं॒ नोद॒कमा भ॑र॒न्त्युत्त॑रो धु॒रो व॑हति प्र॒देदि॑शत् ॥
आ॒रे । अ॒घा । कः । नु । इ॒त्था । द॒द॒र्श॒ । यम् । यु॒ञ्जन्ति॑ । तम् । ऊँ॒ इति॑ । आ । स्था॒प॒य॒न्ति॒ । न । अ॒स्मै॒ । तृण॑म् । न । उ॒द॒कम् । आ । भ॒र॒न्ति॒ । उत्ऽत॑रः । धु॒रः । व॒ह॒ति॒ । प्र॒ऽदेदि॑शत् ॥
यः आरे समीप एव अघा अघानि दुःखानि शत्रुरूपाणि करोति तं कः नरः नु इदानीम् इत्था इत्थं ददर्श पश्यति । किंच यं द्रुघणं युञ्जन्ति रथे तमु तमेव आ स्थापयन्ति आरोहयन्तीत्यर्थः। अथवा । यं रथे युञ्जन्ति तमेव प्रहरणार्थमा स्थापयन्ति । उभयविधकार्यमेकः करोतीत्यर्थः । किंच अस्मै तृणं न आ भरन्ति नाहरन्ति । तथा उदकं न आहरन्ति । हृग्रहोर्भः इति भत्वम् । ईदृशो द्रुघणः उत्तरः दक्षिणस्य वृषभस्य स्वयमुत्तरः सन् धुरः रथभारस्य रथधुरं वहति प्रदेदिशित् प्रकर्षेण जयं स्वामिने प्रदिशन् शत्रूणां वा भयं प्रदिशन् वहति । ‘दिश अतिसर्जने' इत्यस्माद्यङ्लुगन्ताच्छतरि रूपम् ॥
“Who has thus beheld the evils near at hand? The (bull) which they yoke, they stop; to him they bringneither fodder nor water. Being above (the bull) he bears the chariot-pole announcing (victory to his lord).”
Far is the evil: who hath here beheld it? Hither they bring the bull whom they are yoking..
To this they give not either food or water. Reaching beyond the pole it gives directions.
“Troubles begone! Who has ever seen such a thing? The one whom they yoke, they (now) make him mount (the chariot/his wife?).
They bring him neither grass nor water. The higher (end) of the
chariot-pole draws (the chariot), directing (it) ever forward.”
Gefahr ist fern; wer hat ihn recht gesehen? den man sonst anschirrt, führt man in den Stall auch; Doch diesem setzt man Gras nicht vor noch Wasser, gelöst vom Joche, fährt er Weisung gebend.
Fern blieb das Unheil! Wer hat dergleichen wohl gesehen? Den sie geschirrt hatten, den lassen sie jetzt den Wagen besteigen. Nicht bringen sie ihm Gras und Wasser. Das Deichseljoch überragend fährt er kutschierend.
प॒रि॒वृ॒क्तेव॑ पति॒विद्य॑मान॒ट् पीप्या॑ना॒ कूच॑क्रेणेव सि॒ञ्चन् । ए॒षै॒ष्या॑ चिद्र॒थ्या॑ जयेम सुम॒ङ्गलं॒ सिन॑वदस्तु सा॒तम् ॥
प॒रि॒वृ॒क्ताऽइ॑व । प॒ति॒ऽविद्य॑म् । आ॒न॒ट् । पीप्या॑ना । कूच॑क्रेणऽइव । सि॒ञ्चन् । ए॒ष॒ऽए॒ष्या॑ । चि॒त् । र॒थ्या॑ । ज॒ये॒म॒ । सु॒ऽम॒ङ्गल॑म् । सिन॑ऽवत् । अ॒स्तु॒ । सा॒तम् ॥
अत्र मुद्गलानी सारथिः स्तूयते । एषा मुद्गलानी परिवृक्तेव। ' वृजी वर्जने'। परित्यक्ता पत्या पत्या' वियुक्ता योषिदिव । सा यथा पतिविद्यम् । विद्यो वेद्यो लम्भनीयः। पतिश्चासौ विद्यश्च । पतिविद्यमानशे तद्वत्पतिविद्यम् आनट् । आनड् व्याप्तिकर्मा । नशेर्लुङि' मन्त्रे घस' इति च्लेर्लुक् । ‘ छन्दस्यपि दृश्यते ' ( पा. सू. ६. ४. ७३) इत्यनजादीनामप्याडागमः । अश्नोतेर्वा लिटि तलोपश्छान्दसः । तथा पतिसमीपं सारथित्वेनागत्य पीप्याना वर्धमाना भवति । किमिव । कूचक्रेणेव सिञ्चन् । कुः पृथिवी । तस्याश्चक्रो वलयः कूचक्रः । तेन वर्षणीयत्वेन निमित्तेन सिञ्चन् जलं वर्षन्मेघ इव । स यथान्तरिक्षे स्वल्पमात्रोऽपि वर्षणसमये महान्भवति तद्वदियमपि शत्रुमध्ये शरधारा वर्षन्ती वर्धत इत्यर्थः । तथा एषैष्या। एषितव्यो गोसंघ एषः। तमिच्छतीस्येषैषी । ईदृश्या तया रथ्या सारथिभूतया जयेम शत्रुभिरपहृतं गोसंघम् । तस्याः सातं दत्तं संभजनं वा सुमङ्गलं शोभनमङ्गलवत् 'सिनवत् । सिनमन्नम् । तद्वच्च अस्तु गोरूपान्नवच्च भवतु ॥
“As a wife who has been abandoned rejoices to find her husband, as a cloud expanding when pouringforth rain with the aid of the earth's disc; with her eager (to recover the cattle) for our charioteer, may we win (theprize), may good fortune, together with food, be given to us.”
Like one forsaken, she hath found a husband, and teemed as if her breast were full and flowing.
With swiftly-racing chariot may we conquer, and rich and blessed be our gains in battle.
She has accomplished the recovery of her husband, like a (once) avoided wife: she swelling, he dripping, as if (working) with a poor
(water) wheel.
Might we also be victorious with a charioteer who is quicker than
quick. Let the winnings bring good luck and possessions.
Gleich der Verstossnen, die den Mann erlangt hat, so strotzt sie wie ein Tropfen an der Zitze. Erstrebte Schätze möchten wir erbeuten, zu hohem Heil sei der erlangte Reichthum.
Sie hat gewonnen, wie eine zurückgesetzte Gattin den Besitz des Gatten wiedergewinnt, die Vollbrüstige, die gleichsam mit schlechtem Brunnenrad Wasser schöpft. Mit einer Wagenlenkerin, die noch fixer als fix ist, möchten auch wir siegen. Der Gewinn soll glückbringend, lohnend sein!
त्वं विश्व॑स्य॒ जग॑त॒श्चक्षु॑रिन्द्रासि॒ चक्षु॑षः । वृषा॒ यदा॒जिं वृष॑णा॒ सिषा॑ससि चो॒दय॒न्वध्रि॑णा यु॒जा ॥
त्वम् । विश्व॑स्य । जग॑तः । चक्षुः॑ । इ॒न्द्र॒ । अ॒सि॒ । चक्षु॑षः । वृषा॑ । यत् । आ॒जिम् । वृष॑णा । सिसा॑ससि । चो॒दय॑न् । वध्रि॑णा । यु॒जा ॥
सूक्तस्य विकल्पेनैन्द्रत्वादादाविन्द्रस्य स्तुतत्वादन्तेऽपीन्द्रः स्तूयते । हे इन्द्र त्वं विश्वस्य सर्वस्य जगतः चक्षुषः चक्षुष्मतः पश्यतो वा जगतः चक्षुः असि । प्रत्येकमुत्पत्तिविशिष्टचक्षुःसद्भावेऽपि सर्वस्य साधारणं चक्षुरसि । त्वया दृष्टया द्रष्टव्यानैहिकामुष्मिकपदार्थान् पश्यन्तीत्यर्थः । त्वामेव हि यज्ञादिना लब्ध्वा पुरुषार्थान् साधयन्ति । यद्वा । विश्वस्य जगतो यन्निजं चक्षुरस्ति तस्यापि चक्षुषस्त्वं चक्षुरसि । यत् यस्मात् वृषा अभिमतवर्षकस्त्वम् आजिं मुद्गलस्य मम संग्रामं वध्रिणा पाशेन युजा युजौ युक्तौ वृषणा वृषणौ वर्षकावश्वौ रथे योजयित्वा चोदयन् शत्रुषु प्रेरयन् सिषाससि आजिं संभक्तुमिच्छसि तस्माच्चक्षुरसि ॥ ॥ २१ ॥
“You, Indra, are the eye of the whole world, when, showerer (of benefits), urging on your two vigoroussteeds, harnessed to the car, you engage in battle.”
Thou, Indra, art the mark whereon the eyes of all life rest, when thou,
A Bull who drivest with thy bull, wilt win the race together with thy weakling friend.
Indra, you are (the eye) of the entire moving world, the eye of the eye, when, a bull yourself, you strive to win the race with a bull, driving
(him) with a steer as (his) yokemate.
Du, Indra, bist der ganzen Welt, du bist des Auges Augenlicht; wenn du als Stier durch den Stier den Kampfpreis gewinnen willst, eilend mit dem verschnittenen Genossen (?).
Du, Indra, bist für die ganze Welt das Auge des Auges, wenn du, der Stier, mit dem Stiere den Wettlauf gewinnen willst, ihn durch einen Hämling als Jochgenossen anstachelnd.