आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् । सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तं सेना॑ अजयत्सा॒कमिन्द्र॑: ॥
आ॒शुः । शिशा॑नः । वृ॒ष॒भः । न । भी॒मः । घ॒ना॒घ॒नः । क्षोभ॑णः । च॒र्ष॒णी॒नाम् । स॒म्ऽक्रन्द॑नः । अ॒नि॒ऽमि॒षः । ए॒क॒ऽवी॒रः । श॒तम् । सेनाः॑ । अ॒ज॒य॒त् । सा॒कम् । इन्द्रः॑ ॥
अयमिन्द्रः आशुः शीघ्रकारी व्यापको वा शिशानः निशितः । शत्रूणां भयजनक इत्यर्थः । क इव । वृषभो न भीमः । बिभेत्यस्मादिति भीमः । तादृशो वृषभ इव । स यथा तीक्ष्णाभ्यां ऋङ्गाभ्यां भीमो भवति तद्वत् । अथवा शिशानस्तीक्ष्णमतिः । व्यत्ययेनात्मनेपदम् । वृषभो न भीमः वृषभो यथा शृङ्गाभ्यां भयजनकः तद्वच्छत्रूणाँ भयजनकश्च । घनाघनः घातकः शत्रूणाम् । हन्तेः पचाद्यचि • हन्तेर्घश्च ' (पा.सू. ६.१.१२.७) इति द्विर्वचनमभ्यासस्याडागमो घत्वं च धात्वभ्यासयोः । चर्षणीनाम् । चर्षणयो मनुष्याः । मनुष्याणां द्वेष्याणां क्षोभणः क्षोभयिता । संक्रन्दनः सम्यक्क्रन्दयिता प्राणिनामाकर्षणेन प्रहारेण वा । अनिमिषः चक्षुर्निमेषरहितः । सर्वदा स्वयज्ञगमनयुद्धादिकार्येष्वनलस इत्यर्थः । एकवीरः । वीरयत्यमित्रानति वीरः । एकश्चासौ वीरश्च । अथवा एक एव विक्रान्तः । असाहाय्येन कार्यक्षम इत्यर्थः । ईदृशोऽयम् इन्द्रः शतं सेनाः साकं सह एकोद्योगेनैव अजयत् जयति ॥
अयमिन्द्रः परमैश्वर्योपेतः शतं सेनाः शतसंख्याकाः परकीयसेनाः साकमेकपयत्नेनाजयत्।
कीदृश इन्द्रः।
आशुः शीघ्रकारी, शिशानस्तीक्ष्णोऽयुध इत्यर्थः।
तत्र दृष्टान्तः वृषभो न युध्मः।
यथा तृषभो वृषभान्तरेण योद्धमुत्सुकस्तद्वदयमपि घनाघनोऽतिशयेन शत्रूणां हिंसको घातकः।
चर्षणीनां परसेनागतमनुष्याणां क्षोमणः क्षोभहेतुः।
संक्रन्दनः समीचीनं क्रन्दनं परभयहेतुर्ध्वनिविशेषो यस्यासौ संक्रन्दनः।
अनिमिषः कदाचिदपि निमेषं न करोत्यत्यन्तसावधान इत्यर्थः एकवीरः परानपेक्षेण ( क्षः ) स्वयमेक एव जेतुं समर्थः शूरः।
“The fleet-going Indra, like a formidable bull sharpening (his horns), the slayer of foes, the exciter ofmen, loud-shouting, ever-vigilant, the chief of heroes overthrew at once a hundred hosts.”
SWIFT, rapidly striking, like a bull who sharpens his horns, terrific, stirring up the people,
With eyes that close not, bellowing, Sole Hero, Indra. subdued at once a hundred armies.
Swift, honing himself as a fearsome bull (does its horns), smiting again and again, the agitator of the settled domains who makes them cry out together, the unwinking lone hero—he
conquered a hundred armies all at once—Indra.
Der schnelle, der gleich wildem Stier erregt ist, der starke Kämpfer, der die Menschen aufregt, Der einz'ge Held, laut donnernd, nimmer schlummernd, bezwang auf einmal hundert Heere, Indra.
Rasch, die Waffe wetzend wie ein furchtbarer Stier die Hörner, immer dreinschlagend, Aufrührer der Völker, Heerrufer, die Augen offen haltend, der einzige Held, hat Indra auf einmal hundert Heerhaufen besiegt.
सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ । तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ॥
स॒म्ऽक्रन्द॑नेन । अ॒नि॒ऽमि॒षेण॑ । जि॒ष्णुना॑ । यु॒त्ऽका॒रेण॑ । दुः॒ऽच्य॒व॒नेन॑ । धृ॒ष्णुना॑ । तत् । इन्द्रे॑ण । ज॒य॒त॒ । तत् । स॒ह॒ध्व॒म् । युधः॑ । न॒रः॒ । इषु॑ऽहस्तेन । वृष्णा॑ ॥
अस्तु नामेन्द्र उक्तविधः तथाप्यस्माकं किमिति चेत् तत्राह । संक्रन्दनेनानिमिषेण चोक्तलक्षणेन जिष्णुना जयशीलेन युत्कारेण । योधनं युत् । युद्धकारिणा। कर्मण्यण् । दुश्च्यवनेन अन्यैरविचाल्येन । ' च्युङ् प्रुङ् गतौ । छन्दसि गत्यर्थेभ्यः' (पा. सू. ३. ३. १२९ ) इति युच् । धृष्णुना धर्षकेण ईदृशेन इन्द्रेण तत् युद्धं जयत । तत् शत्रुबलं सहध्वम् अभिभवत । हे युधः योद्धारो हे नरः नेतारः । ‘ विभाषितं विशेषवचने बहुवचनम् ' (पा. सू. ८. १. ७४ ) इति पूर्वस्याविद्यमानवत्त्वनिषेधादुत्तरं निहन्यते । पुनः कीदृशेनेन्द्रेणेति । इषुहस्तेन वृष्णा वर्षित्रा च ॥
अथ द्वितीयामाह— संक्रन्दनेनेति।
युधो युद्धार्थिनो हे नरो मनुष्या इन्द्रेणानुगृहीताः सन्तस्तत्परबल जयत वशी कुरुत।
वशीकृत्व च तत्सहध्वमभिभवत विनाशयतेत्यर्थः।
कीदृशेनेन्द्रेण, संक्रन्दनेनानिमिषेण।
पूर्ववद्व्याख्येयम्।
जिष्णुना जयशीलेन, युस्कारेण युद्धकारिणा, दुश्च्यवनेन च्यावयितुं दुःशक्येन, धुष्णुना भीतिरहितेन, इषुहस्तेन बाणाद्यायुधोपेतेन, वृष्णा कामानां वर्षकेण।
“With Indra the loud-shouting, the vigilant, the vigtorious, the warlike, the unconquerable, the daring,the hurler of arrows, the showerer, (as your ally) conquer you warriors, you leaders, that (hostile host) andovercome it.”
With him loud-roaring, ever watchful, Victor, bold, hard to overthrow, Rouser of battle,
Indra. the Strong, whose hand bears arrows, conquer, ye warriors, now, now vanquish in the combat.
With him, who makes (them) cry out together, who is unwinking, conquering, combat-creating, difficult to shake, bold—
with Indra now conquer, now overwhelm the combatants, o men—with the bull with arrows in his hand.
Mit ihm, dem Donnrer, der nicht schlummernd Sieg gewinnt, der Schlacht erregt voll Kühnheit, unerschütterlich, Mit Indra siegt nun, und gewinnt ihr Männer des Kampfes, mit dem Pfeil- bewehrten Helden.
Zusammen mit dem Heerrufer, der die Augen offen haltend, dem siegreichen, streitbaren, unentwegten, kühnen, mit Indra gewinnet jetzt, bestehet jetzt die Kämpfe, ihr Männer, mit dem Bullen, der den Pfeil in der Hand hat!
स इषु॑हस्तै॒: स नि॑ष॒ङ्गिभि॑र्व॒शी संस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ । सं॒सृ॒ष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्यु१॒॑ग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ॥
सः । इषु॑ऽहस्तैः । सः । नि॒ष॒ङ्गिऽभिः॑ । व॒शी । सम्ऽस्र॑ष्टा । सः । युधः॑ । इन्द्रः॑ । ग॒णेन॑ । सं॒सृ॒ष्ट॒ऽजित् । सो॒म॒ऽपाः । बा॒हु॒ऽश॒र्धी । उ॒ग्रऽध॑न्वा । प्रति॑ऽहिताभिः । अस्ता॑ ॥
पूर्वमन्त्र इन्द्रेण जयत इत्युक्तम् । अत्र इन्द्रस्य जयसाधनसमर्थत्वं दर्शयति । सः इन्द्रः इषुहस्तैः भटैः मरुदादिभिः वशी वश्यैस्तद्वान् । तथा निषङ्गिभिः युक्तः। निषङ्गः खड्गः। तद्वद्भिः वशी । सः च इन्द्रः युधः युध्यमानः सन् । इगुपधलक्षणः कः । अथवा युधो युद्धहेतोः गणेन शत्रुसंघेन सह संस्रष्टा एकीभवनशीलः । यत एवंविधोऽतः संसृष्टजित् । ये परस्परैकमत्येन युद्धाय संसृष्टा भवन्ति तेषां जेता । तथा सोमपाः सोमस्य पाता। बाहुशर्धी । शर्धो बलम् । बाह्वोर्बलं बाहुबलम् । तद्वान् । मत्वर्थीय इनिः । यद्वा । ‘ शृधु प्रसहने ' । बाहुभ्यां शर्धयत्यभिभवतीति बाहुशर्धी। ‘ सुप्यजातौ णिनिस्ताच्छील्ये' (पा. सू. ३. २. ७८ ) इति णिनिः। उग्रधन्वा उद्यतधन्वा प्रतिहिताभिः शत्रुषु प्रेरिताभिरिषुभिः अस्ता मारयिता । यत्रेषून्मुञ्चति तत्र वृथा न भवन्तीत्यर्थः । ईदृशेनेन्द्रेण जयतेति संबन्धः ॥
अत तृतीयामाह— स इषुहस्तैरिति।
इषवो हस्तेषु येषां भटानां त इषुहस्तास्तै, साकं स इन्द्रो वशी परबलं स्ववशं करोति।
निषङ्गिणः खड्गहस्तास्तैः साकं स इन्द्रो वशी स्वकीवैर्धानुष्कैः खड्गहस्तैश्चोपेतत्वात्परर्सैन्यं वशो करोतीत्यर्थः।
यद्वा परसैन्यगतैर्धानुष्कैः खड्गहस्तैश्च सहितं तद्वशी करोति।
स इन्द्रो युधो योद्धा
२१८० सन्गणेन परकीयभटसमूहेन संस्रष्ठा सहसा गत्वा सम्यङ्मिश्रितो भवति।
मिश्रीभूय च ये स्वेन संसृष्टास्तान्सर्वाञ्जयतीति संसृष्ठजित्।
यजमानानां यागेषु सोमं पिवतीति सोमपा अत एव बाहुशर्धी बाहुवलोपेत ऊर्थ्वधन्वा निरन्तरमुद्यतधनुष्कः प्रतिहिताभिस्तेन धनुषा प्रेरिताभिरिषुभिरस्ता क्षेप्ता विनाशयतीत्यर्थः।
“Indra, with the arrow-bearing (maruts), armed with swords, the subduer, the warrior, who encountershim, the drinker of the Soma, the strong- armed, having a powerful bow, who shoots with well-aimed arrows(conquer with his help).”
He rules with those who carry shafts and quivers, Indra who with his band rings hosts together,
Foe-conquering, strong of arm, the Soma-drinker, with mighty bow, shooting with well-laid arrows.
He together with those with arrows in their hands, he together with those having quivers, willful Indra, with his throng, who is the one to send the combatants surging together,
conquering those sent surging together, drinking the soma, arrogant in his arms, the archer of mighty bow having his (arrows) aimed.
Mit seiner Schar, die Pfeile trägt und Köcher, theilt seine Kämpfe der gewalt'ge Indra; Der Somatrinker, siegreich, stark an Armen mit mächt'gem Bogen, schiesst mit den gezielten.
Er ist mit seinen Pfeilträgern, er mit den Köchergewappneten, er mit seinem Gefolge der Gebieter Indra, der in Kämpfe verwickelt, und die in Kämpfe verwickelten besiegt, der Somatrinker, der auf seine Arme pocht, mit gewaltigem Bogen, der Schütze mit den aufgelegten Pfeilen.
बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हामित्राँ॑ अप॒बाध॑मानः । प्र॒भ॒ञ्जन्त्सेना॑: प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ॥
बृह॑स्पते । परि॑ । दी॒य॒ । रथे॑न । र॒क्षः॒ऽहा । अ॒मित्रा॑न् । अ॒प॒ऽबाध॑मानः । प्र॒ऽभ॒ञ्जन् । सेनाः॑ । प्र॒ऽमृ॒णः । यु॒धा । जय॑न् । अ॒स्माक॑म् । ए॒धि॒ । अ॒वि॒ता । रथा॑नाम् ॥
हे बृहस्पते बृहतां पात: पालयितर्देव रथेन परि दीय परिगच्छ । दीयतिर्गतिकर्मा। आगत्य च रक्षोहा रक्षसां हन्ता अमित्रान् शत्रून् अपबाधमानः सर्वतो नाशयन् तथा सेनाः शत्रुसंबन्धिनीः प्रभञ्जन प्रकर्षेण नाशयन् प्रमृणः प्रकर्षेण हिंसन् । “ मृण हिंसायाम् । इगुपधलक्षणः कः । केन हिंसन् । युधा युद्धेन । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम्। जयन् एवं सर्वत्र जयं प्रतिपद्यमानः ईदृशस्त्वम् अस्माकं रथानाम् अविता एधि भव ॥
अथ चतुर्थीमाह— बृहस्पते परीति।
बृहद्वाक्तस्याः पालको बृहस्पतिरिन्द्रः।
अत एव शाखान्तरे समाम्नातम्—“वाग्वै बृहत्तस्याः एष पतिस्तस्माद्बृहस्पतिरेषः” इति।
व्याकरणकर्तृत्वमिन्द्रस्य वाक्पतित्वम्।
तच्चान्यत्राऽऽम्नातम्— “ते देवा इन्द्रमब्रुवन्निमां नो वाच व्याकुर्विति” इति।
तथाविध हे इन्द्र त्वं रथेन परिदीय सर्वतो गच्छ।
कीदृश इन्द्रः, रक्षोहा राक्षसानां हन्ता, अमित्राञ्शत्रूनवबाधमानो यथाऽपयन्ति तथा बाधमानः, सोनाः परकीयाः प्रभञ्जन्प्रकर्षेण भाग्नाः कुर्वन्, प्रमृणः प्रकर्षेण हिंसको युधा युद्धेन जयन्सर्वत विजयमानः।
अस्माकमस्मदीयानां रथानामवितैधि रक्षको भव।
“Come with your chariot, Bṛhaspati, who are the slayer of Rākṣasas, discomfiting your enemies,”
Brhaspati, fly with thy chariot hither, slayer of demons, driving off our foemen.
Be thou protector of our cars, destroyer, victor in battle, breaker-up of armies.
Br̥haspati, fly around with your chariot, as demon-smasher repelling those without alliance.
Shattering the armies, pulverizing them, conquering in combat, be the helper of our chariots.
Brihaspati, flieg' her mit deinem Wagen, Gespenster tödtend, jeden Feind verjagend, Das Heer durchbrechend, mordend, Sieg gewinnend, in Schlachten sei der Fördrer unsrer Wagen.
Brihaspati, fliege mit deinem Wagen umher, die Unholde tötend, die Feinde vertreibend, die Heere durchbrechend, zerschmetternd, im Kampfe siegend sei du der Helfer unserer Wagen!
ब॒ल॒वि॒ज्ञा॒यः स्थवि॑र॒: प्रवी॑र॒: सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ॥
ब॒ल॒ऽवि॒ज्ञा॒यः । स्थवि॑रः । प्रऽवी॑रः । सह॑स्वान् । वा॒जी । सह॑मानः । उ॒ग्रः । अ॒भिऽवी॑रः । अ॒भिऽस॑त्वा । स॒हः॒ऽजाः । जैत्र॑म् । इ॒न्द्र॒ । रथ॑म् । आ । ति॒ष्ठ॒ । गो॒ऽवित् ॥
सर्वस्य भूतस्य बलं विजानातीति बलविज्ञायः । यद्वा । बलं ममायमिति सर्वैर्बलत्वेन विज्ञायत इति बलविज्ञायः । सर्वस्य बलभूत इत्यर्थः । स्थविरः महान् प्रवीरः प्रकर्षेण वीरः सहस्वान् पराभिभवसामर्थ्यवान् वाजी वेजनवानन्नवान्वा सहमानः शत्रूणामभिभविता उग्रः उद्गूर्णबलः अभिवीरः । अभिगता वीरा वीर्यवन्तोऽनुचरा यस्य स तथोक्तः । अभिसत्वा अभिगतसत्वा सहोजाः सहसो बलाज्जातः एवंमहानुभावस्त्वं हे इन्द्र जैत्रं जयशीलं रथम् आ तिष्ठ अस्मत्सहायार्थमारोढुमर्हसि । त्वं च गोवित् उदकस्य स्तुतेर्वा लब्धा वेदिता वा ॥
अथ षष्ठीमाह— बलविज्ञाय इति।
हे इन्द्र त्वं जैवं जयशीलं रथमातिष्ठाऽऽरोह।
कीदृशस्त्वं, वलं परकीयसामर्थ्यं विजानातीति बलविज्ञायः।
स्थविरः पुरातनः।
प्रवीरः शूरेष्वप्यतिशूरः।
सहस्वान्बलवान्।
वाज्यन्नवान्।
सहमानः परेषामभिमविता।
उग्रो युद्धेषु क्रूरः।
अभितो वीराः शूरभटा यस्यासावभिवीरः।
२१८१ अभितः सत्त्वानः परिचारकाः प्राणिनो यस्यासाव् अभिसत्त्वा।
सहसो बलाज्जातः सहोजा बलाधिक इत्यर्थः।
गां भूमिं विन्दते लभत इति गोवित्।
“Known by his strength mighty, heroic, overpowering, vigorous, enduring, fierce, attended by heroes,attended by mighty men, the offspring of strength, the possessor of water, do you, Indra, ascend your triumphantchariot.”
Conspicuous by thy strength, firm, foremost fighter, mighty and fierce, victorious, all-subduing,
The Son of Conquest, passing men and heroes, kine-winner, mount thy conquering car, O Indra.
Recognizable by his power, stalwart, a hero at the fore, a prizewinner with overwhelming strength, overwhelming and mighty,
a hero on attack, a warrior on attack, born of overwhelming
strength—o Indra, mount the conquering chariot as the finder of
cattle.
Durch Stärke kenntlich, fest, der Helden kühnster, siegreich, gewaltig, stark und mächtig steige, Der tapfern Männer stärkster, kraftgeborner, erbeutend auf den Siegeswagen, Indra.
An seiner Stärke zu erkennen, standfest, ein hervorragender Held, überlegen, siegreich, bezwingend, gewaltig, jedem Helden über, jedem Krieger über, kraftgeboren, rinderfindend besteige du, Indra, den siegreichen Wagen!
गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा । इ॒मं स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्रं॑ सखायो॒ अनु॒ सं र॑भध्वम् ॥
गो॒त्रऽभिद॑म् । गो॒ऽविद॑म् । वज्र॑ऽबाहुम् । जय॑न्तम् । अज्म॑ । प्र॒ऽमृ॒णन्त॑म् । ओज॑सा । इ॒मम् । स॒ऽजा॒ताः॒ । अनु॑ । वी॒र॒य॒ध्व॒म् । इन्द्र॑म् । स॒खा॒यः॒ । अनु॑ । सम् । र॒भ॒ध्व॒म् ॥
गोत्रभिदम् । गा उदकानि त्रायन्त इति गोत्रा मेघाः । यद्वा गौर्भूमिः । तां त्रायन्त इति गोत्राः पर्वताः। तेषां भेत्तारं गोविदम् उदकस्य लब्धारं वज्रबाहुं वज्रहस्तम्। 'प्रहरणार्थेभ्यः (पा. सू. २. २. ३६. ४) इति परनिपातः । जयन्तं जयनशीलम् अज्म गमनशीलं शत्रुबलम् ओजसा बलेन जयन्तं यद्वा अज्म आजिं जयन्तमोजसा बलेन प्रमृणन्तं शत्रून् अभिभवन्तम् ईदृशं महानुभावम् इमम् इन्द्रं हे सजाताः सहोत्पन्ना योद्धारो यूयम् अनु वीरयध्वम् । एनमग्रतः कृत्वानु पश्चाद्वीरयध्वं वीरकर्मं युद्धं कुरुध्वम् । ‘शूर वीर विक्रान्तौ । वीरशब्दात् ‘तत्करोति तदाचष्टे इति णिच् । हे सखायः परस्परं सखिभूता यूयमिमम् इन्द्रं संरभमाणम् अनु सं रभध्वम्॥॥२२॥
अथ पञ्चमीमाह— गोत्रभिदभिति।
हे सजाताः समानजन्मानो ऽस्मदीया ज्ञातयो यूयम् इम मिन्द्रमनुवरियध्वम्।
अयम् इन्द्रः पुरतो वीरः शूरोऽभवत् पश्चाद् यूयं शूरा भवत।
हे सखाय इन्द्रम् अनुसंरभध्वम् इन्द्रः पुरसो युद्धं सम्यगारभतां पश्चाद् भवत आरभन्ताम्।
कीदृशमिन्द्रं गोत्रभिदं गोत्रान्पर्वतान्भिनत्ति तदीयपक्षांश्छिनत्तीति गोत्रभित्तं, गां भूमिं विन्दत्ते लभत इति गोवित् तं गोविदं, वज्रो वाहौ यस्य स वज्रबाहुस् तम्, अज्म जयन्तं भूमिराहित्यं शत्रूणां यथा भवति तथा विजयमानम्, ओजसा बलेन प्रमृणन्तं प्रकर्षेण हिंसन्तम्।
“Imitate in heroism, you kindred warriors, follow, friends, in prowess this Indra, who is the breaker ofmountains, the acquirer of water, armed with the thunderbolt, conquering the swift (foe), destroying (the enemy)by his might.”
Cleaver of stalls, kine-winner, armed with thunder, who quells an army and with might destroys it.-
Follow him, brothers! quit yourselves like heroes, and like this Indra show your zeal and courage.
The splitter of the cowpen, the finder of cows, the one with the mace in his arms, winning the course, pulverizing with his might—
show your heroism in imitation of that one, you kinfolks; pull
yourselves together in imitation of him, you comrades.
Der blitzbewehrt den Stall erschliesst, die Kühe erringt und Bahn sich bricht mit Macht vertilgend, Ihm folgend zeigt, o Brüder, euch als Helden, voll Eifer ahmt dem Indra nach, o Freunde!
Der die Kuhställe aufsprengt, die Rinder ausfindig macht mit der Keule im Arm, der das Rennen gewinnt, mit Kraft zermalmt, ihm tut es an Tapferkeit gleich, ihr Clangenossen; an Indra haltet euch fest, ihr Freunde!
अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम॑न्यु॒रिन्द्र॑: । दु॒श्च्य॒व॒नः पृ॑तना॒षाळ॑यु॒ध्यो॒३॒॑ऽस्माकं॒ सेना॑ अवतु॒ प्र यु॒त्सु ॥
अ॒भि । गो॒त्राणि॑ । सह॑सा । गाह॑मानः । अ॒द॒यः । वी॒रः । श॒तऽम॑न्युः । इन्द्रः॑ । दुः॒ऽच्य॒व॒नः । पृ॒त॒ना॒षाट् । अ॒यु॒ध्यः॑ । अ॒स्माक॑म् । सेनाः॑ । अ॒व॒तु॒ । प्र । यु॒त्ऽसु ॥
अयम् इन्द्रः गोत्राणि अभ्राणि मेघान सहसा बलेन अभि गाहमानः प्रविशन् अदयः निर्दयः वीरः विक्रान्तः शतमन्युः बहुयज्ञो बहुक्रोधो वा दुश्च्यवनः अन्यैरचाल्यः । स्वयं पृतनाषाट् शत्रुसेनानामभिभविता । छन्दसि सहः' इति ण्विः । ‘ सहेः साडः सः' इति मूर्धन्यादेशः । अयुध्यः संप्रहर्तुमशक्यः । ‘ युध संप्रहारे । छान्दसः क्यप् । ईदृगिन्द्रः अस्माकं सेनाः युत्सु संग्रामेषु प्र अवतु प्रकर्षेण रक्षतु ॥
अथ सप्तमीमाह— अभिगोत्राणीति।
अयमिन्द्रः प्रयुत्सु प्रकृष्टेषु युद्धेषु अस्माकं सेना अवतु रक्षतु।
कीदृश इन्द्रः, अभि सर्वतोऽवस्थितानि गोत्राणि युद्धक्षेत्राणि सहसा शीघ्रं गाहमानः प्रविशन्।
अदायो दा(द)यारहितः।
वीरः शूरः।
शतमन्युर्बहुविधक्रोधयुक्तः।
दुश्च्यवनश्च्यावयितुं दुःशक्यः।
पृतनाषाट् परकीयसेनानामभिभविता।
अयुध्यः केनापि योद्धुमशक्यः।
“May Indra, bursting open the clouds with force; pitiless, heroic, with hundredfold anger, invincible, theoverthrower of armies, irresistible, protect our armies in battles.”
Piercing the cow-stalls with surpassing vigour, Indra, the pitiless Hero, wild with anger,
Victor in fight, unshaken and resistless,may he protect our armies in our battles.
Plunging toward the cowpens with overwhelming strength, the hero without mercy, Indra of the hundredfold battle-fury,
difficult to shake, overwhelming in battle, impossible to combat—let him further our armies in the combats.
Der mit Gewalt sich in die Ställe eintaucht, Held Indra ohne Mitleid vielfach zürnend, In Schlachten siegreich, helfe unsern Heeren in jedem Kampf, unhemmbar, unerschüttert.
Der mit Gewalt in die Kuhställe eindringt, ohne Erbarmen, der Held Indra mit hundertfachem Eifer, unentwegt, die Kämpfe bestehend, nicht zu bekämpfen, der soll in den Schlachten unseren Heeren weiter helfen.
इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोम॑: । दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्र॑म् ॥
इन्द्रः॑ । आ॒सा॒म् । ने॒ता । बृह॒स्पतिः॑ । दक्षि॑णा । य॒ज्ञः । पु॒रः । ए॒तु॒ । सोमः॑ । दे॒व॒ऽसे॒नाना॑म् । अ॒भि॒ऽभ॒ञ्ज॒ती॒नाम् । जय॑न्तीनाम् । म॒रुतः॑ । य॒न्तु॒ । अग्र॑म् ॥
आसाम् अस्मत्सहायार्थमागतानाम् अयम् इन्द्रः नेता नायकोऽस्तु । तथा तस्य बृहस्पतिः पुर एतु । एवं दक्षिणा “यज्ञः सोमः च पुर एत्विति प्रत्येकं संबन्धः । तथा देवसेनानामभिभञ्जतीनाम् अस्मदमित्रानाभिमुख्येन मर्दयन्तीनां जयन्तीनाम् । 'छन्दसि' इति नाम उदात्तत्वं जयन्तीनामित्यत्र बहुलवचनान्न भवति ( पा. सू. ६. १. १७८)। तासाम् अग्रं मरुतो यन्तु गच्छन्तु ॥
(तैत्तिरीयय् अस्य अष्टममन्त्रस्य व्याख्या नोपलब्धा - प्रायेणान्ध्रपाठे ऽस्याभावात्॥)
“May Indra be the leader of these (hosts), may Bṛhaspati, Dakṣiṇā, Yajña, and Soma go before, letthe Maruts march in the van of the destroying and victorious armies of the gods.”
Indra guide these: Brhaspati precede them, the guerdon, and the sacrifice, and Soma;
And let the banded Maruts march in forefront of heavenly hosts that conquer and demolish.
Let Indra (go in front) as their leader, let Br̥haspati, the priestly gift, the sacrifice, the soma go in front;
let the Maruts go to the forefront of the shattering, conquering armies of the gods.
Ihr Führer sei uns Indra und Brihaspati, vor dringe Opfer, Opferlohn und Soma, Und an der Spitze geh der Götterheere die Marutschar, der siegenden Durchbrecher.
Indra soll als deren Anführer, Brihaspati, die Daksina, das Opfer und Soma vorangehen. Die Marut sollen an der Spitze der einbrechenden, siegreichen Götterheere gehen.
इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुतां॒ शर्ध॑ उ॒ग्रम् । म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥
इन्द्र॑स्य । वृष्णः॑ । वरु॑णस्य । राज्ञः॑ । आ॒दि॒त्याना॑म् । म॒रुता॑म् । शर्धः॑ । उ॒ग्रम् । म॒हाऽम॑नसाम् । भु॒व॒न॒ऽच्य॒वाना॑म् । घोषः॑ । दे॒वाना॑म् । जय॑ताम् । उत् । अ॒स्था॒त् ॥
वृष्णः वर्षकस्य इन्द्रस्य राज्ञः वरुणस्य आदित्यानां मरुतां च उग्रम् उद्गूर्णं शर्धः बलमस्माकं भवत्विति शेषः। किंच महामनसाम् उदारमनसां भुवनच्यवानां भुवनानां च्यावयितॄणां देवानां घोषः जयशब्दः उदस्थात् उत्तिष्ठति । अनूर्ध्वकर्मत्वादात्मनेपदाभावः। ( पा. सू. १. ३. २४ ) ॥
अथाष्टमीमाह — इन्द्रस्य वृष्ण इति।
वृष्णः कामामिवर्षिण इन्द्रस्य राज्ञं राज्यं कुर्वतो वरुणस्य शघों बलमुग्रं युद्धेष्वतितीव्रमस्तु।
महामनसां युद्धे स्थिरचितानां भुवनच्यवानां शत्रून्भूवनेभ्यरच्यावयितुं समर्थानां जयतां विजयमानानां देवानां घोषो निरुदस्थात्सर्वत उत्थितोऽभूत्।
“(May) the mighty force of the showerer Indra, of the royal Varuṇa, of the Ādityas and Maruts (beours). The shout of the magnanimous and victorious deities, the subverters of the worlds, has arisen.”
Ours be the potent host of mighty Indra, King Varuna, and Maruts, and Adityas.
Uplifted is the shout of Gods who conquer high-minded Gods who cause the worlds to tremble.
Of Indra the bull and of Varuṇa the king—mighty their troop of Ādityas and of Maruts—
of the great-minded, earth-shaking, conquering gods the battle-cry has arisen.
Des Königs Varuna, des Helden Indra, der Maruts, der Aditja's Schar ist mächtig, Der hochgesinnten Welterschüttrer Schlachtlärm erhob sich nun der Götter, da sie siegten.
Das Getöse des Bullen Indra, des Königs Varuna, der Aditya´s - der Marut gewaltige Heerschar - das Getöse der hochgemuten, welterschütternden siegenden Götter hat sich erhoben.
उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मनां॑सि । उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यन्तु॒ घोषा॑: ॥
उत् । ह॒र्ष॒य॒ । म॒घ॒ऽव॒न् । आयु॑धानि । उत् । सत्व॑नाम् । मा॒म॒काना॑म् । मनां॑सि । उत् । वृ॒त्र॒ऽह॒न् । वा॒जिना॑म् । वाजि॑नानि । उत् । रथा॑नाम् । जय॑ताम् । य॒न्तु॒ । घोषाः॑ ॥
हे मघवन् इन्द्र अस्मदीयानि आयुधानि उद्धर्षय उत्कृष्टं हर्षय । प्रहरणेषूद्युक्तानि भवन्वित्यर्थः। मामकानां मदीयानां सत्वनां प्राणिनां सैनिकानां मनांसि च उत् हर्षय । हे वृत्रहन् इन्द्र वाजिनाम् अश्वानां वाजिनानि वेगाः उत् यन्तु । तथा जयतां रथानां घोषाः उत् यन्तु ॥
अथ तत्रैव विकल्पिताः पञ्चर्च उच्यन्ते— तत्र प्रथमामाह— २१८२ उद्धर्षयेति।
हे गघवन्निन्द्राऽऽयुधान्यस्मदीयोन्युद्धर्षय परकीयेभ्य उत्कृष्टानि कृत्वाऽस्मान्हर्षय।
मामकानां मदीयानां सत्व [ त्त्वा ] नां प्राणिनां वहांसि तेजांस्युत्कृष्टानि कृत्वा तान्हर्षय।
हे वृत्रहन्वाजिनामस्मदीयानामश्वानां वाजिनानि शीघ्रगमनान्युक्तृष्टानि कृत्वा हर्षय।
जयतां विजयं प्राप्नुवतां रथानामस्मदीयानां घोष उदेतु महाध्वनिरुद्गच्छतु।
“Excite, Maghavan, my weapons, (excite) the spirits of my heroes; slayer of Vṛtra, let the speed of thehorses be accelerated, let the noises of the chariots be increased.”
Bristle thou up, O Maghavan, our weapons: excite the spirits of my warring heroes.
Urge on the strong steeds' might, O Vrtra-slayer, and let the din of conquering cars go upward.
Make our weapons bristle up, o bounteous one—up the minds of my own little warriors,
up, o Vr̥tra-smasher, the competitive spirits of the competitors. Up let the battle-cries of the conquering chariots go.
Empor, o mächt'ger, richte unsre Waffen, empor die Geister meiner tapfern Helden, Empor der Rosse Kräfte, Vritratödter! es dring' empor der Schall der Siegeswagen.
Mach, du Gabenreicher, die Waffen, mache die Herzen meiner Krieger kampffroh, die Siegeskräfte der Streitrosse, o Vritratäter! Das Getöse der siegenden Wagen soll sich erheben!
अ॒स्माक॒मिन्द्र॒: समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु । अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्माँ उ॑ देवा अवता॒ हवे॑षु ॥
अ॒स्माक॑म् । इन्द्रः॑ । सम्ऽऋ॑तेषु । ध्व॒जेषु॑ । अ॒स्माक॑म् । याः । इष॑वः । ताः । ज॒य॒न्तु॒ । अ॒स्माक॑म् । वी॒राः । उत्ऽत॑रे । भ॒व॒न्तु॒ । अ॒स्मान् । ऊँ॒ इति॑ । दे॒वाः॒ । अ॒व॒त॒ । हवे॑षु ॥
अस्माकं संबन्धिष्वेव समृतेषु परसेनां संप्राप्तेषु ध्वजेषु ध्वजवत्सु सैनिकेषु इन्द्रः रक्षिता भवतु । तथा अस्माकं या इषवः सन्ति ताः एव जयन्तु शत्रून् । तथा अस्माकं वीराः भटाः उत्तरे उपरि भवन्तु । हे देवाः अस्माँ उ अस्मानेव अवत रक्षत हवेषु संग्रामेषु ॥
_
अत दशमीमाह— अस्माकमिन्द्र इति।
युद्धार्थं परसैन्यं गतेषु सम्यक्प्राप्तेषु सत्स्वस्माकमिन्द्रो रक्षिता भवत्विति शेषः।
तदानीमस्माकं या इषवोऽस्मदीयैर्मुक्तास्ता जयन्तु परसैन्यानि विध्यन्तु।
अस्माकं ये वीरा शूरा भटास्त उत्तरे भवन्तु परकीयभटेभ्य उत्कृष्टा भवन्तु।
देवा हवेषु युद्धेषु अस्मानु अस्मानेवावतावन्तु रक्षन्तु।
इत्थ दशर्चमप्रतिरथसूक्तं समाप्तम्।
“When the banners are intermingled, may Indra be our (defender), may those arrows which are ours bevictorious may our warriors be triumphant; gods, protect us in battles.”
May Indra aid us when our flags are gathered: victorious be the arrows of our army.
May our brave men of war prevail in battle. Ye Gods, protect us in the shout of onset.
Ours is Indra when the battle flags clash. Our arrows—let them conquer. Our heroes—let them have the upper (hand). Help us amid the calls (to you), o gods.
Es schirme unsre Kämpf' und Fahnen Indra; es seien unsre Pfeile, die da siegen, Und unsre Männer, die da Macht gewinnen; ihr Götter helft uns, wenn wir zu euch rufen.
Unser sei Indra, wann die Feldzeichen zusammentreffen. Unsere Pfeile, die sollen siegen! Unsere Helden sollen die Oberhand haben, uns stehet, ihr Götter, bei während der Kampfrufe!
अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि । अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ॥
अ॒मीषा॑म् । चि॒त्तम् । प्र॒ति॒ऽलो॒भय॑न्ती । गृ॒हा॒ण । अङ्गा॑नि । अ॒प्वे॒ । परा॑ । इ॒हि॒ । अ॒भि । प्र । इ॒हि॒ । निः । द॒ह॒ । हृ॒त्ऽसु । शोकैः॑ । अ॒न्धेन॑ । अ॒मित्राः॑ । तम॑सा । स॒च॒न्ता॒म् ॥
हे अप्वे पापाभिमानिनि देवते अमीषां योद्धृणां शत्रूणां चित्तं प्रतिलोभयन्ती विमोहयन्ती सती अङ्गानि तेषामवयवान् शिरआदिकान् गृहाण स्वीकुरु। अभि प्रेहि अभिगच्छ। तेषां समीपं गत्वा च हृत्सु हृदयेषु शोकैः निर्दह नितरां भस्मीकुरु । ते अमित्राः अस्मच्छत्रवः अन्धेन तमसा सचन्तां संगच्छन्ताम् ॥
“Bewildering the mind of our foes, Apva, seize their limbs and depart, proceed against them, burn intheir hearts with sorrow, let our enemies be covered with thick darkness.”
Bewildering the senses of our foemen, seize thou their bodies and depart, O Apva.
Attack them, set their hearts on fire and burn them: so let our foes abide in utter darkness.
Confusing the perception of those yonder, seize their limbs, o Lady Panic, and go away.
Go forth against them; with flames burn them in their hearts. Let those without alliance keep company with blind darkness.
O Krankheit, fliehe fort zu jenen Feinden, den Sinn betäubend, ihre Glieder packend; Zu ihnen geh und brenn ihr Herz mit Flammen; es mag der Feind in blindem Dunkel weilen.
Jener Sinn verwirrend, pack, Apva, ihre Glieder und geh mit ihnen ab! Geh drauf, versenge sie in ihrem Herzen mit Glut; die Feinde sollen in der stockdunklen Finsternis stecken!
प्रेता॒ जय॑ता नर॒ इन्द्रो॑ व॒: शर्म॑ यच्छतु । उ॒ग्रा व॑: सन्तु बा॒हवो॑ऽनाधृ॒ष्या यथास॑थ ॥
प्र । इ॒त॒ । जय॑त । न॒रः॒ । इन्द्रः॑ । वः॒ । शर्म॑ । य॒च्छ॒तु॒ । उ॒ग्राः । वः॒ । स॒न्तु॒ । बा॒हवः॑ । अ॒ना॒धृ॒ष्याः । यथा॑ । अस॑थ ॥
हे नरः नेतारः संग्रामस्य निर्वोढारो योद्धारः प्रेत प्रकर्षेण गच्छत! गत्वा च जयत तान्प्रतिभटान् । तिङः परत्वात् ' तिङ्ङतिङः' इति निघाताभावः। वः युष्माकम् इन्द्रः शर्म सुखं यच्छतु प्रयच्छतु । वः बाहवः उग्रा: उद्गूर्णबलाः सन्तु भवन्तु । अनाधृष्याः अन्यैरनभिभाव्याः यथा यूयम् असथ भविष्यथ तथोग्राः सन्तु वो बाहवः ॥ ॥ २३ ॥
“Advance, warriors, and conquer; may Indra grant you happiness, may your arms be strong, so that youmay be invincible.”
Advance, O heroes, win the day. May Indra be your sure defence.
Exceeding mighty be your arms, that none may wound or injure you.
Go forth and conquer, o men. Let Indra offer you shelter.
Let your arms be mighty so that you will be unassailable.
Ihr Männer, eilet vor und siegt, es mög' euch Indra Schutz verleihn; Es seien eure Arme stark, damit ihr bleibet unversehrt.
Zieht fort, sieget, ihr Mannen; Indra soll euch Schutz gewähren. Stark sollen eure Arme sein, auf daß ihr unangreifbar werdet!