क॒दा व॑सो स्तो॒त्रं हर्य॑त॒ आव॑ श्म॒शा रु॑ध॒द्वाः । दी॒र्घं सु॒तं वा॒ताप्या॑य ॥
क॒दा । व॒सो॒ इति॑ । स्तो॒त्रम् । हर्य॑ते । आ । अव॑ । श्म॒शा । रु॒ध॒त् । वारिति॒ वाः । दी॒र्घम् । सु॒तम् । वा॒ताप्या॑य ॥
हे वसो वासयितरिन्द्र स्तोत्रम् अस्मत्कर्तृकं हर्यते कामयमानाय कामयमानं त्वाम् । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थी । कदा कस्मिन् काले अव रुधत् अवरोत्स्यति । अवरुध्य च कदा वाः वारयिष्यति । तादृशः कालः कदास्माकं संभविष्यतीत्याशास्ते । रुधेर्लुङि • इरितो वा ' इति च्लेरङादेशः । वारिति वृणोतेर्ण्यन्ताल्लङि छान्दसः शपो लुक् । ‘ छन्दस्युभयथा' इति तिप आर्धधातुकत्वात् णेरनिटि ' इति लोपे 'हल्या• ब्भ्यः' इति तिलोपः। तत्र दृष्टान्तः । अश्नुते क्षेत्रमिति श्मशा कुल्या । लुतोपममेतत् । यथा कुल्ये तस्तत उदकान्यवरुणद्धि अवरुध्य च वारयति तथेत्यर्थः । किमुद्दिश्यावरोध इति तत्राह । दीर्घं सवनत्रयरूपेणायतं सुतम् अभिषुतं सोमं प्रति । किमर्थमिति तदाह । वाताप्याय । वातेनाप्यतेऽधस्तान्निपात्यत इति वाताप्यमुदकम् । तस्य प्रदानायेत्यर्थः ॥
“When, Vasu, (will our) praise (reach) you desiring it? (when) will he, (like) a dam, obstruct and letloose the long-protracted for the sake of wind- driven (rain)?”
WHEN, Vasu, wilt thou love the laud? Now let the channel bring the stream.
The juice is ready to ferment.
When, o good one, for (you) who yearn for praise, will your beard descend to the water,
to the (soma) long pressed for (you) whose friendship is sought
[/befriended by the wind]?
Wann, o Trefflicher, ist das Loblied so, dass es dir behagt? der Rand [der Kufe] schliesst das Nass ein; lange steht der Saft zur Gährung.
Wann wird dir, du Guter, der ein Loblied verlangt, der Bart das Wasser abhalten den lange gepreßten Trank, dir, dessen Freundschaft begehrt ist?
Когда, о Васу, (тебе,) любящему восхваление,
Борода задержит воду –
Давно выжатый (сок), (тебе,) чья дружба желанна?
हरी॒ यस्य॑ सु॒युजा॒ विव्र॑ता॒ वेरर्व॒न्तानु॒ शेपा॑ । उ॒भा र॒जी न के॒शिना॒ पति॒र्दन् ॥
हरी॒ इति॑ । यस्य॑ । सु॒ऽयुजा॑ । विऽव्र॑ता । वेः । अर्व॑न्ता । अनु॑ । शेपा॑ । उ॒भा । र॒जी इति॑ । न । के॒शिना॑ । पतिः॑ । द॒न् ॥
यस्य इन्द्रस्य हरी हरितवर्णावश्वौ सुयुजा सुष्ठु नियोज्यौ । सुशिक्षितावित्यर्थः । विव्रता । व्रतमिति कर्मनाम। विशिष्टकर्माणौ अर्वन्तौ अरणकुशलौ शेपा शेपवन्तौ । मत्वर्थो लुप्यते । प्रशस्तपुंस्त्वावित्यर्थः। उभा उभौ रजी न रजसी द्यावापृथिव्याविव । यद्वा महान्तौ रञ्जकौ सूर्याचन्द्रमसाविव । केशिना केशिनौ प्रकाशमानौ केशवन्तौ वा ईदृशावश्वौ हे इन्द्र यस्य ते तव स्वभूतौ तयोः पतिः स्वामी त्वं दन् धनानि प्रयच्छन् अनु वेः स्तुतशस्त्रादीन्यनुकामयस्व । दन्निति ददातेः शतरि ‘छन्दस्युभयथा' इत्यार्धधातुकत्वात् ‘आतो लोप इटि च' इत्याकारलोपः । अत एव श्ल्वभावश्च ॥
“(O Indra), to whom belong the two bay horses, well-trained, active, swift, courageous, brilliant as thetwo worlds, do you, who are lord (of bay horses), bestowing (wealth upon us), desire (our praises).”
He whose two Bay Steeds harnessed well, swerving, pursue the Bird's tail-plumes,
With Rowing manes, like heaven and earth, he is the Lord with power to give.
You who pursue your two fallow bays, well yoked but possessing separate commandments, the steeds *with slender penises,
the two with manes like two lines—you, the houselord—
Du, dessen goldfarbenes Rossepaar schön angeschirrt, auf beiden Seiten vorwärts strebt, laufend längs den beiden Schwänzen des Vogels [den beiden Strängen der Deichselstangen des Wagens], wie ein Hausherr zwischen den beiden behaarten Linien.
Der seine zwei wohlgeschirrten falben Rennpferde, wenn sie widerspenstig sind, den Schweifen entsprechend lenkt, die Bemähten wie zwei Geradlinige, er der Gebieter.
Кто свою пару буланых коней, легко запрягаемых, (но) строптивых,
Двоих скакунов – хвосты (их) как у птицы –
Обоих коней с (пышной) гривой (выстраивает,) словно две прямые линии, (тот – ) повелитель.
अप॒ योरिन्द्र॒: पाप॑ज॒ आ मर्तो॒ न श॑श्रमा॒णो बि॑भी॒वान् । शु॒भे यद्यु॑यु॒जे तवि॑षीवान् ॥
अप॑ । योः । इन्द्रः॑ । पाप॑जे । आ । मर्तः॑ । न । श॒श्र॒मा॒णः । बि॒भी॒वान् । शु॒भे । यत् । यु॒यु॒जे । तवि॑षीऽवान् ॥
यः इन्द्रः पापजे । आ इत्यनर्थकः । पापाज्जायत इति पापजो वृत्रः । तस्मिन् मर्तो न मनुष्य इव शश्रमाणः तेन सह युद्धे श्राम्यन् बिभीवान् बिभ्यच्च भवति । श्राम्यतेश्छन्दसि लिट् । तस्य व्यत्ययेन कानच् । स इन्द्रः यत् यदा तविषीवान् मरुद्भिर्बलैर्बलवान् युयुजे युज्यते संपद्यते शुभे शोभार्थं तदानीम् अप योः । तस्य वृत्रस्यापयोरपयोजयिता भवति ॥
“Indra repelled (him), being like a mortal tired and frightened in (the combat with) the offspring ofiniquity (Vṛtra), when being associated with the forces (of the Maruts), he has been prepared for splendour.”
Bereft of skill is Indra, if, like some outwearied man he fears
The sinner, when the Mighty hath prepared himself for victory.
Apart from which two Indra stays stock-still, like an exhausted mortal overcome by fear.
(But) when he, the forceful, has yoked them for beauty,
Vor denen beiden [Rossen] Indra zurückscheute, wie ein ermüdeter sich fürchtender Mensch, wenn der starke sie sich zur Fahrt angeschirrt hat.
Ohne welche Indra zurückbleibt wie ein ermüdeter Sterblicher, der Furcht bekommen hat, wann der Starke angespannt hat zur Prunkfahrt.
Без кого Индра цепенеет,
Как усталый смертный, испуганный,
Когда (бог,) наделенный силой, запрягает (этих коней) для блеска.
सचा॒योरिन्द्र॒श्चर्कृ॑ष॒ आँ उ॑पान॒सः स॑प॒र्यन् । न॒दयो॒र्विव्र॑तयो॒: शूर॒ इन्द्र॑: ॥
सचा॑ । आ॒योः । इन्द्रः॑ । चर्कृ॑षे । आ । उ॒पा॒न॒सः । स॒प॒र्यन् । न॒दयोः॑ । विऽव्र॑तयोः । शूरः॑ । इन्द्रः॑ ॥
आयोः । मनुष्यनामैतत् । मनुष्यस्य स्तोतुः चर्कृषे पुनःपुनर्विलेखनाय । धनप्रदाना येत्यर्थः । सचा सह दातव्यैर्धनैः सहितः । यद्वा । आयोः सचा सह सहायभूतः । उपानसः अनः उपागतवान् । ‘ अत्यादयः क्रान्ताद्यर्थे द्वितीयया' (पा. म, २. २. १८. ४) इति प्रादिसमासः । ‘ अनसन्तान्नपुंसकात्' (पा. सू. ५, ४. १०३ ) इति समासान्तष्टच् । आरूढरथ इत्यर्थः । सपर्यन् धनैः स्तोतारं पूजयन् । यद्वा । व्यत्ययेन कर्तृप्रत्ययः । स्तुतिभिर्हविर्भिश्च पूज्यमानः । उक्तगुणविशिष्टः सन् आ आगच्छति । उपसर्गश्रुतेरुचितक्रियाध्याहारः । कीडश इन्द्रः । नदयोः हेषाशब्दं कुर्वतोः विव्रतयोः विशिष्टकर्मणोरश्वयोर्नियन्ता शूरः विक्रान्तः ॥
“Indra, the friend of man, for his exhilaration, comes mounted in his chariot, granting him favour, thehero Indra, (the driver) of the two neighing and prancing (steeds).”
Indra with these drives round, until he meets with one to worship him:
Indra is Master of the pair who snort and swerve upon their way.
Together with them Indra will ever be famed—(though) he’s (just) their sidecar and providing (them) service—
together with the two roarers with their separate commandments Indra (will be famed) as a champion.
Mit welchen beiden auf verschiedenen Seiten vorstrebenden Hengsten zugleich der im Wagen befindliche, treue Held Indra gepriesen wird.
Mit denen zusammen Indra gerühmt wird als der folgsame Beiwagen, mit den widerspenstigen Hengsten, der tapfere Indra.
Вместе с кем Индра прославляется
Как находящийся в повозке, служащий (им),
Ржущим, строптивым – Индра-герой.
अधि॒ यस्त॒स्थौ केश॑वन्ता॒ व्यच॑स्वन्ता॒ न पु॒ष्ट्यै । व॒नोति॒ शिप्रा॑भ्यां शि॒प्रिणी॑वान् ॥
अधि॑ । यः । त॒स्थौ । केष॑ऽवन्ता । व्यच॑स्वन्ता । न । पु॒ष्ट्यै । व॒नोति॑ । शिप्रा॑भ्याम् । शि॒प्रिणी॑ऽवान् ॥
यः इन्द्रः केशवन्ता केशिनौ व्यचस्वन्ता व्यचनवन्तौ व्याप्तिमन्तौ । न इत्यनर्थको निपातः । ईदृशावश्वौ पुष्ट्यै पोषणाय यजमानस्यात्मनो वा अधि तस्थौ अधितिष्ठति आरोहति । ‘ अधिशीङ्स्थासां कर्म' (पा. सू. १. ३. ४६ ) इति कर्मणोऽधिकरणसंज्ञा । यद्वा नेति चार्थे । तेन गुणौ समुच्चीयेते । प्रशस्तकेशौ व्यचस्वन्तौ चेत्यर्थः । स शिप्राभ्यां हनूभ्यां शिप्रिणीवान् शिप्रवानिन्द्रः । एको मत्वर्थीयोऽनुवादः । वनोति सोमान् याचते । ‘ वनु याचने '। यद्वा। वनुष्यतिर्हन्तिकर्मा । शत्रून् हिनस्ति’ ॥ ॥ २६ ॥
“He who has mounted the two long-maned and all pervading steeds for the nourishment (of thesacrificer) asks (for the Soma) with his two jaws, possessing mighty jaws.”
Borne onward by the long-maned Steeds who stretch themselves as 'twere for food,
The God who wears the helm defends them with his jaws.
He who has mounted on the maned pair, as if on the two of broad expanse [=Heaven and Earth?], to prosper,
the fair-lipped one wins (the soma?) with his pair of lips.
Er, welcher die beiden mähnigen Rosse bestieg, die sich gleichsam ausdehnten, um die Nahrung aufzunehmen, zieht [die Nahrung] an sich mit den beiden Lippen, er, der schlürfende Lippen hat.
Der die bemähnten Falben besteigt, die für die Nahrung gleichsam Platz haben, der Lippenspitzer verlangt mit geöffneten Lippen nach Soma.
Кто сел на двух (коней) с (пышной) гривой,
Словно потянувшихся за кормом,
(Тот,) прекрасногубый, двумя губами стремится ( к соме).
प्रास्तौ॑दृ॒ष्वौजा॑ ऋ॒ष्वेभि॑स्त॒तक्ष॒ शूर॒: शव॑सा । ऋ॒भुर्न क्रतु॑भिर्मात॒रिश्वा॑ ॥
प्र । अ॒स्तौ॒त् । ऋ॒ष्वऽओ॑जाः॒ । ऋ॒ष्वेभिः॑ । त॒तक्ष॑ । शूरः॑ । शव॑सा । ऋ॒भुः । न । क्रतु॑ऽभिः । मा॒त॒रिश्वा॑ ॥
ऋष्वौजाः दर्शनीयबलः व्याप्तबलो वा ऋष्वेभिः दर्शनीयैर्मरुद्भिः सह प्रास्तौत् प्रस्तौति । स्तुत्यादिकं सम्यक्कृतमनेनेति प्रशंसति । यद्वा । कर्मणि कर्तृप्रत्ययः । प्रकर्षेण स्तुतोऽभूत् । य इन्द्रः शूरः विक्रान्तः मातरिश्वा वृष्टेर्निर्मातर्यन्तरिक्षे श्वसन् वर्तमानः सन् शवसा बलेन क्रतुभिः क्रियमाणैः कर्मभिः । यद्वा । क्रतुरिति प्रज्ञानाम् । बलेन प्रज्ञाभिश्च ततक्ष वृत्रवधादिकं चकार । तत्र दृष्टान्तः । ऋभुर्न ऋभव इव । “ सुपां सुलक्' इति जसः सुरादेशः । ऋभवो यथा कर्मभिः प्रज्ञाभिश्चानन्यसाधारणरथचमसादिनिर्माणमकुर्वन् तद्वदित्यर्थः ॥
“Of glorious strength (associated) with the glorious (maruts) he was renowned; the hero abiding in thefirmament wrought with his strength as the Ṛbhus with their wonderful works.”
The Mighty sang with Lofty Ones: the Hero fashioned with his strength,
Like skilful Matarisvan with his power and might,
He of lofty might has struck up the praise song with the lofty ones. The champion fashioned it with his swelling strength,
like an artisan [/R̥bhu] in accord with his intentions, (like?) Mātariśvan.
Ruhmreiches unternahm der hochkräftige mit den hohen [Maruts]; mit Kraft zimmerte der Held, mit Einsicht wie der kunstreiche Mātariçvan.
Von reckenhafter Kraft stimmte er mit den Recken den Gesang an. Der Held hat die Keule mit Kraft gezimmert, mit Umsicht wie Ribhu, der Matarisvan.
Запел (хвалу) (этот бог) выдающейся силы вместе с выдающимися.
Герой мощно вытесал (дубину),
С пониманием, словно искусный Матаришван.
वज्रं॒ यश्च॒क्रे सु॒हना॑य॒ दस्य॑वे हिरीम॒शो हिरी॑मान् । अरु॑तहनु॒रद्भु॑तं॒ न रज॑: ॥
वज्र॑म् । यः । च॒क्रे । सु॒ऽहना॑य । दस्य॑वे । हि॒री॒म॒शः । हरी॑मान् । अरु॑तऽहनुः । अद्भु॑तम् । न । रजः॑ ॥
यः इन्द्रः सुहनाय सुष्ठु हननीयाय दस्यवे उपक्षपयित्रे शत्रवे तस्य वधाय वज्रं प्रहरणसाधनमायुधं चक्रे कृतवान् स त्वं वृजिना शिशीहीत्युत्तरत्र संबन्धः । कीदृश इन्द्रः। हिरीमशः हरितश्मश्रुः । पृषोदरादिः । हिरीमान् हरिताश्वो हरितवर्णो वा अरुतहनुः अबाधितहनुः । किमिव । अद्भुतं न रजः । अद्भुतमिति महन्नाम । रज इति रञ्जकमन्तरिक्षमुच्यते । महदन्तरिक्षमिव । तद्यथान्यैरबाध्यं भवति तद्वत् ॥
“The golden-bearded (Indra), lord of bay horses, who made the thunderbolt for the easy destruction ofthe Dasyu, who has irresistible jaws like the vast firmament.”
The bolt, which pierced at once the vitals of the Dasyu easy to be slain,
With jaw uninjured like the wondrous firmament.
Who made his own mace, to smash the Dasyu easily—he,
golden-colored, golden,
with unbroken jaw, is like the infallible airy realm [?].
Welcher, um schnell den Dämon zu tödten, den Donnerkeil sich machte von goldner Farbe, der goldfarbige, er, dessen Kinnbacken nicht zerbrochen sind, dem wunderbaren Luftraum gleichend.
Der sich die Keule gefertigt hat, um den Dasyu leicht zu erschlagen, der Goldbärtige, Goldfarbige mit ungebrochener Kinnlade, unkenntlich wie das Dunkel.
Кто сделал себе дубину, чтобы легко убивать дасью,
Рыжеватый, золотистый,
С неразбитой челюстью, подобный загадочному туману.
अव॑ नो वृजि॒ना शि॑शीह्यृ॒चा व॑नेमा॒नृच॑: । नाब्र॑ह्मा य॒ज्ञ ऋध॒ग्जोष॑ति॒ त्वे ॥
अव॑ । नः॒ । वृ॒जि॒ना । शि॒शी॒हि॒ । ऋ॒चा । व॒ने॒म॒ । अ॒नृचः॑ । न । अब्र॑ह्मा । य॒ज्ञः । ऋध॑क् । जोष॑ति । त्वे इति॑ ॥
हे इन्द्र नः अस्माकं वृजिना वृजिनानि वर्जनीयानि पापानि अव शिशीहि अत्यर्थं तनूकुरु । विनाशयेत्यर्थः । वयं च ऋचा स्तुत्या साधनेन अनृचः अस्तुतिकानयजमानान् वनेम हिंसाम । अब्रह्मा । ब्रह्म परिवृढं स्तोत्रम् । स्तुतिविरहितः यज्ञः ऋधक् सस्तुतिकाद्यज्ञात्पृथग्भूतः त्वे त्वयि न जोषति न सेवते त्वाम् । न प्रीणयतीत्यर्थः । ‘ जुषी प्रीतिसेवनयोः । व्यत्ययेन शप् परस्मैपदं च ॥
“Mitigate, Indra, our iniquities, may we, by our hymns, extermiante those who offer no hymns. Thesacrifice, unaccompanied by prayer, distinct (from that which is performed with prayer), is not grateful to you. in the hall of sacrifice, accompanied by the sacrifice, you, the friend of man, (ascend) the vessel of your glory.”
Grind off our sins: with song will we conquer the men who sing no hymns:
Not easily art thou pleased with prayerless sacrifice.
Grind down the crooked things for us. By our verse might we vanquish those without verses.
Not without sacred formulations is our individual sacrifice, while you are taking pleasure in it.
Treibe weg von uns die Uebelthaten; durch das Lied mögen wir die liederlosen überwinden; gebetloses Opfer gefällt dir nicht besonders.
Schleife alles Falsche von uns ab; wir wollen mit Versrede die Verslosen überbieten! Kein Opfer ohne feierliche Rede ist gelungen, daß es dir gefalle.
Уничтожь у нас (все) фальшивое!
Гимном мы хотим покорить тех, у кого нет гимнов!
Не слишком-то понравится тебе жертва без священного слова!
ऊ॒र्ध्वा यत्ते॑ त्रे॒तिनी॒ भूद्य॒ज्ञस्य॑ धू॒र्षु सद्म॑न् । स॒जूर्नावं॒ स्वय॑शसं॒ सचा॒योः ॥
ऊ॒र्ध्वा । यत् । ते॒ । त्रे॒तिनी॑ । भूत् । य॒ज्ञस्य॑ । धूः॒ऽसु । सद्म॑न् । स॒ऽजूः । नाव॑म् । स्वऽय॑शसम् । सचा॑ । आ॒योः ॥
हे इन्द्र ते तव स्वभूता त्रेतिनी । त्रेताग्नित्रयम् । तद्वती त्रेतिनी क्रिया । सा यत् यदा ऊर्ध्वा उन्नता प्रवृत्ता भूत् अभूत् । यद्योगादनिघातः । कुत्र स्थाने इति । यज्ञस्य यागस्य सद्मन् सदने । केष्विति । धूर्षु कर्मणां वोढृष्वृत्विक्षु । तदानीं सजूः यजमानेन मरुद्भिर्वा सह प्रीयमाणः सन् आयोः मनुष्यस्य यजमानस्य सचा सह तेन सां स्वायत्तयशस्कं यशःसाधनं नावं तरणसाधनं तरणिम् । आरोहसीति शेषः । एकमेव रथं यजमान आरोहति स्वतरणार्थं तदेव तस्य साधकमारोहसीत्यर्थः । यद्वा । नावं रथं स्वयशसमायोर्यजमानस्य सचा सहायभूतः सजूस्तेन सह प्रीयमाण आरोहेत्यर्थः ॥
When threefold flame burns high for thee, to rest on poles of sacrifice,
Thou with the living joyest in the self-bright Ship.
When the threefold one has become upright for you upon the yokepoles of the sacrifice, in its place,
then, jointly with these two [=horses?], (make?/board?) a boat that has its own glory.
Wenn das dreifache Feuer sich hoch aufgerichtet hat an der Vorderseite [den Deichseln oder Zugscheiten] des Opfers vor deinem Sitze, hast du zugleich mit jenen beiden [Rossen] Gefallen an dem selbstglänzenden Schiffe [des Opfers].
Wenn die Dreiheit der Opferfeuer für dich sich aufrichtet in des Opfers Joch an ihrem Sitze, so besteigst du zugleich in Gesellschaft dieser beiden das selbstherrliche Schiff.
Когда ввысь поднялось для тебя тройное пламя (алтаря)
В дышлах жертвы на (их) сиденье,
Вместе с этими двоими (ты восходишь) на корабль, обладающий собственным великолепием.
श्रि॒ये ते॒ पृश्नि॑रुप॒सेच॑नी भूच्छ्रि॒ये दर्वि॑ररे॒पाः । यया॒ स्वे पात्रे॑ सि॒ञ्चस॒ उत् ॥
श्रि॒ये । ते॒ । पृश्निः॑ । उ॒प॒ऽसेच॑नी । भू॒त् । श्रि॒ये । दर्विः॑ । अ॒रे॒पाः । यया॑ । स्वे । पात्रे॑ । सि॒ञ्चसे॑ । उत् ॥
हे इन्द्र' ते तव संबन्धिनः सोमस्थ श्रिये श्रयणाय पृश्निः गौः पृश्निवर्णा उपसेचनी पयसो दोग्रीन् भूत भवतु । तथा दर्विः अपि अरेपाः अपापा सती ते श्रिये हविषः श्रयणाय भूत् भवतु । यया दर्व्या स्वे स्वकीये पात्रे पानसाधने मुखे उत् सिञ्चसे उपर्याकृष्य पिबसि सा श्रियेऽभूदिति संबन्धः ॥
“May the spotted cow yield milk for mixing with your (Soma), may the ladle for the mixture wherewithyou pour it into your own vessel be free from defect.”
Thy glory was the speckled cup, thy glory was the flawless scoop.
Wherewith thou pourest into thy receptacle.
For splendor is your dappled pourer, for splendor your spotless ladle, with which you pour up into your own vessel.
Zur Freude war dir die bunte Zuguss-Kelle, zur Freude der fleckenlose Löffel, mit dem du dir [den Trank] in dein eignes Trinkgefäss eingiessest.
Dir zu Ehren ist die bunte Kuh, die zugießt, dir zu Ehren der makellose Opferlöffel, mit dem du in deinen eigenen Trinkbecher ausschenkst.
Для блеска тебе пусть будет пестрая (корова), доливающая (молоко в жертву),
Для блеска беспорочная деревянная ложка,
Которой ты наливаешь в свой кубок!
श॒तं वा॒ यद॑सुर्य॒ प्रति॑ त्वा सुमि॒त्र इ॒त्थास्तौ॑द्दुर्मि॒त्र इ॒त्थास्तौ॑त् । आवो॒ यद्द॑स्यु॒हत्ये॑ कुत्सपु॒त्रं प्रावो॒ यद्द॑स्यु॒हत्ये॑ कुत्सव॒त्सम् ॥
श॒तम् । वा॒ । यत् । अ॒सु॒र्य॒ । प्रति॑ । त्वा॒ । सु॒ऽमि॒त्रः । इ॒त्था । अ॒स्तौ॒त् । दुः॒ऽमि॒त्रः । इ॒त्था । अ॒स्तौ॒त् । आवः॑ । यत् । द॒स्यु॒ऽहत्ये॑ । कु॒त्स॒ऽपु॒त्रम् । प्र । आवः॑ । यत् । द॒स्यु॒ऽहत्ये॑ । कु॒त्स॒ऽव॒त्सम् ॥
हे असुर्य बलवन्निन्द्र । अवध्यत्वेनासुरसंबन्धित्वात् । त्वा त्वां प्रति शतं वा शतसंख्याकं धनम् । वाशब्देनापरिमितं धनं वा । यत् यदा कामितवानित्यर्थः । यत् यदा च दस्युहत्ये दस्युहनने शत्रुवधे कुत्सपुत्रं दुर्मित्रम् आवः रक्षितवानलि । तथा कुत्सवत्सं कुत्सपुत्रं प्रावः प्रकर्षेण रक्षितवानसि । अव रक्षणादौ । लङि ‘ आडजादीनाम्' इत्याडागमः। पाददित्वादनिघातः । पुनरुक्तिरादरार्था । तदानीं सुमित्रः नाम्नेत्थम् अस्तौत् । तथा दुर्मित्रः गुणत इत्थम् अस्तौत् । तद्विपरीतं वा द्रष्टव्यम् । सुमित्रो नाम्ना दुर्मित्रो गुणतः' इति कात्यायनेन तथोक्तेः । स इत्था इत्थमनेन कृतप्रकारेणास्तौत् अस्तावीत् । इत्थास्तौदिति द्विरुक्तिः स्तुतिसमाप्त्यर्था ॥ ॥ २७ ॥
“When, you, mighty (Indra, gave) hundredfold (riches), Sumitra praised you thus, Durmitra praised youthus, when at the slaughter of the Dasyus you did protect Kutsa's son, when at the slaughter of the Dasyus youprotected Kutsa's darling.”
As hundreds, O Immortal God, have sung to thee, so hath Sumitra, yea, Durmitra praised thee here,
What time thou holpest Kutsa's son, when Dasyus fell, yea, holpest Kutsa's darling when the Dasyus died.
Whether a hundred are counter(part) to you, lordly one, Sumitra has praised (you) in just this way, Durmitra has praised (you) in just
this way,
in that you helped Kutsa’s son in the smashing of Dasyus, in that you furthered Kutsa’s kid in the smashing of Dasyus.
Wenn auch hunderte dir, o Gott, Lob zusingen, so hat doch in rechter Weise der befreundete ['sumitrás', Wortspiel mit dem Namen des Dichters 'durmitrá'] dich gepriesen, Durmitra dich in rechter Weise gepriesen, dass du in der Dämonenschlacht dem Kutsasohne geholfen hast, dem Kutsasprosse geholfen hast in der Dämonenschlacht.
Wenn dich auch hundert oder mehr dagegen preisen, o Asurischer, so hat dich hier Sumitra der gute Freund gepriesen, dort hat dich der schlechte Freund gepriesen, als du in der Dasyuschlacht dem Kutsa-Liebling weiterhalfst.
Если сотня или (больше), о асурский, тебя (прославила),
По-настоящему, прославил (только) Сумитра,
По-настоящему прославил (только) Дурмитра,
Когда ты помог сыну Кутсы при убийстве дасью,
Когда ты поддержал любимца Кутсы при убийстве дасью.