उ॒भा उ॑ नू॒नं तदिद॑र्थयेथे॒ वि त॑न्वाथे॒ धियो॒ वस्त्रा॒पसे॑व । स॒ध्री॒ची॒ना यात॑वे॒ प्रेम॑जीगः सु॒दिने॑व॒ पृक्ष॒ आ तं॑सयेथे ॥
उ॒भौ । ऊँ॒ इति॑ । नू॒नम् । तत् । इत् । अ॒र्थ॒ये॒थे॒ इति॑ । वि । त॒न्वा॒थे॒ इति॑ । धियः॑ । वस्त्रा॑ । अ॒पसा॑ऽइव । स॒ध्री॒ची॒ना । यात॑वे । प्र । ई॒म् । अ॒जी॒ग॒रिति॑ । सु॒दिना॑ऽइव । पृक्षः॑ । आ । तं॒स॒ये॒थे॒ इति॑ ॥
हे अश्विनौ उभौ युवां नूनम् इदानीं .तदित् अस्माभिर्दीयमानं हविः क्रियमाणं स्तोत्रमेव अर्थयेथे प्रार्थयथः । ‘अर्थ याञ्चायाम्' । चौरादिकः । अनुदात्तेत् । उः पूरणः । संप्रार्थ्यं च धियः कर्माणि स्तुतीर्वा वि तन्वाथे विस्तारयथः । तनु विस्तारे'। तानादिकः । तत्र दृष्टान्तः। अपसेव अपसा अपस्विनौ कुविन्दौ यथा वस्त्रा वस्त्राणि विस्तारयतः ॥ अपःशब्दान्मत्वर्थीयो विनिः । तस्य ‘बहुलं छन्दसि' इति लुक् । प्रातिपदिकस्वरेणान्तोदात्तः । उभयत्र सुप आकारः ॥ ईम् अयं यजमानः सध्रीचीना सध्रीचीनौ सहाञ्चनौ युवाम् ॥ सहपूर्वादञ्चतेः क्विनि ‘सहस्य सध्रिः । इति सध्र्यादेशः । ‘विभाषाञ्चेरदिक्स्त्रियाम् ' इति खः । सुप आजादेशः ॥ तौ यातवे ॥ तुमर्थे तवेन्प्रत्ययः ॥ अभिमतप्राप्त्यर्थं प्र अजीगः प्रकर्षेण स्तौति । यद्वा युवां प्रति स्तुतीरुद्भिरति ॥ ‘गॄ शब्दे'। ‘गॄ निगरणे' वा । एताभ्यां लङि ‘बहुलं छन्दसि' इति विकरणस्य श्लुः । ‘बहुलं छन्दसि ' इत्यभ्यासस्येत्वम् । दीर्घश्छान्दसः । गुणे कृते हल्ङ्यादिना तिपो लोपः ॥ किंच सुदिनेव सुदिनेष्वन्नानि यथालंकुर्वन्ति । यद्वा । सुदिना सुदिनौ । अहोरात्रयोः प्रवर्तकत्वेन तद्वन्तौ सूर्याचन्द्रमसौ स्वरश्मिभिर्यथान्नान्यलंकुरुतः । तद्वद्युवां पृक्षः । अन्ननामैतत् । भोक्तृभिः संपृच्यन्त इति पृक्षोऽन्नानि । आ तंसयेथे समन्तादलंकुरुथः ॥ ‘तसि भूष अलंकारे'। चौरादिकः ॥
“You both demand the oblation (Aśvins), you spread out the ceremonials as two weavers (strentch)cloths; (the instrumental tutor of the rite) praised you associated together to attain (his desires); like two fortunate daysyou bestow food.”
THIS very thing ye Twain hold as your object: ye weave your songs as skilful men weave garments.
That ye may come united have I waked you: ye spread out food like days of lovely weather.
Now you both have just this as your aim: you stretch out insights like workers their cloths.
It has awakened you two to drive toward a common goal. You haul
provisions here as you do the day-bright (days).
Ihr beide nun erstrebt dies; ihr webet die Gebete wie zwei kunstfertige die Kleider; damit ihr vereinigt kommt, habe ich euch erweckt, wie zwei lichthelle Tage (?) treibt ihr Nahrungen her.
Ihr beide habt gewiß nur dieses eine Ziel: ihr spannet die Gedanken an wie die Meister die Gewänder auf den Webstuhl. Er hat sie geweckt, daß sie gemeinsam kommen sollen. Wie solche, die gutes Wetter haben, bringet ihr Stärkungen, die Speisen mit.
Вот сейчас у вас только такая цель:
Вы натягиваете поэтические мысли, как два мастера - одеяния (на станок).
(Эта песнь) разбудила вас, чтобы вы вместе приехали.
Как прекрасные дни, вы притягиваете к себе питательные силы.
उ॒ष्टारे॑व॒ फर्व॑रेषु श्रयेथे प्रायो॒गेव॒ श्वात्र्या॒ शासु॒रेथ॑: । दू॒तेव॒ हि ष्ठो य॒शसा॒ जने॑षु॒ माप॑ स्थातं महि॒षेवा॑व॒पाना॑त् ॥
उ॒ष्टारा॑ऽइव । फर्व॑रेषु । श्र॒ये॒थे॒ इति॑ । प्रा॒यो॒गाऽइ॑व । श्वात्र्या॑ । शासुः॑ । आ । इ॒थः॒ । दू॒ताऽइ॑व । हि । स्थः । य॒शसा॑ । जने॑षु । मा । अप॑ । स्था॒त॒म् । म॒हि॒षाऽइ॑व । अ॒व॒ऽपाना॑त् ॥
उष्टारेव । उष्टः कामयेते गन्तव्यं देशमित्युष्टारौ प्रासङ्गस्य वोढारावनड्वाहाविव ॥ ‘वश कान्तौ ' इत्यस्मात्तृचि छान्दसं संप्रसारणमिडभावश्च ॥ तौ यथा संपूर्णघासेषु संचरतः तद्वत् फर्वरेषु स्तुतिभिर्हविर्भिश्च पूरयितृषु जनेषु श्रयेथे । तत्स्वीकरणार्थमाश्रयथः ॥ फर्वतिः पूरणार्थः । अस्मादौणादिको रन्प्रत्ययः ॥ प्रायोगेव प्रायोगौ प्रयोक्तव्यावनड्वाहाविव । प्रपूर्वाद्युजेः कर्मणि घञ्युपसर्गस्य दीर्घः । थाथादिस्वरेणान्तोदात्तः ॥ तौ यथा श्वात्र्या श्वात्र्यौ । शु क्षिप्रमतनं श्वात्रम् । तत्र साधू भवतः तद्वत् । यद्वा । युद्धार्थं प्रयोक्तव्यावश्वाविव श्वाञ्यौ। श्वात्र्यमिति धननाम । तत्र भवौ । धनस्य साधकावित्यर्थः । तौ युवां शासुः शंसितुः स्तोतुः स्तुतिं प्रति एथः आगच्छथः । ‘इण् गतौ' । आदादिकः । दूतेव दूताविव यथा राज्ञः प्रियतमौ दूतौ जनपदेषु यशस्विनौ भवतः तद्वत् जनेषु स्तोतृषु यशसा यशस्विनौ स्थः हि भवथः खलु ॥ अस्तेर्लटि रूपम् । हियोगादनिघातः ॥ महिषेव महिषाविव यथा श्रान्तौ महिषौ अवपानात् । पीयतेऽस्मिन्निति पानं हृदादि । अधिकरणे ल्युट् । पानमेवावपानम्। संनिकृष्टात् पानान्नापगच्छतः तद्वद्युवामस्मदीयाद्धविषः स्तोत्राच्च माप स्थातं मापक्रम्य तिष्ठतम् ॥ तिष्ठतेर्लुङि गातिस्था°' इति सिचो लुक् । ‘न माङ्योगे' इत्यडभावः ॥
“Like two longing oxen (to the pastures), you have recourse to those who fill you (with oblations); youapproach like two horses prepared for the fray; employed to bring treasure; you are like two (royal) messengersrenowned among the people; turn not away (from our oblation) like two buffaloes from the drinking-trough.”
Like two plough-bulls ye move along in traces, and seek like eager guests your bidder's banquet.
Ye are like glorious envoys mid the people: like bulls, approach the place where ye are watered.
Like plow-oxen [?] you are fixed in [/to] the pharvara; like brawny lead-horses [?] you follow instructions.
Because you are like messengers who acquire glory among the peoples, do not stay away like buffalo from a waterhole.
Wie zwei Pflugstiere schreitet ihr bei den Säern (?); wie zwei kräftige zum Mahle kommenden Gäste (?) folget ihr der Einladung; wie zwei Boten seid ihr herrlich unter den Menschen, seid nicht ferne von der Tränke, zweien Büffeln gleichend.
Wie zwei Zugstiere leget ihr euch an die Joche, wie zwei ....... kommet ihr auf Befehl. Wie abgesandte seid ihr ja bei den Leuten angesehen. Bleibet nicht fern wie Büffel von der Tränke!
Как два буйвола, налегаете вы на постромки (?),
Как два крепких тягловых животных (?), являетесь вы по приказу.
Ведь вы как два блистательных вестника среди людей.
Не отходите, как буйволы от источника для питья!
सा॒कं॒युजा॑ शकु॒नस्ये॑व प॒क्षा प॒श्वेव॑ चि॒त्रा यजु॒रा ग॑मिष्टम् । अ॒ग्निरि॑व देव॒योर्दी॑दि॒वांसा॒ परि॑ज्मानेव यजथः पुरु॒त्रा ॥
सा॒क॒म्ऽयुजा॑ । श॒कु॒नस्य॑ऽइव । प॒क्षा । प॒श्वाऽइ॑व । चि॒त्रा । यजुः॑ । आ । ग॒मि॒ष्ट॒म् । अ॒ग्निःऽइ॑व । दे॒व॒ऽयोः । दी॒दि॒ऽवांसा॑ । परि॑ज्मानाऽइव । य॒ज॒थः॒ । पु॒रु॒ऽत्रा ॥
शकुनस्येव पक्षिण इव यथा पक्षिणः पक्षा पक्षौ संहत्य वर्तमानौ तद्वत् साकंयुजा साकंयुजौ सहावियुज्य वर्तमानौ भवथः ॥ युजेः ‘सत्सूद्विष° ' इत्यादिना क्विप् ॥ पश्वेव पशू इव ॥ सुप आकारः ॥ तौ यथा चायनीयौ तद्वत् चित्रा चित्रौ चायनीयौ युवां यजुः यजनावस्मदीयौ आ गमिष्टम् आगच्छतम् ॥ यजेरौणादिको भाव उसिन्प्रत्ययः । गमिष्टम् । गमेर्लेटि • सिब्बहुलं लेटि' इति सिप् । सिप आर्धधातुकत्वात् ‘गमेरिट् परस्मैपदेषु' (पा. सू. ७. २. ५८) इतीडागमः ॥ देवयोः देवानिच्छतो यजमानस्य यज्ञे अग्निरिव अग्निर्यथा हविर्भिः स्तुतिभिश्च दीप्यते तद्वत् दीदिवांसा दीदिवांसौ स्तुतिभिर्दीप्तौ भवथः ॥ दीव्यतेः क्वसौ ‘वस्वेकाजात्' इति नियमादिडभावः । वलि लोपे तुजादित्वादभ्यासदीर्घः ॥ परिज्मानेव परिज्मानाविव परितो अजतो गच्छतः। कर्मकरणार्थमिति परिज्मानावध्वर्यू इव स्थितौ युवां पुरुत्रा बहुषु देशेषु यजथः देवान् पूजयथः ॥ ‘अश्विनौ हि देवानामध्वर्यू' (ऐ. ब्रा. १. १८) इत्याम्नानात् । यद्वा । परिज्मानेव परितो गन्तारौ । पुरो वा पश्चाद्वा तौ यथा बहुषु देशेषु यजथः संगच्छमानौ भवथः ॥ ‘यज देवपूजासंगतिकरणदानेषु' । पुरुत्रा। देवमनुष्य इत्यादिना त्राप्रत्ययः ॥
“Connected toegether like the two wings of a bird, you came to the sacrifice like two choice animals;radiant as Agni (at the offering) of the devout (worshipper), like two perambulating priests you celebrate worshipin many plural ces.”
Like the two pinions of a bird, connected, like two choice animals, ye have sought our worship.
Bright as the fire the votary hath kindled, ye sacrifice in many a spot as roamers.
Joined together like the wings of a bird, conspicuous like livestock, come here to our sacrificial formula.
Shining like the fire of a man who seeks the gods, like two encircling the earth you perform sacrifice in many places.
Ihr beide, zusammen verbunden wie zwei Fittige des Vogels, wie zwei glänzende Hausthiere kommt her zu dem Gottesdienst, strahlend wie das Feuer des Frommen, wie zwei Umherwandernde opfert ihr an vielen Orten.
Wie die zwei Flügel des Vogels zusammengehörig, wie zwei Tiere in die Augen fallend, kommet zum Opferspruch! Wie des Gottergebenen Feuer leuchtend, opfert ihr vielerorts wie fahrende Sänger.
Как два крыла, принадлежащих одной птице,
Как двое ярких животных, приходите на жертвенную формулу!
Сверкая, как огонь того, кто предан богам,
Приносите жертвы во многих местах, как странствующие кругом!
आ॒पी वो॑ अ॒स्मे पि॒तरे॑व पु॒त्रोग्रेव॑ रु॒चा नृ॒पती॑व तु॒र्यै । इर्ये॑व पु॒ष्ट्यै कि॒रणे॑व भु॒ज्यै श्रु॑ष्टी॒वाने॑व॒ हव॒मा ग॑मिष्टम् ॥
आ॒पी इति॑ । वः॒ । अ॒स्मे इति॑ । पि॒तरा॑ऽइव । पु॒त्रा । उ॒ग्राऽइ॑व । रु॒चा । नृ॒पती॑ इ॒वेति॑ नृ॒पती॑ऽइव । तु॒र्यै । इर्या॑ऽइव । पु॒ष्ट्यै । कि॒रणा॑ऽइव । भु॒ज्यै । श्रु॒ष्टी॒वाना॑ऽइव । हव॑म् । आ । ग॒मि॒ष्ट॒म् ॥
अस्मे अस्माकं वः युवाम् । पूजायां बहुवचनम्। आपी प्राप्तौ बन्धुभूतौ भवथः । पितरेव पितराविव यथात्र पितरौ प्रति पुत्रा पुत्रौ बन्धुभूतौ भवतः तद्वत् । यद्वा । पुत्रा। षष्ठ्या आकारः । पुत्राणां पितरौ बन्धू। तथा उग्रेव उग्राविव यथोग्रौ स्वतेजसोद्गूर्णावग्न्यादित्यौ यथा रोचमानौ भवतः तद्वत् रुचा दीप्त्या युक्तौ। रोचतेर्भावे क्विप् । 'सावेकाचः' इति विभक्तेः उदात्तत्वम् । यद्वा । रुचा आरोचमानौ भवथः । रोचतेरिगुपधलक्षणः कः । सुप आकारः ॥ नृपतीव यथा नॄणां पालयितारौ राजानौ संभ्रमयुक्तायै सेनायै रक्षकत्वेन भवतः तद्वत् तुर्यै कर्मार्थं त्वरमाणायै संभ्रमवत्यै जनतायै युवामभीष्टदातृत्वेन भवथः ॥ ‘तुर त्वरणे'। 'इगुपधात्कित्' (उ. सू. ४. ११९) इतीन्प्रत्ययः । ‘कृदिकारादक्तिनः' (पा. सू. ४. १. ४५ ग.) इति ङीष् । ‘उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् ॥ इर्येव इर्याविव । इरान्नम् । तत्र भवौ। भवार्थे थत् । अन्नवन्तावाढ्यौ स्वजनपरितोषणाय भवतः । तद्वद्युवां पुष्ट्यै धनादिदानेनास्माकं परितोषणाय भवथः। किरणेव किरणाविव यथाग्न्यादित्यकिरणौ सर्वेषां प्रकाशनादिद्वारेण भोगाय भवतः तद्वत् भुज्यै स्तोतॄणां परिभोगाय भवथः। श्रुष्टीवानेव श्रुष्टिवन्ताविव । श्रुष्टीति क्षिप्रनाम । मत्वर्थीयो वनिप् । तद्वन्तावश्वौ यथा लक्ष्यं देशं प्रति शीघ्रं गच्छतः तद्वत् । यद्वा । श्रुष्टीवानेव । श्रुष्टीति सुखनाम । तद्वन्तौ पुरुषौ यथा क्रीडार्थमागच्छतः तद्वद्युवां हवम् अस्मदीयमाह्वानं प्रति आ गमिष्टम् आगच्छतम् ॥ हवम् । ‘भावेऽनुपसर्गस्य' इति ह्वयतेरप् संप्रसारणं च ॥
“You are kinsmen to us, like parents (to) sons, like two fierce shining fires, like two princes hastening togive protection, like two bestowers of food are you for the nourishment of men, like two luminaries for theenjoyment (of our worshippers), like two quick horses you came to our invocation.”
Ye are our kinsmen, like two sons, two fathers, strong in your splendour and like kings for conquest;
Like rays for our enjoyment, Lords to feed us, ye, like quick bearers, have obeyed our calling.
(I call upon you,) who are like friends to us, as sons do their parents— like powerful (Heaven and Earth) with their light, like kings for
triumph,
like energetic (herdsmen) for prosperity, like the two labia for
enjoyment. Like obedient (servants), come here to my call.
Verwandt seid ihr beide [vâm statt vo zu lesen?] uns, wie die beiden Aeltern, wie zwei Söhne, wie zwei durch Glanz gewaltige, wie zwei Fürsten zum Siege, wie zwei Dienstherrn zur Nahrung, wie zwei Besen zum Fegen [? nach Ludwig's nicht übler, aber freilich unerwiesener Deutung], wie zwei aufmerkende Diener kommt her auf unsern Ruf.
Unsere Freunde rufe ich für euch, wie Söhne die Väter, wie zwei Gewaltige an Glanz, wie zwei Fürsten zum ....., die wie zwei ..... zum Gedeihen, wie die beiden Schamlefzen zum Genuß, wie zwei Aufmerksame kommet auf meinen Ruf!
(Я восхваляю) вас двоих у нас как друзей, как отцов, как сыновей,
Как повелителей мужей, грозных (своих) блеском – для победы,
Как деятельных – для процветания, как две губы (?) для наслаждения.
Как двое услужливых, придите на (мой) зов!
वंस॑गेव पूष॒र्या॑ शि॒म्बाता॑ मि॒त्रेव॑ ऋ॒ता श॒तरा॒ शात॑पन्ता । वाजे॑वो॒च्चा वय॑सा घर्म्ये॒ष्ठा मेषे॑वे॒षा स॑प॒र्या॒३॒॑ पुरी॑षा ॥
वंस॑गाऽइव । पू॒ष॒र्या॑ । शि॒म्बाता॑ । मि॒त्राऽइव॑ । ऋ॒ता । श॒तरा॑ । शात॑पन्ता । वाजा॑ऽइव । उ॒च्चा । वय॑सा । घ॒र्म्ये॒ऽस्था । मेषा॑ऽइव । इ॒षा । स॒प॒र्या॑ । पुरी॑षा ॥
वंसगेव वंसगाविव वननीयगमनौ वृषभाविव तौ यथा पूषर्या पूषर्यौ पूषणे भवौ। पुष्टावयवावित्यर्थः । तद्वद्युवां स्फीताङ्गावयवौ ।' पुष पुष्टौ' । अस्मादौणादिको भावेऽरन्प्रत्ययः । तदन्तात् ‘भवे छन्दसि' इति यत् । तित्स्वरितम् । तथा शिम्बाता शिम्बातौ । सुखनामैतत् शिम्बेन दुःखानां तनूकरणेन हेतुना आतं व्याप्तमिति । ‘शिञ् निशाने'। अस्माच्छिम्बमिति बाहुलकाद्धप्रत्ययो मुक्च निपात्यते । अततेः कर्मणि घञ्। सुप आलादेशः । सुखकरौ भवथः । मित्रेव मित्राविव । मित्रशब्देन वरुणोऽप्युपलक्ष्यते सहावस्थानात् । मित्रावरुणाविव ऋता ऋतौ सत्यभूतौ तद्वद्यथार्थदर्शिनौ भवथः । तथा शतरा शतं शतसंख्याकानि बहूनि रायो धनानि ययोः सन्ति तौ तथोक्तौ । सुपो डादेशः । यद्वा । शतमनेकमिन्द्रियप्रसादादि राति ददातीति शतरा सुखम् । तेन तद्वन्तौ । शातपन्ता शातपन्तौ तीक्ष्णस्तुतिकौ । शातं तीक्ष्णम् । पन्तम् । पनतेर्बाहुलकात्तन् ( उ. सू. ३. ८६ )। यद्वा शातपन्ता । शातेन दुःखानां तनूकरणेन पन्यते स्तूयत इति शातपन्तं सुखम् । शो तनूकरणे'। निष्ठा । पनतेस्तन् । तेन युवां सुखवन्तौ भवथः । यद्यपि शिम्बाता शतरा शातपन्ता इति त्रीण्यपि सुखनामानि तथापि कालत्रयेऽप्यश्विनोः सुखकरत्वस्य विवक्षितत्वेन विषयभेदादपौनरुक्त्यम् । वाजेव वाजाविव यथाश्वौ घासादिनोन्नतौ संपूर्णावयवौ तद्वत् वयसा हवीरूपेणान्नेन हेतुना उच्चा उच्चैर्वर्तमानौ । पुष्टावित्यर्थः ॥ उच्चा। उच्चैःशब्दात्सुपो डादेशः। डित्त्वाट्टि लोपः ॥ घर्म्येष्ठा घर्मस्थौ । घर्मं दीप्तमन्तरिक्षम् । तत्संबन्धिनि देशे सूर्याचन्द्रमसो रूपेणावस्थितौ भवथः । ‘सूर्याचन्द्रमसौ ' (निरु. १२. १) इति यास्कः। यद्वा । घर्म्ये प्रवर्ग्ये भवं घर्म्यं हविः । तत्र देवतात्वेनावस्थितौ भवथः ॥ तिष्ठतेः ' अन्येभ्योऽपि दृश्यन्ते इति विच् । 'तत्पुरुषे कृति बहुलम्' इति पूर्वपदस्य सप्तम्या अलुक् ॥ मेषेव मेषाविव । तौ यथान्नेन परिचरणीयौ तद्वद्युवाम् इषा हवीरूपेणान्नेन सपर्या सपर्यौ परिचरणीयौ भवथः । सपरशब्दः कण्ड्वादिः । सपर्यतिः परिचरणकर्मा । पुरीषा पुरीषौ धनादिदानेन स्तोतॄणां पोषयितारौ यद्वा हविर्भिः पोषणीयौ भवथः । ‘पुरीषं पुष्णातेः पोषयतेर्वा' (निरु. २. २२) इति यास्कः ॥ ॥ १ ॥
“You are like two plural asantly moving well-fed (hills) like Mitra and Varuṇa, the two bestowers of felicity,veracious, possessors of infinite wealth, happy, like two horses plural mp with fodder, abiding in the firmament, liketwo rams (are you) to be nourished with sacrificial food, to be cherished (with oblations).”
You are like two pleasantly moving well-fed (hills) like Mitra and Varuna,
the two bestowers of felicity, veracious, possessors of infinite wealth, happy,
like two horses plump with fodder, abiding in the firmament,
like two rams (are you) to be nourished with sacrificial food, to be cherished (with oblations).
váṃsageva pūṣaryā̀ śimbā́tā mitréva r̥tā́ śatárā śā́tapantā
vā́jevoccā́ váyasā gharmyeṣṭhā́ méṣeveṣā́ saparyā̀ púrīṣā
Wie zwei wohlgenährte muntere (?) Stiere, wie zwei rechte Freunde, die hundert Güter besitzen, hundertfach helfend [çātāvantā zu lesen?], hoch wie zwei Rosse, die mit Nahrung versehen im Stalle weilen, wie zwei fette Schafböcke, anhängliche (?), mit Feuchtigkeit versehene (?).
.................
vamsageva pusarya cimbata
mitreva rta catara catapanta
vajevocca vayasa gharmyestha
mesevesa saparya purisa
सृ॒ण्ये॑व ज॒र्भरी॑ तु॒र्फरी॑तू नैतो॒शेव॑ तु॒र्फरी॑ पर्फ॒रीका॑ । उ॒द॒न्य॒जेव॒ जेम॑ना मदे॒रू ता मे॑ ज॒राय्व॒जरं॑ म॒रायु॑ ॥
सृ॒ण्या॑ऽइव । ज॒र्भरी॒ इति॑ । तु॒र्फरी॑तू॒ इति॑ । नै॒तो॒शाऽइ॑व । तु॒र्फरी॒ इति॑ । प॒र्फ॒रीका॑ । उ॒द॒न्य॒जाऽइ॑व । जेम॑ना । म॒दे॒रू इति॑ । ता । मे॒ । ज॒रायु॑ । अ॒जर॑म् । म॒रायु॑ ॥
सृण्येव सृण्याविव । सृणिरङ्कुशः । तत्र साधुः' इति यत् । अङ्कुशार्हौ मत्तगजाविव जर्भरी गात्रविनामं कुर्वन्तौ ॥ जभ जृभि गात्रविनामे'। अस्मादौणादिको रिप्रत्ययः ॥ यद्वा । सृण्येव । सृणिर्द्विविधा । मत्तगजस्यैकत्रावस्थापयित्र्येका। अपरा बाधयित्री ॥ ‘सर्तेः किच्च' ( उ. सू. ४. ४९; १०४ ) इत्यौणादिको निप्रत्ययः । कित्त्वादगुणः । ‘कृदिकारादक्तिनः' इति ङीष् । सुप आकारः। ‘उदात्तस्वरितयोर्यणः' इति स्वरितः ॥ तादृश्यौ सृण्याविव जर्भरी भर्तारावेकत्रैवावस्थापकौ । तथा तुर्फरीत् तर्फितारी शत्रूणां हन्तारौ। जर्भरी। भरतेर्यङ्लुगन्तादौणादिक इप्रत्ययः । अभ्यासस्य जकारश्छान्दसः । तृफ तृम्फ हिंसायाम् । अस्मात्तृजन्तस्य तुर्फरीतारावित्यस्य पृषोदरादित्वाद्वर्णविकारः । यद्वा । अस्माद्बाहुलकादौणादिकोऽरीतुप्रत्यय उत्वं च । अत्र निरुक्तं--- ‘द्विविधा सृणिर्भवति भर्ता च हन्ता च तथाश्विनौ चापि भर्तारौ जर्भरी भर्तारावित्यर्थस्तुर्फरीतू हन्तारौ' (निरु. १३.५) इत्यादि । नैतोशेव । नितोशतिर्वधकर्मा। नितोशयतीति नितोशः । तस्यापत्यं नैतोशः । ताविव तुर्फरी शत्रूणां हन्तारौ ॥ तृफतिर्हिंसार्थः । अस्मादौणादिको रिप्रत्यय उत्वं च ॥ पर्फरीका पर्फरीकौ शत्रूणां विदारयितारौ ॥ ‘ञिफला विशरणे'। अस्मात् ‘पर्फरीकादयश्च । ( उ. सू. ४. २० ) इतीकप्रत्ययान्तो निपात्यते ॥ यद्वा । स्तोतृजनानां धनादिदानेन पूरयितारौ ॥ ‘पॄ पालनपूरणयोः । अस्मादीकनि पूर्ववत्सर्वं निपात्यते । फर्वतेः पूरणार्थाद्वा ॥ उदन्यजेव उदन्यजे इव । उदके भवमुदन्यम् ॥ ‘पदन्नोमास्°' (पा. सू. ६. १. ६३ ) इत्यादिनाशस्त्रभृतिष्वप्युदन्नादेशः ॥ तत्र जाते रत्ने इव निर्मलौ । कान्तियुक्तावित्यर्थः। जेमना जेमनौ जयशीलौ ॥ जयतेः ‘अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । दीर्घाभावश्छन्दसः ॥ मदेरू बलातिशयेन मत्तौ स्तुत्यौ वा । ता तौ पूर्वोक्तगुणावश्विनौ युवां मे मदीयं जरायुः जरायुजम् अत एव मरायु मरणशीलं शरीरम् अजरं जरारहितं मरणधर्मरहितं कुरुतम् ॥ ‘नञो जरमरमित्रमृताः' इति नञ उत्तरस्य जरशब्दस्याद्युदात्तत्वम् ॥
“You are like two mad elephants bending their forequarters and smiting the foe, like the two sons ofare victorious, (render) my decaying mortal body free from decay.”
You are like two mad elephants bending their forequarters and smiting the foe,
like the two sons of Nitosa destroying (foes),
and cherishing (friends); you are bright as two water-born (jewels),
do you, who are victorious, (render) my decaying mortal body free from decay.
sr̥ṇyèva jarbhárī turphárītū naitośéva turphárī parpharī́kā
udanyajéva jémanā maderū́ tā́ me jarā́yv ajáram marā́yu
Wie zwei nährende, labungschaffende Fruchthaken (?), wie zwei nährende, Gaben ausstreuende Spender (?), wie zwei aus dem Wasser entsprossene, kräftige, erfreuende (?), mögen sie, was an mir matt und hinfällig ist, jugendfrisch machen (?).
.................
crnyeva jarbhari turpharitu
naitoceva turphari parpharika
udanyajeva jemana maderu
ta me jarayv ajaram marayu
प॒ज्रेव॒ चर्च॑रं॒ जारं॑ म॒रायु॒ क्षद्मे॒वार्थे॑षु तर्तरीथ उग्रा । ऋ॒भू नाप॑त्खरम॒ज्रा ख॒रज्रु॑र्वा॒युर्न प॑र्फरत्क्षयद्रयी॒णाम् ॥
प॒ज्राऽइ॑व । चर्च॑रम् । जार॑म् । म॒रायु॑ । क्षद्म॑ऽइव । अर्थे॑षु । त॒र्त॒री॒थः॒ । उ॒ग्रा॒ । ऋ॒भू इति॑ । न । आ॒प॒त् । ख॒र॒म॒ज्रा । ख॒रऽज्रुः॑ । वा॒युः । न । प॒र्फ॒र॒त् । क्ष॒य॒त् । र॒यी॒णाम् ॥
हे उग्रा उग्रावुद्गूर्णतेजस्कावश्विनौ पज्रेव पञ्जाविव प्रार्जितबलौ वीराविव स्थितौ । यद्वा । पज्रेव। जि ज्रि अभिभावे' । पादाभ्यामभिभवन्तौ समर्थाविव स्थितौ । युवां चर्चरं चरणशीलं जारं जरायुक्तम् अत एव मरायु मरणशीलं मदीयं शरीरम् अर्थेषु गन्तव्येषु तरीतव्येष्वापदादिषु क्षद्मेव । उदकनामैतत् । उदकमिव तर्तरीथः अत्यन्तं तारयथः ॥ ‘तॄ प्लवनतरणयोः'। यङ्लुगन्ताल्लटि ‘छन्दस्युभयथा' इति थस आर्धधातुकत्वेनेडागमः । ‘वॄतो वा' (पा. सू. ७. २. ३८) इति दीर्घः ॥ ऋभू न ऋभू इव । दार्ष्टान्तिकसाम्यादत्र द्विवचनम् । ऋभू यथा स्वनिर्मितो रथ आपत् तद्वत् खरमज्रा खरं तीक्ष्णं मज्जयितारौ शोधयितारौ । अत्यन्तं शुद्धबलावित्यर्थः ॥ ‘टुमस्जो शुद्धौ । अस्मादौणादिको रप्रत्ययः ॥ तादृशौ युवां खरज्रुः तीक्ष्णगतिरतिशयेन वेगवान् ऋभुभिर्दत्तो रथो युवाम् आपत् आप्नोत् ॥ ‘आप्लृ व्याप्तौ'। लुङि लृदित्त्वात् च्लेरङ् ॥ स रथः वायुर्न वायुरिव पर्फरत् सर्वत्रापूरयत्। सर्वत्र व्याप्तवानित्यर्थः ॥ ‘फर्व पूरणे'। अस्माल्लेटि ‘बहुलं छन्दसि ॥ इति शपः श्लुः । अभ्यासस्य रुगागमो वलोपश्च । 'लेटोऽडाटौ ' इत्यडागमः ॥ ततः स रथः रयीणां धनानां धनानि क्षयत् शत्रुभ्य आगमयत् ॥ ‘क्षि निवासगत्योः । अस्मादन्तर्णीतण्यर्थाल्लेट्यागमः ॥ यद्वा । क्षयतिरैश्वर्यकर्मा । धनानामीष्टे ॥ छान्दसमनुदात्तत्वम् ॥
“Fierce (Aśvins), like two powerful (heroes), you enable this moving, perishable mortal (frame) to crossover to the objects (of its destination) as over water; extremely strong, like the Ṛbhus, your chariot attained itsdestination swift as the wind, it pervaded (everywhere), it dispensed riches.”
Fierce (Asvins), like two powerful (heroes), you enable this moving,
perishable mortal (frame) to cross over to the objects (of its destination) as over water;
extremely strong, like the Rbhus, your chariot, attained its destination swift as the wind,
it pervaded (everywhere), it dispensed riches.
pajréva cárcaraṃ jā́ram marā́yu, kṣádmevā́rtheṣu tartarītha ugrā
r̥bhū́ nā́pat kharamajrā́ kharájrur, vāyúr ná parpharat kṣayad rayīṇā́m
Wie zwei Reiche (?) möget ihr das matte, hinfällige beweglich machen (?), wie zwei Vorlegemesser dringt ihr kräftiger hindurch zu euren Zielen (?), der, welcher zu euch wie zu zwei kräftig reinigenden (?) Künstlern mit kräftigem Gange [kommt], der wird wie der Wind Gaben ausstreuen und über Reichthümer verfügen.
.................
pajreva carcaram jaram maraju
ksadmevarthesu tartaritha ugra
rbhu napat kharamajra kharajrur
vayur na parpharat ksayad rajinam
घ॒र्मेव॒ मधु॑ ज॒ठरे॑ स॒नेरू॒ भगे॑विता तु॒र्फरी॒ फारि॒वार॑म् । प॒त॒रेव॑ चच॒रा च॒न्द्रनि॑र्णि॒ङ्मन॑ऋङ्गा मन॒न्या॒३॒॑ न जग्मी॑ ॥
घ॒र्माऽइ॑व । मधु॑ । ज॒ठरे॑ । स॒नेरू॒ इति॑ । भगे॑ऽअविता । तु॒र्फरी॒ इति॑ । फारि॑वा । अर॑म् । प॒त॒राऽइ॑व । च॒च॒रा । च॒न्द्रऽनि॑र्निक् । मनः॑ऽऋङ्गा । म॒न॒न्या॑ । न । जग्मी॒ इति॑ ॥
घर्मेव घर्माविव महावीराविव जठरे स्वोदरे मधु मधुनः । षष्याभव लुक् । घृतस्य सनेरू संभक्तारौ ॥ ‘वन षण संभक्तौ । अस्मादौणादिक एरुप्रत्ययः ॥ भगेविता । भगो धनम् । तद्विषयरक्षणयुक्तौ ॥ अवतेर्भावे क्तः । तत्पुरुषे कृति बहुलम्' इति बहुलवचनात् बहुव्रीहावप्यलुक् ॥ यद्वा । अवतेस्तृजन्तस्य सुपो डादेशः । स्वरस्तु छान्दसः ॥ अरम् अलं तुर्फरी शत्रूणां हिंसितारौ । अत एव फारिवा। फारिरायुधम् । तद्वन्तौ भवतः । स्फुरतिर्वधकर्मा । अस्माण्णिचि ‘चिस्फुरोर्णौ ' (पा. सू. ६. १. ५४ ) इत्यात्वम् । तदन्तादिप्रत्ययः । सकारलोपश्छान्दसः । 'छन्दसीवानिपौ । इति मत्वर्थीयो वनिप् । सुपो डादेशः ॥ पतरेव पतराविव पतनशीलौ पक्षिणाविव चचरा संचरन्तौ चन्द्रनिर्णिक् । निर्णिगिति रूपनाम । सुपो लुक् । चन्द्रनिर्णिजौ चन्द्रसदृशरूपयुक्तौ । यद्वा । चन्द्रमाह्लादकं रूपं ययोस्तौ वर्तेते । मनऋङ्गा मनसा प्रसाधनं ययोस्तौ । ऋञ्जतिः प्रसाधनकर्मा । अस्माद्भावे घञ् । बहुव्रीहिस्वरः । मनन्या न मनन्यौ यथा । मनने साधू । स्तुत्यावित्यर्थः ॥ मननशब्दात् तत्र साधुः' इति यत् । तित्स्वरितम् ॥ तादृशाविव जग्मी यज्ञं प्रत्यागमनशीलौ । भवतः ॥ गमेः ‘आदृगमहन' इति किन्प्रत्ययः ॥
“With your bellies full of the Soma, like two saucepans, preservers of wealth, destroyers of enemies,(you are), armed with hatchets, moving like two flying (birds) with forms like the moon, attaining success throughthe mind, like two laudable beings, (you are) approaching (the sacrifice).”
With your bellies full of the Soma, like two saucepans, preservers of wealth, destroyers of enemies.
(you are) armed with hatchets, moving like two flying (birds)
with forms like the moon, attaining success through the mind, like two laudable beings,
(you are) approaching (the sacrifice).
gharméva mádhu jaṭháre sanérū, bhágevitā turphárī phā́rivā́ram
pataréva cacarā́ candránirṇiṅ, mánar̥ṅgā mananyā̀ ná jágmī
Wie zwei Kessel, die süssen Trank in ihren Bauch aufnehmen, gerne mittheilend, sättigend, bereitwillig mittheilend (?), wie zwei durch die Luft schiessende bewegliche [Vögel], wie ein glänzendes Prachtgewand, wie zwei [Freunde], die den Sinn lenken, die den Sinn leiten, kommt ihr her.
.................
gharmeva madhu jathare saneru
bhagevita turphari pharivaram
patareva cacara candranirnin
manarnga mananya na jagmi
बृ॒हन्ते॑व ग॒म्भरे॑षु प्रति॒ष्ठां पादे॑व गा॒धं तर॑ते विदाथः । कर्णे॑व॒ शासु॒रनु॒ हि स्मरा॒थोंऽशे॑व नो भजतं चि॒त्रमप्न॑: ॥
बृ॒हन्ता॑ऽइव । ग॒म्भरे॑षु । प्र॒ति॒ऽस्थाम् । पादा॑ऽइव । गा॒धम् । तर॑ते । वि॒दा॒थः॒ । कर्णा॑ऽइव । शासुः॑ । अनु॑ । हि । स्मरा॑थः । अंशा॑ऽइव । नः॒ । भ॒ज॒त॒म् । चि॒त्रम् । अप्नः॑ ॥
बृहन्तेव बृहन्ताविव प्रांशू पुरुषौ यथा गम्भरेषु गहनेषु जलेषु प्रतिष्ठां विन्दतः तद्वत् गह्वरेषु गम्भीरेषु दुष्प्रवेशेषु स्थानेषु प्रतिष्ठाम् अवस्थितिमासदं युवां विदाथः जानीथः । पादेव पादाविव यथा तरते । षष्ठ्यर्थे चतुर्थी । तरतः पुरुषस्य पादौ यथा गाधं जलं वित्तः तद्वद्युवां तार्येषु जलेषु गाधं विदाथः जानीथः । ‘विद ज्ञाने'। लेट्याडागमः । कर्णेव यथा कर्णावुक्तं शब्दं विदतुः तद्वद्युवां शासुः शासितारं स्तुतिं कुर्वाणं जनम् अनु हि स्मराथः अनुकूलं जानीथः खलु। स्मरतेर्लेट्याडागमः । हियोगादनिघातः । ‘अधीगर्थदयेशां कर्मणि' (पा. सू. २. ३. ५२ ) इति शासुरित्यस्य षष्ठी । अंशेव अंशाविव यथावयवौ तद्वन्तं यज्ञं भजेते तद्वद्युवां नः अस्मदीयं चित्रं चायनीयम् अप्नः कर्म भजतम् आश्रयतम् ॥ अप्नः।' आप्लृ व्याप्तौ । अस्मादापः कर्माख्यायां ‘ह्रस्वो नुट् च वा' ( उ. सू. ४. २०७ ) इत्यसुन तत्संनियोगेन ह्रस्वो नुडागमश्च । नित्स्वरेणाद्युदात्तः ॥
Like giants, ye will find firm ground to stand on in depths, like feet for one who fords a shallow.
Like cars ye will attend to him who orders: ye Two enjoy our wondrous work as sharers.
Like the two lofty (world-halves) you will find firm standing in the depths, as his feet do for a man crossing a ford,
for like two ears you will remember our instructions. Like Share and Portion, apportion to us a conspicuous reward.
Wie zwei hoch hervorragende [Männer] schaffet in den Tiefen einen Standort, wie zwei Füsse einen festen Grund dem, welcher durch den Fluss geht, wie zwei Ohren achtet auf die Aufforderung, wie zwei Vertheiler gebt uns reichen Besitz.
Wie zwei Hochgewachsene im tiefen Wasser festen Stand, wie zwei Füße sollet ihr für den Durchschreitenden Grund finden. Wie zwei Ohren auf den Befehl möget ihr also acht haben. Wie Amsa teilet uns ansehnlichen Lohn zu!
Как двое высоких в глубинах – твердую основу,
Как две ноги, пусть находите вы брод для пересекающего (реку)!
Как два уха, пусть внемлете вы приказу!
Как Анша (и Бхага), наделите нас ярким имуществом!
आ॒र॒ङ्ग॒रेव॒ मध्वेर॑येथे सार॒घेव॒ गवि॑ नी॒चीन॑बारे । की॒नारे॑व॒ स्वेद॑मासिष्विदा॒ना क्षामे॑वो॒र्जा सू॑यव॒सात्स॑चेथे ॥
आ॒र॒ङ्गराऽइ॑व । मधु॑ । आ । ई॒र॒ये॒थे॒ इति॑ । सा॒र॒घाऽइ॑व । गवि॑ । नी॒चीन॑ऽबारे । की॒नारा॑ऽइव । स्वेद॑म् । आ॒ऽसि॒स्वि॒दा॒ना । क्षाम॑ऽइव । ऊ॒र्जा । सु॒य॒व॒स॒ऽअत् । स॒चे॒थे॒ इति॑ ॥
आरङ्गरेव। 'गॄ शब्दे'। अस्माद्भावे ऋदोरप् । अरमलं पर्याप्तं गरः शब्दनम्। तस्य संबन्धिनौ ॥ तस्येदम्' इत्यण् ॥ शब्दवन्तौ मेघाविव यथा मधु जलं प्रेरयतः तद्वद्युवाम् एरयेथे प्रेरयथः ॥ ‘ईर प्रेरणे'। चौरादिकः ॥ सारघेव सारघाविव । सरघा मधुमक्षिका । सरघैव सारघा । प्रज्ञादित्वादण् (पा. सू. ५. ४. ३८)। ते यथा नीचीनबारे नीचीनद्वारे मधुपुष्पे मधु प्रेरयतः तद्वद्युवां नीचीनबारे न्यग्भूतद्वारे गवि गोरूधसि क्षीरं प्रक्षिपथः । कीनारेव कीनाराविव कुत्सितमनुष्यौ यथा स्विद्यमानौ भवतः तद्वत् स्वेदं स्विद्यमानं जलम् आसिस्विदाना आ समन्तात् स्वेदयन्तौ प्रक्षारयन्ती भवथः ॥ ‘ञिष्विदा गात्रप्रक्षरणे'। अनुदात्तेत् । तस्माच्छान्दसे लिटि कानजादेशः ॥ क्षामेव । ‘क्षै जै षै क्षये'। अस्मादातो मनिन् । ह्रस्वश्छान्दसः । क्षामा क्षीणा गौः सुयवसात् । अदेः क्विप् । शोभनं यवसं घासादिकं भक्षयन्ती क्षीररूपेणान्नेन समवेता थथा। भवति तद्वद्युवाम् ऊर्जा हवीरूपेणान्नेन सचेथे संगच्छेथे ॥ ‘षच समवाये॥
“Like two loud-sounding (clouds), you send forth the sweet (Soma); like two bees (you deposit milk) in(the udder of) the cow which has its opening turned downwards; like two labourers you are dripping withperspiration, like a tired cow eating sweet herbage, you attend.”
Like toiling bees ye bring to us your honey, as bees into the hide that opens downward.
Like āraṅgara you produce (the milk) in the cow whose opening is below, as bees produce honey,
like plowmen sweating out their sweat. Like earth, (a cow) that feeds on good pasture, you are accompanied by nourishment.
Wie zwei Hummeln bringt ihr Honig her, wie zwei Bienen in den nach unten geöffneten Schlauch [die Honigzelle mit einem ledernen Schlauch verglichen], wie zwei Schweiss vergiessende Pflüger geht ihr dem Boden der Erde nach mit Nahrung von fetter Weide her (?).
Wie zwei ....... bringet ihr Honig, wie Bienen die Milch in das Kuheuter, dessen Öffnung nach unten geht; wie zwei Pflüger Schweiß vergießend, wie zwei magere Tiere bei guter Weide kommet ihr zur Kraft.
Как два шмеля (?), вы приводите мед в движение,
Как две пчелы, (вы пьете молоко) из коровьего (вымени) с отверстием вниз.
Как двое пахарей, проливающих пот,
Вы следуете по земле (и небу) с питательной силой, как пасущийся на хорошем пастбище.
ऋ॒ध्याम॒ स्तोमं॑ सनु॒याम॒ वाज॒मा नो॒ मन्त्रं॑ स॒रथे॒होप॑ यातम् । यशो॒ न प॒क्वं मधु॒ गोष्व॒न्तरा भू॒तांशो॑ अ॒श्विनो॒: काम॑मप्राः ॥
ऋ॒ध्याम॑ । स्तोम॑म् । स॒नु॒याम॑ । वाज॑म् । आ । नः॒ । मन्त्र॑म् । स॒ऽरथा॑ । इ॒ह । उप॑ । या॒त॒म् । यशः॑ । न । प॒क्वम् । मधु॑ । गोषु॑ । अ॒न्तः । आ । भू॒तऽअं॑शः । अ॒श्विनोः॑ । काम॑म् । अ॒प्राः॒ ॥
हे अश्विनौ वयं स्तोमं त्रिवृत्पञ्चदशादिकम् ऋध्याम ऋध्यास्म वर्धयेम ॥ • ऋधु वृद्धौ'। अस्मादाशीर्लिङि • किदाशिषि' इति यासुटः कित्त्वम्॥ वाजं हविर्लक्षणमन्नं युवाभ्यां सनुयाम प्रयच्छेम ॥ ‘षणु दाने'। तानादिकः । विधिलिङ्ग । वाक्यभेदादनिघातः ॥ तस्माद्युवां सरथा सरथौ समानरथावेकमेव रथमारूढौ सन्तौ इह अस्मिन् कर्मणि नः अस्मदीयं मन्त्रं मननीयं स्तोत्रम् उप यातम् उपागच्छतम् । गोष्वन्तः । गोरूधस्यवस्थितं पक्वं परिणतम् अत एव मधु मधुरं यशो न । यश इत्यन्ननाम । नश्चार्थे । क्षीराज्यादिलक्षणं महावीरेऽवनीयमानमन्नं चापेक्ष्यागच्छतमिति संबन्धः । एवमुक्तप्रकारेण भूतांशः एतन्नामर्षिः अश्विनोः कामम् अभिलाषमात्मीयाभिः स्तुतिभिः आ अप्राः आपूरयत्। संपूर्णमकार्षीदित्यर्थः ॥ ‘प्रा पूरणे ) आदादिकः । व्यत्ययेन मध्यमः ॥ अत्राश्विने सूक्ते सर्वाण्यपि पदानि दुर्व्युत्पादान्यस्माभिर्दिङ्मात्रं प्रदर्शितानि । एवं निरुक्तव्याकरणादिभिरर्थविशेषे बुद्धिमद्भिरुन्नेयानि ॥ ॥ २ ॥
“May we increase our praise, ( Aśvins), may we offer you food, come hither in the same chariot to ourworship; and accept the sweet food prepared from within the cows. Bhūtāṃs;a has fulfilled the desires of thelearned.”
May we increase the laud and gain us vigour: come to our song, ye whom one chariot carries.
Filled be our kine with ripened meath like glory: Bhutamsa hath fulfilled the Asvins' longing.
Might we bring our praise song to fulfillment and might we win the prize of victory. Sharing the same chariot, drive here—you two—
right up to our mantra
and to the cooked honey within the cows, as if to glory. Bhūtāṃśa has fulfilled the desire of the Aśvins.
Mögen wir zu glücklichem Ziele den Lobgesang führen, mögen wir Labung erlangen; kommt her zu unserm Spruche beide auf einem Wagen; wie ein Schatz sei gare Süssigkeit in unsern Kühen; jetzt hat Bhūtānça das Verlangen der Açvinen [durch dies Lied] erfüllt.
Möchten wir das Loblied richtig getroffen haben, möchten wir den Preis gewinnen. Kommet beide auf einem Wagen hierher zu dem Dichterwort, zu der gekochten Süßigkeit, die gleichsam die Zierde in den Kühen ist. Bhutamsa hat jetzt den Wunsch der Asvin erfüllt.
Мы хотим иметь успех с восхвалением, хотим добыть награду!
Приезжайте сюда на одной колеснице к нашему произведению,
К готовой сладости в наших коровах, подобной сиянию!
Бхутанша исполнил желания Ашвинов.