आ॒विर॑भू॒न्महि॒ माघो॑नमेषां॒ विश्वं॑ जी॒वं तम॑सो॒ निर॑मोचि । महि॒ ज्योति॑: पि॒तृभि॑र्द॒त्तमागा॑दु॒रुः पन्था॒ दक्षि॑णाया अदर्शि ॥
आ॒विः । अ॒भू॒त् । महि॑ । माघो॑नम् । ए॒षा॒म् । विश्व॑म् । जी॒वम् । तम॑सः । निः । अ॒मो॒चि॒ । महि॑ । ज्योतिः॑ । पि॒तृऽभिः॑ । द॒त्तम् । आ । अ॒गा॒त् । उ॒रुः । पन्थाः॑ । दक्षि॑णायाः । अ॒द॒र्शि॒ ॥
इदं सूक्तं दक्षिणाया वा तद्दातॄणां वा स्तावकम् । दक्षिणा तु यागाङ्गं यागस्तु सायंकाले न क्रियते । न सायमस्ति देवया अजुष्टम् ' ( ऋ. सं. ५, ७७, २ ) इत्यादिश्रवणात्। तस्मात् अह्येि व कर्तव्यः । अहश्च सूर्योदयात्पश्चाद्भवतीति सूक्तादौ सूर्योदयोऽभिधीयते । माघोनम् । मघवेन्द्रः। इन्द्रश्च सूर्यः ‘ चैत्रमासे तयोरिन्द्रः' इति स्मरणात् । तस्य संबन्धि ॥ ‘ तस्येदम् । इत्यण् । अतद्धिते प्रत्यये संप्रसारणमभिहितम् (पा. सू. ६. ४. १३३ )। सर्वविधीनां छन्दसि विकल्पितत्वादत्र तद्धितेऽपि संप्रसारणम् ॥ सूर्यात्मकस्येन्द्रस्य स्वभूतं महि महत् तेजः एषां यजमानानां यागसिद्ध्यर्थम् आविरभूत् । प्रकाशितमुद्गतमभूत् । तत्र विश्वं सर्वं जीवं स्थावरजङ्गमात्मकं जगत् तमसः सकाशात् निरमोचि निर्मुक्तमभूत्। मुञ्चतेः कर्मलुङि चिणि रूपम् । अथानन्तरं पितृभिः यत् पितृभिर्देवैः दत्तं नो हविषामागमनाय तत् महि महत् ज्योतिः सूर्याख्यम् आगात् आगच्छति । पश्चात् दक्षिणायाः यागाङ्गभूतायाः उरुः महान् पन्थाः मार्गः अदर्शि सर्वैर्यंजमानैर्दृष्टोऽभूत् । सर्वे यागं कृत्वा ऋत्विग्भ्यो दक्षिणां दत्तवन्त इत्यर्थः ॥
“The great (splendour) of Maghavan has becomemanifest (for the rites) of these (worshippers); all lifehas been extricated from darkness, the vast light bestowed by the progenitors has arrived, a spacious path forthe dakṣiṇā has been displayed. (I Maghavan: Mqaghavan = the sun, at whose rising and at midday thedakṣiṇā is to be given, not at sunset; cf. RV. 5.77.2].”
THESE men's great bounty hath been manifested, and the whole world of life set free from darkness.
Great light hath come, vouchsafed us by the Fathers: apparent is the spacious path of Guerdon.
Their great generosity has been revealed. All life has been freed from darkness;
the great light, given by the forefathers, has come. The wide path for the priestly gift has become visible.
Es hat sich offenbart die grosse Freigiebigkeit dieser Männer, alles Lebende hat sich der Dunkelheit entwunden; das von den Vätern verliehene grosse Licht ist gekommen, der breite Weg des Opferlohnes hat sich gezeigt.
Jetzt hat sich deren große Freigebigkeit geoffenbart; alles Lebende ist jetzt von der Finsternis erlöst. Das große, von den Vätern gespendete Licht ist gekommen: Der breite Weg der Daksina ist sichtbar geworden.
Явной стала их великая щедрость.
Все живое освободилось из мрака.
Пришел великий свет, данный отцами:
Показался широкий путь Дакшины.
उ॒च्चा दि॒वि दक्षि॑णावन्तो अस्थु॒र्ये अ॑श्व॒दाः स॒ह ते सूर्ये॑ण । हि॒र॒ण्य॒दा अ॑मृत॒त्वं भ॑जन्ते वासो॒दाः सो॑म॒ प्र ति॑रन्त॒ आयु॑: ॥
उ॒च्चा । दि॒वि । दक्षि॑णाऽवन्तः । अ॒स्थुः॒ । ये । अ॒श्व॒ऽदाः । स॒ह । ते । सूर्ये॑ण । हि॒र॒ण्य॒ऽदाः । अ॒मृत॒ऽत्वम् । भ॒ज॒न्ते॒ । वा॒सः॒ऽदाः । सो॒म॒ । प्र । ति॒र॒न्ते॒ । आयुः॑ ॥
दक्षिणावन्तः दक्षिणाया देयत्वेन तद्वन्तो दक्षिणां दत्तवन्तो यजमानाः उच्चा उच्चैः स्थानैः स्थिते दिवि द्युलोके अस्थुः तिष्ठन्ति । सामान्येनोक्त्वा दातृविशेषाणां फलविशेषमाह । अश्वद्राः अश्वानां दातारः ये यजमानाः ते सूर्येण सर्वस्य स्वस्वकर्मणि प्रेरकेणादित्येन सह तिष्ठन्ति । ये हिरण्यदाः हिरण्यदातारः ते अमृतत्वम् अमरणधर्मत्वं देवत्वं भजन्ते । ‘ अमृतं वै हिरण्यम् । (तै. सं. ५.२.७.२ ) इत्याम्नानात् । तथा ‘ सौम्यं वै वासः '(तै, ब्रा. २.२.५) इति श्रवणात् सोम एवं संबोध्यते । हे सोम वासोदाः त्वद्देवत्यवस्त्राणां दातारो ये सन्ति ते त्वया सह तिष्ठन्तीति शेषः । एते सर्वे आयुः जीवनं प्र तिरन्ते प्रवर्धयन्ति । प्रपूर्वस्तिरतिर्वृद्ध्यर्थः ॥
“(Saramā). I come, the appointed messenger of Indra, desiring, Paṇis, your great hidden treasures;through fear of being crossed the (water) helped us, thus I passed over the waters of the Rasā.”
High up in heaven abide the Guerdon-givers: they who give steeds dwell with the Sun for ever.
They who give gold are blest with life eternal. they who give robes prolong their lives, O Soma.
High above in heaven have they taken their stand—those providing the priestly gift. Those who give horses, they (come) together with the sun; those giving gold receive a share in immortality; those giving garments extend their own lifetime, o Soma.
Hoch zum Himmel haben sich die Geber des Opferlohnes erhoben; die Geber der Rosse sind mit der Sonne vereint; die Geber des Goldes erlangen Unsterblichkeit; die Geber von Kleidern, o Soma, verlängern ihr Leben.
Hoch oben im Himmel haben die Daksinageber ihren Stand, die Rosseschenker, die sind bei der Sonne. Die Goldschenker werden der Unsterblichkeit teilhaft, die Kleidschenker verlängern ihr Leben, o Soma.
Высоко в небе оказались даятели Дакшины:
Кто дает коней, те рядом с солнцем.
Дарители золота вкушают бессмертие,
Дарители одежды, о сома, продлевают срок жизни.
दैवी॑ पू॒र्तिर्दक्षि॑णा देवय॒ज्या न क॑वा॒रिभ्यो॑ न॒हि ते पृ॒णन्ति॑ । अथा॒ नर॒: प्रय॑तदक्षिणासोऽवद्यभि॒या ब॒हव॑: पृणन्ति ॥
दैवी॑ । पू॒र्तिः । दक्षि॑णा । दे॒व॒ऽय॒ज्या । न । क॒व॒ऽअ॒रिभ्यः॑ । न॒हि । ते । पृ॒णन्ति॑ । अथ॑ । नरः॑ । प्रय॑तऽदक्षिणासः । अ॒व॒द्य॒ऽभि॒या । ब॒हवः॑ । पृ॒ण॒न्ति॒ ॥
दैवी देवसंबन्धिनी ॥ ‘ देवाद्यञञौ (पा. सू. ४. १. ८५. ३) इत्यञ् । तादृशी पूर्तिः पालिनी तत्साध्या देवयज्या ॥ ‘ छन्दसि निष्टर्क्यं (पा. सू. ३. १. १२३) इति निपातितः ॥ देवयागः । तदङ्गभूता दक्षिणा न कवारिभ्यः ॥ ‘ ‘ऋ गतौ ' इत्यस्य ' अच इः' (उ. सू. ४.१३८) इतीप्रत्ययः ॥ कुत्सितगन्तृभ्योऽयष्टृभ्यः । एतेभ्यो न भवति । यद्वा । देवानां स्वभूता पूर्तिः पूरयित्री स्तुतिभिर्हविर्भिश्च तादृशी देवयज्या दक्षिणा च तेभ्यो न भवतः । तत्र हेतुरुच्यते । हि यस्मात् ते कुत्सितगन्तारः नहि पृणन्ति देवान् स्तुतिभिर्हविर्भिश्च न प्रीणयन्ति । ‘ पृण प्रीणने । तौदादिकः। अथ इति प्रश्ने । यष्टॄणां देवयागादि कथं भवति । उच्यते । नरः कर्मणां नेतारः अत एव प्रयतदक्षिणासः दत्तदक्षिणाः बहवः यजमानाः अवद्यभिया ॥ ‘ अवद्यपण्यवर्या गर्ह्य । (पा. सू. ३. १. १०१ ) इति यत्प्रत्ययान्तत्वेन निपातितः ॥ पापभिया । विहिताननुष्ठाने दुरितानि भवन्ति खलु। तस्मात्तद्भीत्या पृणन्ति देवान् प्रीणयन्ति । तस्माद्यष्टॄणां देवपालनयागदक्षिणा भवतीत्यर्थः॥
“(The Paṇis). What is Indra like, O Saramā? What is the appearance of him as whose messenger youhave come to this plural ce from afar? (They then say to one another:) Let her approach; let us make friends withher, and let her be the lord of our cattle.”
Not from the niggards-for they give not fireely-comes Meed at sacrifice, Gods' satisfaction:
Yea, many men with hands stretched out with Guerdon present their gifts because they dread dishonour.
The priestly gift is the divine bestowal, a sacrificial offering to the gods; it is not for the stingy, for they do not bestow.
But many men who present priestly gifts bestow through fear of disgrace.
Göttlich ist reichliches Schenken; Opferlohn und Götterverehrung kommt nicht von den Geizigen; denn die schenken nicht; und viele Männer, welche Opferlohn darreichen, schenken nur aus Furcht vor Tadel.
Die Daksina ist eine für die Götter bestimmte Schenkung, ein Götteropfer; nicht ist das Opfer für die Geizigen, denn die schenken nicht. Und viele Herren, die eine Daksina gewähren, schenken aus Furcht vor Tadel.
Дакшина – (это) награждение, принадлежащее богам, жертва богам;
Нет (ее) для скупых – ведь они не дарят щедро.
А многие мужи, вручающие Дакшину,
Дарят щедро из страха перед упреками.
श॒तधा॑रं वा॒युम॒र्कं स्व॒र्विदं॑ नृ॒चक्ष॑स॒स्ते अ॒भि च॑क्षते ह॒विः । ये पृ॒णन्ति॒ प्र च॒ यच्छ॑न्ति संग॒मे ते दक्षि॑णां दुहते स॒प्तमा॑तरम् ॥
श॒तऽधा॑रम् । वा॒युम् । अ॒र्कम् । स्वः॒ऽविद॑म् । नृ॒ऽचक्ष॑सः । ते॒ । अ॒भि । च॒क्ष॒ते॒ । ह॒विः । ये । पृ॒णन्ति॑ । प्र । च॒ । यच्छ॑न्ति । स॒म्ऽग॒मे । ते । दक्षि॑णाम् । दु॒ह॒ते॒ । स॒प्तऽमा॑तरम् ॥
शतधारं बहुधारेणोपेतं वायुम् एतन्नामकं स्वर्विदं स्वर्गस्य लम्भकं सर्वस्य वेत्तारं वा अर्कम् अर्चनीयमादित्यं च एतौ नृचक्षसः नृणां द्रष्टॄनन्यानिन्द्रादीन् देवांश्चाभिलक्ष्य ते यजमानाः हविः चक्षते । तेभ्यो दातुं पश्यन्ति जानन्ति। चष्टेर्लटि रूपम् । किंच संगमे । कर्मकरणार्थम्
ऋत्विजोऽत्र संगच्छन्त इति संगमः ॥ ‘ ग्रहवृदृनिश्चिगमश्च' इत्यधिकरणेऽप् । थाथादिस्वरः ॥ तस्मिन् यज्ञे ये यष्टारः पृणन्ति स्तुतिभिः प्रीणयन्ति । ये च तेभ्यो देवेभ्यो हवींषि प्र यच्छन्ति । उभयत्र यद्योगादनिघातः । ते सप्तमातरम्। सप्तसंख्याका मातृभूता अग्निष्टोमादिसंस्था यस्यां भवन्ति सा । यद्वा। सप्तसंख्याका मातरः कर्मणां निर्मातारः कर्तारो होत्रादयः सन्ति । तादृशीं दक्षिणां दुहते ऋत्विभ्यो दुहन्ति ।
“(Saramā). I do not believe that he can be subdued; he as whose messenger I have come to thisplace from afar subdues (his enemies). The deep rivers do not conceal him; you, Paṇis, slain by Indra, will sleep(in death).”
These who observe mankind regard oblation as streamy Vayu and light-finding Arka.
They satisfy and give their gifts in synod, and pour in streams the seven-mothered Guerdon.
Those with manly sight see (it as) the wind with its hundred streams (of rain), (as) the chant that finds the sun; they see (it as) the oblation.
Those who bestow and present at the (sacrificial) assembly, they milk the priestly gift with its seven mothers.
Den hundertströmigen Vāju, die Licht bringende Sonne und des Männerbeschauers [Agni] Opfertrank haben diejenigen im Auge, welche reichlich schenken und Gaben darreichen bei der Opferversammlung, sie melken aus die Opferkuh mit sieben Kälbern.
Sie sehen darin den Wind, der hundert Regengüsse bringt, den Lobgesang, der die Sonne auffindet; mit Kenneraugen sehen diese ein Opfer darin. Die welche in der Opferversammlung schenken und spenden, die melken die Daksina, die sieben Mütter hat.
(Они видят в ней) ветер, (вызывающий дождь) в сто потоков, солнце, создающее свет;
Эти взирающие на мужей видят (в ней) жертвенное возлияние.
Кто щедро дает и вручает в жертвенном собрании,
Те доят Дакшину, имеющую семь матерей.
दक्षि॑णावान्प्रथ॒मो हू॒त ए॑ति॒ दक्षि॑णावान्ग्राम॒णीरग्र॑मेति । तमे॒व म॑न्ये नृ॒पतिं॒ जना॑नां॒ यः प्र॑थ॒मो दक्षि॑णामावि॒वाय॑ ॥
दक्षि॑णाऽवान् । प्र॒थ॒मः । हू॒तः । ए॒ति॒ । दक्षि॑णाऽवान् । ग्रा॒म॒ऽनीः । अग्र॑म् । ए॒ति॒ । तम् । ए॒व । म॒न्ये॒ । नृ॒ऽपति॑म् । जना॑नाम् । यः । प्र॒थ॒मः । दक्षि॑णाम् । आ॒ऽवि॒वाय॑ ॥
हूतः ऋत्विग्भिराहूतः दक्षिणावान् यजमानः प्रथमः सर्वेषां मुख्यः सन् एति सर्वत्र गच्छति । तथा ग्रामणीः ग्रामाणां नेता धनवत्त्वेन तेषां कर्ता दक्षिणावान् सः अग्रमेति । सर्वेषां प्रथममेव गच्छति । तमेव नृपतिं नराणां पालयितारमिति मन्ये ऋषिरहमवबुध्ये प्रथमः यः जनानां दक्षिणाम् आविवाय आगमयति । वी गत्यादिषु । तस्य लिटि रूपम् । तं नृपतिमिति मन्ये । यद्वा । जनानामिति पूर्ववाक्यशेषः । जनानां मध्ये तमेव मनुष्याणां स्वामिनमिति मन्ये ॥ ॥ ३ ॥ । तमेव ऋषि तर्नु ब्रह्मार्णमाहुर्यशुन्य सामगार्मुक्थशासम् ।
“(The Paṇis). These are the cows which you, auspicious Saramā, coming to the extremities of thesky, demand. Who will give them up to you without a combat? And our weapons are sharp.”
He who brings Guerdon comes as first invited: chief of the hamlet comes the Guerdon-bearer.
Him I account the ruler of the people who was the first to introduce the Guerdon.
The provider of the priestly gift goes as the first invited; the provider of the priestly gift goes to the front as the leader of the horde.
I think just he is the lord of peoples—the one who first sought out the priestly gift.
Wer Opferlohn gibt, kommt als der zuerst eingeladene; wer Opferlohn gibt, geht als Führer der Gemeinde voran; den wahrlich halte ich für den Herrn der Menschen, welcher zuerst Opferlohn eingeführt hat.
Wer die Daksina gibt, kommt als Erster geladen; wer die Daksina gibt, geht als Clanhäuptling voran. Den halte ich für der Völker König, der zuerst die Daksina eingeführt hat.
Даятель Дакшины идет приглашенный первый,
Даятель Дакшины идет впереди как предводитель отряда.
Именно того я считаю повелителем народов,
Кто первым ввел Дакшину.
तमे॒व ऋषिं॒ तमु॑ ब्र॒ह्माण॑माहुर्यज्ञ॒न्यं॑ साम॒गामु॑क्थ॒शास॑म् । स शु॒क्रस्य॑ त॒न्वो॑ वेद ति॒स्रो यः प्र॑थ॒मो दक्षि॑णया र॒राध॑ ॥
तम् । ए॒व । ऋषि॑म् । तम् । ऊँ॒ इति॑ । ब्र॒ह्माण॑म् । आ॒हुः॒ । य॒ज्ञ॒ऽन्य॑म् । सा॒म॒ऽगाम् । उ॒क्थ॒ऽशास॑म् । सः । शु॒क्रस्य॑ । त॒न्वः॑ । वे॒द॒ । ति॒स्रः । यः । प्र॒थ॒मः । दक्षि॑णया । र॒राध॑ ॥
तमेव दक्षिणाया दातारम् ऋषिम् अतीन्द्रियार्थदर्शिनं यद्वा सत्कर्मकरणेन ऋषिमित्याहुः । तथा तमु तमेव ब्रह्माणमाहुः । किंच तमेव यज्ञन्यम् ॥ ‘णीञ् प्रापणे '। क्विप् । ‘उदात्तस्वरितयोर्यणः०' इत्यमः स्वरितत्वम् ॥ यज्ञस्य नेतारमध्वर्युमित्याहुः । तमेव सामगां साम्नां गातारमिति । तथा उक्थशासम् । ‘शन्सु स्तुतौ'। क्विप् । संहितायां दीर्घश्छान्दसः। उक्थशसं शस्त्राणां शंसितारं होतारमिति ब्रुवन्ति । दक्षिणादानेन तत्कर्मणः परिग्रहात्। सः दाता शुक्रस्य दीप्यमानस्य ज्योतिषः तिस्रः तन्वः अग्निवैद्युतादित्यात्मकानि त्रीणि शरीराणि वेद जानाति ॥ यद्वा । शुक्रस्य दीप्तस्याग्नेराहवनीयाद्यात्मकानि त्रीणि शरीराणि जानाति । प्रथमः मुख्यः यः जनः दक्षिणया रराध ऋत्विगादीनाराधयति ॥ ‘राध संसिद्धौ' । लिटि रूपम् । लित्स्वरः ॥
“(Saramā). Your words, Paṇis, are not in the plural ce of armies; your sinful bodies will not be equal toarrows. Let your path be difficult to follow, let Bṛhaspati show no favour to either (your words or your person ns).”
They call him Rsi, Brahman, Sama-chanter, reciter of the laud, leader of worship.
The brightly-shining God's three forms he knoweth who first bestowed the sacrificial Guerdon.
They say that just he is the seer, he the creator of sacred formulations, the leader of the sacrifice, the singer of chants, the reciter of
solemn words.
He knows the three bodies of the blazing one—he who first found
success with the priestly gift.
Den wahrlich nennt man einen Dichter, den einen Brahmanen, einen Leiter des Opfers, einen Liedsänger, einen Spruchsager, der kennt die drei Gestalten des glänzenden [Agni], welcher zuerst mit dem Opferlohn zu Stande gekommen ist.
Den nennen sie den eigentlichen Rishi, den den Brahman, den Opferleiter, den Samasänger, den Liedvortrager, der kennt die drei Körper des Lichts, der zuerst die Daksina zugeführt hat.
Только того называют риши, того брахманом,
Ведущим жертву, поющим мелодию, произносящим гимн,
Тот знает три тела сверкающего (Агни),
Кто первым достиг успеха с Дакшиной.
दक्षि॒णाश्वं॒ दक्षि॑णा॒ गां द॑दाति॒ दक्षि॑णा च॒न्द्रमु॒त यद्धिर॑ण्यम् । दक्षि॒णान्नं॑ वनुते॒ यो न॑ आ॒त्मा दक्षि॑णां॒ वर्म॑ कृणुते विजा॒नन् ॥
दक्षि॑णा । अश्व॑म् । दक्षि॑णा । गाम् । द॒दा॒ति॒ । दक्षि॑णा । च॒न्द्रम् । उ॒त । यत् । हिर॑ण्यम् । दक्षि॑णा । अन्न॑म् । व॒नु॒ते॒ । यः । नः॒ । आ॒त्मा । दक्षि॑णाम् । वर्म॑ । कृ॒णु॒ते॒ । वि॒ऽजा॒नन् ॥
दक्षिणा तद्दातृभ्यः अश्वं ददाति । तथा गां च ददाति । तथा चन्द्रं सुवर्णं ददाति । उत अपि च यद्धिरण्यं रजतमस्ति ।' रजतं हिरण्यम्' (तै. सं.१.५.१,२) इत्याम्नानात् । तच्च ददाति । किंच सा अन्नं वनुते ददाति । वनोतिरत्र दानार्थः । तस्मात् नः अस्मदीयः यः आत्मा अस्ति सः वर्म विजानन् कवचं यथायुधानां निवारकं तद्वद्दुरितानि वारयतीति कवचमिति विजानन् दक्षिणाम् अश्वादिदानशीलां कृणुते । ऋत्विग्भ्यः करोति ॥
“(The Paṇis). This treasure, Saramā, secured in the mountain is composed of cows, horses andriches; the Paṇis protect it who are good watchers; you have come to this lonely spot in vain.”
Guerdon bestows the horse, bestows the bullock, Guerdon bestows, moreover, gold that Rsisters.
Guerdon gives food which is our life and spirit. He who is wise takes Guerdon for his armour.
The priestly gift gives the horse; the priestly gift the cow; the priestly gift the lustrous and what is golden.
The priestly gift wins the food that is our very lifebreath. He who
understands makes the priestly gift his armor.
Der Opferlohn gibt das Ross, der Opferlohn das Rind, der Opferlohn auch das glänzende Gold; der Opferlohn verschafft Speise; er ist unser Lebenshauch; wer klug ist, macht sich den Opferlohn zu seinem Panzer.
Die Daksina schenkt das Roß, die Daksina ein Rind, die Daksina Gold und Silber. Die Daksina bringt Speise ein, die unser Lebenshauch ist, die Daksina macht der Wissende zu seinem Panzer.
Дакшина дает коня, Дакшина – корову,
Дакшина – также блестящее золото.
Дакшина добывает пищу, которое наше жизненное дыхание.
Дакшину знаток делает себе щитом.
न भो॒जा म॑म्रु॒र्न न्य॒र्थमी॑यु॒र्न रि॑ष्यन्ति॒ न व्य॑थन्ते ह भो॒जाः । इ॒दं यद्विश्वं॒ भुव॑नं॒ स्व॑श्चै॒तत्सर्वं॒ दक्षि॑णैभ्यो ददाति ॥
न । भो॒जाः । म॒म्रुः॒ । न । नि॒ऽअ॒र्थम् । ई॒युः॒ । न । रि॒ष्य॒न्ति॒ । न । व्य॒थ॒न्ते॒ । ह॒ । भो॒जाः । इ॒दम् । यत् । विश्व॑म् । भुव॑नम् । स्वः॑ । च॒ । ए॒तत् । सर्व॑म् । दक्षि॑णा । ए॒भ्यः॒ । द॒दा॒ति॒ ॥
भोजाः भोजयितारो धनादिदानेन दातारः न मम्रुः न म्रियन्ते । देवत्वं भजन्त इत्यर्थः ॥ अत एव न्यर्थम् ॥ ‘ऋ गतौ । उषिकुषिगार्तिभ्यस्थन् (उ, सू. ३. ४)। समासे थाथादिस्वरः ॥ निकृष्टां गतिं न ईयुः न प्राप्नुवन्ति ॥ ' इण् गतौ । लिटि ‘ दीर्घ इणः किति' (पा. सू. ७. ४, ६९ ) इति दीर्घः ॥ तथा न रिष्यन्ति । कैश्चिदप्यहिंसिता भवन्ति । कर्मणि व्यत्ययेन परस्मैपदम् । अत एव भोजाः दातारः न व्यथन्ते । परस्परं न भीता न बाधिता वा भवन्ति । ह प्रसिद्धौ । किंच इदं परिदृश्यमानं विश्वं सर्वं भुवनं यत् भूतजातमस्ति स्वश्च स्वर्गलोकश्च एतत्सर्वं दक्षिणा स्वयम् एभ्यः तद्दातृभ्यः ददाति प्रयच्छति ॥
“(Saramā). Excited by the Soma, the Ṛṣis, the Aṅgirasas of the nine months' rite, headed by Ayasya,will come here; they will partition this herd of cattle, then the Paṇis will retract their words.”
The liberal die not, never are they ruined: the liberal suffer neither harm nor trouble.
The light of heaven, the universe about us,-all this doth sacrificial Guerdon give them.
The benefactors have not died, nor have they gone to a failed end; the benefactors are not harmed, nor do they falter.
What is this whole world and the sun, all this does the priestly gift give to them.
Die Freigiebigen sterben nicht, sie gerathen nicht ins Elend; die Freigiebigen leiden nicht Schaden, sie wanken nimmer; was diese ganze Welt, was das Lichtreich in sich fasst, das alles gibt der Opferlohn den Gebern.
Die Gastfreien sterben nicht, sie haben nie einen Fehlgang getan; die Gastfreien nehmen keinen Schaden, sie kommen nie zu Fall. Diese ganze Welt und das Himmelslicht, das alles gibt ihnen die Daksina.
Щедрые (никогда) не умирают, не идут к ложной цели,
Не терпят ущерба, не теряют равновесия щедрые.
То, что весь этот мир и свет,
Все это дает Дакшина.
भो॒जा जि॑ग्युः सुर॒भिं योनि॒मग्रे॑ भो॒जा जि॑ग्युर्व॒ध्वं१॒॑ या सु॒वासा॑: । भो॒जा जि॑ग्युरन्त॒:पेयं॒ सुरा॑या भो॒जा जि॑ग्यु॒र्ये अहू॑ताः प्र॒यन्ति॑ ॥
भो॒जाः । जि॒ग्युः॒ । सु॒र॒भिम् । योनि॑म् । अग्रे॑ । भो॒जाः । जि॒ग्युः॒ । व॒ध्व॑म् । या । सु॒ऽवासाः॑ । भो॒जाः । जि॒ग्युः॒ । अ॒न्तः॒ऽपेय॑म् । सुरा॑याः । भो॒जाः । जि॒ग्युः॒ । ये । अहू॑ताः । प्र॒ऽयन्ति॑ ॥
भोजाः दातारः अग्रे प्रथममेव योनिं क्षीरादेरुत्पत्तिस्थानं सुरभिं धेनुं जिग्युः । शत्रुभ्यो जितवन्तः ॥ ‘ जि जये। लिटि ‘ सन्लिटोर्जेः' इत्यभ्यासादुत्तरस्य कवर्गादेशः ॥ तथा भोजाः दातारः वध्वं वधूं नवोढां स्त्रीं जिग्युः । या स्त्रीः सुवासाः शोभनवासा अस्ति तां जिग्युः । किंच भोजाः शत्रूणां सुरायाः अन्तःपेयम् अन्तःपानं जिग्युः ॥ ‘ पा पाने'। भावे यत् । 'ईद्यति' इतीत्वम् । आर्धधातुकलक्षणो गुणः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ ये शत्रवः अहूताः बलाधिक्येनानाहूयमानाः प्रयन्ति प्रमुखमागच्छन्ति तान् भोजाः दक्षिणाया दातारो जनाः जिग्युः जयन्ति ॥
“(The Paṇis). You have indeed come here, Saramā, constrained by divine power; we will make youour sister, do not return, we will share the cattle with you auspicious one.”
First have the liberal gained a fragrant dwelling, and got themselves a bride in fair apparel.
The liberal have obtained their draught of liquor, and conquered those who, unprovoked, assailed them.
The benefactors at first won the sweet-smelling womb; the benefactors won a bride who is richly dressed.
The benefactors won the right to the inner drinking of liquor. The
benefactors won (against those) who come forward uninvited.
Den Freigiebigen gewinnen zuerst den schönumfangenden Schoos [Wohnsitz], die Freigiebigen gewinnen die schöngekleidete Gattin, die Freigiebigen erlangen das Einschlürfen des Surā-trankes; die Freigiebigen überholen die, welche uneingeladen vor ihnen hergehen.
Die Gastfreien haben zuerst den duftigen Frauenschoß errungen, die Gastfreien haben die Braut errungen, die schöngekleidet ist. Die Gastfreien haben das Recht auf das Einschlürfen des Branntweins errungen; die Gastfreien tragen den Sieg davon über die, welche ungebeten erscheinen.
Щедрые добыли первыми благоухающее лоно.
Щедрые добыли невесту, что в прекрасных одеждах.
Щедрые добыли (возможность) потягивать хмельной напиток.
Щедрые одержали верх над теми, что являются незваными.
भो॒जायाश्वं॒ सं मृ॑जन्त्या॒शुं भो॒जाया॑स्ते क॒न्या॒३॒॑ शुम्भ॑माना । भो॒जस्ये॒दं पु॑ष्क॒रिणी॑व॒ वेश्म॒ परि॑ष्कृतं देवमा॒नेव॑ चि॒त्रम् ॥
भो॒जाय॑ । अश्व॑म् । सम् । मृ॒ज॒न्ति॒ । आ॒शुम् । भो॒जाय॑ । आ॒स्ते॒ । क॒न्या॑ । शुम्भ॑माना । भो॒जस्य॑ । इ॒दम् । पु॒ष्क॒रिणी॑ऽइव । वेश्म॑ । परि॑ऽकृतम् । दे॒व॒मा॒नाऽइ॑व । चि॒त्रम् ॥
भोजाय दात्रे आशुं शीघ्रगामिनम् अश्वं सं मृजन्ति । परिचारकाः सम्यगलंकुर्वन्ति । ‘ मृजू शौचालंकारयोः' । तथा कन्या । कन्यात्वेनात्र संनिकर्षादभिनवं यौवनं लक्ष्यते । अभिनव यौवना शुम्भमाना शरीरावयवविशेषशोभया वस्त्राद्यलंकारशोभया च शोभमाना स्त्री तस्मै भोजाय दात्रे आस्ते । तथा भोजस्य दातुरेव हृदयाह्लादकरं वेश्म गृहं भवति । कीदृशम् । पुष्करिणीव' । पुष्कराणि पद्मानि यस्याः सन्तीति पुष्करिणी सरसी । सा यथा पद्महंसादिभिरलंकृता भवति तद्वत् परिष्कृतं वितानादिभिरलंकृतम् ॥ परिपूर्वस्य करोतेर्भूषणार्थे संहितायां सुडागमः । ‘ परिनिविभ्यः' इति सुटः षत्वम् । ‘ गतिरन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥ तथा देवमानेव' । सुपां सुलुक् । इति प्रथमैकवचनस्याकारः ॥ देवमानमिव देवयानमिव चित्रं मनोहरं वेश्म तस्य भवति ॥
“(Saramā). I recognize not fraternity nor sisterhood; Indra and the terrible Aṅgirasas know (mykindred); my (masters) desiring the cattle overshadowed (yoru habitation) when I came; depart hence, Paṇis to adistant (spot).”
They deck the fleet steed for the bounteous giver: the maid adorns herself and waits to meet him.
His home is like a lake with lotus blossoms, like the Gods' palaces adorned and splendid.
For the benefactor they groom the swift horse; for the benefactor the maiden sits waiting, making herself beautiful.
This dwelling of the benefactor is like a lotus-pond, adorned and
shimmering like the palaces of the gods.
Dem Freigiebigen schmückt man das schnelle Ross aus; des Freigiebigen harret die glänzend geschmückte Jungfrau; dem Freigiebigen ist dies sein Haus wie ein Lotusteich, glänzend geschmückt wie eine Götterwohnung.
Für den Gastfreien putzen sie das schnelle Roß, für den Gastfreien harren daheim die sich schön machende Jungfrau. Dieses Haus des Gastfreien ist wie ein Lotusteich, wie ein wunderbarer Götterpalast ausgestattet.
Для щедрого начинают быстрого коня.
Щедрого сидит (и ждет) украшающая себя девица.
У щедрого это жилье, словно лотосовый пруд,
Отделанное, как сверкающие хоромы богов.
भो॒जमश्वा॑: सुष्ठु॒वाहो॑ वहन्ति सु॒वृद्रथो॑ वर्तते॒ दक्षि॑णायाः । भो॒जं दे॑वासोऽवता॒ भरे॑षु भो॒जः शत्रू॑न्त्समनी॒केषु॒ जेता॑ ॥
भो॒जम् । अश्वाः॑ । सु॒ष्ठु॒ऽवाहः॑ । व॒ह॒न्ति॒ । सु॒ऽवृत् । रथः॑ । व॒र्त॒ते॒ । दक्षि॑णायाः । भो॒जम् । दे॒वा॒सः॒ । अ॒व॒त॒ । भरे॑षु । भो॒जः । शत्रू॑न् । स॒म्ऽअ॒नी॒केषु॑ । जेता॑ ॥
सुष्ठुवाहः ॥ ‘ वह प्रापणे ' । “ वहश्च ' इति ण्विप्रत्ययः । शोभनवहनसमर्थाः अश्वाः भोजं दातारं वहन्ति । लक्ष्यं देशं प्रापयन्ति । ततः दक्षिणायाः दातुर्यंजमानस्य सुवृत् सुष्ठु चक्रादिवर्तनं यस्य सोऽश्वादिसहितः रथः वर्तते । अथ प्रत्यक्षः । हे देवासः हे देवा इन्द्रादयः भरेषु । भ्रियत' आहवनीयादिरूपेणाग्निरत्रेति भरा यज्ञाः । यद्वा । ‘ भॄ भर्त्सने ' । भृणन्ति भर्त्सयन्ति योद्धार अत्रेति भराः संग्रामाः । तेषु भोजं दातारम् अवत रक्षत । ततो युष्माभिः पालितः भोजः धनादिदानेन जनानां भोजयिता सन् समनीकेषु संग्रामेषु शत्रून् जेता जयशीलो भवति । ‘ जि जये'। ताच्छीलिकस्तृन् । अत एव ‘ न लोकाव्यय° ' इति शत्रुशब्दस्य षष्ठीप्रतिषेधः । ॥ ४ ॥
“Go hence, Paṇis, to a far-off distant (spot), let the cattle come forth in due order bursting through (thedoor) the concealed cattle which Bṛhaspati, the Soma, the grinding stones and the wise Ṛṣis have found.”
Steeds good at draught convey the liberal giver, and lightly rolling moves the car of Guerdon.
Assist, ye Gods, the liberal man in battles: the liberal giver conquers foes in combat.
The steadily conveying horses convey the benefactor. Rolling easily, the chariot of the priestly gift rolls on.
O gods, help the benefactor in the raids. The benefactor will win against his rivals at the encounters (with them).
Die Freigiebigen fahren trefflich fahrende Rosse, leicht rollt der Wagen des Opferlohners; den Freigiebigen unterstützt, o ihr Götter, in den Kämpfen; der Freigiebige besiegt die Feinde in den Schlachten.
Den Gastfreien ziehen gutziehende Rosse, leicht rollt der Wagen der Daksina. O Götter, begünstiget den Gastfreien in den Preiskämpfen! Der Gastfreie wird in den Schlachten Sieger über die Feinde sein!
Щедрого возят хорошо везущие кони –
Легко катится колесница Дакшины.
Щедрого, о боги, поддержите в сражениях!
Щедрый – победитель врагов в боях.