किमि॒च्छन्ती॑ स॒रमा॒ प्रेदमा॑नड्दू॒रे ह्यध्वा॒ जगु॑रिः परा॒चैः । कास्मेहि॑ति॒: का परि॑तक्म्यासीत्क॒थं र॒साया॑ अतर॒: पयां॑सि ॥
किम् । इ॒च्छन्ती॑ । स॒रमा॑ । प्र । इ॒दम् । आ॒न॒ट् । दू॒रे । हि । अध्वा॑ । जगु॑रिः । प॒रा॒चैः । का । अ॒स्मेऽहि॑तिः । का । परि॑ऽतक्म्या । आ॒सी॒त् । क॒थम् । र॒सायाः॑ । अ॒त॒रः॒ । पयां॑सि ॥
अनयागच्छन्तीं सरमां दृष्ट्वा पणयो वदन्ति । सरमा सरणशीलैतन्नामिका देवशुनी किमिछन्ती किं प्रार्थयमाना सती इदम् अस्मदीयं स्थानं प्र आनट् प्राप्नोत् । आङ्पूर्वो नशिः व्याप्तिकर्मा । तस्य लुङि ‘मन्त्रे घस' इत्यादिना च्लेर्लुक् । छन्दस्यपि दृश्यत इत्याडागमः ॥ पराचैः पराञ्चि पराङ्मुखान्यावृत्तिवर्जितानि यानि गमनानि तैः जगुरिः उद्गूर्णः । महता प्रयत्नेनापि गन्तुं न शक्यत इत्यर्थः ॥ ‘ गॄ निगरणे'। ‘ आदृगमहन ' इत्यादिना किन्प्रत्ययः । ‘ बहुलं छन्दसि । (पा. सू. ७. १. १०३) इत्युत्वम् ॥ तादृशोऽयम् अध्वा दूरे हि विप्रकृष्टः खलु । यद्वा । पराचैः पराञ्चनैर्जगुरिरत्यर्थं गन्त्री पार्ष्णिभागमनालोकमाना सतीदं स्थानं प्राप्नोति । दूरेऽयमध्वा यदृच्छया गन्तुं न शक्यते । अतो वयमेतां पृच्छामः । हे सरमे का कीदृशी अस्मेहितिः । कोऽस्मास्वर्थहितिः । कोऽस्मासु त्वदपेक्षितार्थो निहितः । यद्वा । अस्मासु कोऽर्थो गतः । दधातेर्हिनोतेर्वा क्तिनि रूपन् । आगच्छन्त्यास्तव का कीदृशी परितक्म्या रात्रिः आसीत् । यद्वा । तकतिर्गत्यर्थः । परितकनं परितो गमनं भ्रमणं वा कीदृशमासीत् । कथं च रसायाः शब्दायमानाया अन्तरिक्षनद्या योजनशतविस्तीर्णायाः पयांसि उदकानि अतरः तीर्णवत्यसि । एतद्वद । अत्र किमिच्छन्ती सरमेदं प्रानट् ' (निरु. ११. २५) इत्यादिकं निरुक्तं द्रष्टव्यम् ॥
“(The Paṇis). With what intention has Saramā come to this plural ce? Verily the way is long and difficultto be traversed by the person vering. What is the motive of your coming to us? What sort of wandering was yours?How have you crossed the waters of the Rasā?”
WHAT wish of Sarama hath brought her hither? The path leads far away to distant places.
What charge hast thou for us? Where turns thy journey? How hast thou made thy way o'er Rasa's waters.
With what desire has Saramā come hither? For weary is the way and far the distance. What was for us the message, what her roaming? How didst thou pass across the Rasā's waters?
[Paṇi:] Seeking what has Saramā arrived here, for far is the road,
swallowing up (the traveler) in the distance?
What is your mission to us? What was the final turn (bringing you here)? How did you cross the waters of the Rasā?
»Was wünschend ist hier Saramā gekommen? weit ist der Weg ja, in die Ferne führend; Was ist dein Auftrag? welches deine Reise? wie drangst du durch des Weltenstromes Fluten?«
Mit welchem Ansuchen ist Sarama hierher gekommen? Der Weg so weit in die Ferne ist ja aufreibend. Was bedeutet die Sendung zu uns? Welches war der entscheidende Wendepunkt? Wie kamst du über die Fluten der Rasa?
В поисках чего пожаловала сюда Сарама?
Ведь изнурителен путь так далеко на чужбину.
С каким поручением к нам? Что было решающим поворотом?
Как перебралась ты через воды Расы?
Сарама:
इन्द्र॑स्य दू॒तीरि॑षि॒ता च॑रामि म॒ह इ॒च्छन्ती॑ पणयो नि॒धीन्व॑: । अ॒ति॒ष्कदो॑ भि॒यसा॒ तन्न॑ आव॒त्तथा॑ र॒साया॑ अतरं॒ पयां॑सि ॥
इन्द्र॑स्य । दू॒तीः । इ॒षि॒ता । च॒रा॒मि॒ । म॒हः । इ॒च्छन्ती॑ । प॒ण॒यः॒ । नि॒ऽधीन् । वः॒ । अ॒ति॒ऽस्कदः॑ । भि॒यसा॑ । तम् । नः॒ । आ॒व॒त् । तथा॑ । र॒सायाः॑ । अ॒त॒र॒म् । पयां॑सि ॥
अनया तान् सरमा प्रत्युवाच । हे पणयः एतन्नामका असुराः इन्द्रस्य दूतीः । ‘ सुपां सुलुक्' इति प्रथमैकवचनस्य सुश्छान्दसः । अहम् इषिता तेनैव प्रेषिता सती चरामि । युष्मदीयं स्थानमागच्छामि । किमर्थम् । वः युष्मदीयान् युष्मदीये पर्वतेऽधिष्ठापितान् महः महतः निधीन् बृहस्पतेर्गोनिधीन इच्छन्ती कामयमाना सती चरामि । किंच अतिष्कदः ॥ ‘ स्कन्दिर्गतिशोषणयोः '। भावे क्विप् । अतिष्कन्दनादतिक्रमणाज्जातेन भियसा भयेन तत् नदीजलं नः । पूजायां बहुवचनम् । माम् आवत् अरक्षत् । तथा तेन प्रकारेण रसायाः नद्याः पयांसि उदकानि अतरं तीर्णवत्यस्मि ॥
I come appointed messenger of Indra, seeking your ample stores of wealth, O Panis.
This hath preserved me from the fear of crossing: thus have I made my way o'er Rasa's waters.
I come sent out as messenger by Indra, O Paṇis, searching round for your great treasures. In fear that I should leap across, she helped me: I traversed thus the waters of the Rasā.
[Saramā:] Sent as the messenger of Indra I travel, seeking your great hidden treasuries, Paṇis.
With a fear of leaping across—that helped us!—in that way I crossed the waters of the Rasā.
»Gesandt von Indra komm' ich her als Botin, ihr Pani's, fordernd eure grossen Schätze; Das half mir, als mir bangte vor dem Sprunge; so drang ich durch des Weltenstromes Fluten.«
Als Indra´s Botin komme ich abgesandt, eure großen Schätze suchend, ihr Pani´s. Aus Furcht vor dem Überspringen half sie uns dabei. So kam ich durch die Fluten der Rasa.
Я рыщу, посланная как вестница Индры,
В поисках ваших несметных сокровищ, о Пани.
Из страха, что (я) перепрыгну, она помогла нам в этом.
Так я перебралась через воды Расы.
Пани:
की॒दृङ्ङिन्द्र॑: सरमे॒ का दृ॑शी॒का यस्ये॒दं दू॒तीरस॑रः परा॒कात् । आ च॒ गच्छा॑न्मि॒त्रमे॑ना दधा॒माथा॒ गवां॒ गोप॑तिर्नो भवाति ॥
की॒दृक् । इन्द्रः॑ । स॒र॒मे॒ । का । दृ॒शी॒का । यस्य॑ । इ॒दम् । दू॒तीः । अस॑रः । प॒रा॒कात् । आ । च॒ । गच्छा॑त् । मि॒त्रम् । ए॒न॒ । द॒धा॒म॒ । अथ॑ । गवा॑म् । गोऽप॑तिः । नः॒ । भ॒वा॒ति॒ ॥
तेषां वाक्यम् । हे सरमे तव स्वामी इन्द्रः कीदृक् । कियत्पराक्रमवान् । का दृशीका। तस्य कीदृशी दृष्टिः । दृष्टिरूपा सेना कियती । यस्य दूतीः दूती त्वम् इदम् अस्मदीयं स्थानं पराकात् अतिदूरात् असरः आगमः । इति तामुक्त्वा इदानीं ते परस्परमाहुः । एषा सरमा आ गच्छात् च आगच्छतु च । गमेर्लेट्याडागमः । स्वामी भवाति भवतु । न ह्येकस्या गोः किंतु बहूनां गवां स्वामी भवतु । वृत्त्यवृत्तिभ्यां स्वामित्वं बाहुल्यं च विवक्ष्यते ॥
What is that Indra like, what is his aspect whose envoy, Sarama, from afar thou comest?
Let him approach, and we will show him friendship: he shall be made the herdsman of our cattle.
What, Saramā, is Indra like, as envoy For whom thou comest from the farthest distance? Let him come here: we will make him our comrade. So let him be the herdsman of our cattle.
[Paṇi:] Of what sort is Indra, Saramā? What is his appearance?—he as whose messenger you raced here from afar?
If he will come here, we will make an alliance with him, and then he will become the cowherd of our cattle.
»Wer ist der Indra? und wie ist sein Aussehn, als dessen Botin du von Ferne herliefst? Er komme her, wir nehmen ihn als Freund an, er soll der Hirte unsrer Kühe werden.«
Was für einer ist Indra, o Sarama, welches ist sein Aussehen, als dessen Botin du von ferne hierher gekommen bist? Wenn er selbst herkommt, wollen wir Freundschaft mit ihm schließen, und er mag der Herr unserer Kühe werden.
Что это за Индра, о Сарама? Как выглядит (тот),
Чьей вестницей ты примчалась сюда издалека?
Придет он (сам) – дружбу заключим с ним,
И станет он повелителем наших коров.
Сарама:
नाहं तं वे॑द॒ दभ्यं॒ दभ॒त्स यस्ये॒दं दू॒तीरस॑रं परा॒कात् । न तं गू॑हन्ति स्र॒वतो॑ गभी॒रा ह॒ता इन्द्रे॑ण पणयः शयध्वे ॥
न । अ॒हम् । तम् । वे॒द॒ । दभ्य॑म् । दभ॑त् । सः । यस्य॑ । इ॒दम् । दू॒तीः । अस॑रम् । प॒रा॒कात् । न । तम् । गू॒ह॒न्ति॒ । स्र॒वतः॑ । ग॒भी॒राः । ह॒ताः । इन्द्रे॑ण । प॒ण॒यः॒ । श॒य॒ध्वे॒ ॥
सरमा वदति । हे पणयः तम् इन्द्रं दभ्यं हन्तव्यमिति न वेद न जानामि । दभेः अचो यत् । कथम् । सः इन्द: दभत् सर्वान् जनान् दभति हिनस्त्येव ॥ दभेर्लेटि रूपम् । वाक्यभेदादनिघातः ॥ यस्य दूतीः दूती अहम् इदं युष्मदीयं स्थानं पराकात् अतिदूरदेशात् असरं प्राप्ताभूवम् । इन्द्रो हिंसितव्यो न भवतीत्यत्र युक्तिमाह । स्रवतः । स्रवणं स्रवः। तमाचरन्ति । आचारार्थे क्विप् । तुगागमः । जसि रूपम् । स्रवणशीला: गभीराः गभीरा नद्यः तम् इन्द्रं न गूहन्ति न संवृण्वन्ति । नाच्छादयन्ति । किंत्वाविष्कुर्वन्ति । वयं यस्य महिम्ना समुद्रं प्रतिसरामः । तस्मादहिंस्य इत्येनं प्रकटीकुर्वन्ति । ‘ गुहू संवरणे'। भौवादिकः । तस्माद्धे पणयः यूयम् इन्द्रेण तादृशपराक्रमेण हताः सन्तः शयध्वे ॥ ‘ शीङ् स्वप्ने'। 'बहुलं छन्दसि ' इति शपो लुगभावः ॥
I know him safe from harm: but he can punish who sent me hither from afar as envoy.
Him rivers flowing with deep waters bide not. Low will ye be, O Panis, slain by Indra.
I know he can't be harmed, but injures others, He as whose envoy from afar I come here. Deep-flowing streams cannot conceal his body: By Indra slain, ye shall lie prostrate, Paṇis.
[Saramā:] I know him not as one who can be deceived. He will deceive!— he as whose messenger I raced here from afar.
Deep flowing rivers do not hide him. Smashed by Indra, Paṇis, you will lie still.
»Ich weiss, niemand kann schlagen ihn, doch er schlägt, als dessen Botin ich von Ferne herlief; Auch tiefe Ströme tauchen ihn nicht unter, von Indra liegt ihr, Pani's, bald erschlagen.«
Ich kenne ihn nicht als einen, der sich betören läßt; er betört andere, als dessen Botin ich von ferne hierher gelaufen bin. Ihn können tiefe Ströme nicht zudecken. Von Indra erschlagen sollt ihr Pani´s daliegen.
Не знаю я (такого), чтоб его можно было обмануть, он (сам) обманет (других),
(Тот,) чьей вестницей я примчалась сюда издалека.
Не скроют его глубокие потоки.
Лежать вам, Пани, убитыми Индрой!
Пани:
इ॒मा गाव॑: सरमे॒ या ऐच्छ॒: परि॑ दि॒वो अन्ता॑न्त्सुभगे॒ पत॑न्ती । कस्त॑ एना॒ अव॑ सृजा॒दयु॑ध्व्यु॒तास्माक॒मायु॑धा सन्ति ति॒ग्मा ॥
इ॒माः । गावः॑ । स॒र॒मे॒ । याः । ऐच्छः॑ । परि॑ । दि॒वः । अन्ता॑न् । सु॒ऽभ॒गे॒ । पत॑न्ती । कः । ते॒ । ए॒नाः॒ । अव॑ । सृ॒जा॒त् । अयु॑ध्वी । उ॒त । अ॒स्माक॑म् । आयु॑धा । स॒न्ति॒ । ति॒ग्मा ॥
क्रुद्धाः पणयः प्रत्यूचुः । हे सुभगे शोभनसौभाग्यवति हे सरमे दिवः द्युलोकस्य अन्तान् पर्यन्तान् परि पतन्ती कुत्र गावस्तिष्ठन्तीति परितो गच्छन्ती त्वम् इमाः परिदृश्यमानाः याः गावः । सुब्व्यत्ययः । गाः ऐच्छः कामयसे ता: एनाः गाः ते त्वदीयः कः अयुध्वी अयुद्ध्वा अव सृजात् । अस्मात् पर्वतादवसृजेत् । विनिर्गमयेत् । सृजेर्लेटि रूपम् । अयुध्वी । युधेः क्त्वाप्रत्यये स्नात्व्यादयश्च ' इति निपातितः । नञ्समासत्वाल्ल्यबादेशाभावः। नञः प्रकृतिस्वरत्वम् । उत अपि च अस्माकं तिग्मा तीक्ष्णानि आयुधा आयुधानि सन्ति । तस्मादस्माभिर्युद्धमकृत्वा को वा गा आहरति ॥ ॥ ५ ॥
These are the kine which, Sarama, thou seekest, flying, O Blest One, to the ends of heaven.
Who will loose these for thee without a battle? Yea, and sharp-pointed are our warlike weapons.
Those cows for which, O Saramā, thou soughtest, Around the ends of heaven flying, fair one: Who them to thee would leave without resistance? And sharp indeed our weapons are in conflict.
[Paṇi:] These cattle that you sought, Saramā, as you were flying around the ends of heaven, fortunate one—
who will release them to you without a fight? And our battle weapons are sharp!
»Die Kühe, die du, Saramā, begehrtest, o schöne, fliegend um des Himmels Enden, Wer wird dir diese ohne Kampf gewähren? und scharf sind doch die Waffen, die wir haben.«
Diese Kühe, die du suchtest, die Grenzen des Himmels überfliegend, o holde Sarama, wer möchte die ohne Kampf herausgeben? Und unser sind scharfe Waffen.
Эти коровы, о Сарама, которые ты искала,
Летая, о милая, вокруг пределов неба,
Кто ж их тебе выдаст без борьбы?
А оружие у нас острое.
Сарама:
अ॒से॒न्या व॑: पणयो॒ वचां॑स्यनिष॒व्यास्त॒न्व॑: सन्तु पा॒पीः । अधृ॑ष्टो व॒ एत॒वा अ॑स्तु॒ पन्था॒ बृह॒स्पति॑र्व उभ॒या न मृ॑ळात् ॥
अ॒से॒न्याः । वः॒ । प॒ण॒यः॒ । वचाँ॑म्सि । अ॒नि॒ष॒व्याः । त॒न्वः॑ । स॒न्तु॒ । पा॒पीः । अधृ॑ष्टः । वः॒ । एत॒वै । अ॒स्तु॒ । पन्थाः॑ । बृह॒स्पतिः॑ । वः॒ । उ॒भ॒या । न । मृ॒ळा॒त् ॥
सा तान्निराह । हे पणयः वः युष्माकं वचांसि पूर्वोक्तानि वचनानि असेन्या असेन्यानि । सेनार्हाणि न भवन्ति ॥ सेनाशब्दात् तदर्हतीत्यर्थे ' छन्दसि च ' इति यत्प्रत्ययः । नञा समासः । ‘ ययतोश्चातदर्थे ' (पा. सू. ६. २. १५६ ) इत्युत्तरपदान्तोदात्तत्वम् । तथा तन्वः युष्मदीयानि शरीराणि अनिषव्याः इष्वर्हाणि न सन्तु पराक्रमराहित्येन । पूर्ववत् प्रत्ययः । ‘ओर्गुणः (पा. सू. १, ४, १४६ ) इति गुणः । स्वरश्च तादृक् । यतः पापीः पापयुक्तानि खलु । ‘ छन्दसीवनिपौ ' इतीप्रत्ययः । जसः सुः । किंच वः युष्मदीयः पन्थाः मार्गः एतवै गन्तुम् अधृष्टः असमर्थः अस्तु ॥ ‘ इण् गतौ ' इत्यस्य तुमर्थे तवैप्रत्ययः । ‘ तवै चान्तश्च युगपत् ' ( पा. सू. ६. २. ५ ) इति धातोः प्रत्ययस्य च युगपदुदात्तत्वम् । तत्र हेतुमाह । वः युष्मदीयान् उभया उभयविधान पूर्वोक्तांस्तन्वो देहान् बृहस्पतिः इन्द्रप्रेरितः न मृळात् न सुखयेत् । किंतु बाधेत ॥ ‘ मृड सुखने' । लेट्याडागमः ॥
Even if your wicked bodies, O ye Panis, were arrow-proof, your words are weak for wounding;
And were the path to you as yet unmastered, Brhaspati in neither case will spare you.
Though these your words can not be fought with missiles, Nor those mis-shapen bodies pierced by arrows, Nor yet the road be forced, to reach your stronghold: Bṛhaspati will never spare you, Paṇis.
[Saramā:] Your words are no weapons, Paṇis! Let your evil bodies be impervious to arrows
or let the path to you be impossible to follow—either way, Br̥haspati will have no mercy on you!
»Nicht treffend sind, o Pani's, eure Worte; und wären schussfest eure bösen Leiber, Und undurchdringlich auch der Weg zu euch hin, Brihaspati wird beides nicht verschonen.«
Eure Worte, Pani´s, machen keine Soldaten. Mögen eure schlechten Leiber gegen Pfeile gefeit sein, mag der Weg, um zu euch zu gelangen, unerzwinglich sein: in beiden Fällen wird Brihaspati euer nicht schonen.
Пусть слова ваши, Пани, не подвластны выстрелам,
Ваши мерзкие тела не будут мишенью для стрел,
(А) путь, чтоб добраться до вас, будет непреодолимым -
Так или иначе Брихаспати вас не помилует!
Пани:
अ॒यं नि॒धिः स॑रमे॒ अद्रि॑बुध्नो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्न्यृ॑ष्टः । रक्ष॑न्ति॒ तं प॒णयो॒ ये सु॑गो॒पा रेकु॑ प॒दमल॑क॒मा ज॑गन्थ ॥
अ॒यम् । नि॒ऽधिः । स॒र॒मे॒ । अद्रि॑ऽबुध्नः । गोभिः॑ । अश्वे॑भिः । वसु॑ऽभिः । निऽऋ॑ष्टः । रक्ष॑न्ति । तम् । प॒णयः॑ । ये । सु॒ऽगो॒पाः । रेकु॑ । प॒दम् । अल॑कम् । आ । ज॒ग॒न्थ॒ ॥
ते पुनराहुः । हे सरमे अयं निधिः अस्मदीयः कोशः अद्रिबुध्नः । ‘बन्ध बन्धने । ‘ बन्धेर्ब्रधिबुधी च' ( उ. सू. ३. ५ ) इति नप्रत्ययो बुध इत्यादेशः । अद्रिर्बन्धको यस्य तादृशः । तथा आहृतैः गोभिरश्वेभिः अश्वैश्च वसुभिः आत्मीयैर्धनैश्च न्यृष्टः नितरां प्राप्तो भवति ॥ ऋषी गतौ । क्तप्रत्यये ‘ श्वीदितो निष्टायाम्' इतीट्प्रतिषेधः । ‘ गतिरनन्तरः' इति गतेः प्रकृति स्वरत्वम् ॥ सुगोपाः । ‘ गुप रक्षणे ' । आयप्रत्ययान्तात् क्विपि अतोलोपयलोपौ । सुष्ठु गोपयितारः ये पणयः तेऽसुराः तं निधिं रक्षन्ति पालयन्ति । रेकु । ‘रेकृ शङ्कायाम् । औणादिक उप्रत्ययः । शङ्कितं गोभिः शब्दायमानं पदम् अस्माभिः पालितं स्थानम् अलकं व्यर्थमेव आ जगन्थ आगतवत्यसि ॥ गमेर्लिटि रूपम् ॥
Paved with the rock is this our treasure-chamber; filled full of precious things, of kine, and horses.
These Panis who are watchful keepers guard it. In vain hast thou approached this lonely station.
This treasure, Saramā, on rock is founded. Replete with goods, and cows, and horses. The Paṇis here, its stout protectors, guard it: In vain thou comest to a fort unyielding.
[Paṇi:] This treasury with its foundation of rock is overflowing with cows, horses, and goods, Saramā.
The Paṇis, who are good herdsmen, guard it. In vain have you come on an empty track.
»Auf Felsgrund ruht, o Saramā, der Schatz hier; gefüllt mit Rindern, Rossen und mit Gütern, Als gute Wächter schützen ihn die Pani's, leer ist der Ort, umsonst bist du gekommen.«
Diese Schatzkammer auf felsigem Grund ist voll von Rindern, Rossen, Schätzen, o Sarama. Die Pani´s, die gute Wächter sind, behüten die. Du bist vergebens die falsche Fährte gegangen.
Эта сокровищница, о Сарама, на дне скалы
Переполнена быками, конями, благами.
Охраняют ее Пани, которые хорошие сторожа.
Напрасно пришла ты по оставленному следу.
Сарама:
एह ग॑म॒न्नृष॑य॒: सोम॑शिता अ॒यास्यो॒ अङ्गि॑रसो॒ नव॑ग्वाः । त ए॒तमू॒र्वं वि भ॑जन्त॒ गोना॒मथै॒तद्वच॑: प॒णयो॒ वम॒न्नित् ॥
आ । इ॒ह । गा॒म॒न् । ऋष॑यः । सोम॑ऽशिताः । अ॒यास्यः॑ । अङ्गि॑रसः । नव॑ऽग्वाः । ते । ए॒तम् । ऊ॒र्वम् । वि । भ॒ज॒न्त॒ । गोना॑म् । अथ॑ । ए॒तत् । वचः॑ । प॒णयः॑ । वम॑न् । इत् ॥
सरमा पुनः प्रत्युवाच । हे पणयः सोमशिताः सोमेन तीक्ष्णीकृताः सोमपानेन मत्ताः ॥ ‘ शिञ् निशाने '। कर्मणि क्तप्रत्ययः । ‘ तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । तादृशाः नवग्वाः नवगतयः । यद्वा । अङ्गिरसां सत्रमासीनानां मध्ये केचन नवसु माःसूदतिष्ठन् ते नवग्वाः । अनेन दशग्वा अप्युपलक्ष्यन्ते । उभयविधास्ते अङ्गिरसः ऋषयः तेषां प्रथमः अयास्यः एतन्नामा च त एते इह युष्मदीये स्थाने आ गमन् आगच्छेयुः ॥ गमेः छन्दसि लुङ्लङ्लिटः इति सार्वकालिको लुङ । लृदित्त्वाच्च्लेरङ् ॥ आगत्य च ते गोनाम् ॥ ‘ गोः पादान्ते' इति छन्दसि नुडागमः ॥ गवाम् ऊर्वं तं समूहं वि भजन्त विभाग कुर्युः ॥ अत्रापि पूर्ववत् सार्वकालिको लुङ ॥ अथ अनन्तरं पणयः यूयम् एतद्वचः पूर्वं यत् व्यर्थमागतासीति यद्वाक्यमवोचत तद्वाक्यं तदा वमन्नित् वमन्तः परित्यजन्त एव भवथ ॥ ‘ वमु उद्गिरणे ' । शतरि ‘ सुपा सुलुक्° । इति जसो लुक् । नुमागमः । संयोगान्तस्य लोपः । यद्वा । लङि रूपम् । स्वरश्छान्दसः ॥
Rsis will come inspirited with Soma, Angirases unwearied, and Navagvas.
This stall of cattle will they part among them: then will the Panis wish these words unspoken.
Hither will come the seers inspired with Soma, Ayāsya, Aṅgirases, and Navagvas: They will appropriate this stall of cattle. The Paṇis then shall all these boasts relinquish.
[Saramā:] The seers, sharpened by soma, will come here to this
place: Ayāsya [=Indra], the Aṅgirases, and the Navagvas.
They will divide up this pen of cattle. Then will the Paṇis just vomit this speech (of theirs)!
»Her werden kommen trankerregt die Sänger Ajāsia, die Angira's, die Neuner; Die werden sich der Kühe Stall vertheilen; dann wird die Pani's dieses Worts gereuen.«
Es werden die Rishi´s, durch Soma scharf gemacht, hierher kommen: Ayasya, die Angiras´ und Navagva´s. Die werden die eingesperrte Herde der Kühe unter sich teilen. Dann sollen die Pani´s dieses Wort sich entfahren lassen!
Сюда придут риши, возбужденные Сомой:
Аясья, Ангирасы, Навагва.
Они поделят между собой этот загон для коров.
Вот тогда Пани изрыгнут эту речь.
Пани:
ए॒वा च॒ त्वं स॑रम आज॒गन्थ॒ प्रबा॑धिता॒ सह॑सा॒ दैव्ये॑न । स्वसा॑रं त्वा कृणवै॒ मा पुन॑र्गा॒ अप॑ ते॒ गवां॑ सुभगे भजाम ॥
ए॒व । च॒ । त्वम् । स॒र॒मे॒ । आ॒ऽज॒गन्थ॑ । प्रऽबा॑धिता । सह॑सा । दैव्ये॑न । स्वसा॑रम् । त्वा॒ । कृ॒ण॒वै॒ । मा । पुनः॑ । गाः॒ । अप॑ । ते॒ । गवा॑म् । सु॒ऽभ॒गे॒ । भ॒जा॒म॒ ॥
तयैवमुक्ते सति पणयः प्रणयवाक्यमाहुः । हे सरमे त्वं दैव्येन देवसंबन्धिना सहसा बलेन प्रबाधिता यथा तथा वलपुरं प्राप्य तत्र स्थित गा दृष्ट्वा पुनरागच्छेति तेन प्रपीडिता त्वम् एवं चेत् आजगन्थ आगतवत्यसि ॥ चशब्दश्चेदर्थे । ‘ निपातैर्यद्यदिहन्त° ' इति तिङो निघाताभावः । गमेर्लिटि थलि रूपम्। सह सुपा' इत्यत्र सहेति योगविभागात् समासः । ‘ तिङि चोदात्तवति' इति गतेर्निघातः । लित्स्वरः॥ तर्हि त्वा त्वां स्वसारं भगिनीं कृणवै करवै । समूहापेक्षयैकवचनम् । त्वं तु पुनः मा गाः । इन्द्रादीन् मा गच्छ। अपि तर्हि हे सुभगे सरमे ते त्वदीयानां गवां समूहं पर्वतादपगमय्य भजाम । त्वं च वयं च विभजाम । विभागं करवामेत्यर्थः ॥
Even thus, O Sarama, hast thou come hither, forced by celestial might to make the journey.
Turn thee not back, for thou shalt be our sister: O Blest One, we will give thee of the cattle.
And since, O Saramā, thus by compulsion Divine coerced, thou hast come hither to us: We will make thee our sister: pray return not; We will give thee a share of kine, thou fair one.
[Paṇi:] Even though you have come in this way, Saramā, compelled by divine power,
I shall make you my sister. Do not go back. We will give away a portion of the cows to you, fortunate one.1574 X.109
»Du bist gewiss, o Saramā, gekommen, gezwungen nur durch die Gewalt der Götter; So geh nicht fort und werde unsre Schwester, wir geben, schöne, dir von unsern Kühen.«
Da du, Sarama, nun einmal gekommen bist, durch göttliche Gewalt genötigt, so will ich dich zur Schwester machen. Geh nicht zurück; wir wollen dir, o Holde, von den Kühen welche abgeben.
Раз уж ты, Сарама, так пришла,
Принужденная божественной силой,
Я тебя сделаю сестрой. Не уходи обратно!
Мы выделим тебе, о милая, часть коров.
Сарама:
नाहं वे॑द भ्रातृ॒त्वं नो स्व॑सृ॒त्वमिन्द्रो॑ विदु॒रङ्गि॑रसश्च घो॒राः । गोका॑मा मे अच्छदय॒न्यदाय॒मपात॑ इत पणयो॒ वरी॑यः ॥
न । अ॒हम् । वे॒द॒ । भ्रा॒तृ॒ऽत्वम् । नो इति॑ । स्व॒सृ॒ऽत्वम् । इन्द्रः॑ । वि॒दुः॒ । अङ्गि॑रसः । च॒ । घो॒राः । गोऽका॑माः । मे॒ । अ॒च्छ॒द॒य॒न् । यत् । आय॑म् । अप॑ । अतः॑ । इ॒त॒ । प॒ण॒यः॒ । वरी॑यः ॥
सा तान् प्रत्याचष्टे । हे पणयः अहं भ्रातृत्वं न वेद न जानामि । तथा स्वसृत्वं च नो वेद नैव जानामि । के जानन्ति तानाह। इन्द्रः घोरः शत्रूणां भयंकराः अङ्गिरसश्च विदुः जानन्ति । किंच अस्मात् स्थानादहं यत् यदा आयम् इन्द्रादीन् प्राप्नवम् ॥ ‘ अय पय गतौ । लङि रूपम् ॥ तदा मे मदीयाः गोकामाः युष्माभिरपहृता गाः कामयमाना इन्द्रादयः अच्छदयन् । युष्मदीयं स्थानमाच्छादयन्ति । ‘छद अपवारणे' । अतः कारणाद्धे पणयः वरीयः उरुतरं गवां वृन्दं परित्यज्य अप इत अन्यत्स्थानं प्रति गच्छत । यद्वा । वरीयः प्रभूतमतिदूरं देशं गच्छत ॥ इत । इण् गतौ '। लोटि रूपम् । वरीयः । उरुशब्दादीयसुनि ‘प्रियस्थिर इत्यादिना वरादेशः ॥
Brotherhood, sisterhood, I know not either: the dread Angirases and Indra know them.
They seemed to long for kine when I departed. Hence, into distance, be ye gone, O Panis.
I know not what's a brother or a sister: The fierce Aṅgirases and Indra know it. They seemed to me, when I came here, right eager For kine: from hence go far away, ye Paṇis.
[Saramā:] I know no brotherhood and no sisterhood. Indra and the terrifying Aṅgirases, they know (these things).
They seemed to me desirous of cattle when I came. Go away from here, Paṇis, a very long way!
»Nicht Brüderschaft, nicht Schwesterschaft begehr' ich; die grausen Angira's und Indra wissen's, Sie schienen, da ich ging, nach Kühen lüstern, geht fort von hier, o Pani's, in die Ferne.«
Von Bruder- und Schwesternschaft will ich nichts wissen; das wissen Indra und die furchtgebietenden Angiras´. Sie schienen mir voll verlangen nach Kühen, als ich ging. Hebt euch weit weg von dannen, ihr Pani´s!
Знать не знаю ни братства, ни сестринства!
(О том) знают Индра и Ангирасы, внушающие ужас.
Они показались мне жаждущими коров, когда я уходила.
Подальше убирайтесь прочь отсюда, Пани!
Автор:
दू॒रमि॑त पणयो॒ वरी॑य॒ उद्गावो॑ यन्तु मिन॒तीॠ॒तेन॑ । बृह॒स्पति॒र्या अवि॑न्द॒न्निगू॑ळ्हा॒: सोमो॒ ग्रावा॑ण॒ ऋष॑यश्च॒ विप्रा॑: ॥
दू॒रम् । इ॒त॒ । प॒ण॒यः॒ । वरी॑यः । उत् । गावः॑ । य॒न्तु॒ । मि॒न॒तीः । ऋ॒तेन॑ । बृह॒स्पतिः॑ । याः । अवि॑न्दत् । निऽगू॑ळ्हाः । सोमः॑ । ग्रावा॑नः । ऋष॑यः । च॒ । विप्राः॑ ॥
हे पणयः यूयं वरीयः उरुतरं दूरं दूरदेशम् इत गच्छत। युष्माभिरपहृताः गावः ऋतेन सत्येन मिनतीः मिनत्यो द्वारस्य पिधायकं पर्वतं हिंसत्यो विदारयन्त्यः उत् यन्तु तस्मादुद्गच्छन्तु । यद्वा । मिनतीः । व्यत्ययेन कर्मणि शतृ । मीयमाना युष्माभिर्बाध्यमानास्ता गावः । सुब्व्यत्ययः । गा ऋतेन स्तुतिभिर्गन्तव्येनेन्द्रेण सहायेन बृहस्पत्यादय उद्यन्तु पर्वतादुद्गमयन्तु । निगूढाः नितरां स्थापिताः याः गाः बृहस्पतिः अविन्दत् लप्स्यते तथा सोमः तदभिषवकारिणः ग्रावाणः च विप्राः मेधाविनः ऋषयः अङ्गिरसः च लप्स्यन्ते। ‘ विद्लृ लाभे । तौदादिकः । तस्मात् ‘छन्दसि लुङलङ्लिटः' इति भविष्यदर्थे लङ्। ‘शे मुचादीनाम् ' इति नुमागमः ॥ ॥ ६ ॥
Hence, far away, ye Panis! Let the cattle lowing come forth as holy Law commandeth,
Kine which Brhaspati, and Soma, Rsis, sages, and pressing-stones have found when hidden.
Go, Paṇis, to the distance far: the cattle Shall issue, breaking rightly from their prison. Bṛhaspati, the pressing stones, and Soma, And priestly sages found them in concealment.
[Narrator:] Go far from here, Paṇis, a very long way! Exchanging places with the truth, let the cows come up
which Br̥haspati found hidden—he and the soma, the pressing stones, and the inspired seers.
Geht weit hinweg, o Pani's, kommen sollen die Küh' hervor, mit Recht die Stelle wechselnd, Brihaspati entdeckte die versteckten, die Steine, Soma und die weisen Sänger.
Hebt euch in die Ferne so weit als möglich, ihr Pani´s! Auf dem rechten Wege sollen die brüllenden Kühe herauskommen, die Brihaspati im Versteck fand und Soma, die Preßsteine und die redegewaltigen Rishi´s!
Убирайтесь, Пани, как можно дальше!
Пусть выйдут коровы, меняя (свое место) в соответствии с законом,
(Те, что) были спрятаны, когда (их) нашли Брихаспати,
Сома, давильные камни и вдохновенные риши.