समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्य॑जसि जातवेदः । आ च॒ वह॑ मित्रमहश्चिकि॒त्वान्त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ॥
सम्ऽइ॑द्धः । अ॒द्य । मनु॑षः । दु॒रो॒णे । दे॒वः । दे॒वान् । य॒ज॒सि॒ । जा॒त॒ऽवे॒दः॒ । आ । च॒ । वह॑ । मि॒त्र॒ऽम॒हः॒ । चि॒कि॒त्वान् । त्वम् । दू॒तः । क॒विः । अ॒सि॒ । प्रऽचे॑ताः ॥
हे जातवेदः जातप्रज्ञाग्ने देवः स्वतेजसा दीप्यमानस्त्वं मनुषः मनुष्यस्य यष्टुः दुरोणे। • गृहनामैतत् । दुरवने आयासेन रक्षितव्ये गृहे अद्य अस्मिन् कर्मणि समिद्धः सम्यक् प्रज्वालितः सन् देवान् इन्द्रादीन् यजसि । हविर्भिः पूजय ॥ समिद्धः । इन्धी दीप्तौ । कर्मणि क्ते । ‘ श्वीदितो निष्ठायाम् ' इतीट्प्रतिषेधः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥ हे मित्रमहः स्तुत्यस्तोतृलक्षणत्वेन मित्रभूतानां स्तोतॄणां पूजयितः तैः पूज्यमान वाग्ने चिकित्वान् तैः कृताः स्तुतीः प्रजानन् चेतनावान् वा त्वमस्मदीये यज्ञे देवान् आ वह च । आप्रापय ॥ ‘ वह प्रापणे '। लोटि रूपम् । ‘ चवायोगे प्रथमा ' इति न निघातः ॥ तथा कविः क्रान्तप्रज्ञः अत एव प्रचेताः प्रकृष्टज्ञानः त्वं दूतः देवानां हविष्प्रापणेन हितकारी भवसि ॥
“Kindled today, Jātavedas, in the dwelling of the worshipper, you who are divine, sacrifice to the godṣBear (the oblation), you who respect your friends, who are intelligent; you are the wise, far-seeing messenger (ofthe gods).”
THOU in the house of man this day enkindled worshippest Gods as God, O Jatavedas.
Observant, bright as Mitra, bring them hither: thou art a sapient and foreknowing envoy.
Kindled today in the dwelling of Manu, as god you sacrifice to the gods, o Jātavedas.
And as observant one convey them hither, you possessing Mitra’s might. You are the messenger, the prescient poet.
Entflammt als Gott im Haus des Menschen heute, o Wesenkenner, opferst du den Göttern, Und fahr sie her, o freundereicher, achtsam, du bist der weise, einsichtsvolle Bote.
Heute in des Menschen Behausung entzündet, opferst du, der Gott, den Göttern, o Jatavedas. Fahre sie darum kundig her, du wie ein Freund, wie Mitra, geehrter! Du bist der Bote, der Seher, der Kluge.
Прекраснозажженный
сегодня в доме человека,
Бог, ты почитаешь богов, о Джаведас.
Привози богов, понимая (в этом), о великий как Митра!
Ты вестник, поэт прозорливый.
तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व । मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्दे॑व॒त्रा च॑ कृणुह्यध्व॒रं न॑: ॥
तनू॑ऽनपात् । प॒थः । ऋ॒तस्य॑ । याना॑न् । मध्वा॑ । स॒म्ऽअ॒ञ्जन् । स्व॒द॒य॒ । सु॒ऽजि॒ह्व॒ । मन्मा॑नि । धी॒भिः । उ॒त । य॒ज्ञम् । ऋ॒न्धन् । दे॒व॒ऽत्रा । च॒ । कृ॒णु॒हि॒ । अ॒ध्व॒रम् । नः॒ ॥
हे तनूनपात् । नपादित्यनन्तरापत्यनामधेयम् । गौरत्र तनूरुच्यते तता अस्यां भोगाः क्षीरादय इति । तस्याः पयो जायते पयस आज्यं तस्मादग्निः । यद्वा । अन्तरिक्षे तता आपस्तन्वः ताभ्य ओषध्यादयः तेभ्योऽग्निरिति । एवंरूप हे सुजिह्व शोभनज्वाल। यद्वा जिह्वेति वाङ्नाम । शोभनवागग्ने ऋतस्य यज्ञस्य यानान् फलप्राप्तिहेतून् पथः मार्गान् हविराख्यान मध्वा मदकरेण रसेन यद्वा वाग्जनितेन रसेन समञ्जन् सम्यग्दीपयन् स्वदय स्वादय । स्वादूकुरु ॥ ‘ स्वद आस्वादने । णिच्युपधावृद्ध्यभावश्छान्दसः ॥ किंच मन्मानि । मन्यतेरर्चतिकर्मणः । मननीयानि अस्मदभिप्रेतानि स्तोत्राणि धीभिः प्रज्ञाभिः कर्मभिर्वा उत अपि च यज्ञं यजनीयं हविश्च ऋन्धन् समृद्धानि कुर्वन् नः अस्मदीयम् अध्वरं यज्ञं देवत्रा देवेषु कृणुहि कुरु ॥ देवशब्दात् ‘देवमनुष्य°' इत्यादिना सप्तम्यर्थे त्राप्रत्ययः ॥
“Pure-tongued Tanūnapāt, flavour the paths of the sacrifice which lead (to success), moisteningthem with the sweet (Soma); elevating our praises and our rite by understanding, convey our sacrifice to thegods.”
Tanunapat, fair-tongued, with sweet meath balming the paths and waysof Order, make them pleasant.
Convey our sacrifice to heaven, exalting with holy thoughts ourhymns of praise and worship.
Tanūnapāt, anointing with honey the paths traveling to truth, sweeten them, you of lovely tongue.
And bringing to fulfillment our mental concepts and our sacrifice
through (your) hymnic visions, make our ceremony (be) among
the gods.
Sohn deiner selbst, des Rechts betretne Pfade mach hold, schönzung'ger, sie mit Honig salbend, Gebet und Opfer lass gedeihn durch Andacht und bringe zu den Göttern unsre Gaben.
Tanunapat! Die gangbaren Wege der Ordnung mit Honig salbend mache das Opfer schmackhaft, Schönzungiger! Laß durch deine Kenntnisse Gebete und Opfer gelingen und bring unser Opfer zu den Göttern!
Танунапат
, умащая медом исхоженные
Пути закона, сделай (жертву) вкусной, о прекрасноязыкий!
Принося успех молитвам и жертве благодаря поэтическим видениям,
Направь наш обряд к богам!
आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॒श्चा या॑ह्यग्ने॒ वसु॑भिः स॒जोषा॑: । त्वं दे॒वाना॑मसि यह्व॒ होता॒ स ए॑नान्यक्षीषि॒तो यजी॑यान् ॥
आ॒ऽजुह्वा॑नः । ईड्यः॑ । वन्द्यः॑ । च॒ । आ । या॒हि॒ । अ॒ग्ने॒ । वसु॑ऽभिः । स॒ऽजोषाः॑ । त्वम् । दे॒वाना॑म् । अ॒सि॒ । य॒ह्व॒ । होता॑ । सः । ए॒ता॒न् । य॒क्षि॒ । इ॒षि॒तः । यजी॑यान् ॥
हे अग्ने त्वमस्मत्कर्मणि आ याहि आगच्छ । कीदृशः । आजुह्वानः देवानामाह्वाता । 'हु दानादनयोः ' । जौहोत्यादिकः । अभ्यस्तस्वरः । ईड्यः । ईडिरध्येषणाकर्मा । अध्येष्यः प्रार्थ्यमानः वन्द्यः स्तोतव्यः वसुभिः देवैः सजोषाः सह प्रीयमाणः । आगत्य च हे यह्व। महन्नामैतत् । हे महन् सः त्वं देवानां होता आह्वाता असि । ततः यजीयान् ॥ यष्टृशब्दादीयसुनि तुरिष्ठेमेयःसु ' इति तृचो लोपः ॥ यष्टृतरः सः त्वम् इषितः अस्माभिरध्येषितः प्रार्थितः सन् एतान् देवान् यक्षि यज । हविषा पूजय ॥
“Agni, who are the invoker (of the gods), and are to be solicited and praised, come, being propitiated,along with the Vasus; you, O mighty (Agni), are the invoker of the gods; do you, who are most entitled to worship,solicited by us, offer them adoration.”
Invoked, deserving prayer and adoration, O Agni, come accordant with the Vasus.
Thou art, O Youthful Lord, the Gods' Invoker, so, best of Sacrificers, bring them quickly.
Being libated, as one to be solemnly invoked and to be extolled, travel here in concert with the good ones, Agni.
You are the Hotar of the gods, youthful one. Sacrifice to them when
prompted, as superior sacrificer.
Verehrungswerth und flehenswerth, o Agni, komm her vereint den Göttern, du gerufner, Der Götter Priester bist du, rastlos wirkend, verehre sie erregt, du bester Opfrer!
Mit Schmalz begossen, zu berufen und zu beloben, komm her, Agni, mit den Vasu´s vereint! Du Jüngster bist der Götter Hotri; als der besser Opfernde opfere ihnen, dazu aufgefordert!
Поливаемый жиром,
достойный призывов
и прославлений,
Приди, о Агни, единодушный с Васу!
Ты хотар богов, о юный.
Приноси им жертвы, побужденный (к этому) как жертвующий лучше!
प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यत॒र अग्रे॒ अह्ना॑म् । व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ॥
प्रा॒चीन॑म् । ब॒र्हिः । प्र॒ऽदिशा॑ । पृ॒थि॒व्याः । वस्तोः॑ । अ॒स्याः । वृ॒ज्य॒ते॒ । अग्रे॑ । अह्ना॑म् । वि । ऊँ॒ इति॑ । प्र॒थ॒ते॒ । वि॒ऽत॒रम् । वरी॑यः । दे॒वेभ्यः॑ । अदि॑तये । स्यो॒नम् ॥
यदिदं प्राचीनं प्रागञ्चितं प्राङ्मुखं बर्हिः अस्ति तदिदं पृथिव्याः वेदिलक्षणायाः वस्तोः ॥ ‘वस आच्छादने' । तुन्प्रत्ययः । चतुर्थ्यर्थं बहुलं छन्दसि' इति षष्ठी। यद्वा । भावलक्षणे तोसुन् द्रष्टव्यः । वसनायाच्छादनार्थम् अह्नाम् अग्रे पूर्वाह्णे प्रदिशा प्रकर्षेण दिश्यमानेन मन्त्रेण अस्याः प्राच्या दिशः वृज्यते स्तूयते आह्रियते । तथा च निगमः - ‘ त आ वहन्ति कवयः पुरस्तात् ' (तै. सं. १.१.२.१ ) इत्यादि । तच्चाहृतं वरीयः उरुतरं बर्हिः वितरं विस्तीर्णतरं यथा भवति तथा वि प्रथते । विविधमेव वेद्यां प्रस्तृतं भवति । तथा देवेभ्यः अदितये वेदिलक्षणायै पृथिव्यै च स्योनं सुखकरं भवति । विस्तीर्णे बर्हिषि देवाः सुखं निषीदन्ति ॥
“In the beginning of the day the sacred grass, pointing eastwards, is strewn with the prescribed (text)as a covering for the earth (of the altar); they spread it out far and wide as a plural asant (seat) for the gods andAditi.”
By rule the Sacred Grass is scattered eastward, a robe to clothe this earth when dawns are breaking.
Widely it spreads around and far-extended, fair for the Gods and bringing peace and freedom.
Facing east along the forward direction of the earth, the ritual grass is twisted at the dawning of this (dawn), in the vanguard of the days.
It spreads out further, more widely, as a comfortable place for the gods, for Aditi.
Man streut den Grassitz nach der Erde Osten an diesem Morgen bei des Tages Anbruch; Er dehnt sich weit den Göttern in die Breite als weicher Sitz zu unerschöpftem Wohlsein.
Ostwärts wird das Barhis in der Richtung der Erde an diesem Morgen, bei Anbruch der Tage herumgelegt. Es breitet sich immer weiter aus, bequem für die Götter und für Aditi.
На восток в направлении земли перекладывается
Жертвенная солома
в это самое утро в начале дней.
Она распространяется все дальше, все шире,
Как мягкое (ложе) для богов, для Адити.
व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्तां॒ पति॑भ्यो॒ न जन॑य॒: शुम्भ॑मानाः । देवी॑र्द्वारो बृहतीर्विश्वमिन्वा दे॒वेभ्यो॑ भवत सुप्राय॒णाः ॥
व्यच॑स्वतीः । उ॒र्वि॒या । वि । श्र॒य॒न्ता॒म् । पति॑ऽभ्यः । न । जन॑यः । शुम्भ॑मानाः । देवीः॑ । द्वा॒रः॒ । बृ॒ह॒तीः॒ । वि॒श्व॒म्ऽइ॒न्वाः॒ । दे॒वेभ्यः॑ । भ॒व॒त॒ । सु॒प्र॒ऽअ॒य॒णाः ॥
व्यचस्वतीः । व्यचो व्यापनम् । तद्वत्यः ॥ ‘ वा छन्दसि ' इति पूर्वसवर्णदीर्घः ॥ ता द्वारदेवताः उर्विया ॥ उरुशब्दात्तृतीयैकवचने ‘इयाडियाजीकाराणामुपसंख्यानम् ' ( पा. सू. ७. १.३९. १ ) इतीयादेशः ॥ उरुत्वेन वि श्रयन्तां विशेषेणाश्रिता भवन्तु । तत्र दृष्टान्तः । पतिभ्यो न यथा पतीनामर्थाय संभोगकाले शुम्भमानाः शोभमाना: जनयः जाया विश्रयन्ति तद्वदस्मिन् कर्मणि विश्रयन्ताम् । हे बृहतीः महत्यो हे विश्वमिन्वाः ॥ इविः प्रीणनार्थः । तस्मात् कर्मण्युपपदे अण् । इदित्त्वान्नुम् । तत्पुरुषे कृति बहुलम् ' इत्यत्र बहुलवचनात् द्वितीयाया अप्यलुक् ॥ सर्वस्य प्रीणयित्र्यो हे द्वारः देवीः द्वाराभिमानिन्यो हे देव्यः यूयं देवेभ्यः देवानामर्थाय सुप्रायणाः सुप्रगमनाः सुविवृताः भवत ॥ ॥ ८ ॥
“Expanding wide, let the doors give access as gracefully decorated wives give access to theirhusbands, divine doors, spacious and admitting all, be easy of entry for the gods.”
Let the expansive Doors be widely opened, like wives who deck their beauty for their husbands.
Lofty, celestial, all-impelling Portals, admit the Gods and give them easy entrance.
Let the expansive ones gape open widely, beautifying themselves like wives for their husbands—
you Divine Doors, lofty, setting all in motion, become easy for the gods to approach.
Die Götterthore mögen weit sich öffnen, so wie geschmückte Frauen ihren Gatten; Ihr hohen, weiten, die ihr alles fördert, gewährt den Göttern einen guten Eingang.
Die Geräumigen sollen sich weit auftun wie die Frauen, die sich schön machen, ihren Gatten: Ihr göttlichen, hohen, alles befördernden Tore, gewähret den Göttern guten Eingang!
Пусть просторные широко раскроются,
Как украшающие себя жены для мужей!
О божественные
врата
, высокие, всему благоприятствующие.
Дайте богам удачно пройти!
आ सु॒ष्वय॑न्ती यज॒ते उपा॑के उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ । दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रियं॑ शुक्र॒पिशं॒ दधा॑ने ॥
आ । सु॒स्वय॑न्ती॒ इति॑ । य॒ज॒ते इति॑ । उपा॑के॒ इति॑ । उ॒षसा॒नक्ता॑ । स॒द॒ता॒म् । नि । योनौ॑ । दि॒व्ये । योष॑णे॒ इति॑ । बृ॒ह॒ती इति॑ । सु॒रु॒क्मे इति॑ सु॒ऽरु॒क्मे । अधि॑ । श्रिय॑म् । शु॒क्र॒ऽपिश॑म् । दधा॑ने ॥
सुस्वयन्ती । ‘ अथ पथ गतौ । शतर्युपसर्गस्य सोर्द्विर्वचनं छान्दसम् । सुष्ठु अयन्त्यौ गच्छन्त्यौ । यद्वा । स्वपेर्ण्यन्तस्य वर्णलोपः ॥ सुष्वापयन्त्यौ । यजते यष्टव्ये उपाके उपक्रान्ते उषासानक्ता उषाश्च नक्तं च ॥ द्वन्द्वे • उषासोषसः' ( पा. सू. ६. ३. ३१ ) इत्युषासादेशः । ‘ देवताद्वन्द्वे च ' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥ अहोरात्रदेव्यौ योनौ अस्मिन् यज्ञस्थाने नि नितरां नियमेन वा आ सदताम् आसीदतम् । सदेर्लुङि लृदित्त्वाच्च्लेरङ्। कीदृश्यौ । दिव्ये दिवि भवे थोषणे योषिताविव प्रीणयित्र्यौ । यद्वा । योषणे समिते परस्परतोऽविविक्ते । बृहती गुणैर्महत्यौ सुरुक्मे शोभनदीप्ते ॥ रुक्मम् । रोचतेर्मक्प्रत्यये कुत्वे च कृते रूपम् ॥ शुक्रपिशं शोचमानरूपां श्रियम् अधि दधाने अधिकं धारयन्त्यौ ॥
“May the adorable Day and Night, the givers of sound repose, having approached, sit down in theplace (of sacrifice), two divine feminine les, majestic and richly ornamented, bearing beauty of a bright form.”
Pouring sweet dews let holy Night and Morning, each close to each, he seated at their station,
Lofty, celestial Dames with gold to deck them. assuming all their fair and radiant beauty.
Richly fertile, worthy of the sacrifice—let Dawn and Night sit down here close together in the womb—
heavenly maidens, lofty, with lovely ornaments, assuming brilliantly
adorned splendor.
Die eng verbundnen hehren Nacht und Morgen, sie mögen eilend auf den Platz sich setzen, Des Himmels Jungfraun, schöngeschmückt erhaben, in lichte, bunte Farbenpracht sich kleidend.
Es sollen die beiden opferwürdigen, fruchtbaren, die benachbarten Morgen und Nacht sich auf ihren Platz setzen, die beiden himmlischen, hohen, goldgeschmückten, die lichtfarbenen Zierat anlegen.
Пусть плодородные, достойные жертв, тесно связанные (друг с другом)
Ушас-и-Ночь
усядутся на свое лоно!
Две божественные юные жены, высокие, с чудесными золотистыми украшениями,
Облачающиеся в красоту сверкающих драгоценностей!
दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा॒ मिमा॑ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै । प्र॒चो॒दय॑न्ता वि॒दथे॑षु का॒रू प्रा॒चीनं॒ ज्योति॑: प्र॒दिशा॑ दि॒शन्ता॑ ॥
दैव्या॑ । होता॑रा । प्र॒थ॒मा । सु॒ऽवाचा॑ । मिमा॑ना । य॒ज्ञम् । मनु॑षः । यज॑ध्यै । प्र॒ऽचो॒दय॑न्ता । वि॒दथे॑षु । का॒रू इति॑ । प्रा॒चीन॑म् । ज्योतिः॑ । प्र॒ऽदिशा॑ । दि॒शन्ता॑ ॥
दैव्या ॥ ‘देवाद्यञञौ' इति यञ्प्रत्ययः । देवसंबन्धिनौ होतारौ होमनिष्पादकौ होतृनामकावग्न्यादित्यावस्मिन् यज्ञे आसीदताम् । कीदृशौ । प्रथमा मनुष्यहोतुः पूर्वभाविनौ सुवाचा शोभनस्तोत्रौ मनुषः मनुष्यस्य सर्वस्य यष्टुः यजध्यै यागनिवृत्तये ॥ यजेस्तुमर्थे शध्यैन्प्रत्ययः ॥ यज्ञं मिमाना निर्मिमानावुत्पादयन्तौ विदथेषु । विदन्त्यत्रर्त्विजः स्वस्वकर्माणीति विदथा यज्ञाः । तेष्वृत्विजो यजमानांश्च प्रचोदयन्ता प्रेरयन्तौ कारू स्तुतीनां कर्तारौ प्राचीनं पूर्वस्यां दिशि यष्टव्यत्वेन स्थितमाहवनीयाख्यं ज्योतिः प्रदिशा प्रकृष्टेनोपदिष्टमार्गेण यद्वा प्रदिश्यमानेन मन्त्रेण दिशन्ता निर्वहन्तौ ॥
“Divine ministers, prior (to those of earth), repeaters of pious praise, instrumental tuting the sacrifice at whichmen are to worship, (sit down) stimulating (the priests) at the sacrifices, makers (of praises), indicating theeastern fire with the prescribed (text).”
Come the two first celestial sweet-voiced Hotars, arranging sacrifice for man to worship
As singers who inspire us in assemblies, showing the eastward light with their direction.
The two Divine Hotars, foremost, eloquent, measuring out the sacrifice of Manu to sacrifice it—
the two bards at the rites, spurring on, directing the east-facing light
along the forward direction (of the earth) [/at their direction].
Die Götterpriester, welche herrlich singend, zuerst in Stand des Menschen, Opfer setzten, Das Dichterpaar, bei Festen schön begeisternd, das Licht im Osten nach der Richtung zeigend.
Das erste göttliche Hotripaar, das beredte, das des Menschen Opfer ausrichtet, will ich verehren, die beiden zu weisen Reden anregenden Dichter, die mit ihrer Weisung auf das östliche Licht hinweisen.
Два божественных
хотара
, первые, красноречивые,
Отмеряющие жертву человека, чтобы приносить жертвы,
Два певца, вдохновляющие на жертвенных раздачах,
Указующие (своим) указанием свет, обращенный на восток:
आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विळा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती । ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वती॒ स्वप॑सः सदन्तु ॥
आ । नः॒ । य॒ज्ञम् । भार॑ती । तूय॑म् । ए॒तु॒ । इळा॑ । म॒नु॒ष्वत् । इ॒ह । चे॒तय॑न्ती । ति॒स्रः । दे॒वीः । ब॒र्हिः । आ । इ॒दम् । स्यो॒नम् । सर॑स्वती । सु॒ऽअप॑सः । स॒द॒न्तु॒ ॥
भारती । भरत आदित्यः । तस्य स्वभूता दीप्तिः । तस्येदम् ' इत्यर्थे उत्सादित्वादञ् (पा. सू. ४. १. ८६ )। ‘ टिड्ढाणञ् ' इति ङीप् । नः अस्मदीयं यज्ञं तूयं ' क्षिप्रम् आ एतु आगच्छतु । तथा मनुष्वत् मनुष्यो यथा इदं मया कर्तव्यमिति जानाति तद्वत् चेतयन्ती जानाना इळा देवी च इह अस्मिन् कर्मण्यागच्छतु । तथा सरस्वती च । स्वपसः सुकर्माणः । अप इति कर्मनाम ॥ आप्नोतेरसुनि आपः कर्माख्यायां ह्रस्वः । बहुव्रीहौ 'आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् ॥ एताः तिस्रो देवीः देव्यः स्योनं सुखकरम् इदं बर्हिः इमं यज्ञम् आ सदन्तु आसीदन्तु प्राप्नुवन्तु ॥ सदेर्लोटि सीदादेशाभावश्छान्दसः ॥
“May Bhāratī come quickly to our sacrifice, and Iḷā thinking (of what she has to do), like a humanbeing; may Sarasvatī also-- the three gracious goddesses, sit down upon this plural asant sacred grass.”
Let Bharati come quickly to our worship, and Ila showing like a human being.
So let Sarasvati and both her fellows, deft Goddesses, on this fair grass be seated.
Let Bharatī come straightaway to our sacrifice, and Iḍā, making (us) perceive here [=instructing us] as she did Manu.
Let the three goddesses, (those two and) Sarasvatī, the good workers, sit here on this ritual grass, a comfortable place.
Schnell komme Bhāratī zu unserm Opfer und Iḍā hier nach Menschen Art erscheinend, Sarasvatī, die drei Göttinnen mögen sich hülfreich setzen auf die weiche Streu hier.
Zu unserem Opfer soll eilig die Bharati kommen, Ila wie bei Manu hier belehrend; sie und Sarasvati, die drei kunstfertigen Göttinnen sollen sich auf dieses bequeme Barhis setzen!
Пусть быстро придет на наше жертвоприношение Бхарати,
(А также) Ида, проявляющая себя здесь, как при Манусе!
богини
, – (среди них) Сарасвати – пусть усядутся здесь
На этой удобной жертвенной соломе, (они,) искусные!
य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रू॒पैरपिं॑श॒द्भुव॑नानि॒ विश्वा॑ । तम॒द्य हो॑तरिषि॒तो यजी॑यान्दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥
यः । इ॒मे इति॑ । द्यावा॑पृथि॒वी इति॑ । जनि॑त्री॒ इति॑ । रू॒पैः । अपिं॑शत् । भुव॑नानि । विश्वा॑ । तम् । अ॒द्य । हो॒तः॒ । इ॒षि॒तः । यजी॑यान् । दे॒वम् । त्वष्टा॑रम् । इ॒ह । य॒क्षि॒ । वि॒द्वान् ॥
यः त्वष्टा देवः जनित्री विश्वस्य जनयित्र्यौ इमे द्यावापृथिवी ॥ द्वन्द्वे ‘दिवो द्यावा ' इति द्यावादेशः । आद्युदात्तः । पृथिवीशब्दो ङीषन्तत्वेनान्तोदात्त: । “ देवताद्वन्द्वे च ' इति पूर्वोतरपदयोः प्रकृतिस्वरत्वम् ॥ द्यावापृथिव्यौ रूपैः देवतिर्यङ्मनुष्याद्याकारैः अपिंशत् रूपवत्यावकरोत् ॥ ‘ पिश अवयवे' । तौदादिकः । ‘शे मुचादीनाम् ' इति नुमागमः ॥ तथा विश्वा सर्वाणि भुवनानि भूतजातानि रूपयुक्तान्यकरोत् । हे होतः यजीयान् यष्टृतमः विद्वान् सर्वं जानानः त्वम् इषितः अस्माभिरध्येषितः प्रार्थितः सन् इह अस्मिन् कर्मणि अद्य अस्मिन् दिने तं त्वष्टारं देवं यक्षि । स्तुतिभिर्हविर्भिर्वा यज पूजय ॥
“To the divine Tvaṣṭā, who decked the parental heaven and earth and all the worlds with livingforms, to him, O priest, who are venerable and wise, being solicited byu us, offer oblation here today.”
Hotar more skilled in sacrifice, bring hither with speed to-day God Tvastar, thou who knowest.
Even him who formed these two, the Earth and Heaven the Parents, with their forms, and every creature.
He who (adorned) Heaven and Earth, these two begetters, and who adorned all the creatures with their forms,
to him today, to god Tvaṣṭar, o Hotar, superior sacrificer, perform
sacrifice here when prompted, as the knowing one.
Der Erd' und Himmel, diese beiden Mütter und alle Wesen schön mit Farben schmückte, Dem opfre hier, o Priester, herrlich opfernd, dem Gotte Tvaschtar eilig, dessen kundig.
Der diese beiden Erzeugerinnen, Himmel und Erde, alle Wesen mit ihren Formen geziert hat, diesen Gott Tvastri verehre heute, o Hotri, als der besser Opfernde, kundig, dazu aufgefordert!
Кто этих двоих родителей – Небо-и-Землю –
Украсил формами, (а также) все существа,
Того сегодня, о хотар, посланный как лучше жертвующий,
(Этого) бога
Тваштара
почти здесь как знаток!
उ॒पाव॑सृज॒ त्मन्या॑ सम॒ञ्जन्दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वींषि॑ । वन॒स्पति॑: शमि॒ता दे॒वो अ॒ग्निः स्वद॑न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ॥
उ॒प॒ऽअव॑सृज । त्मन्या॑ । स॒म्ऽअ॒ञ्जन् । दे॒वाना॑म् । पाथः॑ । ऋ॒तु॒ऽथा । ह॒वींषि॑ । वन॒स्पतिः॑ । श॒मि॒ता । दे॒वः । अ॒ग्निः । स्वद॑न्तु । ह॒व्यम् । मधु॑ना । घृ॒तेन॑ ॥
हे वनस्पते यूप त्मन्या । आत्मन्शब्दस्य तृतीयैकवचने यादेशः । मन्त्रेष्वाङयादेरात्मनः इत्याकारलोपः ॥ आत्मनैव ऋतुथा ऋतौ ऋतौ प्राप्ते काले देवानाम् अर्थाय पाथः पशुलक्षणमन्नमन्यानि च हवींषि समञ्जन् सम्यग्व्यक्तीकुर्वन् उपावसृज उपागम्य प्रयच्छ ॥ ‘ गतिर्गतौ ' ( पा. सू. ८. १. ७० ) इति गतेर्निघातः ॥ किंच वनस्पतिः योऽयं यूपः शमिता एतन्नामकः देवः यद्वा शामित्रः अग्निः देवो दीप्यमान आहवनीयाख्योऽग्निश्चैते त्रयः मधुना मधुरेण घृतेन । यद्वा मधुनोदकेन प्रोक्षणोपनयनादिगतेन घृतेन च । हव्यं हवनयोग्यं स्वदन्तु स्वादूकुर्वन्तु ॥
“Offer of your own will in due season the food (and other) oblations of the gods besmearing it. LetVanaspati, Śamitā, the divine Agni, sweeten the oblation with honey and butter.”
Send to our offerings which thyself thou balmest the Companies of Gods in ordered season.
Agni, Vanaspati the Immolator sweeten our offered gift with meath and butter.
Send the oblations downward to the fold of the gods at the proper season, having anointed them by yourself.
Let the Lord of the Forest, the Butcher, and god Agni sweeten the
oblation with honey and ghee.
Nach deiner Art ergiess die Opfertränke der Ordnung nach der Götter Stätte salbend, Der Pfosten und Gott Agni mögen wirkend mit süssem Fett den Opfertrank verschönen.
Entlasse freiwillig, sie salbend, pünktlich die Opferspenden in die Obhut der Götter! Vanaspati, der göttliche Zurichter Agni, sollen die Opferspeise mit Honig und Schmalz schmackhaft machen.
Отпусти по своему почину (жертвенное животное)
Под покровительством богов, умащая жертвоприношения в положенное время!
Лесное
дерево
, заклатель, бог Агни, –
Пусть сделают они жертву вкусной благодаря меду (и) жиру!
स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः । अ॒स्य होतु॑: प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतं ह॒विर॑दन्तु दे॒वाः ॥
स॒द्यः । जा॒तः । वि । अ॒मि॒मी॒त॒ । य॒ज्ञम् । अ॒ग्निः । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒रः॒ऽगाः । अ॒स्य । होतुः॑ । प्र॒ऽदिशि॑ । ऋ॒तस्य॑ । वा॒चि । स्वाहा॑ऽकृतम् । ह॒विः । अ॒द॒न्तु॒ । दे॒वाः ॥
अयमग्निः सद्यः तदानीमेव जातः जायमान एव यज्ञं व्यमिमीत विशेषेण निर्मिमीते । उत्पादयति ॥ माङ् माने शब्दे च '। जौहोत्यादिकः ॥ अत एवायम् अग्निः देवानां पुरोगाः प्रथमगामी मुख्यः अभवत् ॥ गमेर्विट्प्रत्यय आत्वे च कृते रूपम् ॥ ततः प्रदिशि प्रकृष्टायां दिशि प्राच्याम् ऋतस्य आहवनीयात्मनागतस्य अस्य होतुः होमनिष्पादकस्याग्नेः वाचि । अत्र वागाश्रय आस्यं लक्ष्यते । वाच्यास्ये स्वाहाकृतं स्वाहाकारेण प्रक्षिप्तं हविः सर्वे देवाः अदन्तु भक्षयन्तु । इदं सूक्तं यास्केन सम्यगभ्यधायि ( निरु. ८.५–२१ ) । तदत्रानुसंधीयताम् ॥ ॥ ९ ॥
“As soon as he was born, Agni constructed a sacrifice, he was the preceder of the gods; may the godspartake of the oblation presented with the svāhā through the voice of him the hotā of the sacrifice at theeastern station.”
Agni, as soon as he was born, made ready the sacrifice, and was the Gods' preceder.
May the Gods cat our offering consecrated according to this true Priest's voice and guidance.
Just born, he measured out the sacrifice at once. Agni became the leader of the gods.
At the direction of this Hotar, at his word of truth, let the gods eat the oblation, prepared with the svāhā-cry.
Geboren kaum vollzog das Opfer Agni der Götter Führer ward er, diese mögen Nach dieses wahren Priesters Wort und Weisung das Opfer essen, das geweiht der Heilruf.
Eben geboren richtete er das Opfer aus; Agni ward der Führer der Götter. Auf dieses Hotri Geheiß, bei dem Worte der Opferordnung sollen die Götter die mit Svaha gesegnete Opferspende essen.
Едва успев родиться, он отмерил жертву.
Агни стал идущим впереди богов.
По указанию этого хотара, по слову вселенского закона
Пусть боги вкушают возлияние, сопровождаемое возгласом:
Свага!