तम॑स्य॒ द्यावा॑पृथि॒वी सचे॑तसा॒ विश्वे॑भिर्दे॒वैरनु॒ शुष्म॑मावताम् । यदैत्कृ॑ण्वा॒नो म॑हि॒मान॑मिन्द्रि॒यं पी॒त्वी सोम॑स्य॒ क्रतु॑माँ अवर्धत ॥
तम् । अ॒स्य॒ । द्यावा॑पृथि॒वी इति॑ । सऽचे॑तसा । विश्वे॑भिः । दे॒वैः । अनु॑ । शुष्म॑म् । आ॒व॒ता॒म् । यत् । ऐत् । कृ॒ण्वा॒नः । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् । पी॒त्वी । सोम॑स्य । क्रतु॑ऽमान् । अ॒व॒र्ध॒त॒ ॥
सचेतसा सह चेतयन्त्यौ द्यावापृथिवी द्यावापृथियौ विश्वेभिः सर्वैः देवैः सह अस्य ॥ अन्वादेशेऽशादेशोऽनुदात्तः ( पा. सू. २, ४, ३२ ) ॥ एतस्येन्द्रस्य तं शुष्मं शत्रूणां शोषकं बलम् अनु आवतां रक्षताम् । तस्य बलं पूर्वमस्मान् रक्षतु पश्चादेतेऽपि रक्षतामिति भावः। अवतेर्लुङ् ॥ कृण्वानः वृत्रवधादिकं कुर्वाणः सः महिमानम् इन्द्रियम् इन्द्रस्यात्मनः पर्याप्तं वीर्यं च यत् यदा ऐत् प्राप्नोत् ॥ ‘ इण गतौ । आदादिकः । ‘ आडजादीनाम् इत्याडागमः। तदा क्रतुमान् कर्मवान् सः सोमस्य पीत्वी सोमं पीत्वा अवर्धत ॥ ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानसंज्ञा । ‘ चतुर्थ्यर्थे बहुलम्' इति षष्ठी । पीत्वी । ‘ स्नात्व्यादयश्च ' इति निपातितः ॥
“May the concurring heaven and earth, together with all the gods, preserve that strength of Indra,where by achieving (great deeds), he obtained the greatness that is appropriate to him, and having drunk theSoma, he, eminent for his prowess, increased (in strength).”
THE Heavens and the Earth accordant with all Gods encouraged graciously that vigorous might of his.
When he came showing forth his majesty and power, he drank of Soma juice and waxed exceeding strong.
Heaven and Earth, of one mind with all the gods, assisted his
impetuous force.
Creating his own greatness and Indrian power as he went, upon drinking the soma the resolute one increased.
Es haben Erd' und Himmel diese seine Kraft mit allen Göttern eines Sinnes angeregt; Als er die grosse Indramacht erweisend ging, da wuchs er nach des Soma Trunk zu hoher Kraft.
Diesen seinen Ungestüm ließen einmütig Himmel und Erde mit allen Göttern gewähren. Als er auszog, seine indrische Größe annehmend, da wuchs der Umsichtige, nachdem er vom Soma getrunken hatte.
Это его неистовство поддержали единодушные
Небо-и-Земля вместе со всеми богами.
Когда он отправился, создавая себе величие, свойственное Индре,
Обладатель силы духа возрос, выпив сомы.
तम॑स्य॒ विष्णु॑र्महि॒मान॒मोज॑सां॒शुं द॑ध॒न्वान्मधु॑नो॒ वि र॑प्शते । दे॒वेभि॒रिन्द्रो॑ म॒घवा॑ स॒याव॑भिर्वृ॒त्रं ज॑घ॒न्वाँ अ॑भव॒द्वरे॑ण्यः ॥
तम् । अ॒स्य॒ । विष्णुः॑ । म॒हि॒मान॑म् । ओज॑सा । अं॒शुम् । द॒ध॒न्वान् । मधु॑नः । वि । र॒प्श॒ते॒ । दे॒वेभिः॑ । इन्द्रः॑ । म॒घऽवा॑ । स॒याव॑ऽभिः । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒भ॒व॒त् । वरे॑ण्यः ॥
विष्णुः एतन्नामकः । व्याप्तो यज्ञो वा। मधुनः मदकरस्य सोमस्य अंशुं लताखण्डं दधन्वान् प्रेरयन् ॥ धवेर्गत्यर्थस्य क्वसौ इदित्त्वानुमागमे कृते वलि लोपः ॥ ओजसe स्ववीर्येण संजातम् अस्य इन्द्रस्य तं महिमानं वि रप्शते विविधं शब्दयति । स्तौति । मघवा धनवान् सयावभिः ॥ याते: ‘ आतो मनिन् ' इति क्वनिप् ॥ सहगन्तृभिः देवेभिः देवैः मरुद्भिश्च वृत्रं जघन्वान् हतवान् इन्द्रः वरेण्यः सर्वैर्वरणीयः संभजनीयः अभवत् ॥
“Viṣṇu offering the portion of the Soma, glorified by his own vigour that greatness of his. Indra, thelord of wealth, with the associated gods having slain Vṛtra, became deserving of honour.”
This majesty of his Visnu extols and lauds, making the stalCthat gives the meath flow forth with inight.
When Indra Maghavan with those who followed him had smitten Vrtra he deserved the choice of Gods.
Viṣṇu with his strength (assisted) his [=Indra’s] greatness, having run to the plant [=soma]. It teems with honey.
Upon smiting Vr̥tra with the gods [=Maruts] as fellow travelers,
bounteous Indra became worthy to be chosen.
Mit Macht hat Vischnu diese seine Grösse noch gesteigert, als er strömen liess den süssen Saft; Nachdem begleitet von den Göttern er mit Macht erlegt den Vritra, da ward Indra vielbegehrt.
Diese seine Größe stärkte Vishnu mit Kraft, der den Somastengel fließen lies. Er ist voll des süßen Tranks. Nachdem Indra mit seinen Gefährten, den Göttern, den Vritra, erschlagen hatte, ward er der Auserwählte.
Это его величие (своей) силой (укрепил) Вишну,
Заставив струиться стебель сомы. Он переполнен медом.
Индра, щедрый, со (своими) спутниками-богами
Убивший Вритру, стал избранным.
वृ॒त्रेण॒ यदहि॑ना॒ बिभ्र॒दायु॑धा स॒मस्थि॑था यु॒धये॒ शंस॑मा॒विदे॑ । विश्वे॑ ते॒ अत्र॑ म॒रुत॑: स॒ह त्मनाव॑र्धन्नुग्र महि॒मान॑मिन्द्रि॒यम् ॥
वृ॒त्रेण॑ । यत् । अहि॑ना । बिभ्र॑त् । आयु॑धा । स॒म्ऽअस्थि॑थाः । यु॒धये॑ । शंस॑म् । आ॒ऽविदे॑ । विश्वे॑ । ते॒ । अत्र॑ । म॒रुतः॑ । स॒ह । त्मना॑ । अव॑र्धन् । उ॒ग्र॒ । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् ॥
युधये योधनाय आयुधा आयुधानि वज्रादीनि बिभ्रत् धारयन्निन्द्रस्त्वं यत् यदा अहिना आहन्तव्येन वृत्रेण समस्थिथाः सहास्थाः ॥ तिष्ठतेर्लुङि ‘ समवप्रविभ्यः स्थः' (पा. सू. १. ३. २२ ) इत्यात्मनेपदम् । ‘ स्थाध्वोरिच्च ' इति सिचः कित्त्वमिकारश्चान्तादेशः । ‘ ह्रस्वादङ्गात् ' (पा. सू. ८. २, २७ ) इति सिचो लोपः । यद्योगादनिघातः । ‘ तिङि चोदात्तवति ' इति गतेर्निघातः ॥ तत् आविदे॥ कृत्यार्थे केन्प्रत्ययः ॥ तव वृत्रवधादिकं वीर्यं प्रज्ञापयितुं शंसम् अशंसम् । शस्त्रैरहं स्तौमि ॥ शन्सु स्तुतौ । लङ्। वाक्यभेदादनिघातः ॥ किंच हे उग्र उद्गूर्णबल अत्र अस्मिन् काले एव ते त्वदीयं महिमानमिन्द्रियं वीर्यं च विश्वे सर्वे मरुतः त्मना आत्मना सह एव अवर्धन् । वर्णलोपश्छान्दसः । अवर्धयन् । मरुतो हीन्द्रस्य वीर्यं भवति ॥
“When you did encounter the indestructible Vṛtra, wielding your weapons for combat, you acquirerenown; all the associated Maruts of their own accord magnified your great might appropriate to Indra.”
When, bearing warlike weapons, fain to win thee praise, thou mettest Vrtra, yea, the Dragon, for the fight,
Then all the Maruts who were gathered with dice there extolled, O Mighty One, thy powerful majesty.
When, bearing weapons, you stood with Vr̥tra the serpent, for battle, to acquire a laud,
all the Maruts together in person there increased your greatness and Indrian power, strong one.
Als Waffen tragend mit dem Drachen Vritra du zusammentrafst zum Kampfe, Ruhm dir zu ersehn, Da mehrten alle Maruts, o gewaltiger, mit dir vereinigt deine grosse Indramacht.
Als du Waffen tragend mit Vritra, dem Drachen, zusammengestoßen warst, um zu kämpfen, um Lob zu ernten, da stärkten alle Marut zusammen in eigener Person deine indrische Größe, du Gewaltiger.
Когда ты, неся оружие, с Вритрой-змеем
Столкнулся, чтобы бороться, чтобы снискать хвалу,
Тогда все Маруты вместе по своему почину
Усилили, о грозный, величие, свойственное Индре.
ज॒ज्ञा॒न ए॒व व्य॑बाधत॒ स्पृध॒: प्राप॑श्यद्वी॒रो अ॒भि पौंस्यं॒ रण॑म् । अवृ॑श्च॒दद्रि॒मव॑ स॒स्यद॑: सृज॒दस्त॑भ्ना॒न्नाकं॑ स्वप॒स्यया॑ पृ॒थुम् ॥
ज॒ज्ञा॒नः । ए॒व । वि । अ॒बा॒ध॒त॒ । स्पृधः॑ । प्र । अ॒प॒श्य॒त् । वी॒रः । अ॒भि । पौंस्य॑म् । रण॑म् । अवृ॑श्चत् । अद्रि॑म् । अव॑ । स॒ऽस्यदः॑ । सृ॒ज॒त् । अस्त॑भ्नात् । नाक॑म् । सु॒ऽअ॒प॒स्यया॑ । पृ॒थुम् ॥
स इन्द्रः जज्ञान एव ॥ ‘ जनी प्रादुर्भावे' । छान्दसस्य लिटः कानच् ॥ जायमाना एव स्पृधः शत्रून् व्यबाधत अत्यर्थमपीडयत् ॥ स्पृधः । ‘ स्पर्ध संघर्षे । क्विप। ‘ अपस्पृधेथाम् । इति निपातनेनैकत्र संप्रसारणदर्शनादत्रापि भवति ॥ अत एव वीरः समर्थः सः रणं संग्रामम् अभिलक्ष्य पौंस्यम् आत्मीयं बलं प्रापश्यत् । अस्यैतावद्बलमिति प्रकर्षेण पश्यति । जानाति । किंच अद्रिं मेघम् अवृश्चत् वर्षणार्थमच्छिनत् । अनन्तरं सस्यदः ॥ ‘ स्यन्दू प्रस्रवणे'। क्विप् । शसि नलोपः । सह स्यन्दमाना अपः अव सृजत् अवाङ्मुखमसृजत् निरामयत्। तथा सः पृथुं महान्तं नाकं लोकं स्वपस्यया ॥ सुप आत्मनः क्यच् । अ प्रत्ययात् ' ( पा. सू. ३.३.१०२) इति स्त्रियामप्रत्ययः ॥ शोभनकर्मेच्छया अस्तभ्नात् । निरुद्धमकरोत् ॥ स्तम्भिः सौत्रो धातुः ॥
“As soon as born he discomfited his assailants; the hero contemplated his own manly prowess in war;he divided the cloud, sent forth the flowing waters, and with the determination to do a good deed, upheld the vastheaven.”
Soon as he sprang to life he forced asun. der hosts: forward the Hero looked to manly deed and war.
He cleft the rock, he let concurrent streams flow forth, and with his skilful art stablished the heavens' wide vault.
On just being born, he thrust aside the challengers. The hero looked forward to his masculine power, to battle.
He split the stone; he discharged the flowing streams downward. He propped the broad firmament with his skillful work.
Als er geboren, stiess der Held die Feinde fort und sah sogleich sich um nach Mannesthat und Kampf; Den Fels zerbrach er und liess frei die strömenden, die weite Himmelswölbung stützte er mit Kunst.
Eben geboren verjagte er die Gegner; der Held schaute nach weiterer Mannestat, nach Kampf aus. Er spaltete den Fels, ließ die Flüsse laufen; er stützte das breite Firmament mit Geschicklichkeit.
Едва родившись, он оттеснил противников.
Герой смотрел вперед навстречу подвигу мужества, радости битвы.
Он расколол скалу, выпустил течь потоки,
Он искусно укрепил широкий небосвод.
आदिन्द्र॑: स॒त्रा तवि॑षीरपत्यत॒ वरी॑यो॒ द्यावा॑पृथि॒वी अ॑बाधत । अवा॑भरद्धृषि॒तो वज्र॑माय॒सं शेवं॑ मि॒त्राय॒ वरु॑णाय दा॒शुषे॑ ॥
आत् । इन्द्रः॑ । स॒त्रा । तवि॑षीः । अ॒प॒त्य॒त॒ । वरी॑यः । द्यावा॑पृथि॒वी इति॑ । अ॒बा॒ध॒त॒ । अव॑ । अ॒भ॒र॒त् । धृ॒षि॒तः । वज्र॑म् । आ॒य॒सम् । शेव॑म् । मि॒त्राय॑ । वरु॑णाय । दा॒शुषे॑ ॥
आत् अपि च स इन्द्रः तविषीः महतीः सेनाः सत्रा सहैव अपत्यत अगच्छत् । ‘पद गतौ । दैवादिकः । वर्णव्यत्ययः ॥ यद्वा । पत्यत इत्यैश्वर्यकर्मा । सेनानामीष्टे । तासामीश्वरोऽभवदित्यर्थः । स एव द्यावापृथिवी द्यावापृथिव्यौ वरीयः ॥ तृतीयायाः सुः । उरुतरेण महिम्ना अबाधत । तयोरन्तःस्थितान् शत्रूनवधीदित्यर्थः । धृषितः शत्रुवधे प्रगल्भः सन् आयसम् अयोमयं वज्रम् अवाभरत् अधारयत्। किमर्थम् । मित्राय वरुणाय दाशुषे हविर्दत्तवते यज्वने च शेवं सुखं कर्तुम् ॥ ॥ १४ ॥
“Indra advanced with vast (armies); he overcame with his might (his foed stationed between) heavenand earth; confident, he wielded his metal thunderbolt (to do) good to Mitra, Varuṇa, and the donor (of theoblation). when fierce he cut Vṛtra to pieces by his strength-- (Vṛtra who) obstructed the waters, and was encompassed bydarkness.”
Indra hath evermore possessed surpassing power: he forced, far from each other, heaven and earth apart.
He hurled impetuous down his iron thunderbolt, a joy to Varuna's and Mitra's worshipper.
Thereupon Indra was entirely master of his powers. He thrust apart more widely heaven and earth.
Emboldened [/bristling with excitement], he brought down the metal mace, agreeable to Mitra and to pious Varuṇa.
Da zeigte Indra fort und fort die grosse Kraft, er drängte weiter Erd' und Himmel hier und dort; Der kühne warf den Blitz herab, den ehernen, zum Heil dem Mitra und dem holden Varuna.
Da war Indra vollständig im Besitz seiner Kräfte; er drängte Himmel und Erde weiter weg. Mutig schmiß er die eherne Keule, die für Mitra, Varuna und den Opferspender ersprießliche.
Тут Индра овладел полностью (своими) силами.
Он еще дальше протолкнул Небо-и-Землю.
Дерзкий, он метнул вниз железную ваджру
На благо тому, кто поклоняется Митре (и) Варуне.
इन्द्र॒स्यात्र॒ तवि॑षीभ्यो विर॒प्शिन॑ ऋघाय॒तो अ॑रंहयन्त म॒न्यवे॑ । वृ॒त्रं यदु॒ग्रो व्यवृ॑श्च॒दोज॑सा॒पो बिभ्र॑तं॒ तम॑सा॒ परी॑वृतम् ॥
इन्द्र॑स्य । अत्र॑ । तवि॑षीभ्यः । वि॒ऽर॒प्शिनः॑ । ऋ॒घा॒य॒तः । अ॒रं॒ह॒य॒न्त॒ । म॒न्यवे॑ । वृ॒त्रम् । यत् । उ॒ग्रः । वि । अवृ॑श्चत् । ओज॑सा । अ॒पः । बिभ्र॑तम् । तम॑सा । परि॑ऽवृतम् ॥
अत्र अस्मिन् काल एव विरप्शिनः महतो विविधं शब्दायमानस्य वा ऋघायतः शत्रून् हिंसतः इन्द्रस्य तविषीभ्यः । षष्ठ्यर्थे चतुर्थी । बलानां मन्यवे प्रख्यापनाय अरंहयन्त । आपो निरगच्छन् । रहिर्गत्यर्थः। उग्रः उद्गूर्णः सः अपः उदकानि बिभ्रतं धारयन्तं तमसा परीवृतं परितो वेष्टितम् । वृणोतेः कर्मणि क्तः । ‘ गतिरनन्तरः' इति स्वरः । संहितायाम् ' उपसर्गस्य घञि (पा, सू. ६.३० १२२) इति दीर्घः ॥ तं वृत्रं यत् यस्मिन् काले ओजसा स्ववीर्येण व्यवृश्चत् अत्यर्थमवधीत् ॥
Then to the mighty powers of Indra, to his wrath, his the fierce Stormer, loud of voice, they came with speed;
What time the Potent One rent Vrtra with his strength, who held the waters back, whom darkness compassed round.
The teeming ones [=Maruts] hastened there for the powers of Indra, for the battle fury of the mettlesome one,
when the strong one split apart Vr̥tra with strength—Vr̥tra, who was holding the waters but was himself enclosed by darkness.
Da eilte zu des Indra Kraft und Eifer hin, des ungestümen, die gewalt'ge Marutschar; Als er, der Held, mit Macht den Vritra spaltete, ihn, der die Wasser hielt von Finsterniss umhüllt.
Vor den Kräften des somavollen, vor des drohenden Indra Ingrimm liefen sie davon, als der Gewaltige da mit Kraft den Vritra zerhieb, der die Gewässer in sich trug, den von Finsternis umhüllten.
Тут перед силами Индры, переполненного (сомой),
Перед яростью разбушевавшегося разбежались они,
Когда грозный мощно разрубил Вритру,
Державшего воды, окруженного мраком.
या वी॒र्या॑णि प्रथ॒मानि॒ कर्त्वा॑ महि॒त्वेभि॒र्यत॑मानौ समी॒यतु॑: । ध्वा॒न्तं तमोऽव॑ दध्वसे ह॒त इन्द्रो॑ म॒ह्ना पू॒र्वहू॑तावपत्यत ॥
या । वी॒र्या॑णि । प्र॒थ॒मानि॑ । कर्त्वा॑ । म॒हि॒ऽत्वेभिः॑ । यत॑मानौ । स॒म्ऽई॒यतुः॑ । ध्वा॒न्तम् । तमः॑ । अव॑ । द॒ध्व॒से॒ । ह॒तः । इन्द्रः॑ । म॒ह्ना । पू॒र्वऽहू॑तौ । अ॒प॒त्य॒त॒ ॥
महित्वेभिः मंहनीयैः स्वबलैः यतमानौ युद्धाय प्रयत्नं कुर्वन्तौ इन्द्रवृत्रौ प्रथमानि पूर्वभावीनि कर्त्वा । कृत्यार्थे त्वन्प्रत्ययः । कर्तव्यानि या यानि वीर्याणि समीयतुः संयोजयामासतुः ॥ ‘ इण् गतौ' । लिटि ‘ दीर्घं इणः किति' (पा. सू. ७. ४. ६९ ) इति दीर्घः ॥ तयोर्मध्ये इन्द्रेण वृत्रे हते सति ध्वान्तम् अतिनिबिडं तमः अव दध्वसे। अवध्वस्तं विनष्टमभूत् ॥ ध्वंसेर्लिट् । कित्त्वान्नलोपः ॥ इन्द्रः तु मह्ना स्वमहिम्ना पूर्वहूतौ प्रथमाह्वाने अपत्यत अगच्छत् । शूराणां मध्येऽयमेव प्रथममाहूयमानोऽभवदित्यर्थः ॥
“(In the midst of) the first exploits to be performed by them which (Indra and Vṛtra) achieved strivingwith their utmost might, Vṛtra being slain, the thick darkness was destroyed, and Indra in his might came at thefirst challenge.”
Even in the first of those heroic acts which they who strove together came with might to execute,
Deep darkness fell upon the slain, and Indra won by victory the right of being first invoked.
The two who together approached the heroic deeds first to be
performed, taking their (battle) places with their great powers—
smoky darkness dusted down on (the one), when he was smashed.
Indra by his greatness became lord over the early invocation.
Als beide sie, wetteifernd mit gewalt'ger Kraft, zusammenstiessen erste Heldenthat zu thun; Da deckte tiefes Dunkel den erschlagenen, durch seine Macht ward Indra Herr des Frühgebets.
Die beiden zusammen kamen, an Größe wetteifernd, wer die ersten Heldentaten vollbringen werde - dichte Finsternis fiel auf den Erschlagenen unter den beiden herab. Indra bekam durch seine Größe ein Anrecht auf die erste Einladung zum Soma.
Эти двое встретились, состязаясь в величии
(Из-за тех) подвигов, которые первыми предстояло совершить.
Густой мрак окутал убитого.
Индра благодаря (своему) величию приобрел право на первый призыв.
विश्वे॑ दे॒वासो॒ अध॒ वृष्ण्या॑नि॒ तेऽव॑र्धय॒न्त्सोम॑वत्या वच॒स्यया॑ । र॒द्धं वृ॒त्रमहि॒मिन्द्र॑स्य॒ हन्म॑ना॒ग्निर्न जम्भै॑स्तृ॒ष्वन्न॑मावयत् ॥
विश्वे॑ । दे॒वासः॑ । अध॑ । वृष्ण्या॑नि । ते । अव॑र्धयन् । सोम॑ऽवत्या । व॒च॒स्यया॑ । र॒द्धम् । वृ॒त्रम् । अहि॑म् । इन्द्र॑स्य । हन्म॑ना । अ॒ग्निः । न । जम्भैः॑ । तृ॒षु । अन्न॑म् । आ॒व॒य॒त् ॥
हे इन्द्र अध वृत्रहननानन्तरं विश्वे देवासः देवा ऋत्विजः सोमवत्या सोमयुक्त्या वचस्यया स्तुतीच्छया ते त्वदीयानि वृष्ण्यानि बलानि अवर्धयन् वर्धयन्ति। इन्द्रस्य हन्मना हननसाधनेन वज्रेण रद्धम् । रध हिंसासंराध्योः । हिँसितम् अहिं वृत्रम् अपामावरकं मेघं तृषु शीघ्रम् अन्नमावयत् अभक्षयत् । तज्जन्येनोदकेन संपादितमन्नं जनोऽभक्षयदित्यर्थः । आवयतिरत्तिकर्मा । तत्र दृष्टान्तः । अग्निर्न यथाग्निः जम्भैः आत्मीयैर्दन्तैरन्नं भक्षयति तद्वत् ॥
“Then all the gods magnified your exploits with praise, accompanied with libations of Soma; (andpeople) quickly devoured Vṛtra, the obstructer of water, wounded by Indra's slaughtering (weapon), as Agnidevours food with his teeth.”
Then all the Gods extolled, with eloquence inspired by draughts of Soma juice, thy deeds of manly might.
As Agni eats the dry food with his tcetlv, he ate Vrtra, the Dragon, maimed by Indra's deadly dart.
All the gods then increased your bullish powers with eloquence
accompanied by soma.
He ate the serpent Vr̥tra subdued by Indra’s blow, as fire does dry food with his jaws.
Da haben alle Götter deine Stiereskraft gesteigert noch durch somareiche Liederkunst, Den Drachen Vritra, der durch Indra's Hieb erlag, verzehrte er wie trocknes Holz des Feuers Zahn.
Alle Götter stärkten da deine Bullenkräfte mit somavoller Beredsamkeit. Den durch Indra´s Streich erlegenen Drachen Vritra verzehrte er wie Agni mit seinen Zähnen die dürre Speise.
Все боги тогда твои бычьи силы
Укрепили красноречием, вызванным сомой.
Змея Вритру, поверженного ударом Индры,
Тот сожрал, как Агни (своими) клыками – сухую пищу.
भूरि॒ दक्षे॑भिर्वच॒नेभि॒ॠक्व॑भिः स॒ख्येभि॑: स॒ख्यानि॒ प्र वो॑चत । इन्द्रो॒ धुनिं॑ च॒ चुमु॑रिं च द॒म्भय॑ञ्छ्रद्धामन॒स्या शृ॑णुते द॒भीत॑ये ॥
भूरि॑ । दक्षे॑भिः । व॒च॒नेभिः॑ । ऋक्व॑ऽभिः । स॒ख्येभिः॑ । स॒ख्यानि॑ । प्र । वो॒च॒त॒ । इन्द्रः॑ । धुनि॑म् । च॒ । चुमु॑रिम् । च॒ । द॒म्भय॑न् । श्र॒द्धा॒ऽम॒न॒स्या । शृ॒णु॒ते॒ । द॒भीत॑ये ॥
हे स्तोतारः दक्षेभिः वर्धनहेतुभिः ऋक्वभिः ॥ ‘ छन्दसीवनिपौ' इति वनिप्प्रत्ययः । अयस्मयादित्वेन भत्वाज्जश्त्वाभावः । पदत्वात् कुत्वम् (का. १. ४. २०) ॥ मन्त्रयुक्तैः सख्येभिः ॥ तदर्हतीत्यर्थे ‘ छन्दसि च ' इति यत्प्रत्ययः ॥ सख्युरिन्द्रस्य योग्यैः वचनेभिः वचनैः स्तोत्रैः सख्यानि स्तुत्यस्तोतृलक्षणान्यभिलक्ष्य भूरि बहुवारम् इन्द्रं प्र वोचत प्रबूत अभिष्टुत । इन्द्रः तु दभीतये एतन्नामकाय राजर्षये धुनिं च चुमुरिं च एतन्नामकौ द्वावसुरौ दम्भयन् हिंसन् श्रद्धामनस्या । मनःशब्दात् क्यच् । श्रद्धायुक्तया मनस इच्छया शृणुते । युष्माभिः कृतानि स्तोत्राणि शृणोति ॥
“Celebrate the numerous benevolent (acts of Indra) with clever affectionate praises, together with texts;for adoration.”
Proclaim his many friendships, met with friendship, made with singers, with the skilful and the eloquent.
Indra, when he subdues Dhuni and Cumuri, lists to Dabhiti for his faithful spirit's sake.
With skillful words accompanied by chants, by reason of your (acts of) comradeship (for him), proclaim the many (acts of) comradeship (for us). Indra is famed as subjugating Dhuni and Cumuri for Dabhīti by reason of his [=Dabhīti’s] mind of trust (in ritual hospitality).
Auf, rühmt ihn hoch, der an die Freundschaft Freundschaft schloss mit der beredten Sängerschar, der kräftigen, Bewältigend den Dhuni und den Tschumuri hört Indra auf Dabhīti seines Glaubens halb.
Verkündet mit wirksamen preisenden Worten, mit Freundesdiensten seine vielen Freundesdienste! Berühmt ist Indra als der, welcher Dhuni und Cumuri für Dabhiti zum Lohn für seine gläubige Gesinnung überlistete.
Провозгласите его многочисленные дружеские действия
Умелыми хвалебными словами (и) дружескими действиями!
Индра слывет тем, кто перехитрил Дхуни и Чумури
Для Дабхити за (его) полную веры настроенность.
त्वं पु॒रूण्या भ॑रा॒ स्वश्व्या॒ येभि॒र्मंसै॑ नि॒वच॑नानि॒ शंस॑न् । सु॒गेभि॒र्विश्वा॑ दुरि॒ता त॑रेम वि॒दो षु ण॑ उर्वि॒या गा॒धम॒द्य ॥
त्वम् । पु॒रूणि॑ । आ । भ॒र॒ । सु॒ऽअश्व्या॑ । येभिः॑ । मंसै॑ । नि॒ऽवच॑नानि । शंस॑न् । सु॒ऽगेभिः॑ । विश्वा॑ । दुः॒ऽइ॒ता । त॒रे॒म॒ । वि॒दः । सु । नः॒ । उ॒र्वि॒या । गा॒धम् । अ॒द्य ॥
हे इन्द्र त्वं स्वश्व्या स्वश्व्यानि शोभनाश्वयुक्तानि पुरूणि बहूनि धनानि मह्यम् आ भर आहर प्रयच्छ । निवचनानि नितरां वक्तव्यानि स्तोत्राणि शंसन् अहं येभिः धनैः मंसै । मन्यतिरर्चतिकर्मा । देवान् पूजयानि तानि देहि ॥ मन्यतेर्लोटि ' बहुलं छन्दसि' इति विकरणस्य लुक् । सिप्यडागमः । सिपः पित्त्वेनानुदात्तत्वाद्धातुस्वरः ॥ सुगेभिः सुष्ठु गन्तव्यैस्तैर्धनैः स्तोत्रैर्वा विश्वा सर्वाणि दुरिता दुरितानि पापानि तरेम । हे इन्द्र अद्य अस्मिन् कर्मणि गाधं ग्रथ्यमानं क्रियमाणं नः अस्मदीयं स्तोत्रम् उर्विया उरुत्वेन बहुमानेन 'सु' सुष्ठु विदो । विद उ । जानीह्येव ॥ ॥ १५ ॥
“Do you, Indra, grant me ample riches and excellent horses with which I may honour (the gods)proffering praises; with well-acquired (riches) let us cross over all iniquity, accept our praise today with the mighṭto cross over with ease].”
Give riches manifold with noble horses, to be remembered while my songs address thee.
May we by easy paths pass all our troubles: find us this day a ford wide and extensive.
You—bring hither many (gifts of) good horses, because of which I shall be considered one who pronounces efficacious enigmas.
Along ways easy to travel may we traverse all difficult passages. Find a ford for us today in wideness.
Bring du uns vielen Reichthum schöner Rosse, für den ich preisen will Gebete sprechend, Lass alles Leid uns sichern Wegs durchfahren und gib uns heute weite Furt zum Heile.
Bring du viele gute Roßherden ein, durch die ich mir einbilden darf eindringliche Worte zu sprechen. Alle gefährlichen Wege möchten wir glatt überwinden; mache du uns fein heute recht breit eine sichere Furt ausfindig!
Принеси (мне) разнообразное богатство из коней,
За что я буду проявлять себя, произнося обращения (к богам).
Легкими путями пусть пройдем мы через все трудности!
Найди же нам сегодня брод пошире!