चि॒त्र इच्छिशो॒स्तरु॑णस्य व॒क्षथो॒ न यो मा॒तरा॑व॒प्येति॒ धात॑वे । अ॒नू॒धा यदि॒ जीज॑न॒दधा॑ च॒ नु व॒वक्ष॑ स॒द्यो महि॑ दू॒त्यं१॒॑ चर॑न् ॥
चि॒त्रः । इत् । शिशोः॑ । तरु॑णस्य । व॒क्षथः॑ । न । यः । मा॒तरौ॑ । अ॒पि॒ऽएति॑ । धात॑वे । अ॒नू॒धाः । यदि॑ । जीज॑नत् । अधा॑ । च॒ । नु । व॒वक्ष॑ । स॒द्यः । महि॑ । दू॒त्य॑म् । चर॑न् ॥
शिशोः शिशुभूतस्य अत एव तरुणस्य नूतनस्याग्नेः वक्षथः । वक्षेरौणादिकोऽथप्रत्ययः ॥ हविर्वहनं चित्र इत् आश्चर्यभूतमेव यः जातोऽग्निः मातरौ सर्वस्य निर्मात्र्यौ मातृपितृभूते द्यावापृथिव्यावरण्यौ वा धातवे न अप्येति ॥ ‘ धेट् पाने'। तुमर्थे तवेन्प्रत्ययः ॥ स्तनपानायापि न गच्छति ॥ ‘ इण् गतौ'। लट्युपसर्गेण समासः । ‘तिङि चोदात्तवति ' इति गतेर्निघातः ॥ अनूधाः ॥ नञ्बहुव्रीहिः । समासान्तस्यानङः स्त्रियामिष्टत्वादत्रानभावः ( पा. सू. ५.४.१३१) । प्रत्येकविवक्षयैकवचनम् ॥ ऊधोहितोऽयं लोकोऽसौ लोकश्चैनमग्निं यदि जीजनत् अजीजनत अजनयत् । तर्हि स्तनपानाय न गच्छतीति युक्तम् । तथा न भवति । किंतु द्यावापृथिव्यौ सर्वेषां कामदुघे खलु । तथापि न याति । तस्मादस्य हविर्वहनं चित्रम्। अध च उत्पत्त्यनन्तरमेव नु अद्य अस्मिन् दिने सद्यः तदानीमेव शीघ्रं महि महत् दूत्यम् ॥ ‘ दूतस्य भागकर्मणी ' ( पा. सू. ४. ४. १२०) इति कर्मणि यत्प्रत्ययः ॥ दूतकर्म चरन् ववक्ष । देवान् प्रति हवींषि वहति ॥
“Wonderful is the conveyance of (the oblation by) the tender infant, who does not come to his parentsto drink, although the udderless (world) gave him birth; he immediately bears (the oblation to the gods) fulfillingthe important office of their messenger.”
VERILY wondrous is the tender Youngling's growth who never draweth nigh to drink his Mothers' milk.
As soon as she who hath no udder bore him, he, faring on his great errand, suddenly grew strong.
Brilliant is the waxing of the tender babe, though he does not approach his two mothers to suck.
When the udderless one has begotten him, even then has he waxed strong in an instant, undertaking a great mission.
Erstaunlich ist des zarten Kalbes Wachsthum doch, das nicht zum Saugen zu den Mutterkühen eilt; Wenn ihn die euterlose nun geboren hat, erwächst er schnell und geht auf grosse Botschaft aus.
Gar wunderbar ist des zarten Kindes Wachstum, das nicht zu seinen beiden Müttern kommt, um zu saugen. Wenn die Euterlose geboren hat, dann ist er auch alsbald erwachsen, um sofort den großen Botengang zu gehen.
Как ярок рост нежного дитяти,
Который не подходит к двум (своим) матерям, чтобы пососать!
Стоило только лишенной вымени породить (его),
Как он сразу же вырос, отправляясь с великой службой вестника.
अ॒ग्निर्ह॒ नाम॑ धायि॒ दन्न॒पस्त॑म॒: सं यो वना॑ यु॒वते॒ भस्म॑ना द॒ता । अ॒भि॒प्र॒मुरा॑ जु॒ह्वा॑ स्वध्व॒र इ॒नो न प्रोथ॑मानो॒ यव॑से॒ वृषा॑ ॥
अ॒ग्निः । ह॒ । नाम॑ । धा॒यि॒ । दन् । अ॒पःऽत॑मः । सम् । यः । वना॑ । यु॒वते॑ । भस्म॑ना । द॒ता । अ॒भि॒ऽप्र॒मुरा॑ । जु॒ह्वा॑ । सु॒ऽअ॒ध्व॒रः । इ॒नः । न । प्रोथ॑मानः । यव॑से । वृषा॑ ॥
अपस्तमः ॥ अपशब्दस्यान्तोदात्तत्वेन मत्वर्थो लुप्त इति ज्ञायते । अन्यथा आपः कर्माख्यायाम्' इत्यसुनि कृत आद्युदात्तत्वमेव स्यात् ॥ अपस्वितमः कर्मवत्तमः अग्निः नाम ॥ तृतीयाया लुक् ॥ नाम्ना नमयितृणा हविषा स्तोत्रेण वा धायि यजमानैर्धार्यते खलु । यतः दन् यष्टॄणां धनदाता ॥ ‘ डुदाञ् दाने ' । हेतौ छन्दस्युभयथा' इति शतुरार्धधातुकत्वेन आकारलोपः । अत एव शपोऽसंभवः ॥ यः अग्निः भस्मना भासकेन प्रकाशकेन तेजसा दता दन्तेन च वना वनान्यरण्यानि सं युवते संयुनक्ति । संदहतीति यावत् । ‘यु मिश्रणामिश्रणयोः'। व्यत्ययेन शः । आत्मनेपदं च । दता । दन्तशब्दस्य ‘पद्दन्' इत्यादिना दद्भावः । ‘ ऊडिदम्' इति विभक्तेराद्युदात्तत्वम् ॥ किंच अभिप्रमुरा ॥ ‘मूर्च्छा मोहसमुच्छ्राययोः । अस्मात् क्विपि ‘राल्लोपः' इति छकारलोपः। मुर संवेष्टने ' इत्यस्माद्वा क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ अभितः समुच्छ्रितेनोद्यतेन यद्वा सर्वतो हविर्भिः संवेष्टितेन जुह्वा एतन्नामकेन पात्रविशेषेण स्वध्वरः शोभनयज्ञोऽग्निः अदनीये हविषि चरतीति शेषः । तत्र दृष्टान्तः । इनः समर्थः प्रोथमानः पर्याप्तः पुष्टाङ्गः वृषा यवसे न यथा वृषभो घासादिषु चरति ॥
“The most active Agni, the giver of wealth, is nourished with ghī (by the worshippers), he who withflaming tooth devours the forests; devoutly worshipped with the uplifted goblet (he is, nourished) like a lordlywell-fed bull amidst (fresh) pasture.”
Then Agni was his name, most active to bestow, gathering up the trees with his consuming tooth;
Skilled in fair sacrifice, armed with destroying tongue, impetuous as a bull that snorteth in the mead.
He has been established in the house, as “Agni” by name, as the best workman, who wrests together the (pieces of) wood with his gnawing tooth,
with his grinding tongue—he of good ceremony, snorting like a powerful bull in a pasture.
Denn Agni ist als thätigster ins Haus gesetzt, wenn mit dem Zahne kauend er das Holz, verzehrt, Schönopfernd es mit seiner Zunge ganz vertilgt, gleich starkem Stier, der auf der Weide schnaubend geht.
Unter dem Namen Agni ward er ins Haus gesetzt, der Tätigste, der die Hölzer mit schlampfendem Zahne zusammenrafft, mit zermahlender Zunge, den Gottesdienst gut versehend, wie ein starker Bulle auf der Weide schnaubend.
Под именем Агни он был устроен в доме как самый деятельный,
(Тот,) кто пожирает деревья перемалывающим клыком,
(Все)уничтожающим языком, (этот) исполняющий прекрасный обряд,
Пыхтящий, как мощный бык на пастбище.
तं वो॒ विं न द्रु॒षदं॑ दे॒वमन्ध॑स॒ इन्दुं॒ प्रोथ॑न्तं प्र॒वप॑न्तमर्ण॒वम् । आ॒सा वह्निं॒ न शो॒चिषा॑ विर॒प्शिनं॒ महि॑व्रतं॒ न स॒रज॑न्त॒मध्व॑नः ॥
तम् । वः॒ । विम् । न । द्रु॒ऽसद॑म् । दे॒वम् । अन्ध॑सः । इन्दु॑म् । प्रोथ॑न्तम् । प्र॒ऽवप॑न्तम् । अ॒र्ण॒वम् । आ॒सा । वह्नि॑म् । न । शो॒चिषा॑ । वि॒ऽर॒प्शिन॑म् । महि॑ऽव्रतम् । न । स॒रज॑न्तम् । अध्व॑नः ॥
हे स्तोतारः वः यूयं तम् अप्तिमभिष्टुत । कीदृशम् । विं न पक्षिणमिव द्रुषदम् । दुर्वृक्षः । अरणिलक्षणे वृक्षे सीदन्तं देवं द्योतमानम् अन्धसः इन्दुं स्तोतॄणामन्नस्य क्लेदयितारं प्रापयितारम् ॥ ‘ उन्देरिच्चादिः' ( उ. सू. १. १३ ) इत्युप्रत्ययः । ‘ नित्' इत्यनुवृत्तेराद्युदात्तत्वम् ॥ प्रोथन्तं शब्दायमानं प्रवपन्तम् अत्यर्थं वनानां दाहकम् अर्णवम् ॥ अर्णसः सलोपश्च' इति मत्वर्थीयो वः ॥ ‘ अग्नौ प्रास्ताहुतिः' इत्यादिक्रमेण उदकवन्तम् आसा ॥ आस्यशब्दस्य 'पद्दन् इत्यादिनासन्नादेशः । वर्णलोपश्छान्दसः ॥ आस्येन वह्निं हविषां वोढारम् । यद्वा । आसा । अन्तिकनामैतत् । देवानां समीपे हविषां प्रापकम् । वहने दृष्टान्तः । वह्निं न । ' वह्निर्वा अनड्वान् ' ( तै, ब्रा. १. ८. २. ५ ) इति श्रवणादनड्वाहमिव वहने समर्थं शोचिषा स्वदीप्त्या विरप्शिनम् । महन्नामैतत् । महान्तं महिव्रतं न महाकर्माणमादित्यमिव अध्वनः सरजन्तम् । मार्गान् सह युगपदेव' रञ्जयन्तम् । एवं गुणमग्निमभिष्टुत ॥ सरजन्तम् । ‘ रञ्ज रागे'। रञ्जेः शतरि ‘ रञ्जेश्च' ( पा. सू. ६. ४. २६ ) इति नलोपे सहस्य सभावे व कृते रूपम् । यद्वा । सरतीति सरः । सरस्योदकस्य जनयितारम् । जनेः तप्रत्यये कृते रूपमिति वा । व्युत्पत्त्यनवधारणादनवग्रहः ॥
“(Glorify) him, (worshippers), the divine, like a bird seated upon a tree, demanding sacrificial food,clamorous, wood-consuming, water-shedding, like one bearing (the oblation) in his mouth, mighty with radiance,simultaneously illuminating the paths, like the great functionary (the sun).”
Praise him, yourGod who, bird-like, rests upon a tree, scattering drops of juice and pouring forth his flood,
Speaking aloud with flame as with his lips a priest, and broadening his paths like one of high command.
Him (I invoke) for you—the god sitting on the wood like a bird in a tree, (like) the drop from the stalk in the wooden cup, snorting, shaving (the ground), undulating,
the conveyor (of the oblations) with his mouth like a draft-horse, abundant with flame, like someone with a great commandment racing along the ways.
Preist euren Gott, der auf dem Holz als Vogel sitzt, des Krautes Tropfen sprüht und Feuerwogen streut, Gleich dem, der darbringt, schwellend mit der Flamme Glut, gleich mächt'gem Herrscher seine Wege weit verzweigt,
Diesen euren Gott preise ich, der wie ein Vogel im Holze auf dem Baum sitzt, wie der Trank der Somapflanze, schnaubend, abscheerend, flutend, der wie ein Wortführer mit dem Munde das Opfer führt, überquellend von Glut, der seine Wege zurücklegt wie einer, der einen hohen Auftrag hat.
(Я восхваляю) этого вашего бога, сидящего в древесине, как птица (на дереве),
(Как) сок растения сомы (в деревянном сосуде), пыхтящего, бреющего, бурного,
Кто, словно жрец, (приносит жертвы) ртом, переполненного пламенем,
Подобного могучему повелителю, пролагающему дороги.
वि यस्य॑ ते ज्रयसा॒नस्या॑जर॒ धक्षो॒र्न वाता॒: परि॒ सन्त्यच्यु॑ताः । आ र॒ण्वासो॒ युयु॑धयो॒ न स॑त्व॒नं त्रि॒तं न॑शन्त॒ प्र शि॒षन्त॑ इ॒ष्टये॑ ॥
वि । यस्य॑ । ते॒ । ज्र॒य॒सा॒नस्य॑ । अ॒ज॒र॒ । धक्षोः॑ । न । वाताः॑ । परि॑ । सन्ति॑ । अच्यु॑ताः । आ । र॒ण्वासः॑ । युयु॑धयः । न । स॒त्व॒नम् । त्रि॒तम् । न॒श॒न्त॒ । प्र । शि॒षन्तः॑ । इ॒ष्टये॑ ॥
हे अजर जरारहित अग्ने ज्रयसानस्य ॥ ज्रयतिर्गत्यर्थः ॥ बाहुलकादस्मादप्यसानच्प्रत्ययः ॥ गमनशीलस्य धक्षोः ॥ दहेः सन् । ‘ द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्' ( का. ६.१.८.१ ) इति द्विर्वचनाभावः । तदन्तादुप्रत्ययः । अरण्यदहनेच्छोः यस्य ते तव स्वभूताः अच्युताः शत्रुभिः अच्यवनीयाः प्रभावाः वाता न वायव इव वि परि सन्ति सर्वतो विशेषेण वर्तन्ते ॥ सन्ति । अस्तेर्लट् । यद्योगादनिघातः ॥ युयुधयो न । युधेः किन्प्रत्ययः ॥ योद्धार इव रण्वासः शीघ्रं गन्तारः शब्दायमाना वा ऋत्विजः इष्टये यागाय प्र शिषन्तः प्रकर्षेण सिषन्तः सिषासन्तः संभक्तुमिच्छन्तः सत्वनं बलवन्तं त्रितं त्रिष्वाहवनीयादिषु स्थानेषु ततं विस्तृतं त्वाम् आ नशन्त । स्तुतिभिर्हविर्भिश्च व्याप्नुवन्ति । आङ्पूर्वो नशिर्व्याप्तिकर्मा । ‘आक्षाण आनट्' इति व्याप्तिकर्मसु पाठात् ॥
“O imperishable Agni, the invincible winds spread around you (who are) rapid in movement, anddesirous of consuming (the forest), like combatants( the priests) calling aloud, anxious to bestow (the oblation),glorify you, the mighty, stationed in the three (altars).”
Thou Everlasting, whom, far-striding fain to burn, the winds, uninterrupted, never overcome,
They have approached, as warriors eager for the fight, heroic Trita, guiding him to gain his wish.
O unaging one, you whose (flames), as you spread out eager to burn, like winds, (like) immovable (mountains), encircle (you)—
battle-lusty they reach Trita [=Agni] like combatants a consummate warrior, commanding him to seek.
Dich, ewig junger, den, wenn du dich weit erstreckst, die mächt'gen Winde nimmer hemmen, wenn du flammst; Wie muntre Kämpfer zu dem Tapfern, dringen sie zu Trita hin, ihn unterweisend zu der Fahrt.
Du Alterloser, dessen Lauf, wenn du brennlustig nach allen Seiten läufst, die unentwegten Winde nicht aufhalten. Wie kampffrohe Soldaten zu einem Kriegsmann, so kamen sie zu Trita, ihn auffordernd, sich auf die Suche zu machen.
О ты нестареющий, чей (порыв), когда ты распространяешься в разные стороны,
Разгораясь, не удерживают постоянные ветры!
Словно радующиеся битве солдаты (приходят) к воину (-предводителю),
Они пришли к Трите, призывая (его) к поискам.
स इद॒ग्निः कण्व॑तम॒: कण्व॑सखा॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः । अ॒ग्निः पा॑तु गृण॒तो अ॒ग्निः सू॒रीन॒ग्निर्द॑दातु॒ तेषा॒मवो॑ नः ॥
सः । इत् । अ॒ग्निः । कण्व॑ऽतमः । कण्व॑ऽसखा । अ॒र्यः । पर॑स्य । अन्त॑रस्य । तरु॑षः । अ॒ग्निः । पा॒तु॒ । गृ॒ण॒तः । अ॒ग्निः । सू॒रीन् । अ॒ग्निः । द॒दा॒तु॒ । तेषा॑म् । अवः॑ । नः॒ ॥
कण्वतमः ॥ कणतेः शब्दार्थात् अशिप्रुषि°' इत्यादिना क्वन्प्रत्ययः ॥ अतिशयेन स्तोता अत एव कण्वसखा ॥ बहुव्रीहित्वात् समासान्तोदात्ताभावः ॥ कण्वाः स्तोतारः सखायो यस्य स तादृशः अर्यः ॥ ' स्वामिन्यन्तोदात्तत्वं वक्तव्यम् ' ( पा. सू. ३.१.१०३. १ ) इत्यन्तोदात्तत्वम् । स्वामी सर्वस्येश्वरः स इत् स एव अग्निः परस्य विप्रकृष्टस्य बाह्यस्य अन्तरस्य अव्यवहितस्य समीपे वर्तमानस्य च शत्रोः तरुषः तारयिता विनाशयिता भवति । सः अग्निः गृणतः स्तोतॄन् अस्मान् पातु रक्षतु ॥ ‘ गॄ शब्दे ' । क्र्यादिकः । ‘ शतुरनुमो नद्यजादी' इति विभक्तेरुदात्तत्वम् ॥ तथा सूरीन् । 'षू प्रेरणे'। हविषां प्रेरयितॄनस्मान् रक्षतु । किंच तेषाम् एषां नः अस्माकम् अवः रक्षणमन्नं वा अग्निर्ददातु प्रयच्छतु ॥ ॥ १८ ॥।
“Agni, the most earnest of eulogists, the friend of those who praise the lord, the destroyer of enemies,whether far off or near, may Agni protect those who adore him, may Agni (protect) those who offer oblation, mayAgni give to us who are both these protection.”
This Agni is the best of Kanvas, Kanvas' Friend, Conqueror of the foe whether afar or near.
May Agni guard the singers, guard the princes well: may Agni grant to us our princes' gracious help.
Just this Agni, best of the Kaṇvas, comrade of the Kaṇvas, overcomer of the distant stranger and the one close by—
let Agni protect the singers, Agni the patrons; let Agni give us their help.
Der Kanva's bester und der Kanva's Freund ist er, der Sieger über nahen und entfernten Feind; Die Sänger schütze Agni, und die Fürsten auch; es schenke Agni deren Huld und Hülfe uns.
Dieser Agni ist der beste Kanva und hat die Kanva´s zu Freunden, der Überwinder des fremden und des heimischen Nebenbuhlers. Agni soll die Sänger schützen, Agni die Opferherren, Agni soll uns deren Gunst schenken.
Вот этот Агни – лучший из Канвов, (и) Канвы ему друзья,
(Он) покоритель далекого (и) близкого врага.
Пусть Агни охраняет воспевающих (его), Агни – богатых покровителей.
Пусть Агни дарует нам их поддержку!
वा॒जिन्त॑माय॒ सह्य॑से सुपित्र्य तृ॒षु च्यवा॑नो॒ अनु॑ जा॒तवे॑दसे । अ॒नु॒द्रे चि॒द्यो धृ॑ष॒ता वरं॑ स॒ते म॒हिन्त॑माय॒ धन्व॒नेद॑विष्य॒ते ॥
वा॒जिन्ऽत॑माय । सह्य॑से । सु॒ऽपि॒त्र्य॒ । तृ॒षु । च्यवा॑नः । अनु॑ । जा॒तऽवे॑दसे । अ॒नु॒द्रे । चि॒त् । यः । धृ॒ष॒ता । वर॑म् । स॒ते । म॒हिन्ऽत॑माय । धन्व॑ना । इत् । अ॒वि॒ष्य॒ते॒ ॥
हे सुपित्र्य । पितुरागतः पित्र्यः ॥ ‘ पितुर्यञ्च' ( पा. सू. ४. ३. ७९ ) इति यत्प्रत्ययः ॥ शोभनपित्र्य हे अग्ने वाजिन्तमाय अतिशयेनान्नवते अत्यन्तं बलवते वा ॥ ‘ नाद्धस्य ' इति नुडागमः ॥ सह्यसे सहीयसे शत्रूणामतिशयेनाभिभवित्रे जातवेदसे जातप्रज्ञाय तुभ्यं त्वां स्तोतुं तृषु क्षिप्रम् अनु च्यवानः स्तुतिभिरनुगत उद्युक्तोऽस्मि ॥ ‘ क्रियार्थोपपदस्य च कर्मणि ' इति जातवेदःशब्दस्य चतुर्थी । सह्यसे । सहस्विञ्शब्दादीयसुनि ‘विन्मतोर्लुक्' इतीयसुन ईकारलोपः छान्दसः॥ अनुद्रे’ चित् उदकवर्जिते स्थले। आपदीत्यर्थः । शत्रुभिः संजातायामापदि धृषता शत्रुधर्षणसमर्थेन धन्वनेत् आत्मीयेन धनुषैव अविष्यते पालकाय सते भूष्णवे ॥ ‘शतुरनुमः इति विभक्तेरुदात्तत्वम् ॥ महिन्तमाय पूज्यतमाय दातृतमाय वा ईदृशायाग्नये यः अहं वरं वरणीयं हविः प्रयच्छामि सोऽहं स्तुतिमपि तस्मै करोमीत्यर्थः ॥
“O Agni, who has fair ancestors, (I have) arrived quickly to (praise) you, the most bountiful bestower offood, the overcomer (of foes), the Jātavedas, (I who offer) the best to you, the most mighty being, the protectorin calamity, with your capable (bow).”
Do thou, Supitrya, swiftly following, make thyself the lord of Jatavedas, mightiest of all,
Who surely gives a boon even in thirsty land most powerful, prepared to aid us in the wilds.
O you of good ancestry, to the best prizewinner, the mightier one, to Jātavedas (does) the (flame?) stirring thirstily con(cede),
to him who acts boldly when he is by choice even in a waterless place, to the greatest one, the one who seeks greedily for food even through a wasteland.
Dem Wesenkenner streb' den Vätern folgend nach, dem labungsreichen, starken rührig, eifervoll, Der kühnlich auch in dürrem Lande Heil verschafft, dem allgewalt'gen, der in Wüsten auch erquickt.
Dir, dem gar sieghaften, überlegenen Jatavedas, du Gutväterlicher, gibt der gierig erregte Wind nach, dem gar Gewaltigen, wenn er dreist selbst auf wasserlosem Boden mit Vorliebe weilt, dem gar Gewaltigen, wenn er nur auf dürrem Lande Nahrung sucht.
О дружелюбный к отцам, жадно трепеща, (я возношу хвалу)
Джатаведасу, приносящему награду, победоносному,
(Тому), кто смело охотно (помогает) находящемуся даже в безводной (местности),
Самому могущественному, добывающему пищу даже в пустыне.
ए॒वाग्निर्मर्तै॑: स॒ह सू॒रिभि॒र्वसु॑: ष्टवे॒ सह॑सः सू॒नरो॒ नृभि॑: । मि॒त्रासो॒ न ये सुधि॑ता ऋता॒यवो॒ द्यावो॒ न द्यु॒म्नैर॒भि सन्ति॒ मानु॑षान् ॥
ए॒व । अ॒ग्निः । मर्तैः॑ । स॒ह । सू॒रिऽभिः॑ । वसुः॑ । स्त॒वे॒ । सह॑सः । सू॒नरः॑ । नृऽभिः॑ । मि॒त्रासः॑ । न । ये । सुऽधि॑ताः । ऋ॒त॒ऽयवः॑ । द्यावः॑ । न । द्यु॒म्नैः । अ॒भि । स॒न्ति॒ । मानु॑षान् ॥
सहसः बलस्य सूनरः सुष्ठु प्रेरकः । यद्वा । सूनुरित्यस्य वर्णव्यत्ययः । सूनरः सूनुः । बलेन मथ्यमानत्वात्तस्य पुत्रः । अग्निः नृभिः कर्मनेतृभिः मर्तैः मनुष्यैः सह सूरिभिः विद्वद्भिः अस्माभिः वसु धनमभिलक्ष्य एव एवं स्तवे स्तूयते । वसु ष्टवे इस्यत्र संहितायां ‘ पूर्वपदात् । इति षत्वम् ॥ मित्रासो न सुहृद इव सुधिताः सुहितास्तृप्ताः ॥ दधातेर्निष्ठायां सुधित वसुधित’ ' ( पा. सू. ७, ४, ४५ ) इति निपातितः । ‘ सुधितार्थास्तृप्त्यर्थाः ' इति काशिकायामुक्तम् ॥ ऋतायवः यज्ञं कामयमानाः । ‘ न च्छन्दस्यपुत्रस्य' इति दीर्घत्वयोः प्रतिषेधः ॥ ईदृशाः ये सूरयः द्यावो न द्योतमाना इव द्युम्नैः । द्युम्नं द्योततेर्यशो वान्नं बा' ( निरु. ५. ५ ) इति यास्कः । अग्निप्रदतैर्बलैरात्मीयैर्यशोभिर्वा मानुषान् शात्रवान् जनान् अभि सन्ति अभिभवन्ति ॥ यद्वृत्तयोगादनिघातः ॥
“In this manner, Agni, the son of strength, is glorified by (us his) worshippers, together with piousmortals, for the sake of wealth-- (his worshippers) who, like delighted friends, desiring the sacrifice, like shining(ones), overcome (hostile) men through his might.”
Thus noble Agni with princes and mortal men is lauded, excellent for conquering strength with chiefs,
Men who are well-disposed as friends and true to Law, even as the heavens in majesty surpass mankind.
Thus is Agni praised along with the mortal patrons as the good one, the spirited (son) of strength by men—
(the patrons) who, well-installed like allies, truth-seeking, like the heavens with their heavenly brilliance surmount the (other)
descendants of Manu.
So wird der gute Agni von den Sterblichen, das Kind der Kraft gepriesen von den Fürsten auch, Die treu dem Recht wie wohlgesinnte Freunde sind, und alle überstrahlen wie des Himmels Glanz.
Also wird Agni von den Sterblichen im Verein mit den Herren, die wie Freunde wohlaufgenommen, rechtschaffen, mit ihrem Glanze die anderen Menschen überragen wie die Himmel die Erde.
Так восхваляется Агни вместе со смертными
Богатыми покровителями, добрый, благородный (сын) силы, вместе с мужами,
Которые, хорошо принятые, как друзья, преданы закону,
Превосходят блеском людей, как небеса (-землю).
ऊर्जो॑ नपात्सहसाव॒न्निति॑ त्वोपस्तु॒तस्य॑ वन्दते॒ वृषा॒ वाक् । त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघी॑य॒ आयु॑: प्रत॒रं दधा॑नाः ॥
ऊर्जः॑ । न॒पा॒त् । स॒ह॒सा॒ऽव॒न् । इति॑ । त्वा॒ । उ॒प॒ऽस्तु॒तस्य॑ । व॒न्द॒ते॒ । वृषा॑ । वाक् । त्वाम् । स्तो॒षा॒म॒ । त्वया॑ । सु॒ऽवीराः॑ । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः ॥
ऊर्जा नपात् । नपादित्यपत्यनाम । अन्नस्य पुत्र । ‘ अन्नं वा आज्यम्' इति श्रवणात्तेन प्रवृध्यमानत्वात् । बलस्य वा पुत्र ॥ ‘ सुबामन्त्रिते पराङ्गवत्स्वरे' इत्यूर्जं इत्यस्य पराङ्गवद्भावेन आमन्त्रितत्वे ' आमन्त्रितस्य च ' इति षाष्ठिकमाद्युदात्तत्वम् ॥ हे सहसावन सहस्विन्नग्ने त्वा त्वाम् इति एवम् उपस्तुतस्य एतन्नामकस्यर्षेर्मम वृषा हविषां वर्षयित्री तैः सहिता वाक् स्तुतिः वन्दते स्तौति ॥ वृषा । ‘ इगुपधज्ञा' इति कः । अजाद्यतष्टाप् ॥ किंच वयं त्वां स्तोषाम स्तवाम । स्तौतेर्लेट्याडागमः । ततः त्वया सुवीराः शोभनपुत्राः स्याम । द्राघीयः दीर्घतमम् आयुः जीवनं प्रतरम् अत्यर्थं दधानाः धारयन्तो भवेम ॥
“"Offspring of food! vigorous (Agni)", thus the praise of Upastuta, showering forth oblations, glorifiesyou. "Let us praise you; through you let us obtain excellent male progeny, enjoying long protracted life". them and the pious, worshippers. With uplifted faces, calling out vaṣaṭ! vaṣaṭ! they reached you; with upliftedfaces they reached you, calling out namas! namas!”
O Son of Strength, Victorious, with this title Upastuta's most potent voice reveres thee.
Blest with brave sons by thee we will extol thee, and lengthen out the days of our existence.
“O child of nourishment, mighty one”—so does the bullish speech of Upastuta extol you.
We shall praise you—we who are rich in heroes because of you, establishing a longer lifetime further for ourselves.
»O mächtiger Sohn der Stärke« so dich nennend preist dich Upastuta's kräftiges Lied; dich wollen wir rühmen, durch dich reich an Helden, indem wir in weite Zukunft hinaus unser Leben verlängern.
Sohn der Kraft, Gewaltiger! Mit diesen Worten rühmt dich des Upastuta brüllende Rede. Dich wollen wir preisen, durch dich gute Söhne besitzend, das Leben noch recht lange ausdehnend.
О могущественный отпрыск питательной силы!
Так славит тебя мужественная речь Упастуты.
Мы хотим восхвалять тебя, (получив) благодаря тебе прекрасных сыновей,
Подольше продлевая срок жизни!
इति॑ त्वाग्ने वृष्टि॒हव्य॑स्य पु॒त्रा उ॑पस्तु॒तास॒ ऋष॑योऽवोचन् । ताँश्च॑ पा॒हि गृ॑ण॒तश्च॑ सू॒रीन्वष॒ड्वष॒ळित्यू॒र्ध्वासो॑ अनक्ष॒न्नमो॒ नम॒ इत्यू॒र्ध्वासो॑ अनक्षन् ॥
इति॑ । त्वा॒ । अ॒ग्ने॒ । वृ॒ष्टि॒ऽहव्य॑स्य । पु॒त्राः । उ॒प॒ऽस्तु॒तासः॑ । ऋष॑यः । अ॒वो॒च॒न् । तान् । च॒ । पा॒हि । गृ॒ण॒तः । च॒ । सू॒रीन् । वष॑ट् । वष॑ट् । इति॑ । ऊ॒र्ध्वासः॑ । अ॒न॒क्ष॒न् । नमः॑ । नमः॑ । इति॑ । ऊ॒र्ध्वासः॑ । अ॒न॒क्ष॒न् ॥
हे अग्ने त्वा त्वाम् इति एवमुक्तप्रकारेण वृष्टिहव्यस्य एतन्नामकस्यर्षेः पुत्राः उपस्तुतासः उपस्तुता एतदभिधानाः ऋषयः सूक्तद्रष्टारः अवोचन् अभ्यष्टुवन् । तान् ऋषीन् च त्वं पाहि रक्ष ॥ ‘ चवायोगे प्रथमा' इति न निघातः ॥ तथा गृणतः स्तोतॄन सूरीन् विदुषः च पाहि । वषट् वषडिति मन्त्रेण ऊर्ध्वासः हविष्प्रदानार्थमूर्ध्वमुखहस्ताः सन्तः अनक्षन् व्याप्नुवन् । नक्षतिर्व्याप्तिकर्मा । नमो नम इति एवम् ऊर्ध्वासः स्तोतुमुद्युक्ताः अनक्षन् । य उक्तगुणाः तानुभयविधान् यष्टॄन् स्तोतॄन् पालय ॥ ॥ १९ ॥
Thus, Agni, have the sons of Vrstihavya, the Rsis, the Upastutas invoked thee.
Protect them, guard the singers and the princes. With Vasat! have they come, with hands uplifted, with their uplifted hands and cries of Glory!
So have the sons of Vr̥ṣṭihavya, the Upastutas, seers, proclaimed you, o Agni.
Protect them—both singers and patrons. Saying “Vaṣaṭ, vaṣaṭ,”
(standing) upright they have reached (you); saying “Homage,
homage,” (standing) upright they have reached (you).
So haben dich, o Agni, des Vrischtihavja Söhne, die Upastuta's, die Dichter angerufen; schütze diese Sänger und die Fürsten; »Vaschaṭ, Vaschaṭ« so sprechend sind sie aufgerichtet her-beigekommen,'»Anbetung, Anbetung« so sprechend sind sie aufgerichtet herbeigekommen.
Also haben zu dir, Agni, des Vristihavya Söhne, die Upastuta´s, die Rishi´s gesprochen. Schütze diese Sänger wie die Gönner! Hoch, hoch! Mit diesen Worten sind sie aufrecht genaht. Ehre, Ehre! Mit diesen Worten sind sie aufrecht genaht.
Так к тебе, о Агни, обращались сыновья
Вриштихавьи, риши из семьи Упастуты.
Охраняй этих воспевающих и богатых покровителей!
Вашат! Вашат! – (с этими словами) они подошли, распрямившись.
Поклонение! Поклонение! – (с этими словами) они подошли распрямившись.