तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो॑ ज॒ज्ञ उ॒ग्रस्त्वे॒षनृ॑म्णः । स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यं विश्वे॒ मद॒न्त्यूमा॑: ॥
तत् । इत् । आ॒स॒ । भुव॑नेषु । ज्येष्ठ॑म् । यतः॑ । ज॒ज्ञे । उ॒ग्रः । त्वे॒षऽनृ॑म्णः । स॒द्यः । ज॒ज्ञा॒नः । नि । रि॒णा॒ति॒ । शत्रू॑न् । अनु॑ । यम् । विश्वे॑ । मद॑न्ति । ऊमाः॑ ॥
तत् जगत्कारणत्वेन सर्ववेदान्तप्रसिद्धम् । इच्छब्दोऽवधारणे। भुवनेषु ॥ ‘ भू सत्तायाम् ॥ सत्सु पृथिव्यादिषु लोकेषु मध्ये जगत्कारणं ब्रह्मैव ज्येष्ठं प्रशस्ततमम् आस बभूव । तस्य परमार्थत्वात् तद्व्यतिरिक्तानां व्यावहारिकत्वाच्च । यद्वा । ज्येष्ठं वृद्धतमं जगत्कारणत्वेन सर्वेषामादिभूतं बभूव ॥ अस्तेर्लिटि छन्दस्युभयथा' इति सार्वधातुकत्वात् ' अस्तेर्भूः' (पा. सू. २, ४, ५२ ) इति भूभावाभावः । यद्वा । वृद्धं तदेव ब्रह्म स्वप्रकाशतया आस दिदीपे । ‘ अस गतिदीप्त्यादानेषु' । अस्माल्लिटि रूपम् । यतः उपादानभूतात् यस्मात् ब्रह्मणः उग्रः उद्गूर्णः त्वेषनृम्णः प्रदीप्तबलः सूयात्मक इन्द्रः जज्ञे जातो बभूव । श्रूयते हि - ‘ चक्षोः सूर्यो अजायत' (ऋ. सं. १०. ९०. १३) इति । ‘ सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्' (ऋ. सं. १०. १९०. ३ ) इति च ॥ ‘ जनिकर्तः प्रकृतिः' (पा. सू. १. ४. ३० ) इति प्रकृतेरपादानसंज्ञायां यत इति पञ्चमी । जनेर्लिटि ‘ गमहन' इत्यादिना उपधालोपः। ‘ द्विर्वचनेऽचि' इति तस्य स्थानिवद्भावात् द्विर्वचनादि । ‘ यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः । स च जज्ञानः जायमान एव सद्यः शीघ्रं शत्रून् शातयितॄन मन्देहादीन् राक्षसान् नि रिणाति निहिनस्ति । यद्वा उपासकानां पापरूपान् शत्रून् निहन्ति । तथा च ब्राह्मणं - सद्यो ह्येष जातः पाप्मानमपाहत' (ऐ. आ. १. ३. ४ ) इति ॥ जज्ञान इति जनेर्लिटि कानचि रूपमेतत् । रिणाति । री गतिरेषणयोः। ‘क्र्यादिः । प्वादीनां ह्रस्वः इति ह्रस्वत्वम् ॥ विश्वे सर्वे ऊमाः । अवन्ति रक्षन्तीत्यूमाः प्राणिनः । अवतेरौणादिको मन्प्रत्ययः । ‘ ज्वरत्वर° इत्यादिना वकारोपधयोः स्थाने ऊठ् । सर्वे प्राणिनः यं सूर्यास्मकमुद्यन्तमिन्द्रमनुलक्ष्य मदर्थमुदगात् मदर्थमुदगादिति मदन्ति हृष्यन्ति ॥ ‘ मदी हर्षे '। व्यत्ययेन शप् ॥ तथा च ब्राह्मणं-- भूतानि वै विश्व ऊमास्त एनमनुमदन्त्युदगादुगादिति' (ऐ.आ. १. ३. ४ ) इति । तैत्तिरीयकं च तस्मात्सर्वं एव मन्यते मां प्रत्युदगादिति' (तै. सं. ६. ५. ४. २) इति । यद्वा । यं स्तुत्यादिभिर्माद्यन्तमनु पश्चात् सर्वे प्राणिनोऽभीष्टप्राप्त्या हृष्यन्ति ॥ ‘ अनुर्लक्षणे' (पा. सू. १,४,८४) इत्यनोः कर्मप्रवचनीयत्वात् कर्मप्रवचनीययुक्त इति द्वितीया ॥ स इन्द्रो जज्ञ इत्यन्वयः ॥
“That was the chiefest in all worlds, from whence the fierce one, the rich in radiance, was born; assoon as born, he destroys the foes, he in whom all living beings delight.”
IN all the worlds That was the Best and Highest whence sprang the Mighty Gods, of splendid valour.
As soon as born he overcomes his foemen, be in whom all who lend him aid are joyful.
Just this was the foremost among living beings, from which the mighty one of vibrant manly spirit was born.
As soon as he is born, he melts down his rivals, while all his helpers cheer him on.
Das war fürwahr die herrlichste der Welten, aus der entsprang der mächt'ge, mannhaft starke, Geboren kaum vertilgt er schon die Feinde, dem alle Freunde froh entgegenjauchzen.
Das war das Höchste unter den Wesen, aus dem der Gewaltige von feurigem Mute geboren wurde. Eben geboren reißt er die Feinde zu Boden, dem alle Helfer zujubeln.
Это было высшее из существ,
Откуда родился грозный с неистовым мужеством.
Едва родившись, он повергает ниц врагов,
(Тот,) вслед кому ликуют все помощники.
वा॒वृ॒धा॒नः शव॑सा॒ भूर्यो॑जा॒: शत्रु॑र्दा॒साय॑ भि॒यसं॑ दधाति । अव्य॑नच्च व्य॒नच्च॒ सस्नि॒ सं ते॑ नवन्त॒ प्रभृ॑ता॒ मदे॑षु ॥
व॒वृ॒धा॒नः । शव॑सा । भूरि॑ऽओजाः । शत्रुः॑ । दा॒साय॑ । भि॒यस॑म् । द॒धा॒ति॒ । अवि॑ऽअनत् । च॒ । वि॒ऽअ॒नत् । च॒ । सस्नि॑ । सम् । ते॒ । न॒व॒न्त॒ । प्रऽभृ॑ता । मदे॑षु ॥
शवसा बलेन ववृधानः वर्धमानः अत एव भूर्योजाः बहुबलः शत्रुः शातयितेन्द्रः दासाय उपक्षयकारिणे शत्रवे भियसं भीतिं दधाति विदधाति । करोति । अव्यनत् । विविधमनिति श्वसितीति व्यनत् प्राणवज्जङ्गमम् । तद्विलक्षणमव्यनत् स्थावरम् । तदुभयमपि सस्नि संस्नातमिन्द्रेण सम्यक् शोधितं भवति ॥ स्नातेः ‘ आदृगमहन०' इति व्यत्ययेन कर्मणि किन्प्रत्ययः॥ यद्वा अन्तर्णीतण्यर्थात् कर्तर्येव किन् । वृष्ट्यादिना सम्यक् स्नापयिता शोधयिता भवति ॥ ‘न लोकाव्यय' इति कर्मणि षष्ठ्याः प्रतिषेधः । शिष्टः पादः प्रत्यक्षकृतः । हे इन्द्र ते तव मदेषु हर्षेषु हविषा स्तुत्या च जातेषु सत्सु प्रभृता प्रभृतानि प्रकर्षेण धृतानि पोषितानि वा सर्वाणि भूतजातानि सं नवन्त संगच्छन्ते । स्तोतुं हवींषि च दातुं समूहीभवन्तीत्यर्थः । नवतिर्गतिकर्मा ॥ प्रभृता । बिभर्तेः कर्मणि निष्ठा । ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः। ‘ गतिरन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥
“Waxing in strength, the very powerful, destructive (Indra), implants fear in the Dāsa; both theinanimate and the animate (world) is purified by him. Nourished in your exhilaration (all creatures) are assembled.”
Grown mighty in his strength, with ample vigour, he as a foe strikes fear into the Dasa,
Eager to win the breathing and the breathless. All sang thy praise at banquet and oblation.
Having grown strong through his swelling power, he of much might, as rival to the Dāsa, creates terror for him.
On your winning the animate and the inanimate, (your helpers) bellow to you together at the presentation (of the soma), at the revels.
An Macht erstarkend als der vielgewalt'ge, versetzt den Dämon er als Feind, in Schrecken, Erbeutend das, was athmet und nicht athmet; dir nahn beim Mahl die dargebrachten Tränke.
An Stärke gewachsen, kraftvoll, bringt er als Gegner Furcht über den Dasa. Während er Lebloses und Lebendiges gewinnt, schreien sie dir unter Darbringung des Soma im Rausche zu.
Возросши мощью, (этот) обладатель большой силы
Внушает дасе страх как противник,
Захватчик того, что не дышит и что дышит.
Они приветствуют тебя вместе криками в опьянении во время приношения (сомы).
त्वे क्रतु॒मपि॑ वृञ्जन्ति॒ विश्वे॒ द्विर्यदे॒ते त्रिर्भव॒न्त्यूमा॑: । स्वा॒दोः स्वादी॑यः स्वा॒दुना॑ सृजा॒ सम॒दः सु मधु॒ मधु॑ना॒भि यो॑धीः ॥
त्वे इति॑ । क्रतु॑म् । अपि॑ । वृ॒ञ्ज॒न्ति॒ । विश्वे॑ । द्विः । यत् । ए॒ते । त्रिः । भव॑न्ति । ऊमाः॑ । स्वा॒दोः । स्वादी॑यः । स्वा॒दुना॑ । सृ॒ज॒ । सम् । अ॒दः । सु । मधु॑ । मधु॑ना । अ॒भि । यो॒धीः॒ ॥
हे इन्द्र त्वे त्वयि ॥ सुपां सुलुक्' इति सप्तम्येकवचनस्य शेआदेशः ॥ विश्वे सर्वे यजमानाः क्रतुम् अनुष्ठेयं कर्म वृञ्जन्ति समापयन्ति । अपिशब्दो ब्राह्मणोक्तसर्वभूतानां सर्वमनसां समुच्चयार्थः। सर्वाणि पृथिव्यादीनि भूतानि सर्वेषां प्राणिनां मनांसि सर्वे यज्ञक्रतवश्व व्याप्ते त्वय्येव यजमानैः परिसमाप्यन्त इत्यर्थः । तथा च ब्राह्मणं-- ‘ त्वयीमानि सर्वाणि भूतानि सर्वाणि मनांसि सर्वे क्रतवोऽपि वृञ्जन्तीत्येव तदाह ' ( ऐ. आ. १. ३. ४ ) इति । यत् यस्मात् एते ऊमाः तर्पकाः॥ अवतेस्तर्पणार्थादौणादिको मन्प्रत्ययः । ‘ ज्वरत्वर' इत्यादिना वकारोपधयोः ऊठ् ॥ ईदृशा यजमानाः पूर्वमेकाकिनः सन्तः पश्चात् द्विः द्विवारं स्त्रीरूपेण पुंरूपेण च जाताः सन्तः पुनरपत्येन सार्धं त्रिः त्रिवारं जन्मभाजः भवन्ति । एक एवात्मा स्त्रीपुंसरूपेण जायते । अर्धो वा एष आत्मनो यत्पत्नी' (तै. ब्रा. ३. ३. ३ ) इति श्रुतेः । पुत्रोऽप्यात्मैव । आत्मा वै पुत्रनामासि' (श. ब्रा. १४. ९. ४. २६) इति श्रुतेः । यत एवमेतेऽभिवृद्धा भवन्ति ततोऽवगम्यते त्वय्येवानुष्ठितं सर्वं कर्म परिसमापयन्तीति । तथा च ब्राह्मणं -- द्वौ वै सन्तौ मिथुनौ प्रजायेते प्रजात्यै ' (ऐ. आ. १, ३, ४) इति । हे इन्द्र त्वं स्वादोः प्रियात् गृहधनादेरपि स्वादीयः स्वादुतरं प्रियतरमपत्यं स्वादुना स्वादुभूतेन मिथुनेन मातापित्रात्मकेन सं सृज संयोजय । यद्वा । स्वादुना भावेनोत्पन्नं तदपत्यमपि संयोजय । एतदेवाह । अदः तदपत्यं मधु मधुरं मधुना मदहेतुना मिथुनान्तरेण पौत्रेण वा सु सुष्ठु अभि योधीः अभियोधय । अभितः क्रीडय ॥ धातूनामनेकार्थत्वात् युध्यतिरत्र क्रीडार्थे वर्तते ॥ ‘ मिथुनं वै स्वादु प्रजा स्वादु' (ऐ. आ. १.३.४) इत्यादि ब्राह्मणमत्रानुसंधेयम् ॥
“To you all (worshippers) offer adoration, whether those propitiators be two or three. Combine thatwhich is sweeter than the sweet with sweetness, unite that honey with honey.”
All concentrate on thee their mental vigour, what time these, twice or thrice, are thine assistants.
Blend what is sweeter than the sweet with sweetness: win. quickly with our meath that meath in battle.
All bend their will toward you, even when these helpers are twice or three times as many.
“Send the sweeter than sweet surging together with the sweet. With
honey, battle for that honey yonder.”
Sie alle wecken in dir Geisteskräfte, wenn zweimal oder dreimal sie dir beistehn, Mit Süssem misch, was süsser noch als süss ist; erkämpfe schnell durch Meth dir jenen Methtrank.
Nach dir richten alle ihren Willen, wenn auch diese Helfer zweimal und dreimal so viele sind. Das, was süßer als süß ist, verbinde mit Süßigkeit; mit dem Süßen kämpfe fein um jenes himmlische Süß!
На тебя направляют (свою) волю все,
Чтобы вдвойне, втройне они были (твоими) помощниками.
(Что) слаще сладкого, соедини со сладким!
С помощью меда борись хорошенько за тот мед!
इति॑ चि॒द्धि त्वा॒ धना॒ जय॑न्तं॒ मदे॑मदे अनु॒मद॑न्ति॒ विप्रा॑: । ओजी॑यो धृष्णो स्थि॒रमा त॑नुष्व॒ मा त्वा॑ दभन्यातु॒धाना॑ दु॒रेवा॑: ॥
इति॑ । चि॒त् । हि । त्वा॒ । धना॑ । जय॑न्तम् । मदे॑ऽमदे । अ॒नु॒ऽमद॑न्ति । विप्राः॑ । ओजी॑यः । धृ॒ष्णो॒ इति॑ । स्थि॒रम् । आ । त॒नु॒ष्व॒ । मा । त्वा॒ । द॒भ॒न् । या॒तु॒ऽधानाः॑ । दुः॒ऽएवाः॑ ॥
इति चिद्धि एवमेव खलु हे इन्द्र मदेमदे सोमपानजन्ये हर्षे सति धना शत्रुधनानि जयन्तं जयेन प्राप्नुवन्तं त्वाम् अनु पश्चात् । लक्षणेऽनोः कर्मप्रवचनीयत्वम् । विप्राः मेधाविनः स्तोतारः मदन्ति हृष्यन्ति । यद्वा त्वामनुमदन्ति अनुक्रमेण स्तुवन्ति । मदतिः स्तुतिकर्मा। हि च' इति निघातप्रतिषेधः । हे धृष्णो शत्रूणां धर्षयितरिन्द्र । ‘ त्रसिगृधिधृषिक्षिपेः क्नुः । ओजीयः। ओजस्विशब्दादीयसुनि • विन्मतोर्लुक्' इति विनो लुक् । ‘टेः' इति टिलोपः । बलवत्तरम् अत एव स्थिरं दृढं धनम् आ तनुष्व अभितोऽस्मदर्थं विस्तारय । त्वा त्वां च मा दभन् मा हिंसन्तु दुरेवाः दुर्गतयः यातुधानाः राक्षसाः ॥
“Verily the pious praise you, (Indra), the giver of wealth in your repeated exhilaration; spread out for usresolute Indra, great and durable (affluence); may the malignant yātudhānas never harm you.”
Therefore in thee too, thou who winnest riches, at every banquet are the sages joyful.
With mightier power, Bold God, extend thy firmness: let not malignant Yatudhanas harm thee.
For it is even in those words that at every revel the inspired poets cheer you on as you win the stakes.
Stretch your mightier (bow) taut, bold one. Let the sorcerers of evil ways not deceive you.
Denn so auch, wenn du Schatz erbeutest, jauchzen die Sänger dir bei jedem Mahl entgegen; O kühner, spanne straffer an die Sehne, nicht sollen dir die bösen Zaubrer schaden.
Ebenso jubeln ja dir, dem Schätzeerbeuter, in jedem Rausche die Redekundigen zu. Noch stärker, du Mutiger, spanne den straffen Bogen an! Nicht sollen die Zauberer, die schlimme Absichten haben, dich überlisten.
Так вот ликуют вдохновенные (поэты)
Вслед тебе, завоевывающему богатства.
Еще сильнее, о отважный, натяни тугой (лук)!
Да не обманут тебя колдуны злонамеренные!
त्वया॑ व॒यं शा॑शद्महे॒ रणे॑षु प्र॒पश्य॑न्तो यु॒धेन्या॑नि॒ भूरि॑ । चो॒दया॑मि त॒ आयु॑धा॒ वचो॑भि॒: सं ते॑ शिशामि॒ ब्रह्म॑णा॒ वयां॑सि ॥
त्वया॑ । व॒यम् । शा॒श॒द्म॒हे॒ । रणे॑षु । प्र॒ऽपश्य॑न्तः । यु॒धेन्या॑नि । भूरि॑ । चो॒दया॑मि । ते॒ । आयु॑धा । वचः॑ऽभिः । सम् । ते॒ । शि॒शा॒मि॒ । ब्रह्म॑णा । वयां॑सि ॥
हे इन्द्र त्वया अनुगृहीताः वयं रणेषु संग्रामेषु शाशद्महे भृशं शत्रून् शातयामः ॥ ‘ शद्लृ शातने '। अस्माद्यङन्तात् महिङः ‘छन्दस्युभयथा' इति आर्धधातुकत्वादतोलोपयलोपौ ॥ किं कुर्वन्तः । युधेन्यानि योधनार्हाणि ॥ ‘ कृत्यार्थे तवैकेन्केन्यत्वनः' इति युधेरर्हार्थे केन्यप्रत्ययः । भूरि बहूनि बलानि ॥ ‘सुपां सुलुक्° ' इति शसो लुक् । प्रपश्यन्तः प्रकर्षेण जानन्तः । अपि च ते तव आयुधा आयुधानि आयोधनसाधनानि वज्रादीनि । ' शेश्छन्दसि बहुलम्' इति शेर्लोपः । वचोभिः स्तुतिभिः चोदयामि शत्रून् प्रति प्रेरयामि। ते त्वदर्थं ब्रह्मणा मन्त्रेण स्तुतिरूपेण सहितानि वयांसि ॥ अन्ननामैतत् । हविर्लक्षणान्यन्नानि सं शिशामि सम्यग्निश्यामि । संस्करोमीत्यर्थः ॥ ‘ शो तनूकरणे'। छान्दसो विकरणस्य श्लुः । ‘ बहुलं छन्दसि ' इत्यभ्यासस्येत्वम् ॥॥१॥
“Through you we destroy (our foes) in battles, beholding the numerous (hosts) which we have to fight; Iurge your weapons with words (of praise), I prepare your viands with a sacred verse.”
Proudly we put our trust in thee in battles, when we behold great wealth the prize of combat.
I with my words impel thy weapons onward, and sharpen with my prayer thy vital vigour.
Through you we have become exultant in our battles, as we see before us the many fights to be fought.
I rouse your weapons with my words; I hone your vital powers with my sacred formulation.
Auf dich vertraun wir freudig in den Schlachten, erblickend vieles was des Kampfes werth ist; Ich wetze deine Waffen durch Gesänge und schärfe deine Kräfte durch Gebete.
Auf dich setzen wir in den Kämpfen unser Vertrauen, die wir viele zu bestehende Fehden vor uns sehen. Mit Worten schärfe ich deine Waffen; ich mache durch Zauberspruch deine Kräfte scharf.
С тобою мы красуемся в битвах,
Видя перед собой многое, за что надо воевать.
Словами я возбуждаю твое оружие,
Заговором я заостряю твои телесные силы!
स्तु॒षेय्यं॑ पुरु॒वर्प॑स॒मृभ्व॑मि॒नत॑ममा॒प्त्यमा॒प्त्याना॑म् । आ द॑र्षते॒ शव॑सा स॒प्त दानू॒न्प्र सा॑क्षते प्रति॒माना॑नि॒ भूरि॑ ॥
स्तु॒षेय्य॑म् । पु॒रु॒ऽवर्प॑सम् । ऋभ्व॑म् । इ॒नऽत॑मम् । आ॒प्त्यम् । आ॒प्त्याना॑म् । आ । द॒र्ष॒ते॒ । शव॑सा । स॒प्त । दानू॑न् । प्र । सा॒क्ष॒ते॒ । प्र॒ति॒ऽमाना॑नि । भूरि॑ ॥
स्तुषेय्यं स्तोतव्यम् । स्तुवः क्सेय्यश्छन्दसि’ (उ. सू. ३. ९९ ) इत्यौणादिकः क्सेय्यप्रत्ययः । पुरुवर्पसं बहुरूपम् ऋभ्वम् उरु भासमानमुरुभूतं वा इनतमम् अतिशयेनेश्वरम् आप्त्यानाम् आप्तव्यानां मध्ये आप्त्यम् आप्तव्यमेवंभूतमिन्द्रं स्तौमीति शेषः । य इन्द्रः शवसा बलेन सप्त सप्तसंख्याकान् दानून दानवान् वृत्रनमुचिकुयवादीन् आ दर्षते आदृणाति हिनस्ति । दॄ विदारणे'। अस्माल्लेटि व्यत्ययेनात्मनेपदम् । ‘लेटोऽडाटौ' इत्यागमः । ‘सिब्बहुलम्' इति सिप् ॥ तथा प्रतिमानानि असुराणां प्रतिरूपाणि भूरि भूरीणि बहून्यसुरबलानि प्र साक्षते य इन्द्रः प्रसहते। यद्वा बहूनि प्रतिमानान्यसुराणां स्थानानि प्र साक्षते प्राप्नोति । ‘ साक्षतिराप्नोतिकर्मा' ( निरु. ११. २१) इति यास्कः ॥ ‘षह अभिभवे । लेट्यडागम: । ‘ सिब्बहुलम्” इति सिप् । ढत्वकत्वषत्वानि । छान्दसो दीर्घः ॥
“I praise (Indra) who is worthy of praise, multiform vast, supreme, most accessible of the accessible; heassails with might the seven Dānavas, he overpowers many opposing hosts.”
Worthy of praises, many-shaped, most skilful, most energetic, Aptya of the Aptyas:
He with his might destroys the seven Danus, subduing many who were deemed his equals.
(I praise) him who is worthy of praise, the craftsman possessing many forms, the strongest Āptya of Āptyas.
He will shatter the seven Dānus with his swelling strength; he will
overcome the many opposing forces.
Den vielgestalt'gen, starken will ich preisen, ihn, den gewaltigsten der Stromgebieter; Mit seiner Kraft zerschmettert er die sieben Dämonen und bewältigt viele Gegner.
Den preislichen, vielgestaltigen Meister, den gewaltigsten, den gewaltigsten Aptya unter den Aptya´s. - Er zersprenge mit Übermacht die sieben Danu´s und bezwinge die vielen Gegengewichte.
(Я славлю) достойного хвалы, принимающего много образов, умелого,
Самого деятельного, Аптью из Аптьев.
Пусть взорвет он (своей) силой семерых Дану!
Пусть осилит он многих равноценных противников!
नि तद्द॑धि॒षेऽव॑रं॒ परं॑ च॒ यस्मि॒न्नावि॒थाव॑सा दुरो॒णे । आ मा॒तरा॑ स्थापयसे जिग॒त्नू अत॑ इनोषि॒ कर्व॑रा पु॒रूणि॑ ॥
नि । तत् । द॒धि॒षे॒ । अव॑रम् । पर॑म् । च॒ । यस्मि॑न् । आवि॒थ । अव॑सा । दु॒रो॒णे । आ । मा॒तरा॑ । स्था॒प॒य॒से॒ । जि॒ग॒त्नू इति॑ । अतः॑ । इ॒नो॒षि॒ । कर्व॑रा । पु॒रूणि॑ ॥
तत् तस्मिन् यजमानस्य गृहे अवरम् अल्पं भौमं धनं परम् उत्कृष्टं दिवि भवं धनं च हे इन्द्र त्वं नि दधिषे निदधासि । निक्षिपसि । यस्मिन् दुरोणे गृहे अवसा । अन्ननामैतत् । तर्पणकेनान्नेन हविर्लक्षणेन आविथ अवसि तृप्यसि ॥ अवतेस्तृप्त्यर्थात् ‘ छन्दसि लुङलङ्लिटः इति सार्वकालिको लिट् । अत आदेः' इत्यभ्यासस्यात्वम् । ‘ यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः ॥ अपि च मातरा सकलस्य भूतजातस्य निर्मात्र्यौ द्यावापृथिव्यौ जिगत्नू गमनशीले इतस्ततः प्रचलन्त्यौ आ स्थापयसे स्वकीये स्थानेऽवस्थापयसि । नैश्चल्येन यथावतिष्ठते तथा करोषीत्यर्थः । ‘ विष्वक् तस्तम्भ पृथिवीमुत द्याम् ' (ऋ. सं. १०. ८९. ४ ) इति निगमान्तरम् । हे इन्द्र अतः कारणात् पुरूणि बहूनि कर्वरा । कर्मनामैतत् । कर्वराणि ॥ ‘शेश्छन्दसि बहुलम् । इति शेर्लोपः॥ कर्माणि लौकिकानि वैदिकानि च इनोषि प्राप्नोषि ॥ ‘ इण् गतौ ' । व्यत्ययेन श्नुः ॥
“You deposit the lesser and the greater wealth in the mansion in which you are satisfied with food; youfix the two wandering mothers, you accomplish many works.”
Thou in that house which thy protection guardeth bestowest wealth, the higher and the lower.
Thou stablishest the two much-wandering Mothers, and bringest many deeds to their completion.
You deposited this, both the nearer and the farther, in the house in which you helped with your help.
You cause the two parents [=Heaven and Earth], who were in motion, to stay still, and then you spur on many deeds.
Du hast bewahrt das untre Gut, das obre, im Hause, wo mit deiner Huld du hold bist; Du stütztest fest die Wandrer, deine Aeltern, und dann vollbringst du viele Heldenthaten.
Diesen näheren und ferneren Schatz legst du nieder in dem Hause in dem du mit deiner Gunst brünstig warst. Du gebotest den beiden flüchtigen Eltern Halt. Darauf bringst du viele Arbeiten zuwege.
Это нижнее и верхнее (богатство) ты вкладываешь
В (тот) дом, в котором ты был милостив (своей) милостью.
Ты удерживаешь двоих подвижных родителей,
Из-за этого ты совершаешь многие деяния.
इ॒मा ब्रह्म॑ बृ॒हद्दि॑वो विव॒क्तीन्द्रा॑य शू॒षम॑ग्रि॒यः स्व॒र्षाः । म॒हो गो॒त्रस्य॑ क्षयति स्व॒राजो॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ॥
इ॒मा । ब्रह्म॑ । बृ॒हत्ऽदि॑वः । वि॒व॒क्ति॒ । इन्द्रा॑य । शू॒षम् । अ॒ग्रि॒यः । स्वः॒ऽसाः । म॒हः । गो॒त्रस्य॑ । क्ष॒य॒ति॒ । स्व॒ऽराजः॑ । दुरः॑ । च॒ । विश्वाः॑ । अ॒वृ॒णो॒त् । अप॑ । स्वाः ॥
बृहद्दिवः ऋषिः इमा इमानि ब्रह्म ब्रह्माणि इन्द्राय सुखं यथा भवति तथा विवक्ति । प्रब्रवीतीत्यात्मन एव परोक्षनिर्देशः । ‘ वच परिभाषणे । आदादिकः । छान्दसः शप: श्लुः । ‘ बहुलं छन्दसि ' इत्यभ्यासस्येत्वम् । ऋषिर्विशेष्यते । अग्रियः अग्रेभवः । ऋषीणां प्रमुखः श्रेष्ठ इत्यर्थः ॥ 'घच्छौ च ' (पा. सू. ४. ४. ११७ ) इत्यग्रशब्दाद्भवार्थे घच् । स्वर्षाः स्वर्गस्य संभक्ता । यद्वा । स्वरादित्य इन्द्रः। ‘ असौ वा अदित्य इन्द्रः' (तै. सं. ५.७.१.३ ) इति श्रुत्यन्तरात् । तस्य संभक्ता सेवक इत्यर्थः । ‘ वन षण संभक्तौ' । जनसखनक्रमगमो विट्। ‘ विड्वनोरनुनासिकस्यात्' इत्यात्वम् । सनोतेरनः' इति षत्वम् । य इन्द्रः महः महतः गोत्रस्य पर्वतस्य वलेनासुरेण गवां पिधानार्थं निहितस्य स्वराजः स्वयमेव राजमानस्य । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी। ईदृशं पर्वतं क्षयति अपगमयति । ‘ क्षि क्षये ' । भौवादिकः । यद्वा । गोशब्दात् समूहार्थे ' इनित्रकट्यचश्च' (पा. सू. ४, २. ५१ ) इति त्रप्रत्ययः । गोत्रस्य गोसमूहस्य महः महतः स्वराजः स्वयमेव राजमानस्य य इन्द्रः क्षयति ईष्टे । क्षयतिरैश्वर्यकर्मा । स्वशब्दोपपदात् राजतेः सत्सूद्विष°' इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । दुरश्च बिलद्वाराणि च विश्वाः सर्वाः स्वाः वलासुरस्य स्वभूताः अप अवृणोत् अपगतावरणा अकरोत् । उद्घाटितवानित्यर्थः । यद्वा । दुरश्चापावृणोत् विश्वाः सर्वाः स्वः स्वभूता गा बिलमध्ये वर्तमाना अलभतेति शेषः । एवंभूतो य इन्द्रस्तस्मा इन्द्राय विवक्तीत्यन्वयः ॥
Brhaddiva, the foremost of light-winners, repeats these holy prayers, this strength of Indra.
He rules the great self-luminous fold of cattle, and all the doors of light hath he thrown open.
Br̥haddiva speaks these sacred formulations fortissimo to Indra: “the first to win the sun,
he has dominion over the great cowpen of the sovereign king, and he opened up all the doors that are his own.”
Brihaddiva, der beste Glanzerringer ruft dies Gebet dem Indra zu als Labsal; Denn der ist Herr des grossen lichten Kuhstalls, und hat geöffnet alle seine Thüren.
Diese erstaunlichen Reden spricht Brihaddiva als Aufmunterung für Indra, als der Erste, der das Licht findet. Er verfügt über die große Herde des selbstherrlichen Vala, und er öffnet alle seine Tore.
Эти священные слова произносит Брихаддива,
Громкую песнь для Индры – как первый, покоряющий солнце.
Он правит великим загоном для коров самодержавного.
Он открыл все свои ворота.
ए॒वा म॒हान्बृ॒हद्दि॑वो॒ अथ॒र्वावो॑च॒त्स्वां त॒न्व१॒॑मिन्द्र॑मे॒व । स्वसा॑रो मात॒रिभ्व॑रीररि॒प्रा हि॒न्वन्ति॑ च॒ शव॑सा व॒र्धय॑न्ति च ॥
ए॒व । म॒हान् । बृ॒हत्ऽदि॑वः । अथ॑र्वा । अवो॑चत् । स्वाम् । त॒न्व॑म् । इन्द्र॑म् । ए॒व । स्वसा॑रः । मा॒त॒रिभ्व॑रीः । अ॒रि॒प्राः । हि॒न्वन्ति॑ । च॒ । शव॑सा । व॒र्धय॑न्ति च ॥
महान् गुणैरधिकः अथर्वा । उपचाराज्जन्ये जनकशब्दः । अथर्वणः पुत्रो बृहद्दिवाख्य ऋषिर्देवेषु मध्ये इन्द्रमेव प्रति स्वाम् आत्मीयां तन्वं विस्तृतां स्तुतिमू एवम् अवोचत् प्रोक्तवान् । वचेर्लुङि ‘ अस्यतिवक्ति' इत्यादिना च्लेरादेशः । ‘ वच उम्' इत्युमागमः । पादादित्वान्न निहन्यते । अपि चैनमेव इन्द्रं मातरिभ्वीः मातरि सकलस्य भूतजातस्य निर्मात्र्यां भूमौ भवन्त्यो वर्तमानाः । भवतेः अन्येभ्योऽपि दृश्यन्ते' इति वनिप् । ' वनो र च' इति ङीब्रेफौ । जसि वा छन्दसि' इति पूर्वसवर्णदीर्घः । पृषोदरादित्वाद्वर्णलोपः । अरिप्राः अपापाः स्वसारः स्वयमेव सरन्त्यः परस्परं भगिन्यो वा गङ्गाद्या नद्यः हिन्वन्ति यागसाधनत्वेन प्रीणयन्ति । हिविः प्रीणनार्थः । भौवादिकः । व्यत्ययेन शः । इदित्त्वात् नुम् । यद्वा । ‘ हि गतौ वृद्धौ च ' । स्वादिभ्यः इनुः । वृष्ट्यर्थं तमिन्द्रमुपगच्छन्ति । गत्वा च शवसा थागजन्येन बलेन तं वर्धयन्ति च ॥ ॥२॥
“Thus the great Bṛhaddiva, son of Atharvan, repeated his diffused (praise) to Indra. The unsulliedsiister (streams) abiding in the mother (earth), to Indra, and augment him with strength.”
Thus hath Brhaddiva, the great Atharvan, spoken to Indra as himself in person.
The spotless Sisters, they who are his Mothers, with power exalt him and impel him onward.
In this way, great Br̥haddiva, the Atharvan, addressed his own self—that is, Indra.
The stainless sisters, who stay by their mother, speed him with swelling strength and make him strong.
So hat Brihaddiva, der grosse Priester, den Indra als sein eignes Selbst gerufen; Die unvermählten fleckenlosen Schwestern, erquicken ihn und stärken ihn mit Kräften.
Also hat der große Brihaddiva Atharvan zu ihm selbst, zu Indra gesprochen: Die unbefleckten Schwestern, die bei der Mutter wohnen, treiben kräftig zur Eile und stärken ihn an Kraft.
Так великий Брихаддива Атхарван
Воззвал к Индре (,как) к самому себе.
Сестры, находящиеся у матерей, незапятнанные,
Сильно торопят (его) и укрепляют.