हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
हि॒र॒ण्य॒ऽग॒र्भः । सम् । अ॒व॒र्त॒त॒ । अग्रे॑ । भू॒तस्य॑ । जा॒तः । पतिः॑ । एकः॑ । आ॒सी॒त् । सः । दा॒धा॒र॒ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
हिरण्यगर्भः हिरण्मयस्याण्डस्य गर्भभूतः प्रजापतिर्हिरण्यगर्भः। तथा च तैत्तिरीयकं -- ‘ प्रजापतिर्वै हिरण्यगर्भः प्रजापतेरनुरूपत्वाय ' ( तै. सं. ५, ५. १. २) इति । यद्वा हिरण्मयोऽण्डो गर्भवद्यस्योदरे वर्तते सोऽसौ सूत्रात्मा हिरण्यगर्भ इत्युच्यते । अग्रे प्रपञ्चोत्पत्तेः प्राक् समवर्तत । मायाध्यक्षात सिसृक्षोः परमात्मनः समजायत । यद्यपि परमात्मैव हिरण्यगर्भः तथापि तदुपाधिभूतानां वियदादीनां ब्रह्मण उत्पत्तेस्तदुपहितोऽप्युत्पन्न इत्युच्यते । स च जातः जातमात्र एव एकः अद्वितीयः सन् भूतस्य विकारजातस्य ब्रह्माण्डादेः सर्वस्य जगतः पतिः ईश्वरः आसीत् । न केवलं पतिरासीदेव अपि तर्हि सः हिरण्यगर्भः पृथिवीं विस्तीर्णां द्यां दिवम् उत अपि च इमाम् अस्माभिर्दृश्यमानां पुरोवर्तिनीमिमां भूमिम् । यद्वा पृथिवीत्यन्तरिक्षनाम। अन्तरिक्षं दिवं भूमिं च दाधार धारयति ॥ ‘ छन्दसि लुङ्लङ्लिटः' इति सार्वकालिको लिट् । तुजादित्वादभ्यासदीर्घः ॥ कस्मै । अत्र किंशब्दोऽनिर्ज्ञातस्वरूपत्वात् प्रजापतौ वर्तते । यद्वा । सृष्ट्यर्थं कामयत इति कः । कमेर्डप्रत्ययः । यद्वा । कं सुखम् । तद्रूपत्वात् क इत्युच्यते । अथवा इन्द्रेण पृष्टः प्रजापतिर्मदीयं महत्त्वं तुभ्यं प्रदायाहं कः कीदृशः स्यामित्युक्तवान् । स इन्द्रः प्रत्यूचे यदीदं ब्रवीष्यहं कः स्यामिति तदेव त्वं भवेति । अतः कारणात् क इति प्रजापतिराख्यायते । ‘इन्द्रो वै वृत्रं हत्वा सर्वां विजितीर्विजित्याब्रवीत् ' ( ऐ. ब्रा. ३.२१ ) इत्यादिकं ब्राह्मणमत्रानुसंधेयम् ॥ यदासौ किंशब्दस्तदा सर्वनामत्वात् स्मैभावः सिद्धः । यदा तु यौगिकस्तदा व्यत्ययेनेति द्रष्टव्यम्। 'सावेकाचः' इति प्राप्तस्य ‘ न गोश्वन्साववर्ण ' इति प्रतिषेधः । ‘ क्रियाग्रहणं कर्तव्यम् ' इति कर्मणः संप्रदानत्वाच्चतुर्थी । कं प्रजापतिं देवाय देवं दानादिगुणयुक्तं हविषा प्राजापत्यस्य पशोर्वपारूपेणैककपालात्मकेन पुरोडाशेन वा विधेम वयमृत्विजः परिचरेम । विधतिः परिचरणकर्मा ॥
“Hiraṇyagarbha was present at the beginning; when born, he was the sole lord of created beings; heupheld this earth and heaven-- let us offer worship with an oblation to the divine Ka.”
IN the beginning rose Hiranyagarbha, born Only Lord of all created beings.
He fixed and holdeth up this earth and heaven. What God shall we adore with our oblation?
The golden embryo evolved in the beginning. Born the lord of what came to be, he alone existed.
He supports the earth and the heaven here— – Who is the god to whom we should do homage with our oblation?
Der Gold-entsprossne kam zuerst ins Dasein, geboren als der einz'ge Herr des Weltalls, Er machte fest die Erd' und diesen Himmel, wem sollen wir als Gott mit Opfer dienen?
Im Anfang wurde er zum goldnen Keim. Geboren ward er der alleinige Herr der Schöpfung. Er festigte die Erde und diesen Himmel. - Wer ist der Gott, dem wir mit Opfer dienen sollen?
Вначале он возник как золотой зародыш.
Родившись, он стал единственным господином творения.
Он поддержал землю и это небо.
Какого бога мы почтили жертвенным возлиянием?
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः । यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यः । आ॒त्म॒ऽदाः । ब॒ल॒ऽदाः । यस्य॑ । विश्वे॑ । उ॒प॒ऽआस॑ते । प्र॒ऽशिष॑म् । यस्य॑ । दे॒वाः । यस्य॑ । छा॒याम् । ऋत॑म् । यस्य॑ । मृ॒त्युः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
यः प्रजापतिः आत्मदाः आत्मनां दाता । आत्मानो हि सर्वे तस्मात् परमात्मन उत्पद्यन्ते । यथाग्नेः सकाशाद्विस्फुलिङ्गा जायन्ते तद्वत् । यद्वा आत्मनां शोधयिता । दैप् शोधने ' । ‘ आतो मनिन् इति विच् । बलदाः बलस्य च दाता शोधयिता वा । यस्य च प्रशिषं प्रकृष्टं शासनमाज्ञां विश्वे सर्वे प्राणिनः उपासते प्रार्थयन्ते सेवन्ते वा । ‘ शासु अनुशिष्टौ । ‘ शास इत्° ( पा. सू. ६.४.३४ ) इत्युपधाया इत्वम् । शासिवसिघसीनां च ' इति षत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । आसेरनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । ‘ तिङि चोदात्तवति ' इति गतिरनुदात्ता । तथा देवाः अपि यस्य प्रशासनमुपासते । अपि च अमृतम् अमृतत्वम् । भावप्रधानो निर्देशः । यद्वा । अमृतम् । मरणं नास्त्यस्मिन्नित्यमृतं सुधा। बहुव्रीहौ ‘ नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । तदपि यस्य प्रजापतेः छाया छायेव वर्ति भवति । मृत्युः यमश्च प्राणापहारी छायेव भवति । तस्मै कस्मै देवाय इत्यादि समानं पूर्वेण हविषा पुरोडाशात्मनेति तु विशेषः ॥
“(To him) who is the giver of soul, the giver of strength, whose commands all (beings), even the godsobey, whose shadow is immortality, whose (shadow) is death-- let us offer worship with an oblation to the divineKa.”
Giver of vital breath, of power and vigour, he whose commandments all the Gods acknowledge -.
The Lord of death, whose shade is life immortal. What God shall we adore with our oblation?
Who is the giver of breath, the giver of strength; whose command all honor, whose command the gods honor;
whose shadow is immortality, whose shadow is death— – Who is the god to whom we should do homage with our oblation?
Der Odem gibt und Kraft, und dessen Weisung die Wesen alle, auch die Götter achten, Dess Schattenbild Unsterblichkeit und Tod ist, wem sollen wir als Gott mit Opfer dienen?
Der Leben und Kraft gibt, des Weisung alle, des Weisung die Götter harren, des Schattenbild Unsterblichkeit und Tod sind. - Wer ist der Gott, dem wir mit Opfer dienen sollen?
Кто дает жизнь, дает силу, чей приказ
Все признают, чей (приказ признают) боги,
Чье отражение – бессмертие, чье – смерть –
Какого бога мы почтили жертвенным возлиянием?
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पद॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यः । प्रा॒ण॒तः । नि॒ऽमि॒ष॒तः । म॒हि॒ऽत्वा । एकः॑ । इत् । राजा॑ । जग॑तः । ब॒भूव॑ । यः । ईशे॑ । अ॒स्य । द्वि॒ऽपदः॑ । चतुः॑ऽपदः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
यः हिरण्यगर्भः प्राणतः प्रश्वसतः ॥ ‘ अन प्राणने ' । आदादिकः । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् ॥ निमिषतः अक्षिपक्ष्मचलनं कुर्वतः ॥ अत्रापि पूर्ववद्विभक्तिरुदात्ता ॥ जगतः जङ्गमस्य प्राणिजातस्य महित्वा महत्त्वेन ॥ ‘ सुपां सुलुक् ' इति तृतीयाया आकारः ॥ माहात्म्येन एक इत् अद्वितीय एव ' सन् राजा बभूव ईश्वरो भवति ॥ भवतेर्णलि ‘ लिति ' (पा, सू. ६. १. १९३) इति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥ अस्य परिदृश्यमानस्य द्विपदः पादद्वययुक्तस्य मनुष्यादेः चतुष्पद: गवाश्वादेश्च यः प्रजापतिः ईशे ईष्टे ॥ ‘ ईश ऐश्वर्ये ' । आदादिकोऽनुदात्तेत् । ‘ लोपस्त आत्मनेपदेषु ' इति तलोपः । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । अस्य । ‘ उडिदम् इतीदमो विभक्तिरुदात्तै । द्वौ पादौ यस्य स द्विपात् । ‘संख्यासुपूर्वस्य' (पा. सू. ५. ४. १४० ) इति पादस्यान्त्यलोपः समासान्तः । असंज्ञायॆ ‘ पादः पत् ' (पा. सू. ६.४.१ ३०) इति पद्भावः । ‘ द्वित्रिभ्यां पाद्दन ' ( पा. सू. ६. २. १९७ ) इत्येकदेशविकृतस्यानन्यत्वादुत्तरपदान्तोदात्तत्वम् । स्वरवर्जमेषैव चतुष्पद इत्यत्रापि प्रक्रिया । ‘ बहुव्रीहौ प्रकृत्या ' इति पूर्वपदप्रकृतिस्वरः । पूर्वपदस्य ‘त्रः संख्यायाः ' (फि. सू.२.५ ) इत्याद्युदात्तत्वम् । इदुदुपधस्य चाप्रत्ययस्य ' इति विसर्जनीयस्य षत्वम् ॥ ईदृशो यः प्रजापतिस्तस्मै कस्मै इत्यादि सुबोधं हविषा हृदयाद्यात्मनेत्ययमत्र विशेषः ॥
“(To him) who, by his greatness, has verily become the sole king of the breathing and seeing world,who rules over this aggregate of two-footed and four- footed beings -- let us offer worship with an oblation to thedivine Ka.”
Who by his grandeur hath become Sole Ruler of all the moving world that breathes and slumbers;
He who is Lord of men and Lord of cattle. What God shall we adore with our oblation?
Who became king of the breathing, blinking, moving world—just he alone by his greatness;
who is lord of the two-footed and four-footed creatures here— – Who is the god to whom we should do homage with our oblation?
Der des beseelten, schlummernden, belebten allein'ger König ist durch seine Grösse Und Herr ist über Menschen hier und Thiere, wem sollen wir als Gott mit Opfer dienen?
Der dessen Macht der alleinige König über alles, was atmet und schlummert, über die Kreatur geworden ist, der über diese Zweifüßler und Vierfüßler gebeut. - Wer ist der Gott, dem wir mit Opfer dienen sollen?
Кто благодаря (своему) могуществу стал единственным царем
Мира живых, (того,) что дышит и моргает,
Кто правит его двуногими и четвероногими –
Какого бога мы почтили жертвенным возлиянием?
यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रं र॒सया॑ स॒हाहुः । यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यस्य॑ । इ॒मे । हि॒मऽव॑न्तः । म॒हि॒ऽत्वा । यस्य॑ । स॒मु॒द्रम् । र॒सया॑ । स॒ह । आ॒हुः॒ । यस्य॑ । इ॒माः । प्र॒ऽदिशः॑ । यस्य॑ । बा॒हू इति॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
हिमा अस्मिन् सन्तीति हिमवान् । तेन बहुवचनान्तेन सर्वे पर्वता लक्ष्यन्ते । यथा छत्रिणो गच्छन्तीति । हिमवन्तः हिमवदुपलक्षिताः इमे दृश्यमानाः सर्वे पर्वताः यस्य प्रजापतेः महित्वा महत्त्वं माहात्म्यमैश्वर्यमिति आहुः । तेन सृष्टत्वात्तद्रूपेणावस्थानाद्वा । तथा रसया। रसो जलम् । तद्वती रसा नदी ॥ अर्शआदित्वादच् ॥ जातावेकवचनम्। रसाभिर्नदीभिः सह समुद्रम् । पूर्ववदेकवचनम् । सर्वान् समुद्रान् यस्य महाभाग्यमिति आहुः कथयन्ति सृष्ट्यभिज्ञाः । यस्य च इमाः प्रदिशः प्राच्यारम्भा आग्नेय्याद्याः कोणदिश ईशितव्याः । तथा बाहू । वचनव्यत्ययः । बाहवो भुजाः । भुजवत्प्राधान्ययुक्ताः प्रदिशश्च यस्य स्वभूताः । तस्में कस्मै इत्यादि समानं पूर्वेण ॥
“Through whose greatness these snow-clad (mountains exist), whose property men call the ocean withthe rivers, whose are these quarters of space, who are the two arms -- let us offer worship with an oblation to thedivine Ka.”
His, through his might, are these snow-covered mountains, and men call sea and Rasa his possession:
His arms are these, his are these heavenly regions. What God shall we adore with our oblation?
Whose are these snow-covered mountains [=the Himalayas] in their greatness; whose is the sea together with the world-stream, they say;
whose are these directions, whose (their) two arms [=the zenith and
nadir?]— – Who is the god to whom we should do homage with our oblation?
In dessen Macht die schneebedeckten Berge, das Meer, der Weltstrom sind nach sichrer Kunde; Dess beide Arme alle Welt umfassen, wem sollen wir als Gott mit Opfer dienen?
Durch dessen Macht jene Schneeberge sind, durch dessen Macht, wie sie sagen, der Ozean samt der Rasa ist, durch dessen Macht diese Himmelsgegenden dessen beide Arme sie sind. - Wer ist der Gott, dem wir mit Opfer dienen sollen?
Чьим могуществом (существуют) эти снежные (горы),
Чей, (как) говорят, океан вместе с Расой,
Чьи эти стороны света, чьи руки (они образуют) –
Какого бога мы почтили жертвенным возлиянием?
येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ळ्हा येन॒ स्व॑ स्तभि॒तं येन॒ नाक॑: । यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मान॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
येन॑ । द्यौः । उ॒ग्रा । पृ॒थि॒वी । च॒ । दृ॒ळ्हा । येन॑ । स्वरिति॑ स्वः॑ । स्त॒भि॒तम् । येन॑ । नाकः॑ । यः । अ॒न्तरि॑क्षे । रज॑सः । वि॒ऽमानः॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
येन प्रजापतिना द्यौः अन्तरिक्षम् उग्रा उद्गूर्णविशेषगहनरूपा वा । पृथिवी भूमिः च दृळ्हा येन स्थिरीकृता । स्वः स्वर्गश्च येन स्तभितं स्तब्धं कृतम् । यथाधो न पतति तथोपरि अवस्थापितमित्यर्थः । ग्रसितस्कभितस्तभित०' इति निपात्यते ॥ तथा नाकः आदित्यश्च येन अन्तरिक्षे स्तभितः । यः च अन्तरिक्षे रजसः उदकस्य विमानः निर्माता । तस्मै कस्मै इत्यादि गतम् ॥ ॥ ३ ॥
“By whom the sky was made profound and the earth solid, by whom heaven and the solar sphere werefixed, who was the measure of the water in the firmament -- let us offer worship with an oblation to the divine Ka.”
By him the heavens are strong and earth is stedfast, by him light's realm and sky-vault are supported:
By him the regions in mid-air were measured. What God shall we adore with our oblation?
By whom the mighty heaven and earth were made firm; by whom the sun was steadied, by whom the firmament;
who was the one measuring out the airy realm in the midspace— – Who is the god to whom we should do homage with our oblation?
Durch den der Himmel stark ist, fest die Erde, der Aetherraum, des Himmels Dom gestützt ist, Der in der Luft den weiten Kaum durchmessen, wem sollen wir als Gott mit Opfer dienen?
Durch den der gewaltige Himmel und die Erde gefestigt ist, durch den die Sonne gestützt wird und das Firmament, der in der Luft den Raum durchdringt. - Wer ist der Gott, dem wir mit Opfer dienen sollen?
Кем грозно небо, кем тверда земля,
Кем установлено солнце, кем – небосвод,
Кто в воздухе измеряет пространство –
Какого бога мы почтили жертвенным возлиянием?
यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने । यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यम् । क्रन्द॑सी॒ इति॑ । अव॑सा । त॒स्त॒भा॒ने इति॑ । अ॒भि । ऐक्षे॑ताम् । मन॑सा । रेज॑माने । यत्र॑ । अधि॑ । सूरः॑ । उत्ऽइ॑तः । वि॒ऽभाति॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
क्रन्दितवान् रोदितवाननयोः प्रजापतिरिति क्रन्दसी द्यावापृथिव्यौ । श्रूयते हि -- यदरोदीत्तदनयो रोदस्त्वम् ' (तै. ब्रा. २, २. ९. ४ ) इति । ते अवसा रक्षणेन हेतुना लोकस्य रक्षणार्थं तस्तभाने प्रजापतिना सृष्टे लब्धस्थैर्ये सत्यौ यं प्रजापतिं मनसा बुद्ध्या अभ्यैक्षेताम् आवयोर्महत्त्वमनेन इत्यभ्यपश्येताम् ॥ ‘ ईक्ष दर्शने '। लङि अडादित्वादाद्युदात्तः॥ कीदृश्यौ द्यावापृथिव्यौ । रेजमाने राजमाने दीप्यमाने ॥ आकारस्य व्यत्ययेनैत्वम् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । यद्वा। लिटः कानच् । ‘ फणां च सप्तानाम् ' (पा. सू. ६. ४. १२५) इत्येत्वाभ्यासलोपौ। ‘ छन्दस्युभयथा ' इति सार्वधातुकत्वाच्छप् । अत एव ‘ अभ्यस्तानामादिः इत्याद्युदात्तत्वम् ॥ यत्राधि यस्मिन्नाधारभूते प्रजापतौ सूरः . सूर्यः उदितः उदयं प्राप्तः सन् विभाति प्रकाशते ॥ उत्पूर्वादेतेः कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥ तस्मै कस्मै इत्यादि सुज्ञानम् ॥
“Whom heaven and earth established by his protection, and shining brightly, regarded with their mind,in whom the risen sun shines forth -- let us offer worship with an oblation to the divine Ka.”
To him, supported by his help, two armies embattled look while trembling in their spirit,
When over them the risen Sun is shining. What God shall we adore with our oblation?
Toward whom the two battle lines [=heaven and earth] looked, steadied with his help, though trembling in mind,
(those) upon which the risen sun radiates. – Who is the god to whom we should do homage with our oblation?1594 X.122
Auf dessen Schutz vertrauend beide Schlachtreihn auf ihn hinblicken zitternd in dem Herzen, Dort wo die Sonne aufgegangen leuchtet, wem sollen wir als Gott mit Opfer dienen?
Auf den die beiden Heerhaufen, die durch seinen Beistand eine Stütze bekamen, im Geiste bebend hinblickten, auf den gestützt die aufgegangene Sonne ihr Licht ausstrahlt. - Wer ist der Gott, dem wir mit Opfer dienen sollen?
На кого взирали с трепетом в душе
Два войска, поддерживаемые (его) помощью,
На кого ярко светит взошедшее солнце –
Какого бога мы почтили жертвенным возлиянием?
आपो॑ ह॒ यद्बृ॑ह॒तीर्विश्व॒माय॒न्गर्भं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् । ततो॑ दे॒वानां॒ सम॑वर्त॒तासु॒रेक॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
आपः॑ । ह॒ । यत् । बृ॒ह॒तीः । विश्व॑म् । आय॑न् । गर्भ॑म् । दधा॑नाः । ज॒नय॑न्तीः । अ॒ग्निम् । ततः॑ । दे॒वाना॑म् । सम् । अ॒व॒र्त॒त॒ । असुः॑ । एकः॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
बृहतीः बृहत्यो महत्यः ॥ जसि वा छन्दसि ' इति पूर्वसवर्णदीर्घः । ‘ बृहन्महतो रुपसंख्यानम् ' इति ङीप उदात्तत्वम् ॥ अग्निम्। उपलक्षणमेतत् । अग्न्युपलक्षितं सर्वं वियदादि भूतजातं जनयन्तीः जनयन्त्यः तदर्थं गर्भं हिरण्मयाण्डस्य गर्भभूतं प्रजापतिं दधानाः धारयन्त्यः आपो ह आप एव विश्वमायन् सर्वं जगत् व्याप्नुवन् यत् यस्मात् ततः तस्माद्धेतोः देवानां देवादीनां सर्वेषां प्राणिनाम् असुः प्राणभूतः एकः प्रजापतिः समवर्तत समजायत । यद्वा । यत् यं गर्भं दधाना आपो विश्वात्मनावस्थितः ततो गर्भभूताः प्रजापतेर्देवादीनां प्राणात्मको वायुरजायत । अथवा । यत् । लिङ्गवचनयोर्व्यत्ययः । उक्तलक्षणा या आपो विश्वमावृत्य स्थिताः ततस्ताभ्योऽद्भ्यः सकाशादेकोऽद्वितीयोऽसुः प्राणात्मकः प्रजापतिः समवर्तत निश्चक्राम। तस्मै कस्मै इत्यादि गतम् ॥
“When the vast waters overspread the universe containing the germ and giving birth to Agni, then wasproduced the one breath of the gods -- let us offer worship with an oblation to the divine Ka.”
What time the mighty waters came, containing the universal germ, producing Agni,
Thence sprang the Gods' one spirit into being. What God shall we adore with our oblation?
When the lofty waters came, receiving everything as an embryo and giving birth to the fire,
then the life of the gods evolved alone— – Who is the god to whom we should do homage with our oblation?
Erst als die hehren Wasser, Agni zeugend und alle Frucht des Leibes tragend kamen, Da erst erstand der Lebenshauch der Götter, wem sollen wir als Gott mit Opfer dienen?
Als da die hohen Gewässer kamen, das All als Keim empfangend, den Agni erzeugend, da entstand er daraus, der alleinige Lebensgeist der Götter. - Wer ist der Gott, dem wir mit Opfer dienen sollen?
Когда же пришли высокие воды,
Вбирая в себя все как зародыш, порождая Агни,
Он возник из этого как единая жизненная сила богов -
Какого бога мы почтили жертвенным возлиянием?
यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नय॑न्तीर्य॒ज्ञम् । यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यः । चि॒त् । आपः॑ । म॒हि॒ना । प॒रि॒ऽअप॑श्यत् । दक्ष॑म् । दधा॑नाः । ज॒नय॑न्तीः । य॒ज्ञम् । यः । दे॒वेषु॑ । अधि॑ । दे॒वः । एकः॑ । आसी॑त् । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
यज्ञं यज्ञोपलक्षितं विकारजातं जनयन्तीः उत्पादयन्तीः तदर्थं दक्षं प्रपञ्चात्मना वर्धिष्णुं प्रजापतिमात्मनि दधानाः धारयित्रीः ॥ दधातेर्हेतौ शानच् । ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ ईदृशीः आपः । व्यत्ययेन प्रथमा । अपः प्रलयकालीनाः महिना महिम्ना । छान्दसो मलोपः। स्वमाहात्म्येन यश्चित् यश्च प्रजापतिः पर्यपश्यत् परितो दृष्टवान् यः च देवेष्वधि देवेषु मध्ये देवः तेषामपीश्वरः सन् एकः अद्वितीयः आसीत् भवति ॥ अस्तेश्छान्दसो लङ। ' अस्तिसिचोऽपृक्ते ' (पा. सू. ७. ३. ९६ ) इतीडागमः ॥ तस्मै कस्मै इत्यादि गतम् ॥
“He who by his might beheld the waters all around containing the creative power and giving birth tosacrifice, he who among the gods was the one supreme god -- let us offer worship with an oblation to the divineKa.”
He in his might surveyed the floods containing productive force and generating Worship.
He is the God of gods, and none beside him. What God shall we adore with our oblation?
Who by his greatness surveyed the waters receiving (ritual) skill (as an embryo) and giving birth to the sacrifice;
who, the god over gods, alone existed. – Who is the god to whom we should do homage with our oblation?
Der auch die Wasser mächtig überschaute, die kräftig wurden und das Opfer zeugten, Ab ein'ger Gott die Götterschar beherrschte, wem sollen wir als Gott mit Opfer dienen?
Der in seiner Größe sogar die Gewässer überschaute, die den Daksa empfingen und das Opfer erzeugten, welcher der alleinige Gott über den Göttern war. - Wer ist der Gott, dem wir mit Opfer dienen sollen?
Кто в (своем) величии охватывал взором воды,
Зачинающие Дакшу, порождающие жертву,
Кто был единственным богом над богами –
Какого бога мы почтили жертвенным возлиянием?
मा नो॑ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं॑ स॒त्यध॑र्मा ज॒जान॑ । यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
मा । नः॒ । हिं॒सी॒त् । ज॒नि॒ता । यः । पृ॒थि॒व्याः । यः । वा॒ । दिव॑म् । स॒त्यऽध॑र्मा । ज॒जान॑ । यः । च॒ । अ॒पः । च॒न्द्राः । बृ॒ह॒तीः । ज॒जान॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
स प्रजापतिः नः अस्मान् मा हिंसीत् मा बाधताम् । यः पृथिव्याः भूमेः जनिता जनयिता स्रष्टा । 'जनिता मन्त्रे ' इति णिलोपो निपात्यते । 'उदात्तयणो हल्पूर्वात् ' इति पृथिवीशब्दाद्विभक्तेरुदात्तत्वम् ॥ यो वा यश्च सत्यधर्मा सत्यमवितथं धर्म जगतो धारणं यस्य स तादृशः प्रजापतिः दिवम् अन्तरिक्षोपलक्षितान् सर्वान् लोकान् जजान जनयामास ॥ ‘ जनी प्रादुर्भावे '। णिचि वृद्धौ ‘जनीजॄष्क्नसुरञ्जः० ' इति मिरवात् ‘ मिता हुस्वः' इति हुस्वत्वम् । ततो लिटि ‘ °अमन्त्रे (पा. सू. ३. १. ३५) इति निषेधादाम्प्रत्ययाभावे तिपो णलि वृद्धौ ‘ लिति ' इति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥ यश्च बृहतीः महतीः चन्द्राः आह्लादिनीः अपः उदकानि जजान जनयामास ॥ ‘ ऊडिदम् ' इत्यादिना अप्शब्दादुत्तरस्य शस उदात्तत्वम् ॥ तस्मै कस्मै इत्यादि गतम् ॥
“May he do us no harm who is the parent of the earth, or who the unerring support (of the world) begatthe heaven, and who genitive rated the vast and delightful waters -- let us offer worship with an oblation to the divineKa.”
Neer may he harm us who is earth's Begetter, nor he whose laws are sure, the heavens' Creator,
He who brought forth the great and lucid waters. What God shall we adore with our oblation?
Let him not do us harm—he who is the progenitor of earth or who, with foundations that are real, engendered heaven,
and who engendered the gleaming, lofty waters. – Who is the god to
whom we should do homage with our oblation?
Uns thu kein Leid der Schöpfer dieser Erde, er, der nach heil'gem Recht den Himmel zeugte, Und auch die lichten, mächtigen Gewässer, wem sollen wir als Gott mit Opfer dienen?
Nicht möge er uns schädigen, der der Schöpfer der Erde ist, oder der den Himmel erschaffen hat mit gültigen Gesetzen, und der die schimmernden hohen Gewässer erschaffen hat. - Wer ist der Gott, dem wir mit Opfer dienen sollen?
Да не причинит нам вреда (тот), кто родитель земли
Или кто породил небо, (тот,) чьи законы истинны,
И кто породил высокие сверкающие воды –
Какого бога мы почтили жертвенным возлиянием?
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
प्रजा॑ऽपते । न । त्वत् । ए॒तानि॑ । अ॒न्यः । विश्वा॑ । जा॒तानि॑ । परि॑ । ता । ब॒भू॒व॒ । यत्ऽका॑माः । ते॒ । जु॒हु॒मः । तत् । नः॒ । अ॒स्तु॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥
हे प्रजापते त्वत् त्वत्तोऽन्यः कश्चित् एतानि इदानीं वर्तमानानि विश्वा विश्वानि सर्वाणि ॥ ‘ शेश्छन्दसि बहुलम् ' इति शेर्लोपः ॥ जातानि प्रथमविकारभाञ्जि ता तानि सर्वाणि भूतजातानि न परि बभूव न परिगृह्णाति । न व्याप्नोति । त्वमेवैतानि परिगृह्य स्रष्टुं शक्नोषीति भावः । परिपूर्वो भवतिः परिग्रहार्थः । वयं च यत्कामाः यत्फलं कामयमानाः ते तुभ्यं जुहुमः हवींषि प्रयच्छामः तत् फलं नः अस्माकम् अस्तु भवतु । तथा वयं च रयीणां धनानां पतयः ईश्वराः स्याम भवेम ॥ नामन्यतरस्याम् ' इति नाम उदात्तत्वम् ॥ ॥ ४ ॥
हे प्रजापते! त्वदन्यः कश्चिदपि जातानि उत्पन्नानि यान्येतानि विश्वानि लोकजातानि सन्ति ता तानि परिबभूव परितो व्याप्तुं त्वत् त्वत्तोऽन्यः कोऽपि न समर्थः । वयं यत्कामा येन फलकामेन युक्ताः सन्तस्ते तुभ्यं जुहुमः तत्फलं नोऽस्माकमस्तु सिध्यतु । वयं त्यत्प्रसादाद्रयीणां धनानां पतयः स्याम ॥
“No other than you, Prajāpati, has given existence to all these beings; may that object of our desiresfor which we sacrifice to you be ours, may we be the possessors of riches.”
Prajapati! thou only comprehendest all these created things, and none beside thee.
Grant us our hearts' desire when we invoke thee: may we have store of riches in possession.
O Prajapati, none other than thou
Hath encompassed all these beings;
Be that ours for which we sacrifice to thee
May we be lords of wealth.
O Prajapati, none other than thou
Comprehendeth all these creatures [6].
What we seek when we sacrifice to thee, let that be ours;
May we be lords of riches.
O Prajāpati! No one other than you has encompassed all these things that have been born.
Let what we desire as we make oblation to you be ours. We would be lords of riches.
Pradschāpati, kein anderer als du nur hält alle diese Wesen hier umschlungen, Um was wir heischend flehn, das mög' uns werden; wir mögen sein die Herren reicher Schätze.
Prajapati, kein anderer als du umspannt schützend alle diese Geschöpfe. Mit welchem Wunsche wir dir opfern, der werde uns zuteil! Wir möchten Gebieter von Reichtümern sein!
О Праджапати! Никто, кроме тебя,
Не охватил все эти существа.
С каким желанием мы совершаем тебе возлияния, да сбудется оно для нас!
Какого бога мы почтили жертвенным возлиянием?