वसुं॒ न चि॒त्रम॑हसं गृणीषे वा॒मं शेव॒मति॑थिमद्विषे॒ण्यम् । स रा॑सते शु॒रुधो॑ वि॒श्वधा॑यसो॒ऽग्निर्होता॑ गृ॒हप॑तिः सु॒वीर्य॑म् ॥
वसु॑म् । न । चि॒त्रऽम॑हसम् । गृ॒णी॒षे॒ । वा॒मम् । शेव॑म् । अति॑थिम् । अ॒द्वि॒षे॒ण्यम् । सः । रा॒स॒ते॒ । शु॒रुधः॑ । वि॒श्वऽधा॑यसः । अ॒ग्निः । होता॑ । गृ॒हऽप॑तिः । सु॒ऽवीर्य॑म् ॥
वसुं न वासकं सूर्यमिव चित्रमहसं चायनीयतेजस्कमग्निं गृणीषे गृणे स्तौमि ॥ गॄ शब्दे'। क्रैयादिकः । पुरुषव्यत्ययः । प्वादित्वाद्ध्रस्वः ॥ यद्वा । चित्रमहसमिति प्रथमार्थे द्वितीया । न इति संप्रत्यर्थे । संप्रति वासकमग्निमहं चित्रमहाः स्तौमि । कीदृशम् । वामं वननीयं शेवं सुखकरम् अतिथिम् अतिथिवत्पूज्यं यद्वा हविर्वहनाय सततगामिनम् अद्विषेण्यं द्वेष्यरहितम् ॥ द्विषेः ‘कृत्यार्थे तवैकेन्” इति केन्यप्रत्ययः । नञा “ बहुव्रीहौ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् ॥ सः अग्निः शुरुधः शोकस्य रोधयित्रीर्निवारयित्रीः विश्वधायसः क्षीरप्रदानादिना विश्वं सर्वं जगद्धारयन्तीर्गाः सुवीर्यं शोभनवीर्यं च रासते यजमानेभ्यो ददाति ॥ ‘ रा दाने ' । अस्माल्लेट्यडागमः । ‘सिब्बहुलम्' इति सिप् । व्यत्ययेनात्मनेपदम् । विश्वशब्दोपपदाद्दधातेः ‘वहिहाधाञ्भ्यः' इत्यसुन् । ‘ णित्' इत्यनुवृत्तेः आतो युक्चिण्° ' ( पा. सू. ७.३.३३ ) इति युक् । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् ॥ कीदृशोऽग्निः । होता देवानामाह्वाता होमनिष्पादको वा गृहपतिः यजमानगृहाणामीश्वरः ॥ ' गेहे कः' (पा. सू. ३. १. १४४ ) इति ग्रहेः कप्रत्ययः । ‘ ग्रहिज्या' (पा. सू. ६. १. १६ ) इत्यादिना संप्रसारणम् । ' पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । शोभनं वीर्यं यस्येति बहुव्रीहौ ‘ वीरवीर्यौ च' इत्युत्तरपदाद्युदात्तत्वम् ॥
“I glorify him who is of wonderful radiance like the sun, the desirable, the giver of happiness, the guest(of man), the benevolent. He bestows vigour (upon the worshippers); Agni, the remover of sorrow, the sustaineerof all, the invoker (of the gods), the lord of the mansion.”
I PRAISE the God of wondrous might like Indra, the lovely pleasant Guest whom all must welcome.
May Agni, Priest and Master of the household, give hero strength and all-sustaining riches.
Him, of brilliant might like a Vasu, will I hymn—the precious, kindly guest, not to be despised.
He will bestow all-nourishing riches—Agni the Hotar, the Houselord— and an abundance of heroes.
Wie einen guten reichen Geber preise ich den holden, schönen Gast, der keinem übel will; Er schenk uns Tränke, welche aller Nahrung voll, der Hausherr Agni, er der Priester, Heldenkraft.
Ihn, der wunderbare Herrlichkeit besitzt, wie es einem Vasu, einem Gott zukommt, den lieben, holden, nicht widerwärtigen Gast will ich preisen. Er möge allsättigende Belohnung schenken, Agni der Opferpriester, der Hausherr die Meisterschaft.
Я хочу воспеть (обладающего), как Васу, поразительным блаженством,
Любимого, милого гостя, не настроенного враждебно.
Пусть дарует он всенасыщающие награды,
Агни, хотар, хозяин дома, (и) богатсвто из прекрасных сыновей!
जु॒षा॒णो अ॑ग्ने॒ प्रति॑ हर्य मे॒ वचो॒ विश्वा॑नि वि॒द्वान्व॒युना॑नि सुक्रतो । घृत॑निर्णि॒ग्ब्रह्म॑णे गा॒तुमेर॑य॒ तव॑ दे॒वा अ॑जनय॒न्ननु॑ व्र॒तम् ॥
जु॒षा॒णः । अ॒ग्ने॒ । प्रति॑ । ह॒र्य॒ । मे॒ । वचः॑ । विश्वा॑नि । वि॒द्वान् । व॒युना॑नि । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । घृत॑ऽनिर्निक् । ब्रह्म॑णे । गा॒तुम् । आ । ई॒र॒य॒ । तव॑ । दे॒वाः । अ॒ज॒न॒य॒न् । अनु॑ । व्र॒तम् ॥
हे अग्ने जुषाणः प्रीयमाणस्त्वं मे मम वचः वचनं स्तोत्रं प्रति हर्य कामयस्व । ‘ हर्य गतिकान्त्योः ' । तथा हे सुक्रतो शोभनकर्मन् शोभनप्रज्ञ वा त्वं विश्वानि सर्वाणि वयुनानि । ज्ञाननामैतत् इह ज्ञातव्ये वर्तते । ज्ञातव्यान्यर्थजातानि विद्वान् जानन् वर्तसे । हेतौ शतृप्रत्ययः । यतो जानासि ततो हतोर्मद्वचनं कामयस्वेत्यर्थः । हे घृतनिर्णिक् घृतेनाज्येन निर्णिज्यमान पुष्यमाणशरीर । ‘ णिजिर् शौचपोषणयो:'। यद्वा । निर्णिगिति रूपनाम । दीप्तरूपाग्ने ब्रह्मणे ब्राह्मणाय यजमानाय गातुं गातव्यं ज्ञातव्यं वा यज्ञम् एरय आगमय । तव व्रतं त्वदीयं यज्ञकर्म अनु पश्चात् देवाः इन्द्रादयः सर्वे अजनयन् । यजमानाय फलानि जनयन्ति । अतस्त्वदीयं यज्ञं यजमानाय प्रापयेत्यर्थः ॥ लक्षणेऽनोः कर्मप्रवचनीयत्वम् । व्रतमिति कर्मप्रवचनीययुक्त इति द्वितीया । जनेर्ण्यन्ताच्छान्दसो लङ्। ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च ' इति मित्त्वात् ‘मितां ह्रस्वः' इति ह्रस्वत्वम् ॥
“Accept, Agni, being well plural ased, my praises, author of great deeds, (you are) cognizant of all objectsof knowledge; anointed with butter, stimulate the movements of the Brāhmaṇa; the gods produce (rewards)after your worship.”
O Agni, graciously accept this song of mine, thou passing-wise who knowest every ordinance.
Enwrapped in holy oil further the course of prayer: the Gods bestow according to thy holy law.
Taking pleasure, Agni, delight in my speech, knowing all the (ritual) patterns, o very effective one.
You with your cloak of ghee—set the course for the sacred formulation. Following your commandment the gods begot (it).
Befriedigt, Agni, nimm entgegen meinen Spruch, o kunstgeübter, kennend alle Liederkunst, In Schmalz gekleidet schaff dem Beter gute Bahn, auf deinen Antrieb hat gewirkt der Götter Schar.
Agni nimm meine Rede gut auf und erfreue dich daran, der du alle Regeln kennst, du Ratreicher! In Schmalz gekleidet schaffe der feierlichen Rede den rechten Weg! Nach deiner Anordnung haben es die Götter erschaffen.
Довольный, о Агни, прими благосклонно мою речь,
О прекрасный силой духа, знающий все правила!
В праздничном наряде из жира создай удачный путь для священного слова!
Боги порождали (все) по твоему завету.
स॒प्त धामा॑नि परि॒यन्नम॑र्त्यो॒ दाश॑द्दा॒शुषे॑ सु॒कृते॑ मामहस्व । सु॒वीरे॑ण र॒यिणा॑ग्ने स्वा॒भुवा॒ यस्त॒ आन॑ट् स॒मिधा॒ तं जु॑षस्व ॥
स॒प्त । धामा॑नि । प॒रि॒ऽयन् । अम॑र्त्यः । दाश॑त् । दा॒शुषे॑ । सु॒ऽकृते॑ । म॒म॒ह॒स्व॒ । सु॒ऽवीरे॑ण । र॒यिणा॑ । अ॒ग्ने॒ । सु॒ऽआ॒भुवा॑ । यः । ते॒ । आन॑ट् । स॒म्ऽइधा॑ । तम् । जु॒ष॒स्व॒ ॥
हे अग्ने सप्त सप्तसंख्याकानि धामानि स्थानानि पृथिव्यादिलोकात्मकानि परियन् परितो गच्छन् अमर्त्यः मरणधर्मरहितस्त्वं यो यजमानः पुरोडाशादीनि हवींषि दाशत् प्रयच्छति तस्मै दाशुषे दत्तवते सुकृते सुष्ठु यागं कृतवते मामहस्व । अपेक्षितं धनं ददस्व । महतिर्दानकर्मा ॥ ‘ सुकर्मपाप' (पा. सू. ३. २. ८९ ) इत्यादिना सुपूर्वात्कृञो भूते काले क्विप् ॥ यः च यजमानः समिधा समिन्धनसाधनेनेध्मेन हे अग्ने ते त्वाम् आनट् प्राप्नोति ॥ नशतिर्गतिकर्मा । अस्माच्छान्दसो लङ् । 'बहुलं छन्दसि' इति शपो लुक् । 'छन्दस्यपि दृश्यते' इत्याडागमः । अश्नोतेर्वा व्यत्ययेन श्नम् ॥ तं यजमानं सुवीरेण । शोभनवीराः पुत्रा यस्य ॥ ‘ वीरवीर्यौ च इत्युत्तरपदाद्युदात्तत्वम् ॥ तादृशेन स्वाभुवा सुष्ठु आ समन्ताद्भूष्णुना वर्धिष्णुना रयिणा धनेन दातव्येन सार्धं जुषस्व ॥
“Traversing the seven regions (of the universe), immortal Agni, bestow wealth, giving liberally to thepious liberal giver. Gratify with easily obtainable riches, together with fair offspring, him who feeds you with fueḷ”
Immortal, wandering round the seven stations, give, a liberal Giver, to the pious worshipper,
Wealth, Agni, with brave sons and ready for his use: welcome the man who comes with fuel unto thee.
As you, the immortal, circle the seven domains, as you do pious work for the pious, be generous to the one who performs (rituals) well
with wealth rich in heroes ready to hand, o Agni. Whoever has reached toward you with a kindling stick, take pleasure in him.
Durchwandernd sieben Stätten als Unsterblicher, beschenk, o Agni, hold den frommen Huldiger Mit heldenreichem Gute, das zur Hand ihm sei, und sei du freundlich dem, der dir mit Brennholz naht.
Wenn du, der Unsterbliche, die sieben Formen durchläufst, und wenn du dem frommen Spender spendest, so zeige dich freigebig durch einen recht diensamen Schatz an Meistern, o Agni! Wer zu dir mit Brennholz gekommen ist, an dem habe Wohlgefallen!
Обходя вокруг семи мест как бессмертный,
Почитая благочестивого почитателя (своего), осчастливь (нас),
О Агни, богатством из прекрасных сыновей, очень нужным!
Радуйся тому, кто пришел к тебе с дровами!
य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तं ह॒विष्म॑न्त ईळते स॒प्त वा॒जिन॑म् । शृ॒ण्वन्त॑म॒ग्निं घृ॒तपृ॑ष्ठमु॒क्षणं॑ पृ॒णन्तं॑ दे॒वं पृ॑ण॒ते सु॒वीर्य॑म् ॥
य॒ज्ञस्य॑ । के॒तुम् । प्र॒थ॒मम् । पु॒रःऽहि॑तम् । ह॒विष्म॑न्तः । ई॒ळ॒ते॒ । स॒प्त । वा॒जिन॑म् । शृ॒ण्वन्त॑म् । अ॒ग्निम् । घृ॒तऽपृ॑ष्ठम् । उ॒क्षण॑म् । पृ॒णन्त॑म् । दे॒वम् । पृ॒ण॒ते । सु॒ऽवीर्य॑म् ॥
यज्ञस्य यागस्य केतुं प्रज्ञापकं प्रथमं सर्वेषु देवेषु मुख्यं प्रथमस्थानं वा पुरोहितं पुरतो हितकारिणम् । यद्वा । पुरस्तात् पूर्वस्यां दिश्याहवनीयरूपेण निहितम् ॥ ‘ पूर्वाधरा' (पा. सू. ५. ३. ३९ ) इत्यादिना पूर्वशब्दादसिःप्रत्ययः । तत्संनियोगेन प्रकृतेः पुरादेशश्च । ' तद्धितश्चासर्वविभक्तिः ' ( पा. सू. १. १. ३८) इत्यव्ययसंज्ञायां ‘ पुरोऽव्ययम् ' ( पा. सू. १, ४. ६७ ) इति गतिसंज्ञा । धाञः कर्मणि निष्ठा । दधातेर्हिः । ततः समासे ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥ वाजिनं बलवन्तमन्नवन्तं वा शृण्वन्तम् अस्मत्स्तुतीः श्रोत्रेण जानन्तं घृतपृष्ठं दीप्तपृष्ठं दीप्ताङ्गम् उक्षणं यागद्वारेण वृष्टेः संभक्तारं यद्वा सेचनसमर्थं युवानं पृणते हविर्भिः प्रीणयित्रे यजमानाय ॥ ‘ पृण प्रीणने ' । तौदादिकः । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थी ॥ हविर्भिः प्रीणयन्तं यजमानं पृणन्तं धनैः प्रीणयन्तम् । यद्वा । पृणतिर्दानकर्मा । हवींषि ददते यजमानाय पृणन्तं धनानि प्रयच्छन्तम् । सुवीर्यं शोभनवीर्योपेतं देवं द्योतमानं दानादिगुणयुक्तं वा एवंगुणविशिष्टम् अग्निं हविष्मन्तः हविर्भिर्युक्ताः सप्त होतृप्रमुखा वषट्कर्तारः ईळते स्तुवन्ति ॥ ‘ ईड स्तुतौ' । आदादिकः ॥
“The seven (priests) bearing oblations worship Agni, the emblem of sacrifice, the first of the gods, thefamily priest, the possessor of food, the hearer (of our prayers), the anointed with butter, the shedder of moisture,propitiating the worshipper who propitiates him, divine, endowed with excellent might.”
The seven who bring oblations worship thee, the Strong, the first, the Great Chief Priest, Ensign of sacrifice,
The oil-anointed Bull, Agni who hears, who sends as God full hero strength to him who freely gives.
The beacon of the sacrifice, the foremost one set in front do the seven (priests) offering oblations reverently invoke as prizewinner—
Agni who hears them, the bull with ghee on his back, the god who gives to the giver an abundance of heroes.
Den ersten Priester, der des Opfers Fahne ist, den starken Agni flehn die sieben Opfrer an, Ihn, der erhört den Stier, dess Rücken Butter trägt, der Heldenkräfte schenkt als Gott dem schenkenden.
Des Opfers Fahne und ersten Bevollmächtigten, den Lohnbringer rufen die sieben Priester Opfergaben bringend an, den erhörenden Agni, den Stier mit Schmalz auf dem Rücken, den Gott, der dem Spender die Meisterschaft spendet.
Знамя жертвы, первого пурохиту
Призывают с жертвенными возлияниями семеро (жрецов), приносящего награду,
Прислушивающегося Агни, жирноспинного, быка,
Бога, дарящего богатство из прекрасных сыновей тому, кто дарит.
त्वं दू॒तः प्र॑थ॒मो वरे॑ण्य॒: स हू॒यमा॑नो अ॒मृता॑य मत्स्व । त्वां म॑र्जयन्म॒रुतो॑ दा॒शुषो॑ गृ॒हे त्वां स्तोमे॑भि॒र्भृग॑वो॒ वि रु॑रुचुः ॥
त्वम् । दू॒तः । प्र॒थ॒मः । वरे॑ण्यः । सः । हू॒यमा॑नः । अ॒मृता॑य । म॒त्स्व॒ । त्वाम् । म॒र्ज॒य॒न् । म॒रुतः॑ । दा॒शुषः॑ । गृ॒हे । त्वाम् । स्तोमे॑भिः । भृग॑वः । वि । रि॒रु॒चुः॒ ॥
हे अग्ने त्वं दूतः देवानां दूतकर्मणि नियुक्तः प्रथमः मुख्यः प्रथितः प्रख्यातो वा वरेण्यः संभजनीयश्चासि । सः त्वम् अमृताय अमरणाय तदर्थं नोऽस्माभिः हूयमानः हविषा तर्प्यमाणो वा सन् मत्स्व तृप्यस्व ॥ ‘मदी हर्षे' । छान्दसो विकरणस्य लुक् ॥ अपि च त्वां मध्यमस्थाने वैद्यतरूपेण वर्तमानं मरुतः तत्रत्या देवगणाः मर्जयन् मार्जयन्ति अलंकुर्वन्ति । तथा दाशुषः हवींषि दत्तवतो यजमानस्य गृहे स्तोमेभिः स्तोमैः स्तोत्रैः भृगवः भृगुगोत्रा ऋषयस्त्वां वि रुरुचुः विशेषेण दीपयन्ति ॥ भृगुशब्दादुत्तरस्य तद्धितस्य ‘अत्रिभृगुकुत्स°' (पा. सू. २.४.६५) इत्यादिना बहुषु लुक् । रुरुचुः । ‘ रुच दीप्तौ' । अस्माच्छान्दसो लिट् ॥ ॥ ५ ॥
“You are the chief and most excellent messenger; do you, invoked by us to partake of the ambrosia,become exhilarated; the Maruts decorated you in the dwelling of the donor of the oblation; the Bhṛgus haveglorified you with hymns.”
First messenger art thou, meet for election: drink thou thy fill invited to the Anirta,
The Maruts in the votary's house adorned thee; with lauds the Bhrgus gave thee light and glory.
You are the foremost messenger, worthy to be chosen. Being summoned for immortal (soma?), become exhilarated (on it).
You did the Maruts groom in the house of the pious; you did the Bhr̥gus illuminate with praises.
Der erste Bote bist du, den man gern erwählt, berausche dich gerufen zu dem Göttertrank; Dich schmückten aus die Maruts in des Frommen Haus, dich zündeten die Bhrigu's an mit Lobgesang.
Du wardst der erste wählbare Bote. Ergötze dich, wann du für den Unsterblichen gerufen wirst! Dich putzen die Marut im Hause des Opferers, dich haben die Bhrigu´s durch ihre Lobgesänge erleuchtet.
Ты вестник, первый, желанный.
Радуйся, когда (тебя) зовут для мира бессмертных!
Тебя начищают Маруты в доме почитателя (твоего).
Тебя Бхригу восхвалениями заставили ярко засверкать.
इषं॑ दु॒हन्त्सु॒दुघां॑ वि॒श्वधा॑यसं यज्ञ॒प्रिये॒ यज॑मानाय सुक्रतो । अग्ने॑ घृ॒तस्नु॒स्त्रिॠ॒तानि॒ दीद्य॑द्व॒र्तिर्य॒ज्ञं प॑रि॒यन्त्सु॑क्रतूयसे ॥
इष॑म् । दु॒हन् । सु॒ऽदुघा॑म् । वि॒श्वऽधा॑यसम् । य॒ज्ञ॒ऽप्रिये॑ । यज॑मानाय । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । अग्रे॑ । घृ॒तऽस्नुः॑ । त्रिः । ऋ॒तानि॑ । दीद्य॑त् । व॒र्तिः । य॒ज्ञम् । प॒रि॒ऽयन् । सु॒क्र॒तु॒ऽय॒से॒ ॥
हे सुक्रतो सुकर्मन् शोभनप्रज्ञ व अग्ने यज्ञप्रिये यज्ञैर्हविर्भिर्देवान् प्रीणयित्रे यजमानाय विश्वधायसं विश्वस्य सर्वस्य धारयित्रीं सुदुघां दोग्धुं सुशकां यज्ञरूपिणीं गाम् इषम् इष्यमाणं यागफलरूपं पयः दुहन क्षारयन् तथा घृतस्नुः घृतेनाज्येन प्रस्नातः ॥ स्नातेरौणादिकः कुप्रत्ययः॥ यद्वा । घृतो दीप्त: स्नुः सानुः समुच्छ्रितो ज्वालासमूहो यस्य स तथोक्तः ॥ ‘ पदादिषु मांस्पृत्स्नूनामुपसंख्यानम्' (पा. सू. ६. १. ६३. १) इति सानुशब्दस्य स्नुभावः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥ ईदृशस्त्वं त्रिः त्रिवारमावृत्तानि ऋतानि सत्यभूतानि पृथिव्यादीनि त्रीणि स्थानानि । यद्वा गार्हपत्यादीनि स्थानानि दीद्यत् दीपयन वर्तिः सर्वं यज्ञगृहं सर्वमनुष्ठीयमानं यागं च परियन् परितो गच्छन् तत्तद्यज्ञगृहं तं तं यज्ञं च प्राप्नुवन् सुक्रतूयसे । शोभनं क्रतुं यज्ञमात्मन इच्छसि । यद्वा । शोभनः क्रतुर्यस्यासौ सुक्रतुर्यजमानः। स इवाचरसि । स यथा सम्यगनुष्ठाने प्रवर्तते एवं त्वमपि स्वयमेव यागस्य सम्यग्निष्पत्त्यर्थं प्रवर्तस इत्यर्थः ॥।
“Milking the easily milked cow (of sacrifice) of her all-sustaining food, for the benefit of the piousinstitutor of the rite, O Agni, doer of good deeds, anointed with butter, illumining the three regions, presiding(over the hall of sacrifice), going round the sacrifice, you accomplish each holy rite.”
Milking the teeming Cow for all-sustaining food. O Wise One, for the worship-loving worshipper,
Thou, Agni, dropping oil, thrice lighting works of Law, showest thy wisdom circling home and sacrifice.
In milking all-nourishing refreshment out of the good milker for the sacrificer who is pleasing to the sacrifice, o very effective one,
and in making the circuit three times around the truths, around the
sacrifice, while shining ghee-backed, o Agni, you well display your
effective power.
Den reichen Trank ausmelkend, welcher alle nährt, dem Opferer, der Opfer liebt, schön wirkender! Dreimal gehst Agni du ums Opfer fettbedeckt und wirkest schön, erleuchtend des Gesetzes Werk.
Indem du für den opferliebenden Opferer aus der guten Milchkuh allnährende Speise herausmelkst, du Einsichtsvoller, und, o Agni, mit Schmalz auf dem Rücken dreimal, die Opferbräuche beleuchtend, deinen Umgang um das Opfer machst, handelst du wie ein Einsichtsvoller.
Надаивая всенасыщающей жертвенной услады у хорошо доящейся (коровы),
Для жертвователя, любящего жертвоприношение, о прекрасный силой духа
Агни, с жиром на спине трижды освящая обряды,
Совершая круговой обход жертвы, ты действуешь как прекрасный силой духа.
त्वामिद॒स्या उ॒षसो॒ व्यु॑ष्टिषु दू॒तं कृ॑ण्वा॒ना अ॑यजन्त॒ मानु॑षाः । त्वां दे॒वा म॑ह॒याय्या॑य वावृधु॒राज्य॑मग्ने निमृ॒जन्तो॑ अध्व॒रे ॥
त्वाम् । इत् । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टिषु । दू॒तम् । कृ॒ण्वा॒नाः । अ॒य॒ज॒न्त॒ । मानु॑षाः । त्वाम् । दे॒वाः । म॒ह॒याय्या॑य । व॒वृ॒धुः॒ । आज्य॑म् । अ॒ग्ने॒ । नि॒ऽमृ॒जन्तः॑ । अ॒ध्व॒रे ॥
अस्याः इदानीं दृश्यमानायाः उषसः व्युष्टिषु विवासनेषु प्रभातेषु सत्सु हे अग्ने त्वामित् त्वामेव देवानां दूतं कृण्वानाः कुर्वाणाः मानुषाः मनुष्याः । अयजन्त यजन्ति । सर्वदेवात्मकं त्वामेव यजन्तीत्यर्थः । तथा देवाः अपि त्वां महयाय्याय पूजायै ॥ ‘ मह पूजायाम् । अस्मादौणादिको भाव आय्यप्रत्ययः ॥ आत्मनः पूजार्थं वावृधुः वर्धयन्ति । किं कुर्वन्तः । अध्वरे । ध्वरो हिंसानिमित्तः प्रत्यवायः । तद्रहिते यागे आज्यम् । उपलक्षणमेतत् । आज्योपलक्षितं सर्वं हविः निमृजन्तः त्वयि निमार्जयन्तः । प्रक्षिपन्त इत्यर्थः ॥
“Men worshipped you, Agni, at the opening of the present dawn, appointing you their messenger to thegods; the gods have magnified you for their adoration, sprinkling butter upon you at the sacrifice.”
They who at flushing of this dawn appointed thee their messenger, these men have paid thee reverence.
Gods strengthened thee for work that must be glorified, Agni, while they made butter pure for sacrifice.
Just to you, at the brightenings of this dawn, did the sons of Manu perform sacrifice, on making you their messenger.
You have the gods strengthened to be magnified, rubbing melted butter down (on your body) at the ceremony, o Agni.
Beim ersten Leuchten dieser Morgenröthe dich zum Boten machend ehrten dich die Sterblichen; Die Götter stärkten dich zu grosser Herrlichkeit, zum Opfer bringend reine Butter, Agni, dir.
Dich machten die Menschen bei Aufgang dieser Morgenröte zum Boten und opferten. Dich machten die Götter zu ihrer eigenen Verherrlichung groß, indem sie die Schmelzbutter dem Opfer zuwendeten, o Agni.
Делая тебя вестником при вспышках
Этой зари, люди приносили жертвы.
Тебя усилили боги, чтобы возрадоваться,
Доставляя на обряд, о Агни, расплавленное масло.
नि त्वा॒ वसि॑ष्ठा अह्वन्त वा॒जिनं॑ गृ॒णन्तो॑ अग्ने वि॒दथे॑षु वे॒धस॑: । रा॒यस्पोषं॒ यज॑मानेषु धारय यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
नि । त्वा॒ । वसि॑ष्ठाः । अ॒ह्व॒न्त॒ । वा॒जिन॑म् । गृ॒णन्तः॑ । अ॒ग्ने॒ । वि॒दथे॑षु । वे॒धसः॑ । रा॒यः । पोष॑म् । यज॑मानेषु । धा॒र॒य॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
हे अग्ने विदथेषु । विदन्त्यस्मिन् यष्टव्यान् देवानिति विदथो यज्ञः। तेषु वेधसः कर्मणां विधातारः गृणन्तः स्तुवन्तः वसिष्ठाः वसिष्ठपुत्रा ऋषयः वाजिनम् अन्नवन्तं बलवन्तं वात्वां नि अह्वन्त नितरामाह्वयन् । अस्ताविषुर्वा ॥ ह्वेञो लुङि • निसमुपविभ्यो ह्वः' (पा. सू. १.३. ३०) इत्यात्मनेपदम् । ‘ आत्मनेपदेष्वन्यतरस्याम् ' (पा. सू.३.१.५४ ) इति च्लेरङादेशः । वसिष्ठशब्दाद्विहितस्यापत्यार्थप्रत्ययस्य ' अत्रिभृगुकुत्स' (पा. सू. २. ४. ६५ ) इत्यादिना बहुषु लुक् ॥ स त्वं यजमानेषु अस्मासु रायः धनस्य पोषं पुष्टं धारय अवस्थापय ॥ ‘ ऊडिदम्' इत्यादिना रैशब्दात् षष्ठ्या उदात्तत्वम्। 'षष्ठ्याः पति पुत्र° (पा. सू. ८, ३. ५३ ) इति विसर्जनीयस्य सत्वम् ॥ गतमन्यत् । एकस्मिन्नप्यग्नौ पूजार्थं बहुवचनम् ॥ ॥ ६ ॥
“The pious Vasiṣṭha invoked you, Agni, at the sacrificial meetings, praising you, the mighty one;continue the sustenance of riches among the instrumental tutors of the rite, and do you (gods) ever cherish us withblessings.”
Arrangers in our synods, Agni, while they sang Vasisistha s sons have called thee down, the Potent One.
Maintain the growth of wealth with men who sacrifice. Ye Gods, preserve us with your blessings evermore.
The Vasiṣṭhas have called you down, the prizewinner, as they hymn you, o Agni—the ritual adepts at the rites.
Uphold among the sacrificers the thriving of wealth. – Do you protect us always with your blessings.
Gerufen haben, Agni, die Vasischtha's dich, die Ordner preisend bei dem Fest, den kräftigen, Des Reichthums Mehrung schenke stets den Opferern, ihr Götter, schützt uns stets mit eurem Segen.
Dich, den Lohnbringer, preisend haben die Vasitha´s, die Meister in weisen Reden, angerufen, o Agni. Sichere den Opferherren ihres Reichtums Zunahme! Behütet ihr uns immerdar mit eurem Segen!
Тебя, приносящего награду, позвали Васиштхи,
Воспевающие (тебя), о Агни, устроители обряда на жертвенных раздачах.
Поддержи процветание богатства у жертвователей!
Защищайте вы нас всегда (своими) милостями!