अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ । इ॒मम॒पां सं॑ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ॥
अ॒यम् । वे॒नः । चो॒द॒य॒त् । पृश्नि॑ऽगर्भाः । ज्योतिः॑ऽजरायुः । रज॑सः । वि॒ऽमाने॑ । इ॒मम् । अ॒पाम् । स॒म्ऽग॒मे । सूर्य॑स्य । शिशु॑म् । न । विप्राः॑ । म॒तिऽभिः॑ । रि॒ह॒न्ति॒ ॥
वेनः कान्त एतत्संज्ञो मध्यस्थानो देवः ज्योतिर्जरायुः । ज्योतिर्द्योतमानो मेघो जरायुः । उदरे गर्भो येन वेष्टितोऽवतिष्ठते तज्जरायु । तदिव वेष्टको यस्य स तथोक्तः । मेघमध्ये गर्भवदवस्थित इत्यर्थः । विमाने । विमीयन्ते निर्मीयन्ते अस्मिन्नाप इति विमानमन्तरिक्षम् । रजसः उदकस्य निर्मातर्यन्तरिक्षे स्थितः सन् अयं वेनः पृश्निगर्भाः । पृश्निरादित्यः। तस्य गर्भभूताः । यद्वा । पृश्नयः सप्तोज्ज्वलवर्णाः सूर्यरश्मयः तेषां गर्भभूता अन्तरिक्षस्था अपः चोदयत् । पृथिवीं प्रति प्रेरयति । अपाम् उदकानामान्तरिक्ष्याणां सूर्यस्य च संगमे संगमनेऽन्तरिक्षे स्थितम् इमं वेनं विप्राः मेधाविनः स्तोतारः मतिभिः स्तुतिभिः रिहन्ति । रिहतिरर्चतिकर्मा । अर्चन्ति। पूजयन्ति। स्तुवन्तीत्यर्थः। शिशुं न । यथा बालं पुत्रं मातापित्राद्या बान्धवाः स्तुतिपदैरुपलालयन्ति तद्वत् ॥
“This Vena, enfolded in the membrane of light, urges on (the waters) the germs of the Sun in thefirmament of the water; the sages cherish him at the confluence of the waters, and the sun with endearments likea child.”
SEE, Vena, born in light, hath driven hither, on chariot of the air, the Calves of Prsni.
Singers with hymns caress him as an infant there where the waters and the sunlight mingle.
Vena hath stirred those born of Prśni,
He enveloped in light, in the expanse of the welkin+++(=sky)+++;
Him in the meeting-place of the waters, of the sun,
Like a child, the priests tend with their songs.
This Seeker here spurs on those females whose embryo is the dappled one—he whose afterbirth is light—in the measuring out of the airy realm.
At the union of the waters and the sun, the inspired poets lick him with their thoughts like an infant (calf).
Der lichtumhüllte, holde trieb die Töchter der bunten Wolke an, die Luft durchmessend; Ihn küssen wie ein Kind mit Lied die Sänger, wenn Sonnenglanz sich einigt mit den Wassern.
Dieser Seher treibt die mit dem bunten Stiere Schwangeren an, in Licht gehüllt bei dem Durchmessen des Raumes. Bei der Vereinigung der Gewässer und der Sonne lecken die Redekundigen diesen mit Gebeten wie die Kühe ihr Junges.
Этот Вена подгоняет тех, что беременны пестрым,
(Скрытый) оболочкой из света, когда он меряет пространство.
При соединении вод и солнца его
Лижут молитвами вдохновенные, как (коровы) – теленка.
स॒मु॒द्रादू॒र्मिमुदि॑यर्ति वे॒नो न॑भो॒जाः पृ॒ष्ठं ह॑र्य॒तस्य॑ दर्शि । ऋ॒तस्य॒ साना॒वधि॑ वि॒ष्टपि॒ भ्राट् स॑मा॒नं योनि॑म॒भ्य॑नूषत॒ व्राः ॥
स॒मु॒द्रात् । ऊ॒र्मिम् । उत् । इ॒य॒र्ति॒ । वे॒नः । न॒भः॒ऽजाः । पृ॒ष्ठम् । ह॒र्य॒तस्य॑ । द॒र्शि॒ । ऋ॒तस्य॑ । सानौ॑ । अधि॑ । वि॒ष्टपि॑ । भ्राट् । स॒मा॒नम् । योनि॑म् । अ॒भि । अ॒नू॒ष॒त॒ । व्राः ॥
समुद्द्रवन्त्यस्मादाप इति समुद्रमन्तरिक्षम् । तस्मात् ऊर्मिं जलसमूहम् अयं वेनः उदियर्ति उद्गमयति । अधः पातयतीत्यर्थः। कीदृशः । नभोजाः । नभस्याकाशे ---। इमं वेनमभि शब्दायन्ते । नु स्तुतौ ' । कुटादिः । छान्दसो लुङ् ॥
“The cloud-born Vena send the water from the firmament; the back of the azure (sky) is beheld. Heshone on the summit of the water in heaven; the troops praised their common abode.”
Vena draws up his wave from out the ocean. mist-born, the fair one's back is made apparent,
Brightly he shone aloft on Order's summit: the hosts sang glory to their common birthplace.
The Seeker raises up a wave from the sea. The cloud-born one, the top of the delightful one has been sighted,
as the glint on the back of truth, on its upper surface. (All) the
“brides-to-be” have roared toward the same womb.
Der holde regt die Welle aus dem Meer auf, man sieht des schönen dunstentstiegnen Rücken, Der an des ew'gen hoher Wölbung strahlet, dem gleichen Schoosse jauchzen zu die Scharen.
Aus dem Ozean treibt der Seher die Welle empor; der wolkengeborene Rücken des Lieben ist erschienen, auf dem Rücken im Scheitelpunkt der Opferordnung erglänzend. Die Lockweibchen haben nach dem gemeinsamen Lager geschrieen.
Вена гонит вверх волну из океана.
Показалась спина желанного – (это Вена,) рожденный в облаках, –
Сверкая на вершине, в высшем месте закона.
Женщины приветствовали криками общее ложе.
स॒मा॒नं पू॒र्वीर॒भि वा॑वशा॒नास्तिष्ठ॑न्व॒त्सस्य॑ मा॒तर॒: सनी॑ळाः । ऋ॒तस्य॒ साना॒वधि॑ चक्रमा॒णा रि॒हन्ति॒ मध्वो॑ अ॒मृत॑स्य॒ वाणी॑: ॥
स॒मा॒नम् । पू॒र्वीः । अ॒भि । व॒व॒शा॒नाः । तिष्ठ॑न् । व॒त्सस्य॑ । मा॒तरः॑ । सऽनी॑ळाः । ऋ॒तस्य॑ । सानौ॑ । अधि॑ । च॒क्र॒मा॒णाः । रि॒हन्ति॑ । मध्वः॑ । अ॒मृत॑स्य । वाणीः॑ ॥
पूर्वीः बह्व्यः समानं वेनस्यात्मनश्च साधारणं स्थानं प्राप्य अभि वावशाना: अभितः शब्दायमानाः । यद्वा । तमेव वेनमभिकामयमानाः। वासस्य वत्सस्थानीयस्य वैद्युताग्नेः मातरः मातृभूताः सनीळाः समाननिलया एवंविधा आन्तरिक्ष्या आपः तिष्ठन् तिष्ठन्ति । अपि च ऋतस्य उदकस्य सानावधि सानौ समुच्छ्रितेऽन्तरिक्षस्थाने चक्रमाणाः प्रवर्तमानाः मध्वः मधुरस्य अमृतस्य उदकस्य वाणीः वाण्यः शब्दाः रिहन्ति इमं वेनमर्चन्ति । अलंकुर्वन्तीत्यर्थः ॥
“The many waters occupy a common station, clamouring around like the assembled mothers of the calf;wandering above the summit of the water they utter the praises of the sweet-flavoured ambrosia.”
Full many, lowing to their joint-possession, dwelling together stood the Darling's Mothers.
Ascending to the lofty height of Order, the bands of singers 'sip the sweets of Amrta.
The mothers of the calf, who are many though stemming from the same nest, stand there bellowing [/yearning] toward the same (womb).
Having stridden onto the back of truth, the voices lick at the
immortal honey.
In gleicher Wohnung stehn des Kindes Mütter, und jauchzen zu die vielen ihm, dem einen; Die Scharen schlürfen süssen Thau des Himmels, hinschreitend an des ew'gen Himmels Wölbung.
Des Kalbes viele Mütter aus dem gleichen Neste stehen da, dem gemeinsamen Jungen zubrüllend. Über der Opferordnung Rücken schreitend lecken die Stimmen am süßen Göttertrank.
Многие матери теленка, происходящие из одного гнезда,
Стояли, призывно мыча общему (дитяте).
Вздымаясь к высшему месту закона,
Голоса лижут сладкий напиток бессмертия.
जा॒नन्तो॑ रू॒पम॑कृपन्त॒ विप्रा॑ मृ॒गस्य॒ घोषं॑ महि॒षस्य॒ हि ग्मन् । ऋ॒तेन॒ यन्तो॒ अधि॒ सिन्धु॑मस्थुर्वि॒दद्ग॑न्ध॒र्वो अ॒मृता॑नि॒ नाम॑ ॥
जा॒नन्तः॑ । रू॒पम् । अ॒कृ॒प॒न्त॒ । विप्राः॑ । मृ॒गस्य॑ । घोष॑म् । म॒हि॒षस्य॑ । हि । ग्मन् । ऋ॒तेन॑ । यन्तः॑ । अधि॑ । सिन्धु॑म् । अ॒स्थुः॒ । वि॒दत् । ग॒न्ध॒र्वः । अ॒मृता॑नि । नाम॑ ॥
विप्राः मेधाविनः स्तोतारोऽस्य वेनस्य रूपं जानन्तः अकृपन्त स्तुवन्ति । कृपतिः स्तुतिकर्मा । कथमस्य रूपं जानन्तीत्यत आह । मृगस्य अन्वेषणीयस्य महिषस्य । महन्नामैतत् । महतो वेनस्य घोषं गर्जितलक्षणं मेघस्थं शब्दं हि यस्मात् ग्मन् अभिगच्छन्ति अतस्तदीयं रूपं जानन्तीत्यर्थः ॥ गमेश्छान्दसे लङि • बहुलं छन्दसि ' इति शपो लुक् । 'गमहन' इत्युपधालोपः। ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' ( पा. सू. ६. ४. ७५) इत्यडभावः । अपि च ऋतेन सत्यभूतेन स्तोत्रेण यज्ञेन वा यन्तः तं वेनं गच्छन्तः प्राप्नुवन्तो जनाः सिन्धुं स्यन्दनशीलं जलसमूहम् अधि अस्थुः अधितिष्ठन्ति । तेषां स वेनो वृष्टिं करोतीत्यर्थः । तत्र किं कारणमिति चेत् यतोऽयं गन्धर्वः गवामुदकानां धर्ता वेनः अमृतानि अमरणहेतुभूतानि नाम। उदकनामैतत् । नमनशीलानि उदकानि विदत् वेद जानाति । तस्य वशे वर्तन्त इत्यर्थः । अतस्तद्भक्तानां वृष्टिः सुलभा ॥
“The pious, knowing his form, praised him, for they followed the city of the great deer; approaching hmwith sacrifice, they reached the flowing (water), for the sustainer of the waters knows the ambrosial (fluids).”
Knowing his form, the sages yearned to meet him: they have come nigh to hear the wild Bull's bellow.
Performing sacrifice they reached the river: for the Gandharva found the immortal waters.
Recognizing his form, the inspired poets longed (for him). Because they came toward the cry of the wild buffalo,
approaching with truth they mounted onto the stream. The Gandharva found the immortal names.
Die Sänger flehten, die Gestalt erkennend, hineilend zu des wilden Büffels Donnern, Mit Opfer kommend traten zu dem Strom sie; denn der Gandharve fand die Himmelswasser.
Seine Gestalt erkennend verlangten die Redekundigen nach ihr, denn sie stimmten ein in das Gebrüll des Büffeltieres. Auf rechtem Wege gehend haben sie den Sindhu bestiegen. Der Gandharva fand die unsterblichen Namen.
Зная (его) облик, вдохновенные страстно стремились (к нему):
Ведь они шли на рев дикого буйвола.
Идя правильным путем, они поднялись к реке.
Гандхарва нашел бессмертные имена.
अ॒प्स॒रा जा॒रमु॑पसिष्मिया॒णा योषा॑ बिभर्ति पर॒मे व्यो॑मन् । चर॑त्प्रि॒यस्य॒ योनि॑षु प्रि॒यः सन्त्सीद॑त्प॒क्षे हि॑र॒ण्यये॒ स वे॒नः ॥
अ॒प्स॒राः । जा॒रम् । उ॒प॒ऽसि॒ष्मि॒या॒णा । योषा॑ । बि॒भ॒र्ति॒ । प॒र॒मे । विऽओ॑मन् । चर॑त् । प्रि॒यस्य॑ । योनि॑षु । प्रि॒यः । सन् । सीद॑त् । प॒क्षे । हि॒र॒ण्यये॑ । सः । वे॒नः ॥
अप्सराः अपां सारयित्र्यप्सु क्रीडार्थं सरन्ती वा उपसिष्मियाणा कान्तसमीपमुपगम्येषद्धसन्ती ॥ ‘ स्मिङ् ईषद्धसने ' । छान्दसो लिट् । तस्य 'लिटः कानज्वा ' इति कानच् ॥ ईदृशी योषा स्त्री विद्युद्रूपा जारम् अपां जरयितारम् । यद्वा । जार उपपतिः । स इव प्रियम् । इमं वेनं परमे उत्कृष्टे व्योमन् व्योमन्यन्तरिक्षे बिभर्ति पोषयति। धारयति वा । यथा काचिद्रूपवती योषिज्जारमुपगम्येषद्धसन्ती तं निर्जने स्थले पुष्णाति तद्वदनेन वेनेन विद्युद्रमत इत्यर्थः । प्रियस्य अस्य वेनस्य योनिषु स्थानेषु चरत् । विद्युद्रूपा योषिच्चरति गच्छति । अभिसारिकावृत्त्या स्वयमेव गच्छति । सः च वेनः प्रियः अस्या अनुकूलतमः सन् हिरण्यये हिरण्मये हिरण्मयवद्भास्वरे हितरमणीयरूपे वा पक्षे आत्मनः पक्षभूते मेघे सीदत् सीदति । तया सहोपविशति ॥ ॥ ७ ॥
“The Apsaras, smiling affectionately like a wife at her lover, cherishes him in the highest heaven; shewanders in the abodes of her beloved; he, Vena, being loved, sits, down on his golden wing.”
The Apsaras, the Lady, sweetly smiling, supports her Lover in sublimest heaven.
In his Friend's dwelling as a Friend he wanders: he, Vena, rests him on his golden pinion.
The Apsaras, the maiden smiling coyly at her lover, bears him in the highest distant heaven.
He roamed among the wombs of the dear one [masc.], himself being dear; he sat on a golden wing—he is the Seeker—
Die Apsaras, anlächelnd den Geliebten, die Gattin trägt ihn in dem höchsten Himmel, Der Buhle wandernd zu dem Schooss der Buhlen, der holde setzt sich auf die goldne Stätte.
Die junge Frau, die Apsaras, trägt im höchsten Himmel ihren Buhlen, ihm zulächelnd. Als Liebling geht er im Schoße des Lieben; dieser Seher sitzt auf dem goldenen Flügel.
Юная жена, Апсарас, улыбаясь любовнику,
Несет (его) на высшем небе.
Как любимый бродит он в недрах любимого.
Этот Вена сидит на золотом крыле.
नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तं हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा । हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् ॥
नाके॑ । सु॒ऽप॒र्णम् । उप॑ । यत् । पत॑न्तम् । हृ॒दा । वेन॑न्तः । अ॒भि । अच॑क्षत । त्वा॒ । हिर॑ण्यऽपक्ष॑म् । वरु॑णस्य । दू॒तम् । य॒मस्य॑ । योनौ॑ । श॒कु॒नम् । भु॒र॒ण्युम् ॥
हे वेन त्वा त्वां हृदा हृदयेन मनसा वेनन्तः कामयमानाः स्तोतारः नाके अन्तरिक्षे यत यदा अभ्यचक्षत अभिपश्यन्ति तदानीं त्वम् उप आगच्छसीति शेषः । कथंभूतम् । सुपर्णं शोभनपतनं पतन्तम् अन्तरिक्षे गच्छन्तं हिरण्यपक्षं हिरण्मयाभ्यां पक्षाभ्यामुपेतं वरुणस्य जलाभिमानिनो देवस्य दूतं चारं यमस्य नियामकस्य वैद्युताग्नेः योनौ स्थानेऽन्तरिक्षे शकुनं पक्षिरूपेण वर्तमानं भुरण्यंं भर्तारम् । यद्वा । वृष्टिप्रदानादिना सर्वस्य जगतः पोषकम् ॥ ‘ भुरण धारणपोषणयोः । कण्ड्वादिः । अस्मादौणादिक उप्रत्ययः ॥
“Those desiring you in their hearts contemplated you travelling as a strong-winged bird in the sky, thegolden-winged messenger of Varuṇa, the bird which nourishes (the world) in Yama's dwelling.”
They gaze on thee with longing in their spirit, as on a strong-winged bird that mounteth sky-ward;
On thee with wings of gold, Varuna's envoy, the Bird that hasteneth to the home of Yama.
When they, seeking with their heart, gazed upon you, an eagle flying to the vault,
the golden-winged messenger of Varuṇa, the (omen-)bird fluttering in the womb of Yama.
Als dich den Adler, der am Himmel hinflog, die Menschen sahn mit Sehnsucht in dem Herzen, Varuna's Boten dich mit goldnen Flügeln den Vogel, der zum Sitz des Jama hinflog,
Als sie dich als Vogel zum Himmel fliegen sahen mit dem Herzen schauend, des Varuna goldbeschwingten Boten, im Sitze des Yama den eiligen Vogel;
Когда, алча сердцем, они увидали тебя,
Как орла, летящего в поднебесье,
Златокрылого вестника Варуны,
Птицу, трепещущую в излюбленном месте Ямы:
ऊ॒र्ध्वो ग॑न्ध॒र्वो अधि॒ नाके॑ अस्थात्प्र॒त्यङ्चि॒त्रा बिभ्र॑द॒स्यायु॑धानि । वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं स्व१॒॑र्ण नाम॑ जनत प्रि॒याणि॑ ॥
ऊ॒र्ध्वः । ग॒न्ध॒र्वः । अधि॑ । नाके॑ । अ॒स्था॒त् । प्र॒त्यङ् । चि॒त्रा । बिभ्र॑त् । अ॒स्य॒ । आयु॑धानि । वसा॑नः । अत्क॑म् । सु॒ऽर॒भिम् । दृ॒शे । कम् । स्वः॑ । ण । नाम॑ । ज॒न॒त॒ । प्रि॒याणि॑ ॥
ऊर्ध्वः उपरिदेशे वर्तमानः गन्धर्वः गवामुदकानां धर्ता ॥ ‘ गवि गन् धृञो वः' इति गोशब्दोपपदात् ‘ धृञ् धारणे ' इत्यस्माद्वप्रत्यय उपपदस्य गन्भावश्च ॥ ईदृशो वेनः प्रत्यङ् अस्मत्प्रत्यञ्चनोऽभिमुखः सन् नाके अधि अन्तरिक्षे अस्थात् तिष्ठति । किं कुर्वन् । अस्य आत्मनः स्वभूतानि चित्रा चित्राणि चायनीयान्याश्चर्यभूतानि वा आयुधानि बिभ्रत् धारयन् ॥ बिभर्तेः शतरि ‘ भृञामित् ' इत्यभ्यासस्येत्वम् । नाभ्यस्ताच्छतुः' इति नुम्प्रतिषेधः । ‘ अभ्यस्तानामादिः । इत्याद्युदात्तत्वम् । तथा सुरभिं शोभनम् अत्कम् आत्मीयं व्याप्तं रूपं वसानः सर्वत्राच्छादयन् । किमर्थम् । दृशे दर्शनार्थम् ॥ ‘दृशे विख्ये च ' इति केप्रत्ययान्तो निपात्यते ॥ कम् इति पूरणः । तत्र दृष्टान्तः । स्वर्ण । स्वः शोभनारण आदित्यः । स यथात्मीयं रूपं दर्शनाय सर्वत्राच्छादयति तद्वत् । तदनन्तरं नाम नामानि नमनशीलान्युदकानि प्रियाणि सर्वेषामनुकूलानि जनत जनयति । वृष्टिमुत्पादयतीत्यर्थः ॥
“The Gandharvā stood erect upon the firmament, brandishing towards us his wonderful weapons,investing all in his beautiful diffusive (form), they make them visible, like the sun he genitive rated the precious(rains).”
Erect, to heaven hath the Gandharva mounted, pointing at us his many-coloured weapons;
Clad in sweet raiment beautiful to look on, for he, as light, produceth forms that please us.
The Gandharva stood erect upon the vault, facing outward, bearing his dazzling weapons;
wearing a fragrant cloak, (lovely) to be seen like the sun, he engendered his own dear names.
Da stand am Himmel aufrecht der Gandharve entgegentragend seine bunten Waffen, Gehüllt in duft'gen Mantel schön zu schauen wie Himmelsglanz liess Liebliches er blicken.
Da hat sich der Gandharva über den Himmel emporgehoben, hergewandt, seine bunten Waffen tragend. Er kleidete sich in eine duftige Gewandung wie die Sonne anzusehen und brachte seine lieben Namen zum Vorschein.
Ввысь в поднебесье взмыл Гандхарва,
Обращенный к (небу), неся свое яркое оружие.
Одетый в благоуханную одежду, чтобы (прекрасно) выглядеть,
Как солнце, создает он себе любимые имена.
द्र॒प्सः स॑मु॒द्रम॒भि यज्जिगा॑ति॒ पश्य॒न्गृध्र॑स्य॒ चक्ष॑सा॒ विध॑र्मन् । भा॒नुः शु॒क्रेण॑ शो॒चिषा॑ चका॒नस्तृ॒तीये॑ चक्रे॒ रज॑सि प्रि॒याणि॑ ॥
द्र॒प्सः । स॒मु॒द्रम् । अ॒भि । यत् । जिगा॑ति । पश्य॑न् । गृध्र॑स्य । चक्ष॑सा । विऽध॑र्मन् । भा॒नुः । शु॒क्रेण॑ । शो॒चिषा॑ । च॒का॒नः । तृ॒तीये॑ । च॒क्रे॒ । रज॑सि । प्रि॒याणि॑ ॥
विधर्मन् विधर्मणि विधारकेऽन्तरिक्षे स्थितः द्रप्सः द्रवणशीलः । यद्वा । द्रप्सा उदकबिन्दवः । तद्वान् ॥ अर्शआदित्वादच् । गृध्रस्य गृधो रसानभिकाङ्क्षतः सूर्यस्य चक्षसा तेजसा पश्यन् प्रकाशमानो वेनः यत् यदा समुद्रं समुन्दनशीलं मेघम् अभि जिगाति अभिगच्छति तदानीं भानुः सूर्यः शुक्रेण शुभ्रेण शोचिषा तेजसा तृतीये रजसि लोके चकानः दीप्यमानः प्रियाणि सर्वेषामभीष्टान्युदकानि चक्रे करोति ॥ ॥८॥
“When (Vena as) the drop of rain approaches the firmament, contemplating (all things) with the eye ofthe hawk in the supporting (firmament), then the sun, shining with brilliant radiance, makes the precious(showers) in the third sphere.”
When as a spark he cometh near the ocean, still looking with a vulture's eye to heaven,
His lustre, joying in its own bright splendour, maketh dear glories in the lowest region.
When the (soma-)drop goes to the sea, seeing with the eye of a vulture in the spreading expanse,
the (sun’s) radiance with its bright blaze, finding pleasure (in it [=drop]), has created its own dear (names) in the third realm.
Wenn er als Funke zu dem Meere hingeht, am Himmel blickend mit des Geiers Auge, Dann zeugt sein Strahl, des hellen Lichts sich freuend, am dritten Himmel liebliche Gestalten.
Wenn der Tropfen zum Meere kommt, mit des Geiers Auge in ganzer Ausdehnung ausschauend, da hat die Sonne, mit ihrer hellen Glut begehrt, im dritten Raume ihre lieben Namen angenommen.
Когда капля устремилась к океану,
Взглядом коршуна озирая (всю) ширь вокруг,
(То) солнце, радуясь чистому пламени,
В третьем пространстве приобрело любимые (имена).