अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः । अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि॑न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥
अ॒हम् । रु॒द्रेभिः॑ । वसु॑ऽभिः । च॒रा॒मि॒ । अ॒हम् । आ॒दि॒त्यैः । उ॒त । वि॒श्वऽदे॑वैः । अ॒हम् । मि॒त्रावरु॑णा । उ॒भा । बि॒भ॒र्मि॒ । अ॒हम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒हम् । अ॒श्विना॑ । उ॒भा ॥
अहं सूक्तस्य द्रष्ट्री वागाम्भृणी यद्ब्रह्म जगत्कारणं तद्रूपा भवन्ती रुद्रेभिः रुद्रैरेकादशभिः । इत्थंभावे तृतीया । तदात्मना चरामि । एवं वसुभिः इत्यादौ तत्तदात्मना चरामति योज्यम् । तथा मित्रावरुणा मित्रं च वरुणं च ॥ ‘ सुपां सुलुक्' इति द्वितीयाया आकारः ॥ उभा उभौ अहम् एव ब्रह्मीभूता बिभर्मि धारयामि। इन्द्राग्नी अपि अहम् एव धारयामि । उभा उभौ अश्विना अश्विनावपि अहम् एव धारयामि। मयि हि सर्वं जगच्छुक्तौ रजतमिवाध्यस्तं सद्दृश्यते । माया सच जगदाकारेण विवर्तते । तादृश्या मायाया आधारत्वेनासङ्गस्यापि ब्रह्मण उक्तस्य सर्वस्योत्पतिः ॥
“I proceed with the Rudras, with the Vasus, with the Ādityas, and with the Viśvedevās; I support bothMitra and Varuṇa, Agni and Indra, and the two Aśvinṣ”
I TRAVEL with the Rudras and the Vasus, with the Adityas and All-Gods I wander.
I hold aloft both Varuna and Mitra, Indra and Agni, and the Pair of Asvins.
I roam with the Rudras and the Vasus, I with the Ādityas and the All Gods.
I bear both Mitra and Varuṇa, I Indra and Agni, I both the Aśvins.
Ich wandre mit den Rudra's mit den Vasu's mit den Aditja's und mit allen Göttern, Ich pflege Mitra Varuna, die beiden, ich Indra-Agni, ich die beiden Ritter.
Ich ziehe mit den Rudra´s, mit den Vasu´s, ich mit den Aditya´s und den Allgöttern. Ich trage beide, Mitra und Varuna, ich Indra und Agni, ich die beiden Asvin.
Я двигаюсь с Рудрами, с Васу,
Я – с Адитьями и со Всеми-Богами.
Я несу обоих; Митру и Варуну,
Я – Индру и Агни, я – обоих Ашвинов.
अ॒हं सोम॑माह॒नसं॑ बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षणं॒ भग॑म् । अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒३॒॑ यज॑मानाय सुन्व॒ते ॥
अ॒हम् । सोम॑म् । आ॒ह॒नस॑म् । बि॒भ॒र्मि॒ । अ॒हम् । त्वष्टा॑रम् । उ॒त । पू॒षण॑म् । भग॑म् । अ॒हम् । द॒धा॒मि॒ । द्रवि॑णम् । ह॒विष्म॑ते । सु॒प्र॒ऽअ॒व्ये॑ । यज॑मानाय । सु॒न्व॒ते ॥
आहनसम् आहन्तव्यमभिषोतव्यं सोमं यद्वा शत्रूणामाहन्तारं दिवि वर्तमानं देवतात्मानं सोमम् अहम् एव बिभर्मि । तथा त्वष्टारम् उत अपि च पूषणं भगं च अहम् एव बिभर्मि । तथा हविष्मते हविर्भिर्युक्ताय सुप्राव्ये शोभनं हविर्देवानां प्रापयित्रे तर्पयित्रे ॥ अवतेस्तर्पणार्थात् 'अवितॄस्तृतन्त्रिभ्य ईः' (उ. सू. ३. १५८) इतीकारप्रत्ययः । चतुर्थ्येकवचने यणि ‘उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' इति सुपः स्वरितत्वम् ॥ सुन्वते सोमाभिषवं कुर्वते ॥ ‘ शतुरनुम: इति चतुर्थ्या उदात्तत्वम् ॥ ईदृशाय यजमानाय द्रविण धनं यागफलरूपम् अहम् एव दधामि धारयामि ।
एतच्च ब्रह्मणः फलदातृत्वं फलमत उपपत्तेः ' ( वे. सू. ३. २. ३८) इत्यधिकरणे भगवता भाष्यकारेण समर्थितम् ॥
(“आहनसः । ‘ आहननवन्तो वचनवन्तः । (निरु.४,१५ ) इति यास्कः -ऋ. . ९.७५.५ )
“I support the foe-destroying Soma, Tvaṣṭā, Pūṣan and Bhaga; I bestow wealth upon the instrumental tutorof the rite offering the oblation, deserving of careful protection, pouring forth the libation.”
I cherish and sustain high-swelling Soma, and Tvastar I support, Pusan, and Bhaga.
I load with wealth the zealous sacrificer who pours the juice and offers his oblation
I bear the swollen soma, I Tvaṣṭar and Pūṣan and Bhaga.
I establish wealth for the man offering the oblation, who pursues (his ritual duties) well, who sacrifices and presses.
Den Soma pfleg' ich, der von Säften strotzet, den Tvaschtar ich, den Puschan und den Bhaga Ich schenke Reichthum dem, der Opfer darbringt, dem eifervollen Beter und dem Presser.
Ich trage den stürmischen Soma, ich den Tvastri und Pusan, Bhaga. Ich schaffe dem Opferspender Reichtum, dem Somapressenden, Opfernden, der gut zuzusprechen versteht.
Я несу сому, бьющего через край,
Я – Тваштара, а также Пушана, Бхагу.
Я создаю богатство возливающему жертвенный напиток,
Очень ревностному жертвователю, выжимающему (сому).
अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम् । तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या॑वे॒शय॑न्तीम् ॥
अ॒हम् । राष्ट्री॑ । स॒म्ऽगम॑नी । वसू॑नाम् । चि॒कि॒तुषी॑ । प्र॒थ॒मा । य॒ज्ञिया॑नाम् । ताम् । मा॒ । दे॒वाः । वि । अ॒द॒धुः॒ । पु॒रु॒ऽत्रा । भूरि॑ऽस्थात्राम् । भूरि॑ । आ॒ऽवे॒शय॑न्तीम् ॥
अहं राष्ट्री। ईश्वरनामैतत् । सर्वस्य जगत ईश्वरी । तथा वसूनां धनानां संगमनी संगमयित्र्युपासकानां प्रापयित्री । चिकितुषी यत्साक्षात्कर्तव्यं परं ब्रह्म तज्ज्ञातवती स्वात्मतया साक्षात्कृतवती। अत एव यज्ञियानां यज्ञार्हाणां प्रथमा मुख्या। य एवंगुणविशिष्टाहं तां मां भूरिस्थात्रां बहुभावेन प्रपञ्चात्मनावतिष्ठमानां भूरि भूरीणि बहूनि भूतजातानि आवेशयन्तीं जीवभावेनात्मानं प्रवेशयन्तीमीदृशीं मां पुरुत्रा बहुषु देशेषु व्यदधुः देवाः विदधति कुर्वन्ति । उक्तप्रकारेण वैश्वरूप्येणावस्थानात्। यद्यत्कुर्वन्ति तत्सर्वं मामेव कुर्वन्तीत्यर्थः ।
“I am the sovereign queen, the collectress of treasures, cognizant (of the Supreme Being), the chief ofobjects of worship; as such the gods have put me in many plural ces, abiding in manifold conditions, entering intonumerous (forms.”
I am the Queen, the gatherer-up of treasures, most thoughtful, first of those who merit worship.
Thus Gods have stablished me in many places with many homes to enter and abide in.
I am ruler, assembler of goods, observer foremost among those deserving the sacrifice.
Me have the gods distributed in many places—so that I have many
stations and cause many things to enter (me).
Ich bin die Fürstin, Sammlerin der Güter, zuerst hab' ich erkannt die heil'gen Götter; Drum haben sie mich überall verbreitet, die ich in vieles dringe und drin weile.
Ich bin die Gebieterin, die Schätze sammelt, die Kundige, die Erste unter den Opferwürdigen. Mich haben die Götter an viele Orte verteilt, die ich viele Stätten habe und viele Formen annehme.
Я – повелительница, собирательница сокровищ,
Сведущая, первая из достойных жертв.
Меня такую распределили боги по многим местам,
(Меня,) имеющую много пристанищ, дающую многому войти (в жизнь).
मया॒ सो अन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं॑ शृ॒णोत्यु॒क्तम् । अ॒म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्रद्धि॒वं ते॑ वदामि ॥
मया॑ । सः । अन्न॑म् । अ॒त्ति॒ । यः । वि॒ऽपश्य॑ति । यः । प्राणि॑ति । यः । ई॒म् । शृ॒णोति॑ । उ॒क्तम् । अ॒म॒न्तवः॑ । माम् । ते । उप॑ । क्षि॒य॒न्ति॒ । श्रु॒धि । श्रु॒त॒ । श्र॒द्धि॒ऽवम् । ते॒ । व॒दा॒मि॒ ॥
यः अन्नमत्ति सः भोक्तृशक्तिरूपया मया एवान्नमत्ति । यः च विपश्यति । आलोकयतीत्यर्थः । यः च प्राणिति श्वासोच्छ्वासरूपं व्यापारं करोति सोऽपि मयैव । यश्च उक्तं शृणोति॥ ‘ श्रु श्रवणे । श्रुवः शृ च' इति श्रुप्रत्ययः । धातोः शृभावः ॥ य ईदृशीमन्तर्यामिरूपेण स्थितां मां न जानन्ति ते अमन्तवः अमन्यमाना अजानन्तः उप क्षियन्ति । उपक्षीणाः संसारेण हीना भवन्ति ॥ मनेरौणादिकस्तुप्रत्ययः । नञ्समासे व्यत्ययेनान्तोदात्तत्वम् । यद्वा । भावे तुप्रत्ययः । ततो बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । माममन्तवो मद्विषयज्ञानरहिता इत्यर्थः ॥ हे श्रुत विश्रुत सखे श्रुधि । मया वक्ष्यमाणं शृणु। छान्दसो विकरणस्य लुक् । ' श्रुशृणुपॄकृवृभ्यः” इति हेर्धिभावः । किं तच्छ्रोतव्यम् । श्रद्धिवम् । श्रद्धिः श्रद्धा । तया युक्तम् । श्रद्धायत्नेन लभ्यमित्यर्थः। श्रदन्तरोरुपसर्गवद्वृत्तिरिष्यते (पा.सू. १. ४.५७.२ ) इति श्रच्छब्दस्योपसर्गवद्वर्तमानत्वात् उपसर्गे घोः किः' इति किप्रत्ययः । मत्वर्थीयो वः ॥ ईदृशं ब्रह्मात्मकं वस्तु ते तुभ्यं वदामि उपदिशामि ॥
“He who eats food (eats) through me; he who sees, who breathes, who hears what is spoken, does sothrough me; those who are ignorant of me perish; hear you who have hearing, I tell that which is deserving ofbelief.”
Through me alone all eat the food that feeds them,-each man who sees, breathes, hears the word outspoken
They know it not, but yet they dwell beside me. Hear, one and all, the truth as I declare it.
Through me he eats food—whoever sees, whoever breathes, whoever hears what is spoken.
Without thinking about it, they live on me. Listen, o you who are
listened to: it’s a trustworthy thing I tell you.
Ich bin's, durch die man Speise isst und athmet, durch die man sieht und das gesagte höret, Und unbewusst sind sie in meiner Herrschaft; so hört, vernehmt, mein Wort verdienet Glauben.
Durch mich ißt man Speise; wer sieht, wer atmet, wer das Gesprochene hört, tut es nur durch mich. Ohne sich darüber Gedanken zu machen, hängen sie von mir ab. Höre, du Berühmter, ich sage dir Glaubwürdiges!
Благодаря мне ест пищу тот, кто смотрит,
Кто дышит и кто слышит сказанное.
Не отдавая себе отчета, они живут мною,
Внимай, о прославленный, глаголю тебе достойное веры!
अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वेभि॑रु॒त मानु॑षेभिः । यं का॒मये॒ तंत॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥
अ॒हम् । ए॒व । स्व॒यम् । इ॒दम् । व॒दा॒मि॒ । जुष्ट॑म् । दे॒वेभिः॑ । उ॒त । मानु॑षेभिः । यम् । का॒मये॑ । तम्ऽत॑म् । उ॒ग्रम् । कृ॒णो॒मि॒ । तम् । ब्र॒ह्माण॑म् । तम् । ऋषि॑म् । तम् । सु॒ऽमे॒धाम् ॥
अहं स्वयम् एवेदं वस्तु ब्रह्मात्मकं
वदामि- उपदिशामि
देवेभिर् देवैर् इन्द्रादिभिरपि जुष्टं सेवितम्
उत +अपि च मानुषेभिर् मनुष्यैरपि जुष्टम्।
ईदृग् वस्त्व् आत्मिका ऽहं कामये यं पुरुषं रक्षितुमहं वाञ्छामि
तं तं पुरुषम् उग्रं कृणोमि - सर्वेभ्योऽधिकं करोमि।
तम् एव ब्रह्माणं स्रष्टारं करोमि।
तम् एव +ऋषिम् अतीन्द्रियार्थ-दर्शिनं करोमि।
तम् एव सुमेधां शोभनप्रज्ञं च करोमि॥५॥
“I verily of myself declare this which is approved of by both gods and men; whomsoever I will, I render”
I, verily, myself announce and utter the word that Gods and men alike shall welcome.
I make the man I love exceeding mighty, make him a sage, a Rsi, and a Brahman.
Just I myself say this, savored by gods and men:
“Whom I love, just him I make formidable, him a formulator, him a seer, him of good wisdom.”
Ich bin es, die ich selber das verkünde, was angenehm bei Göttern ist und Menschen; Wem hold ich bin, den mach' ich auch gewaltig, zum Priester ihn, zum Dichter und zum Weisen.
Ich selbst verkünde dieses, was von Göttern und Menschen gut aufgenommen wird. Wen ich liebe, immer nur den mache ich zu einem Gewaltigen, ihn zu einem Hohenpriester, ihn zu einem Rishi, ihn zu einem Weisen.
Я ведь сама глаголю то,
(Что) радует богов и людей.
Кого возлюблю, того делаю могучим,
Того – брахманом, того – риши, того – мудрым.
अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हन्त॒वा उ॑ । अ॒हं जना॑य स॒मदं॑ कृणोम्य॒हं द्यावा॑पृथि॒वी आ वि॑वेश ॥
अ॒हम् । रु॒द्राय॑ । धनुः॑ । आ । त॒नो॒मि॒ । ब्र॒ह्म॒ऽद्विषे॑ । शर॑वे । हन्त॒वै । ऊँ॒ इति॑ । अ॒हम् । जना॑य । स॒ऽमद॑म् । कृ॒णो॒मि॒ । अ॒हम् । द्यावा॑पृथि॒वी इति॑ । आ । वि॒वे॒श॒ ॥
पुरा त्रिपुर-विजय-समये रुद्राय रुद्रस्य - षष्ठ्यर्थे चतुर्थी - महादेवस्य
धनुश् चापम् अहम् आ तनोमि - ज्ययाततं करोमि।
किमर्थम् ।
ब्रह्मद्विषे ब्राह्मणानां द्वेष्टारं शरवे शरुं हिंसकं त्रिपुर-निवासिनम् असुरं
हन्तवै हन्तुं हिंसितुम् - हन्तेस् तुमर्थे सेसेनिति तवैप्रत्ययः, "अन्तश् च तवै युगपद्"-इत्याद्य्-अन्तयोर् युगपद्-उदात्तत्वम्। शॄ हिंसायामित्यस्माच्छॄस्वृस्निहीत्यादिनोप्रत्ययः। क्रियाग्रहणं कर्तव्यमिति कर्मणः सम्प्रदानत्वाच्चतुर्थी। उशब्दः पूरकः। अहमेव समदम्। समानं माद्यन्त्यस्मिन्निति समत्सङ्ग्रामः। स्तोतृजनार्थं शत्रुभिः सह सङ्ग्राममहमेव कृणोमि। करोमि। तथा द्यावापृथिवी दिवं च पृथिवीं चान्तर्यामितयाहमेवा विवेश। प्रविष्टवती॥६॥
“I bend the bow of Rudra, to slay the destructive enemy of the Brāhmaṇas, I wage war with (hostile)men. I pervade heaven and earth.”
I bend the bow for Rudra that his arrow may strike and slay the hater of devotion.
I rouse and order battle for the people, and I have penetrated Earth and Heaven.
I stretch the bow for Rudra, for his arrow to smash the hater of the sacred formulation.
I make combat for the people. I have entered Heaven and Earth.1604 X.126
Ich bin es, die des Rudra Bogen spannet, damit sein Pfeil den Gottesleugner treffe, Ich bin es, die dem Volke Schlacht erreget, ich bin in Erd' und Himmel eingedrungen.
Ich spanne für Rudra den Bogen, daß sein Geschoß den Feind der heiligen Rede töte. Ich errege Streit unter dem Volke, ich durchdringe Himmel und Erde.
Я натягиваю лук для Рудры,
Чтобы (его) стрела убила ненавистника священного слова.
Я вызываю состязание среди народа.
Я пропитала (собой) небо и землю.
अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्व१॒॑न्तः स॑मु॒द्रे । ततो॒ वि ति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ॥
अ॒हम् । सु॒वे॒ । पि॒तर॑म् । अ॒स्य॒ । मू॒र्धन् । मम॑ । योनिः॑ । अ॒प्ऽसु । अ॒न्तरिति॑ । स॒मु॒द्रे । ततः॑ । वि । ति॒ष्ठे॒ । भुव॑ना । अनु॑ । विश्वा॑ । उ॒त । अ॒मूम् । द्याम् । व॒र्ष्मणा॑ । उप॑ । स्पृ॒शा॒मि॒ ॥
' द्यौः पिता' ( तै. ब्रा. ३.७.५.४) इति श्रुतेः पिता द्यौः । पितरं दिवम् अहं सुवे प्रसुवे जनयामि। ‘आत्मन आकाशः संभूतः ' (तै. आ. ८. १) इति श्रुतेः । कुत्रेति तदाह। अस्य परमात्मनः मूर्धन् मूर्धन्युपरि । कारणभूते तस्मिन् हि वियदादिकार्यजातं सर्वं वर्तते तन्तुषु पट इव। मम च योनिः कारणं समुद्रे । समुद्भवन्त्यस्माद्भूतजातानीति समुद्रः परमात्मा । तस्मिन् अप्सु व्यापनशीलासु धीवृत्तिषु अन्तः मध्ये यद्ब्रह्म चैतन्यं तन्मम कारणमित्यर्थः । यत ईदृग्भूता अहमस्मि ततः हेतोः विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि अनु प्रविश्य वि तिष्ठे। विविधं व्याप्य तिष्ठामि ॥ ' समवप्रविभ्यः स्थः' ( पा. सू. १.३.२२) इत्यात्मनेपदम् ॥ उत अपि च अमूं द्यां विप्रकृष्टदेशेऽवस्थितं स्वर्गलोकम् । उपलक्षणमेतत् । एतदुपलक्षितं कृत्स्नं विकारजातं वर्ष्मणा कारणभूतेन मायात्मकेन मदीयेन देहेन उप स्पृशामि। यद्वा । अस्य भूलोकस्य मूर्धन् मुर्धन्युपर्यहं पितरमाकाशं सुवे। समुदे जलधावप्सूदकेष्वन्तर्मध्ये मम योनिः कारणभूतोऽम्भृणाख्य ऋषिर्वर्तते । यद्वा । समुद्रेऽन्तरिक्षेऽप्स्वम्मयेषु देवशरीरेषु मम कारणभूतं ब्रह्म चैतन्यं वर्तते । ततोऽहं कारणात्मिका सती सर्वांणि भुवनानि व्याप्नोमि । अन्यत्समानम् ॥
“I bring forth the paternal (heaven) upon the brow of this (Supreme Being), my birthplace is in the midstof the waters; from thence I spread through all beings, and touch this heaven with my body.”
On the world's summit I bring forth the Father: my home is in the waters, in the ocean.
Thence I extend o'er all existing creatures, and touch even yonder heaven with my forehead.
I give birth to Father (Heaven?) on his (own?) head [=Agni?]; my womb is in the waters, in the sea.
Thence I spread forth across all worlds, and yonder heaven with its
height I touch.
Ich zeug' des Weltalls Vater in der Höhe, mein Sitz ist in den Wassern, in dem Meere, Von da verbreit' ich mich in alle Wesen, berühr' mit meinem Scheitel dort den Himmel.
Ich gebäre den Vater im Haupte dieser Welt; mein Ursprung ist im Wasser, im Meere. Von da verbreite ich mich über alle Welten und rühre mit dem Scheitel an den Himmel dort.
Я рождаю отца на вершине этого (мира)
Мое лоно в водах, в океане.
Оттуда расхожусь я по всем существам
И касаюсь теменем того неба.
अ॒हमे॒व वात॑ इव॒ प्र वा॑म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा॑ । प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒ना सं ब॑भूव ॥
अ॒हम् । ए॒व । वातः॑ऽइव । प्र । वा॒मि॒ । आ॒ऽरभ॑माणा । भुव॑नानि । विश्वा॑ । प॒रः । दि॒वा । प॒रः । ए॒ना । पृ॒थि॒व्या । ए॒ताव॑ती । म॒हि॒ना । सम् । ब॒भू॒व॒ ॥
विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि कार्याणि आरभमाणा कारणरूपेणोत्पादयन्ती अहमेव परेणानधिष्ठिता स्वयमेव प्र वामि प्रवर्ते । वातइव यथा वातः परेणाप्रेरितः सन् स्वेच्छयैव प्रवाति तद्वत् । उक्तं सर्वं निगमयति । परो दिवा । पर इति सकारान्तं परस्तादित्यर्थे वर्तते यथा अध इत्यधस्तादर्थे । तद्योगे च तृतीया सर्वत्र दृश्यते। दिव आकाशस्य परस्तात् । एना
“पृथिव्या ॥ ‘ द्वितीयाटौः स्वेनः' (पा. सू. २, ४, ३४ ) इतीदम एनादेशः । अस्याः पृथिव्याः परः परस्तात् । द्यावापृथिव्योरुपादानमुपलक्षणम् । एतदुपलक्षितात् सर्वस्मात् विकारजातात् परस्ताद्वर्तमाना सङ्गोदासीनकूटस्थब्रह्मचैतन्यरूपाहं महिना महिम्ना एतावती सं बभूव । एतच्छब्देनोक्तं सर्वं परामृश्यते । एतत्परिमाणमस्याः ॥ यत्तदेतेभ्यः परिमाणे°' ( पा. सू. ५. २. ३९) इति वतुप् ।“ आ सर्वनाम्नः ( पा. सू.६.३.९१ ) इत्यात्वम् ॥ सर्वजगदात्मनाहं संभूतास्मि । महच्छब्दादिमनिचि 'टेः' (पा. सू. ६. ४. १५५ ) इति टिलोपः । ततः तृतीयायामुदात्तनिवृत्तिस्वरेण तस्या उदात्तत्वम्। छन्दसो मलोपः ॥ ॥१२॥
“I breathe forth like the wind giving form to all created worlds; beyond the heaven, beyond this earth(am I), so vast am I in greatness.”
I breathe a strong breath like the wind and tempest, the while I hold together all existence.
Beyond this wide earth and beyond the heavens I have become so mighty in my grandeur.
I, just like the wind, blow forth, grasping at all worlds,
beyond heaven, beyond this earth here—of such size in my greatness have I come into being.
Ich bin es, die da wehet gleich dem Winde, im Wehn ergreif' ich alles, was da lebet, Jenseit des Himmels, jenseit dieser Erde; so gross bin ich durch meine Macht und Grösse.
Ich wehe wie der Wind, alle Wesen erfassend, weiter als der Himmel, weiter noch als die Erde: Solch eine Größe bin ich geworden.
Я ведь вею, как ветер,
Охватывая все миры:
По ту сторону неба, по ту сторону этой земли –
Такая стала я величием.