ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒न्वं॑ पुषेम । मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥
मम॑ । अ॒ग्ने॒ । वर्चः॑ । वि॒ऽह॒वेषु॑ । अ॒स्तु॒ । व॒यम् । त्वा॒ । इन्धा॑नाः । त॒न्व॑म् । पु॒षे॒म॒ । मह्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिशः॑ । चत॑स्रः । त्वया॑ । अधि॑ऽअक्षेण । पृत॑नाः । ज॒ये॒म॒ ॥
हे अग्ने । विविधमाहूयन्ते येषु शूरा इति विहवाः संग्रामाः । यद्वा । विविधं यागार्थं देवा आहूयन्त एष्विति विहवा यज्ञाः ॥ ‘ ह्वः संप्रसारणं व न्यभ्युपविषु ' (पा. सू. ३. ३. ७२) इत्यधिकरणेऽप संप्रसारणं च । थाथादिनीत्तरपदान्तोदात्तत्वम् । संग्रामेषु यज्ञेषु वा वर्चः दीप्तिः त्वदनुग्रहात् मम अस्तु अवतु । वयं च त्वा त्वाम् इन्धानाः समिद्भिर्दीपयन्तः तन्वं तब शरीरं पुषेम हविर्भिर्वर्धयेम ॥ इन्धेः शानचि श्नसोरल्लोप उदात्तनिवृत्तिस्वरेण शानच आद्युदात्तत्वे प्राप्ते विभाषा वेण्विन्धानयोः (पा. सू. ६, ६, २१५) इत्याद्युदात्तत्वम् ॥ तन्वं पुषेम ॥ पुषेर्लिङि लिङ्याशिष्यङ् ॥ अपि च मह्यं मदर्थम् । ‘ ङयि च ' ( पा. सू. ६, ६, २१२ ) इत्यमद् आद्युदात्तत्वम् ॥ चतस्रः प्रदिशः प्रकृष्टा दिशः । तद्वासिनो जना इत्यर्थः । नमन्तां स्वत एव प्रह्वीभवन्तु । नमतेः कर्मकर्तरि लोटि न दुहस्नुनमाम् ' इति यक्प्रतिषेधः ॥ त्वया अस्माभिर्हविर्भिः प्रवर्धितेन अध्यक्षेण ईश्वरेण सता पृतनाः शत्रुसेनाः जयेम अभिभवेम ॥
_
हेऽग्ने विहवेषु यज्ञेषु यद्वर्चः फलं तन्ममास्तु।
वयमृत्विग्यजमानास्त्वामग्निमिन्धानाः प्रज्वलयन्तस्तनुवं त्वदीयं शरीरं पुषेम पुष्टं कुर्मः।
मह्यं यजमानाय प्राच्याद्याश्चतस्त्रः प्रदिशो नमन्तां वश्या भवन्तु, तत्रत्या जना मदधीना भवन्तु।
अध्यक्षेण स्वामिना त्वया सहिता वयं पृतना विरोधि सेना जयेम।
“May glory Agni, be mine in battle, may we, kindling you, cherish your person n, may the (inhabitants ofthe) four quarters bow down before me, may we with you for our leader overcome (hostile) armies.”
LET me win glory, Agni, in our battles: enkindling thee, may we support our bodies.
May the four regions bend and bow before me: with thee for guardian may we win in combat.
Mine be the luster at the competing invocations, o Agni. Might we thrive in our body as we kindle you in your body.
To me let the four quarters bow. With you as our overseer might we win battles.
Glück werde mir, wenn ich dich, Agni, rufe, Heil sei den Leibern, wenn wir dich entzünden; Die vier Welträume mögen mir sich beugen, durch deinen Schutz lass uns in Schlachten siegen.
Mein soll in den Wettanrufungen der Götter der Glanz sein, o Agni; wir wollen dich anzünden und deinen Leib pflegen. Vor mir sollen sich die vier Weltgegenden neigen. Mit dir als Aufseher wollen wir die Kämpfe gewinnen!
У меня, о Агни, пусть будет блеск во время призывов-состязаний!
Мы пусть взращиваем (твое) тело, зажигая тебя!
Мне пусть поклоняться четыре стороны света!
С тобою как с надзирателем пусть мы выиграем сражения!
मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्र॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः । ममा॒न्तरि॑क्षमु॒रुलो॑कमस्तु॒ मह्यं॒ वात॑: पवतां॒ कामे॑ अ॒स्मिन् ॥
मम॑ । दे॒वाः । वि॒ऽह॒वे । स॒न्तु॒ । सर्वे॑ । इन्द्र॑ऽवन्तः । म॒रुतः॑ । विष्णुः॑ । अ॒ग्निः । मम॑ । अ॒न्तरि॑क्षम् । उ॒रुऽलो॑कम् । अ॒स्तु॒ । मह्य॑म् । वातः॑ । प॒व॒ता॒म् । कामे॑ । अ॒स्मिन् ॥
सर्वे देवाः विहवे संग्रामे यज्ञे वा मम सन्तु ममैव साधका भवन्तु । के पुनस्ते । इन्द्रवन्तः इन्द्रेण युक्ताः मरुतो विष्णुरग्निः च । तथा अन्तरिक्षं मम उरुलोकं विस्तीर्णप्रकाशकम् अस्तु ॥ ‘ लोकृ दर्शने ' । भावे घञ् । लोक आलोकः प्रकाशः । उरुर्लोको यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥ अपि च अस्मिन् कामे कामयितव्ये फले निमित्तभूते सति वातः वायुः पवताम् अनुगुणं प्रवातु ॥ ‘ पूङ् पवने '। भौवादिकः । ‘ ऊडिदम् ' इत्यादिना इदमः सप्तम्या उदात्तत्वम् ॥
“May all the gods be on my side in battle, the Maruts with Indra, Viṣṇu and Agni; may the expandedfirmament be mine, may the wind blow (propitiously) to this my desire.”
May all the Gods be on my side in battle, the Maruts led by Indra, Visnu, Agni.
Mine be the middle air's extended region, ani may the wind blow favouring these my wishes.
Mine be all the gods at the competing invocation: the Maruts together with Indra, Viṣṇu, and Agni.
Mine be the midspace, providing a broad place. For me, at my desire, let the wind purify itself [=blow].
Bei meinem Anruf seien alle Götter die Marutschar mit Indra, Vischnu, Agni, Mein sei die Luft mit ihrem weiten Raume, mir ströme hell der Wind zu diesem Wunsche.
Mein sollen bei dem Wettrufen alle Götter sein, die Marut nebst Indra, Vishnu, Agni! Mein soll das weiträumige Luftreich sein, mir soll der Wind günstig wehen bei diesem Wunsche!
Моими пусть будут Все-Боги во время призыва-состязания:
Маруты с Индрой, Вишну, Агни!
Моим пусть будет воздушное пространство – широкий простор!
Мне пусть (благоприятно) веет ветер при этом желании!
मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः । दैव्या॒ होता॑रो वनुषन्त॒ पूर्वेऽरि॑ष्टाः स्याम त॒न्वा॑ सु॒वीरा॑: ॥
मयि॑ । दे॒वाः । द्रवि॑णम् । आ । य॒ज॒न्ता॒म् । मयि॑ । आ॒ऽशीः । अ॒स्तु॒ । मयि॑ । दे॒वऽहू॑तिः । दैव्याः॑ । होता॑रः । व॒नु॒ष॒न्त॒ । पूर्वे॑ । अरि॑ष्टाः । स्या॒म । त॒न्वा॑ । सु॒ऽवीराः॑ ॥
देवाः सर्वे द्रविणं धनं मयि स्तोतरि आ यजन्तां गमयन्तु । मह्यं ददत्वित्यर्थः । तथा आशीः आशंसनीयं यज्ञफलं च मयि एव अस्तु । देवानां हूतिराह्वानमस्मिन्निति देवहूतिः यज्ञः । स च मयि अस्तु । अपि च देवानामिमे दैव्याः । देवाद्यञञौ ' इति यञ् । तादृशाः होतारः साधुहोमनिष्पादका मदीया ऋत्विजः पूर्वे अन्यदीयेभ्य ऋत्विग्भ्यः प्रथमभाविनः सन्तः वनुषन्त देवान् संभजन्ताम् ॥ बनतेश्छान्दसे लङि ‘ व्यत्ययो बहुलम् ' इति त्रयो विकरणा उप्रत्ययः सिष्शपौ च । अडभावश्छान्दमः । वयं च तन्वा शरीरेण अरिष्टाः अहिंसिताः सुवीरा: सुपुत्राश्च स्याम भवेम ॥ ‘ वीरवीर्यौ च ' इत्युत्तर पदाद्युदात्तत्वम् ॥
“May the gods bestow wealth upon me, may (their) blessing be upon me, may the sacrifice in which thegods are invoked be (beneficial) to me, may my invokers of the gods be the first to propitiate them; may we beunharmed in body and blessed with male offspring.”
May the Gods grant me riches; may the blessing and invocation of the Gods assist me.
Foremost in fight be the divine Invokers: may we, unwounded, have brave heroes round us.
To me let the gods bring material wealth through sacrifice. In me be the prayer; in me the invocation to the gods.
The ancient divine Hotars acted with zeal. Might we be free from harm in our body and possessed of good heroes.
Die Götter mögen Reichthum mir gewähren, bei mir sei Bitte und der Götter Anruf; Mir seien hold die alten Götterpriester, wir seien reich an Helden, ungefährdet.
Für mich sollen sich die Götter um Reichtum bitten lassen, bei mir soll das Gebet, bei mir die Götteranrufung in Erfüllung gehen. Die ersten göttlichen Opferpriester sollen Partei nehmen; wir wollen am Leib unversehrt die Meister sein.
Мне пусть боги дадут богатство за жертву!
У меня пусть будет молитва (удачной), у меня – призыв богов!
Пусть первые божественные хотары добьются (этого для меня)!
Пусть будем мы невредимы телами, с прекрасными сыновьями!
मह्यं॑ यजन्तु॒ मम॒ यानि॑ ह॒व्याकू॑तिः स॒त्या मन॑सो मे अस्तु । एनो॒ मा नि गां॑ कत॒मच्च॒नाहं विश्वे॑ देवासो॒ अधि॑ वोचता नः ॥
मह्य॑म् । य॒ज॒न्तु॒ । मम॑ । यानि॑ । ह॒व्या । आऽकू॑तिः । स॒त्या । मन॑सः । मे॒ । अ॒स्तु॒ । एनः॑ । मा । नि । गा॒म् । क॒त॒मत् । च॒न । अ॒हम् । विश्वे॑ । दे॒वा॒सः॒ । अधि॑ । वो॒च॒त॒ । नः॒ ॥
मह्यं मदर्थं यजन्तु ऋत्विजो देवान् हविर्भिर्यजन्तु । यद्वा । षष्ठ्यर्थे चतुर्थी । मह्यं मदीया ऋत्विज इत्यर्थः। मम स्वभूतानि हव्यानि यानि हवींषि चरुपुरोडाशादीनि सन्ति तैर्हविर्भिरित्यर्थः । तथा मे मनसः आकूतिः संकल्पनमभीष्टस्य प्रार्थनं सत्या यथार्थम् अस्तु । अपि च अहं कतमच्चन किमपि एनः पापं मा नि गां मा नियतं निकृष्टतरं वा गच्छेयम् । पापं मा कार्षमित्यर्थः ॥ एतेर्माङि लुङिः ‘ इणो गा लुङि ' इति गादेशः । गातिस्था ' इति सिचो लुक् ॥ अपि च हे विश्वे सर्वे देवासः देवा: यूयं नः अस्माकम् अधि वोचत विवादपदेषु पक्षपातेन ब्रूत ॥ वक्तेर्लोटि व्यत्ययेनाङ्। ‘ वच उम् ' इत्युमागमः ॥
“May (my priests) offer for me whatever oblations of mine (there may be); may the purpose of my mindbe sincere; may I not fall into any kind of sin; universal gods, bless us.”
For me let them present all mine oblations, and let my mind's intention be accomplished.
May I he guiltless of the least transgression: and, all ye Go-is, do ye combine to bless us.
For me let them sacrifice (with) the oblations that are mine. Let the purpose of my mind come true.
Let me not fall into any kind of offense. All you gods, speak for us!
Die Priester sollen meine Gaben opfern; es mög' sich meines Herzens Wunsch erfüllen, In Sünde mög' ich nimmermehr gerathen; ihr Götter alle, zeiget euch uns freundlich.
Für mich sollen sie opfern, mein sind alle Opferspenden. Die Absicht meines Geistes soll in Erfüllung gehen. Nicht möchte ich irgend einen Verstoß begehen; ihr Götter alle, seid meine Verteidiger!
Для меня пусть жертвуют они жертвенные дары, которые есть у меня!
Пусть сбудется пожелание мысли моей!
Да не впаду я в какое-нибудь прегрешение!
О Все-Боги, заступитесь за нас!
देवी॑: षळुर्वीरु॒रु न॑: कृणोत॒ विश्वे॑ देवास इ॒ह वी॑रयध्वम् । मा हा॑स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन् ॥
देवीः॑ । षट् । उ॒र्वीः॒ । उ॒रु । नः॒ । कृ॒णो॒त॒ । विश्वे॑ । दे॒वा॒सः॒ । इ॒ह । वी॒र॒य॒ध्व॒म् । मा । हा॒स्म॒हि॒ । प्र॒ऽजया॑ । मा । त॒नूभिः॑ । मा । र॒धा॒म॒ । द्वि॒ष॒ते । सो॒म॒ । रा॒ज॒न् ॥
हे षट् उर्वीः षट्संख्याका उर्व्यः । एताश्चान्यत्राम्नायन्ते -- ' षण्मोर्वीरंहसः पान्तु द्यौश्च पृथिवी चाहश्च रात्रिश्चापश्चौषधयश्च इति । ईदृश्यो हे देवीः देव्यः ॥ जसि वा छन्दसि । इति पूर्वसवर्णदीर्घः । ‘ नामन्त्रिते समानाधिकरणे सामान्यवचनम् ' इत्यस्याविद्यमानत्वनिषेधेन षळुर्वीरित्यनयोरामन्त्रितयोः पदात्परत्वादाष्टमिकमामन्त्रितानुदात्तत्वम् ॥ ता यूयम् उरु विस्तीर्णं धनं नः अस्माकं कृणोत कुरुत ॥ ‘ कृवि हिंसाकरणयोश्च । ‘ धिन्विकृण्व्योरच्च ' इत्युप्रत्ययः । ‘तप्तनप्तनथनाश्च । इति तस्य तबादेशः ॥ हे विश्वे सर्वे देवासः देवाः यूयं च इह अस्मिन् धने प्राप्तव्ये विषये वीरयध्वं विक्रामयत । यथा वयं तद्धनं लभेमहि तथा वीर्यवन्तो यूयं प्रयतध्वमित्यर्थः ॥ ‘ वीर विक्रान्तौ । अपि च प्रजया पुत्रादिरूपया मा हास्महि वयं मा परित्यज्येमहि । मा च तनूभिः शरीरैस्त्यज्येमहि । अस्मान् कदाचिदपि पुत्रादयः शरीराणि च मा परित्याक्षुरित्यर्थः ॥ ओहाक् त्यागे । अस्मात् कर्मणि लुङि चिण्वद्भावाभावे रूपमेतत् ॥ तथा हे राजन् राजमान यद्वास्माकं स्वामिन् हे सोम द्विषते अप्रीतिं कुर्वते ॥ द्विषेः शतरि अदादित्वात् शपो लुक् । 'शतुरनुमः । इति विभक्तेरुदात्तत्वम् । 'षष्ठ्यर्थे चतुर्थी वक्तव्या ' इति चतुर्थी ॥ द्विषतः शत्रोः मा रधाम मा वशं प्राप्नुयाम तथा त्वं कुर्वित्यर्थः । ‘ रध्यतिर्वशगमने ' (निरु. ६. ३२ ) इति यास्कः । यद्वा । द्विषते शत्रवे तदर्थं मा रधाम । परिपक्वा हननार्हा मा भूम ॥ ‘ रध हिंसासंराद्ध्योः । संराद्धिः पाक इति तद्वृत्तिः । माङि लुङि पुषादित्वात् च्लेरङादेशः ॥ ॥ १५ ॥
अथ पञ्चमीमाह – देवीः षडुर्वीरिति। देवीः षडुर्वीरुर्वीनामिकाः षट्संख्याका हे देव्यः। २२६४ अत एव शाखान्तरेऽग्न्युपस्थाने समाम्नातम् “षण्मोर्वीरंहसस्पान्तु द्यौश्च पृथिवी चाऽऽपश्चौपधमश्चोर्क्च सूनृता च” इति। तादृश्यो हे देव्यो नोऽरमदीयमिदं कर्मोरु कृणोत विस्तीर्णं कुरुत। विश्वे देवासो हे विश्वे देवा इह कर्मणि वीरयध्वं वीरा भवत। विघ्नं परिहरतेत्यर्थः। वयं प्रजया पुत्रादिरूपया मा हास्महि परित्यक्ता मा भूम। तथा तनूभिः पुष्टशरीरैर्मा हारमहि। हे सोम राजन्द्विषते वैरिणे मा रधाम कार्यसिद्धिं मा करवाम।
“You six mighty goddesses, bestow upon us ample (wealth); universal gods, display prowess here; letus not be bereft of our offspring, or be harmed in our bodies, may we not become subject to our enemy, royalSoma.”
Ye six divine Expanses, grant us freedom: here, all ye Gods, acquit yourselves like heroes.
Let us not lose our children or our bodies: let us not benefit the foe, King Soma!
You six broad goddesses, create broad (space) for us. All you gods, act as heroes here.
May we not be bereft of offspring, nor of our own bodies. May we not become subject to him who hates us, o King Soma.
Ihr weiten sechs Göttinnen schaffet Raum uns, ihr Götter alle, zeigt euch hier als Helden, Nicht sei Verlust an Leben uns und Kindern, gib nicht uns preis dem Hasser, König Soma.
Ihr sechs göttlichen Räume, gebet uns Raum, alle Götter zeiget euch hier als Männer! Nicht möchten wir der Kinder noch des eigenen Leibes verlustigt gehen; nicht wollen wir dem Feinde erliegen, König Soma!
О вы, шесть божественных широких (пространств), создайте нам широкий (простор)!
О Все-Боги, проявите себя здесь как герои!
Да не окажемся мы ни без потомства, ни без тел (наших)!
Да не попадем мы во власть к ненавистнику, о царь Сома!
अग्ने॑ म॒न्युं प्र॑तिनु॒दन्परे॑षा॒मद॑ब्धो गो॒पाः परि॑ पाहि न॒स्त्वम् । प्र॒त्यञ्चो॑ यन्तु नि॒गुत॒: पुन॒स्ते॒३॒॑ऽमैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत् ॥
अग्ने॑ । म॒न्युम् । प्र॒ति॒ऽनु॒दन् । परे॑षाम् । अद॑ब्धः । गो॒पाः । परि॑ । पा॒हि॒ । नः॒ । त्वम् । प्र॒त्यञ्चः॑ । य॒न्तु॒ । नि॒ऽगुतः॑ । पुन॒रिति॑ । ते॒ । अ॒मा । ए॒षा॒म् । चि॒त्तम् । प्र॒ऽबुधा॑म् । ने॒श॒त् ॥
हे अग्ने परेषां शत्रूणां मन्युं क्रोधं प्रतिनुदन् प्रतिमुखं प्रेरयन् तिरस्कुर्वन् अदब्धः केनाप्यहिंसितो गोपाः गोपायिता ॥ गुपू रक्षणे ' इत्यस्मात् आयप्रत्ययान्तात् क्विपि वेरपृक्तस्य लोपात पूर्वं चलि लोपे रूपमेतत् ॥ ईदृशः त्व नः अस्मान् परि पाहि परितः सर्वतो रक्ष । ते शत्रवः प्रत्यञ्चः प्रत्यञ्चन्तः प्रतिनिवर्तमानाः निगुतः । ‘ गुङ् अव्यक्ते शब्दे ' । अस्मात् क्विपि तुक् ॥ भयेन गद्गदरूपमव्यक्तं शब्दं नितरां कुर्वन्तः पुनः यन्तु स्वकीयं स्थानं पुनर्गच्छन्तु । अपि व प्रबुधां प्रबुध्यमानानाम् एषां शत्रूणां चित्तं ज्ञानसाधनं मनः अमा सह युगपदेव वि नेशत् विनश्यतु ॥ प्रत्येकाभिप्रायेणैकवचनम् ।' णश अदर्शने ' इत्यस्माच्छान्दसो लुङ् । पुषादित्वात् च्लेरादेशः । ‘ नशिमन्योरलिढ्येत्वं वक्तव्यम् ' ( पा.सू. ६.४, १२०.५) इत्यकारस्यैत्वम् ॥
“Agni, who are an invincible protector, do you defend us, baffling the wrath of our enemies; let themreturn grumbling to their homes, may the intelligence of those watchful (foes) be at once destroyed.”
Baffling the wrath of our opponents, Agni, guard us as our infallible Protector.
Let these thy foes turn back and seek their houses, and let their thought who watch at home be ruined.
O Agni, repulsing the battle fury of the others [=the enemy], as an undeceivable herdsman, protect us on every side.
Let the challengers bearing down turn back: at home their intention will disappear when they awaken.
Zurück die Wuth der Feinde stossend, Agni! sei du um uns ein Hüter, nie zu täuschen; Die Schmäher mögen wieder rückwärts weichen, und ihre Pläne schon daheim zerscheitern.
Agni, wehre du die böse Absicht der Gegner ab, schütze du uns als unfehlbarer Wächter! Die Schwätzer sollen wieder umkehren; daheim soll ihre Absicht, wann sie erwachen, zerrinnen.
О Агни, отталкивая ярость (наших) врагов,
Как надежный сторож, охраняй ты нас со всех сторон!
Пусть противники те снова уберутся обратно!
Пусть у них, когда они пробудятся, замысел исчезнет!
धा॒ता धा॑तॄ॒णां भुव॑नस्य॒ यस्पति॑र्दे॒वं त्रा॒तार॑मभिमातिषा॒हम् । इ॒मं य॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाः पा॑न्तु॒ यज॑मानं न्य॒र्थात् ॥
धा॒ता । धा॒तॄ॒णाम् । भुव॑नस्य । यः । पतिः॑ । दे॒वम् । त्रा॒तार॑म् । अ॒भि॒मा॒ति॒ऽस॒हम् । इ॒मम् । य॒ज्ञम् । अ॒श्विना॑ । उ॒भा । बृह॒स्पतिः॑ । दे॒वाः । पा॒न्तु॒ । यज॑मानम् । नि॒ऽअ॒र्थात् ॥
धातॄणां स्रष्टॄणामपि धाता स्रष्टा भुवनस्य कृत्स्नस्य भूतजातस्य यः इन्द्रः सविता वा पतिः पालयिता तं देवं देवनशीलं त्रातारं सर्वेभ्यो भयेभ्यः पालयितारम् अभिमातिषाहम् अभिमातीनां शत्रूणां सोढारमभिभवितारम् एवंगुणविशिष्टमिन्द्रं सवितारं वा स्तौमीति शेषः ॥ ‘ षह अभिभवे । ‘ छन्दसि सहः' इति ण्विप्रत्ययः । छान्दसं विभक्त्युदात्तत्वम् ॥ उभा उभावश्विनौ बृहस्पतिः चैतत्प्रमुखाः सर्वे देवाः इमं यज्ञम् अनुष्ठीयमानं यजमानं च न्यर्थात् निकृष्टादर्थात् पापात् । यद्वा । अर्थस्य प्रयोजनस्याभावो न्यर्थम् । तस्मात् पान्तु रक्षन्तु सफलं कुर्वन्त्वित्यर्थः ॥ ‘ नेरनिधाने ' ( पा. सू. ६. २. १९२) इत्युत्तरपदान्तोदात्तत्वम् ॥
“The creator of creators, he who is the protector of the universe, (him I praise), the divine defender, thedestroyer of enemies; may the two Aśvins, Bṛhaspati, and the gods, protect this sacrifice, and save the sacrificerfrom disappointment.”
Lord of the world, Creator of creators the saviour God who overcomes the foeman.
May Gods, Brhaspati, both Asvins shelter from ill thii sacrifice and sacrificer.
He who is the Ordainer of Ordainers, the lord of creation—him, the god Rescuer, who vanquishes hostility (do I invoke). Let both the Aśvins and Br̥haspati (protect) this sacrifice here; let the gods protect the sacrificer from failure.
Der Schöpfer Schöpfer, er der Herr der ganzen Welt, der Gott, der rettet, und die Gegner übermannt, Brihaspati, die Ritter und die Götterschar beschirm dies Opfer und den Opfrer vor Verderb.
Der der Schöpfer der Schöpfer, der Welt Gebieter ist, den Gott Schützer, der die Anschläge bemeistert, rufe ich. Beide Asvin, Brihaspati sollen dies Opfer, die Götter den Opfernden vor Mißerfolg behüten.
(Я призываю того,) кто установитель установителей, господин вселенной,
Бога спасителя, отражающего атаки.
Пусть эту жертву оба Ашвина (и) Брихаспати,
(А) боги – жертвователя защитят от неудачи!
उ॒रु॒व्यचा॑ नो महि॒षः शर्म॑ यंसद॒स्मिन्हवे॑ पुरुहू॒तः पु॑रु॒क्षुः । स न॑: प्र॒जायै॑ हर्यश्व मृळ॒येन्द्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः ॥
उ॒रु॒ऽव्यचाः॑ । नः॒ । म॒हि॒षः । शर्म॑ । यं॒स॒त् । अ॒स्मिन् । हवे॑ । पु॒रु॒ऽहू॒तः । पु॒रु॒ऽक्षुः । सः । नः॒ । प्र॒ऽजायै॑ । ह॒रि॒ऽअ॒श्व॒ । मृ॒ळ॒य॒ । इन्द्र॑ । मा । नः॒ । रि॒रि॒षः॒ । मा । परा॑ । दाः॒ ॥
उरुव्यचाः विस्तीर्णव्यापनः महिषः महान् पूज्यो वा पुरुहूतः बहुभिर्यजमानैराहूतः पुरुक्षुः बहुनिवासः ॥ क्षियतेः ‘मितद्र्वादिभ्य उपसंख्यानम् ' (पा. सू. ३. २. १८०. १ ) इति डुप्रत्ययः ॥ यद्वा । पुरुभिर्बहुभिः शब्द्यमानः स्तूयमानः ॥ पूर्ववत् डुप्रत्ययः । औणादिके कर्मणि क्विपि वा ‘ अनित्यमागमशासनम् ' इति तुगभावः ॥ ईदृशः इन्द्रः अस्मिन् हवे यज्ञे । हूयन्ते अस्मिन् हवींषीति हवो यज्ञः । जुहोतेरधिकरणेऽप् ॥ यद्वा । अस्मिन् हवे त्वद्विषये आह्वाने ॥ ‘ भावेऽनुपसर्गस्य ' इति ह्वयतेरप् संप्रसारणं च ॥ नः अस्मभ्यं शर्म सुखं यंसत् यच्छतु ददात्वित्यर्थः॥ यमेर्लेट्यडागमः । ‘ सिब्बहुलम् ' इति सिप् ॥ हे हर्यश्व हरी अश्वौ यस्य तादृश हे इन्द्र सः त्वं नः अस्माकं प्रजायै । द्वितीयार्थे चतुर्थी। प्रजां पुत्रपौत्रादिकां मृळय सुखय । नः अस्मान् मा रीरिषः मा हिंसीः । मा च परा दाः । परादानं परित्यागः । मा परित्याक्षीरित्यर्थः ॥
अथाष्टमीमाह – उरुव्यचा इति। पुरुभिर्बहुभिर्यजमानेर्हूत आहूतः पुरुहूत इन्द्रः। हुयतेऽ–स्मिन्निति ह वो यज्ञस्तस्मिन्यज्ञे स इन्द्रो नोऽस्मार्क शमं सुखं यं सद्यच्छतु। कीदृश इन्द्रः, उरव्यचा अत्यन्तं व्याप्तो बहुदेशाधिपतिरित्यर्थः। महिषो महाञ्शोर्यादिगुणसंपन्नः। पुरुक्षु पुरुषु बहुमन्त्रेषु क्षूयते शब्द्यते प्रतिपाद्यत् इति पुरुक्षुः पुरुक्षुरेव पुरुक्षु। हरिनामानावश्वौ यस्यासौ हर्यश्वः। तादृश हे इन्द्र प्रजायै पुत्रा दिप्रजासिद्ध्यर्थं स त्वं नोऽस्मान्मृडय सुखय, नोऽस्मान्मा रीरिपो मा हिंसीर्मा परादा मा च तिरस्कुरु।
“May the omnipresent (Indra), the mighty one, who is invoked by many, and lauded by many, bestow ablessing on this our sacrifice; be gracious to our offspring, Indra, lord of bay horses; harm us not, desert us not.”
Foodful, and much-invoked, at this our calling may the great Bull vouchsafe us wide protection.
Lord of Bay Coursers, Indra, blew our children: harm us not, give us riot as prey to others.
The buffalo of broad expanse will offer shelter to us at this invocation— he who is invoked by many, who provides many cattle.
Show mercy to our offspring, o you of the fallow bays. Do not harm us nor hand us over.
Der umfangsreiche Stier verleihe Schutz uns, bei diesem Ruf der vielgerufne Nährer, Sei unsern Kindern hold, o Füchselenker, verletz uns nicht, o Indra, noch gib preis uns.
Der umfängliche Büffel soll uns Zuflucht gewähren bei diesem Anruf, der Vielgerufene, Viehreiche. Sei unseren Kindern gnädig, o Falbenherr; schädige uns nicht, Indra, gib uns nicht preis!
Огромный буйвол пусть дарует нам защиту
При этом призыве (богов), (он), многопризываемый, богатый скотом!
Будь милостив к нашему потомству, о хозяин буланых коней!
О Индра, не причини нам вреда, не выдай нас!
ये न॑: स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् । वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं॑ मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन् ॥
ये । नः॒ । स॒ऽपत्नाः॑ । अप॑ । ते । भ॒व॒न्तु॒ । इ॒न्द्रा॒ग्निऽभ्या॑म् । अव॑ । बा॒धा॒म॒हे॒ । तान् । वस॑वः । रु॒द्राः । आ॒दि॒त्याः । उ॒प॒रि॒ऽस्पृश॑म् । मा॒ । उ॒ग्रम् । चेत्ता॑रम् । अ॒धि॒ऽरा॒जम् । अ॒क्र॒न् ॥
नः अस्माकं ये सपत्नाः शत्रवः ते अप भवन्तु अपगता भवन्तु । स्वस्थानादपगताः प्रच्युता भवन्तु । तान् सपत्नान् इन्द्राग्निभ्यां हविर्भिः स्तुत्या च प्रसन्नाभ्यामनुगृहीता वयम् अव बाधामहे निकृष्टतरं विनाशयामः । अपि च वसवो रुद्रा आदित्याः च मा माम् उपरिस्पृशम् उन्नतपदस्य संस्प्रष्टारं सर्वेभ्यः श्रेष्ठम् अक्रन् कुर्वन्तु । तथा उग्रम् उद्गूर्णबलं चेत्तारं चेतितारम् ॥ छान्दस इडभावः ॥ सर्वस्य ज्ञातारम् अधिराजं सर्वेषामधीश्वरं च मां कुर्वन्तु ॥ करोतेश्छान्दसे लुङि ‘ मन्त्रे घस इत्यादिना च्लेर्लुक् ॥ । १६ ॥ ॥ १० ॥
_
अथ नवमीमाह– २२६५ ये न सपत्ना इति। ये केचिन्नोऽस्माकं सपत्नाः शत्रवः सन्ति तेऽपभ वन्त्वपनययुक्ता भवन्तु। वयं तान्सपत्नानिन्द्राग्निभ्यामनुग्रहयृक्ताभ्यां सहिता अवबाधामहे सर्वथा बाधितान्कुर्मः। वसुरुद्रादित्या देवता मामेतादृशमक्रन्कुर्वन्तु। कीदृशमिति तदुच्यतेउपरितनं स्वर्गं स्पृशतीत्युपरिस्पृक्तम्, उग्रं शत्रुतिरस्कारक्षमं, चेत्तारमभिज्ञातारम्, अधिराजमन्येषां सर्वेषामधिपतिम्।
“May those who are our foes be driven off; may we through Indra and Agni destroy them; may theVasus, the Rudras, and the Ādityas make me the high- reaching, fierce, intelligent, supreme ruler.”
Let those who are our foemen stay. afar from us: with Indra and with Agni we will drive them off.
Vasus, Adityas, Rudras have exalted me, made me far-reaching, inighty, thinker, sovran lord.
Whoever are our rivals, let them keep away: with Indra and Agni we will thrust them down.
The Vasus, Rudras, and Ādityas have made me one who touches on high, a formidable observer, an over-king.
Es mögen fern von uns die Feinde bleiben, durch Indra, Agni stossen wir zurück sie; Die Vasu's, Rudra's, die Aditja's haben, zum hohen, grossen Hort und Herrn gemacht mich.
Unsere Nebenbuhler sollen sich wegheben, mit Indra und Agni unterdrücken wir sie. Die Vasu´s, Rudra´s, Aditya´s haben mich zum überragenden, zum gewaltigen Meister und Oberherrn gemacht.
(Те,) что наши соперники, пусть они уберутся!
С Индрой и Агни мы оттесняем их прочь.
Васу, Рудры, Адитьи сделали меня
Выдающимся, могучим знатоком, верховным владыкой.