यो य॒ज्ञो वि॒श्वत॒स्तन्तु॑भिस्त॒त एक॑शतं देवक॒र्मेभि॒राय॑तः । इ॒मे व॑यन्ति पि॒तरो॒ य आ॑य॒युः प्र व॒याप॑ व॒येत्या॑सते त॒ते ॥
यः । य॒ज्ञः । वि॒श्वतः॑ । तन्तु॑ऽभिः । त॒तः । एक॑ऽशतम् । दे॒व॒ऽक॒र्मेभिः॑ । आऽय॑तः । इ॒मे । व॒य॒न्ति॒ । पि॒तरः॑ । ये । आ॒ऽय॒युः । प्र । व॒य॒ । अप॑ । व॒य॒ । इति॑ । आ॒स॒ते॒ । त॒ते ॥
तन्तुभिः तनितृभिर्विस्तारयितृभिर्वियदादिभूतैः यः सर्गात्मकः यज्ञः विश्वतः सर्वतः ततः विस्तृतः । तथा एकशतम् । एकं च शतं चैकशतम् । ' संख्या ' इति पूर्वपदप्रकृतिस्वरत्वम् । एकोत्तरशतमित्यर्थः । ब्रह्मा येषु शतसंख्येषु आत्मीयसंवत्सरेषु जीवति तदभिप्रायेणात्र शतसंख्या । जीवता तेन प्रजापतिना सार्धमेकशतमित्युच्यते । यथा ' शतायुर्वै पुरुषः शतवीर्यं आत्मैकशतः ' ( तै. ब्रा. १ .७. ६४) इति । अत्यन्तसंयोगे द्वितीया । ब्रह्मणः शतसंवत्सरपर्यन्तं देवकर्मेभिः देवानुद्दिश्य भोक्तृभिः कृतैः कर्मभिः आयतः दीर्घीभूतः । तावत्कालावस्थायी । एवमायामविस्तारवान् यः उक्तः सर्गात्मको यक्षस्तं यज्ञम् इमे पितरः पालकाः प्रजापतेः प्राणभूता विश्वसृजो देवाः वयन्ति निर्मिमते । ये देवाः आययुः स्रष्टव्यं सर्वं जगत् सर्जनेन व्यापुः । अपि च प्र वयाप वयेति । प्रवाणं नाम प्रकृष्टस्य चेतनस्य भोक्तृप्रपञ्चस्य सर्जनम् । अपवानं नाम अपकृष्टस्य निकृष्टस्य अचेतनस्य भोग्यप्रपञ्चस्य सर्जनम् । ' वेञ् तन्तुसंताने ' । ' समुच्चयेऽन्यतरस्याम् ' ( पा. सू ३.४. ३) इति लोट् । तस्य ' लोटो हिस्वौ' ' इत्यनुवृत्तेर्हिरादेशः । शब्गुणायादेशाः । ' अतो हेः ' इति लुक् । प्र वयाप वयेति वयन्तः प्रवाणमपवानं च कुर्वन्त इत्यर्थः । एवंभूताः सन्तस्ते विश्वसृजः तते विस्तृते सत्यलोके आसते प्राणरूपेण प्रजापतिमुपासते । यद्वा ज्योतिष्टोमादिर्यज्ञ एवंरूपकत्वेन पटात्मना वर्ण्यते । यो यज्ञो ज्योतिष्टोमादिस्तन्तुभिः तन्तुस्थानीयैः अग्निष्टोमात्यग्निष्टोमादिसंस्थाभेदैः
सप्तभिश्छन्दोभिर्वा विश्वतः सर्वतस्ततो विस्तृतः ।' तथैकशतम् । तृतीयार्थे प्रथमा । एकाधिकेनाग्निचयनेन युक्तैः देवकर्मेभिः' गवामयनप्रभृतिकैः विश्वसृजामयनान्तैः एकाहादिसत्रात्मकैर्वा आयतो दीर्घीभूत् एवमायामविस्तारवान् यज्ञात्मकोऽयं पटः प्रजापतिना सृष्टः । तं पटं पितरोऽस्माकं पितृभूता इमेऽङ्गिरसो वयन्ति । तस्य पटस्य प्राचीनतन्तुस्थानीयानि स्तुतशस्त्राणि प्र वय त्वं कुरु अप वय तिरश्चीनतन्तुस्थानीयानि यजूंषि त्वं कुरु इत्येवं परस्परं नियुञ्जाना आसते नियुञ्जन्ति॥
एवं विरुतस्य यज्ञस्य प्रजापतेः सकाशादुत्पत्तिरुत्तरया प्रतिपाद्यते ॥
“The sacrifice which is extended on every side by the threads (of created things) spread out by theworship of the gods for a hundred and one (years), these our progenitors, who have preceded us, weave it,weaving forwards, weaving backwards, they worship (Prajāpati) when (the world) is woven.”
THE sacrifice drawn out with threads on every side, stretched by a hundred sacred ministers and one,-
This do these Fathers weave who hitherward are come: they sit beside the warp and cry, Weave forth, weave back.
The sacrifice, which is extended in every direction by its warp threads and stretched out by a hundred and one acts of the gods—
these fathers who have traveled here weave that. They sit at the warp, saying, “Weave forth, weave back.”
Das Opfer, das nach allen Seiten durch seine Fäden ausgespannt, und durch hundertundeins Verrichter heiliger Werke aufgezogen war, das weben diese Väter, welche hergekommen sind; »Hebe an zu weben, webe fertig«, so sprechend sassen sie bei des Gewebes Aufzug.
Das Opfer, das nach allen Seiten mit seinen Fäden aufgespannt ist, das mit hundert und einem gottesdienstlichen Werken aufgezogen ist, das weben diese Väter, die herbeigekommen sind. Sie sitzen bei dem Aufgespannten und sprechen: Webe hin, webe her!
Жертва, которая во все стороны протянута (своими) нитями,
Распространена сто одним действием, (служащим) богам, -
(Ее) ткут эти отцы, которые пришли.
Они сидят возле протянутой (жертвы, говоря) так: Тки вперед! Тки назад!
पुमाँ॑ एनं तनुत॒ उत्कृ॑णत्ति॒ पुमा॒न्वि त॑त्ने॒ अधि॒ नाके॑ अ॒स्मिन् । इ॒मे म॒यूखा॒ उप॑ सेदुरू॒ सद॒: सामा॑नि चक्रु॒स्तस॑रा॒ण्योत॑वे ॥
पुमा॑न् । ए॒न॒म् । त॒नु॒ते॒ । उत् । कृ॒ण॒त्ति॒ । पुमा॑न् । वि । त॒त्ने॒ । अधि॑ । नाके॑ । अ॒स्मिन् । इ॒मे । म॒यूखाः॑ । उप॑ । से॒दुः॒ । ऊँ॒ इति॑ । सदः॑ । सामा॑नि । च॒क्रुः॒ । तस॑राणि । ओत॑वे ॥
पुमान् पुरुष आदिपुरुषः प्रजापतिः एनं यज्ञं तनुते विस्तारयति । सृष्टवानित्यर्थः । तथा च ब्राह्मणं - ' स प्रजापतिर्यज्ञमतनुत तमाहरत्तेनायजत ' ( ऐ. ब्रा. ५.३.२) इति ' प्रजापतिर्यज्ञमसृजत यज्ञं सृष्टमनु ब्रह्मक्षत्रे असृज्येताम् ' ( ऐ- ब्रा. ७-१९) इति च । स एव पुमान् सृष्टं तं यज्ञम् उत्कृणत्ति उद्वेष्टयति । ' कृती वेष्टने ' । रौधादिकः । रा एव पुमान् प्रजापतिः अस्मिन् भूलोके नाके । अकं दुःखं नास्त्यस्मिन्निति नाकः स्वर्गलोकः । ' नभ्राण्नपात्' इत्यादिना नञः प्रकृतिभावः । तत्र च वि तत्ने इमं यज्ञं विस्तारयति । अधिः सप्तम्यर्थानुवादी । तनोतेर्लिटि ' तनिपत्योश्छन्दसि ' इत्युपधालोपः । तस्य स्थानिवद्भावात् द्विर्वचनम् । मयूखाः रश्मिभूतास्तस्य प्रजापतेः प्राणात्मकाः इमे विश्वसृजो देवाः सदः सदनं देवयजनस्थानम् उप सेदुः । विश्वसर्जनहेतुभूतं विश्वसृजामयनाख्यं यज्ञं कर्तुमुपसीदन्ति । उपसद्य च सामानि रथन्तरादीनि ओतवे वयनाय यज्ञाख्यं वस्त्रमोतुं तसराणि तिर्यक्सराणि तिरश्चीनसूत्राणि चक्रुः ॥
“The first man spreads out this (web), the first man rolls it up, he spread it above in this heaven; thesehis rays have sat down on the seat (of sacrifice), they have made the prayers serve as shuttles for weaving.”
The Man extends it and the Man unbinds it: even to this vault of heaven hath he outspun, it.
These pegs are fastened to the seat of worship: they made the Sama-hymns their weaving shuttles.
A man extends it [=the warp] and pulls it up (with the heddles); a man has extended it out upon the vault of heaven here.
Here are their pegs; they [=the gods?] sat down upon their seat and made the sāman-chants the shuttles for weaving.
Ein Mann zieht es auf, ein Mann spinnt es fort, er spannt es aus an diesem Himmelsrahmen; diese Pflöcke sind befestigt an dem Sitze; die Gesänge machten sie zu Weberschiffen, um zu weben.
Der Mann spannt es auf, zieht den Faden aus, der Mann hat es an diesem Firmament festgespannt. Dies sind die Pflöcke. Sie haben sich an ihren Sitz gesetzt; sie haben die Melodien zu Webschiffchen gemacht, um zu weben.
Муж тянет ее (и) прядет,
Муж дотянул (ее) до этого небосвода.
Вот колышки. Они уселись на сиденье.
Напевы они сделали челноками, чтобы ткать.
कासी॑त्प्र॒मा प्र॑ति॒मा किं नि॒दान॒माज्यं॒ किमा॑सीत्परि॒धिः क आ॑सीत् । छन्द॒: किमा॑सी॒त्प्रउ॑गं॒ किमु॒क्थं यद्दे॒वा दे॒वमय॑जन्त॒ विश्वे॑ ॥
का । आ॒सी॒त् । प्र॒ऽमा । प्र॒ति॒ऽमा । किम् । नि॒ऽदान॑म् । आज्य॑म् । किम् । आ॒सी॒त् । प॒रि॒ऽधिः । कः । आ॒सी॒त् । छन्दः॑ । किम् । आ॒सी॒त् । प्रउ॑गम् । किम् । उ॒क्थम् । यत् । दे॒वाः । दे॒वम् । अय॑जन्त । विश्वे॑ ॥
विश्वसर्जनोपायत्वेन प्रजापतिना सृष्टे यज्ञे विश्वस्य स्रष्टारो विश्वसृजो देवा विश्वसर्जनाय तं यज्ञमन्वतिष्ठन् । तस्मिन् समये जगतोऽनुत्पत्तेर्जगदन्त:पातिनो यागोपकरणभूताः पदार्थाः कथमासन्नित्यनया प्रश्नः क्रियते । यत् यदा विश्वे सर्वे साध्याः देवाः देवं प्रजापतिम् अयजन्तु तदानीं तस्य यज्ञस्य प्रमा प्रमाणम् इयत्ता का कथंभूता आसीत् । तथा प्रतिमा । हविष्प्रतियोगित्वेन मीयते निर्मीयत इति प्रतिमा देवता । सा च तस्य यज्ञस्य कासीत् । तथा निदानम् आदिकारणं यागेऽप्रवृत्तस्य प्रवर्तकं फलं किम् आसीत् । तथा आज्यं घृतमेतदुपलक्षितं हविर्वा तस्य यज्ञस्य किमासीत् । तथा परिधिः । परितो धीयन्त इति त्रयः परिधयो बाहुमात्राः पलाशादिवृक्षजन्याः । परिपूर्वात् दधातेः उपसर्गे धोः किः' ( पा. सू. ३, ३.९२) इति कित्ययः । सामान्यापेक्षमेकवचनम् । परिधयः क आसन्नित्यर्थः । तथा तस्य यज्ञस्य गायत्र्यादिकं छन्दः किमासीत् । तथा प्रउगम् उक्थम् । उपलक्षणमेतत्! आज्यप्रउगादीन्युक्थानि शस्त्राणि वा कान्यासन् । एतेषु प्रश्नेषु त्रयाणामुत्तरं द्वृचेनाह ॥
“What was the authority (of the sacrifice), what was thelimitation, what was the first cause, what wasthe clarified butter, what was the enclosure, what was the metre, what was pra-uga text, when the universal godsoffered worship to the gods?”
What were the rule, the order and the model? What were the wooden fender and the butter?
What were the hymn, the chant, the recitation, when to the God all Deities paid worship?
What was its model, its image? What its connection? What was its melted butter? What was its frame?
What was the meter? What was the Praüga-recitation, what the hymn?— when all the gods offered the god [=the Sacrifice].
Welches war das Urbild? das Abbild? welches die Verbindung? welches war das Opferschmalz? welches die Feuerumhegung? welches war das Versmass [chándas], die Frühstrophe [práuga]? welches der Spruch, als alle Götter den Gott verehrten?
Welches war der Maßstab, das Muster, welches war die Grundlage? Was war das Schmalz, was war der Rahmen? Was war das Metrum, das Pragasastra, was die Hymne, als alle Götter dem Gotte opferten?
Что было образцом? (Что) подражанием? Какова связь (между ними)?
Жертвенным маслом что было? Оградой что было?
Что было поэтическим размером, речью жрецов, что гимном,
Когда Все-Боги принесли в жертву бога?
अ॒ग्नेर्गा॑य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑या सवि॒ता सं ब॑भूव । अ॒नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्मह॑स्वा॒न्बृह॒स्पते॑र्बृह॒ती वाच॑मावत् ॥
अ॒ग्नेः । गा॒य॒त्री । अ॒भ॒व॒त् । स॒ऽयुग्वा॑ । उ॒ष्णिह॑या । स॒वि॒ता । सम् । ब॒भू॒व॒ । अ॒नु॒ऽस्तुभा॑ । सोमः॑ । उ॒क्थैः । मह॑स्वान् । बृह॒स्पतेः॑ । बृ॒ह॒ती । वाच॑म् । आ॒व॒त् ॥
सयुग्वा सहयुक्ता अग्नेः सहायभूता गायत्र्यभवत् । यष्टव्यात् प्रजापतेर्मुखादजायत । देवतासु मध्येऽग्निः छन्दःसु गायत्री च उभावप्यजायेतामित्यर्थः । तथा च तैत्तिरीयकं - ‘ प्रजापतिरकामयत प्र जायेयेति स मुखतस्त्रिवृतं निरमिमीत तमग्निर्देवतान्वसृज्यत गायत्री छन्दः ( तै. सं. ७. १. १. ४ ) इति । उष्णिहया उष्णिक्छन्दसा सह सविता देवः सं बभूव तस्मात् प्रजापते र्जज्ञे । ‘ टापं चापि हलन्तानाम् इति वचनादुष्णिहशब्दात टाप् । तथा महस्वान् तेजस्वी सोमः उक्थैः स्तुतशस्रैःाप अनुष्टुभा अनुष्टुप्छन्दसा च सार्धं तस्मादेव प्रजापतेरजायत । तथा बृहस्पतेः देवस्य वाचं वाक्यं बृहती छन्दः आवत् अरक्षत् अच्छद्वा । बृहत्या सार्धं बृहस्पतिरपि तस्मात् प्रजापतेर्जज्ञ इत्यर्थः ॥
“Gāyatrī became the associate of Agni, Savitā became combined with Uṣṇik, Soma radiant withsacred praises (was united) with Anuṣṭup, Bṛhatī gave efficacy to the words of Bṛhaspati.”
Closely was Gayatri conjoined with Agni, and closely Savitar combined with Usnih.
Brilliant with Ukthas, Soma joined Anustup: Brhaspati's voice by Brhati was aided.
The gāyatrī meter became the yokemate of Agni. Savitar has united with the uṣṇihā meter
and Soma with the anuṣṭubh meter, gaining greatness through the
hymns. The br̥hatī meter helped the speech of Br̥haspati.
Mit Aggni war die Gājatrī verbunden, mit der Uschnihā war Savitar in Verbindung, mit den Anustubh's Soma, sich an den Sprüchen erfreuend, die Brihatī unterstützte das dem Brihaspati vorgetragene Lied.
Die Gayatri ward Agni´s Jochgenosse, Savitri verband sich mit der Usnij, Soma mit der Anustubh, wann er mit Loblied gefeiert wird. Das Brihati unterstützte des Brihaspati Rede.
(Размер) гаятри был сопряжен с Агни;
С (размером) ушних был связан Савитар;
С (размером) ануштубх – Сома, возвеличенный гимнами;
Речь Брихаспати подкреплял (размер) брихати.
वि॒राण्मि॒त्रावरु॑णयोरभि॒श्रीरिन्द्र॑स्य त्रि॒ष्टुबि॒ह भा॒गो अह्न॑: । विश्वा॑न्दे॒वाञ्जग॒त्या वि॑वेश॒ तेन॑ चाकॢप्र॒ ऋष॑यो मनु॒ष्या॑: ॥
वि॒राट् । मि॒त्रावरु॑णयोः । अ॒भि॒ऽश्रीः । इन्द्र॑स्य । त्रि॒ऽस्तुप् । इ॒ह । भा॒गः । अह्नः॑ । विश्वा॑न् । दे॒वान् । जग॒ती । आ । वि॒वे॒श॒ । तेन॑ । चा॒कॢ॒प्रे॒ । ऋष॑यः । म॒नु॒ष्याः॑ ॥
अपि च मित्रावरुणयोः देवयोः विराट् छन्दः अभिश्रीः अभिश्रिता आश्रितासीत् । विराजा सह मित्रावरुणावपि प्रजापतेः सकाशादजायेतामित्यर्थः । इह अस्मिन् यज्ञे अह्नः सवनत्रयरूपस्य भागः मध्यंदिनसवनाख्यः अंशः त्रिष्टुप् छन्दश्च इन्द्रस्य अभिश्रयणीयौ आस्ताम् । ताविन्द्रश्च प्रजापतेः सकाशादजायन्तेत्यर्थः । तथा च तैत्तिरीयकम् -- उरसो बाहुभ्यां पञ्चदशं निरमिमीत तमिन्द्रो देवतान्वसृज्यत त्रिष्टुप्छन्दो बृहत्साम ' ( तै. सं. ७,१.१.४ ) इति । तथा विश्वान् सर्वान् देवान् जगती छन्दः आ विवेश प्रविष्टवती । विश्वे देवा जगती व प्रजापतेरजायन्तेत्यर्थः । तथा च तैत्तिरीयकं -- तं विश्वे देवा देवता अन्वसृज्यन्त जगती छन्दो वैरूपं साम ' ( तै. सं. ७. १. १, ५) इति । उक्तेन प्रकारेण प्रतिमा कासीत् छन्दः किमासीत् प्रउगं किमुक्थमिति त्रयाणामुत्तरं जातम् । आज्यं किमासीत् परिधिः क आसीदित्यनयोरुत्तरं पुरुषसूक्ते द्रष्टव्यम् । तत्र इहेवमाम्नायते---- देवा यज्ञमतन्वत वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः' ‘ सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ' ( क्र. सं. १०, ९०, ६; १५ ) इति । अयमर्थः । सर्वरसोत्पादको वसन्तः तस्य जगत्सर्जनसाधनस्य यज्ञस्याज्यमासीत् । आज्यदध्यादिभी रसैः सार्धं तादृशो वसन्तोऽजायतेत्यर्थः । सर्वरसानां शोषको ग्रीष्म ऋतुरिध्म आसीत् । शुष्कैः काष्ठैः सार्धं ग्रीष्मोऽजायतेत्यर्थः । पच्यमानव्रीहियुक्तः शरदृतुस्तस्य यज्ञस्य हविरासीत् । सप्त छन्दांसि त्रिः सप्तैकविंशतिधा भूत्वा अष्टादश समिधस्त्रयः परिधयश्चासन् । कासीत् प्रमा प्रतिमा किं निदानमित्यनयोरपि प्रश्नयोरप्येवमुत्तरं ‘ पूर्वे विश्वसृजोऽमृताः शतं वर्षसहस्राणि दीक्षिताः सत्रमासत ' इति ‘ एतेन वै विश्वसृज इदं विश्वमसृजन्त ' ( तै, ब्रा. ३. १२. ९. २; ८) इति च तैत्तिरीयके समाम्नायते । अतस्तस्य यज्ञस्य सहस्रसंवत्सरपरिमितः कालः प्रमाणम् । विश्वस्य जगतः सर्जनमादिकारणं प्रवर्तकं फलमित्यर्थः । एतदुक्तं भवति । यदा विश्वसृजो देवा देवं प्रजापतिं विश्वसृजामयनाख्येन यागेनायजन् तदोक्ताः सर्वयागोपकरणाः प्रजापतेः सकाशादजायन्तेति । यतोऽग्न्यादिदेवताभिः सह गायत्र्यादीनि सप्त छन्दांसि जातानि अतो हेतोस्तेषां छन्दसामग्न्यादयो देवता इति । छन्दोविचितौ सूत्रितं च -- अग्निः सविता सोमो बृहस्पतिर्मित्रावरुणाविन्द्रो विश्वे देवा देवताः । (पि. सू. ३.६३ ) इति । एवं प्राजापत्यो यज्ञोऽनुष्ठितः । तेन यज्ञेन ऋषयः मनुष्याः च चाक्लृप्रे चक्लृपिरे । क्लृप्ताः सृष्टा आसन् ॥ कृपेः कर्मणि लिटि • इरयोः० ' इति रेआदेशः । ‘ कृपो रो लः ' ( पा. सू.८.२.१८) इति लत्वम् । तुजादित्वात् अभ्यासदीर्घः । तेनैव यज्ञेन सर्वं जगदसृजन्नित्यर्थः ॥
“Virāt. was the glory of Mitra and Varuṇa; Triṣṭubh was Indra's portion of the midday (oblation) atand 5 answer the question, what was the metre? Two of the other questions- those relating to the butter (ājya)and the enclosure (paridhi)-- have been answered, in the Puruṣa sūkta, 10.90; cf. Taittirīya Brāhmaṇa3.12.9]. beholding them with the eye of the mind, I glorify those who of old celebrated this sacrifice.”
Viraj adhered to Varuna and Mitra: here Tristup day by day was Indra's portion.
Jagati entered all the Gods together: so by this knowledge men were raised to Rsis.
The virāj meter is the full glory of Mitra and Varuṇa, and the triṣṭubh meter is here Indra’s portion of the (sacrificial) day.
The jagatī meter entered the All Gods. According to this did the seers, the sons of Manu, arrange (the ritual).
Die Virādsch [virâj] war des Mitra und Varuna Ausschmückung, die Trischtubh hier des Indra Tagesantheil; zu den Allgöttern ist die Dschagati [jágatī] eingegangen; danach haben sich die menschlichen Dichter gerichtet.
Viraj war das Vorrecht von Mitra und Varuna, die Tristubh war das der Anteil des Opfertages für Indra. Die Jagati ist zu den Allgöttern übergegangen. Darnach haben sich die menschlichen Rishi´s gerichtet.
(Размер) вирадж – преимущество Митры-Варуны;
(Размер) триштубх – здесь дневная доля Индры;
(Размер) джагати вошел во Всех-Богов.
С этими сообразовывались риши людские.
चा॒कॢ॒प्रे तेन॒ ऋष॑यो मनु॒ष्या॑ य॒ज्ञे जा॒ते पि॒तरो॑ नः पुरा॒णे । पश्य॑न्मन्ये॒ मन॑सा॒ चक्ष॑सा॒ तान्य इ॒मं य॒ज्ञमय॑जन्त॒ पूर्वे॑ ॥
चा॒कॢ॒प्रे । तेन॑ । ऋष॑यः । म॒नु॒ष्याः॑ । य॒ज्ञे । जा॒ते । पि॒तरः॑ । नः॒ । पु॒रा॒णे । पश्य॑न् । म॒न्ये॒ । मन॑सा । चक्ष॑सा । तान् । ये । इ॒मम् । य॒ज्ञम् । अय॑जन्त । पूर्वे॑ ॥
पुराणे चिरंतने अस्मिन् यज्ञे जाते विश्वसृड्भिर्देवैः सम्यगनुष्ठिते सति तेन यज्ञेन ऋषयो मनुष्याः नः अस्माकं पितरः पूर्वपुरुषाश्च चाक्लृप्रे अकल्प्यन्त । असृज्यन्त । इमम् ईदृशं यज्ञं ये पूर्वे साध्या देवाः प्रजापतेः प्राणभूताः अयजन्त अन्वतिष्ठन् तान् देवान् प्राणात्मना सर्वत्र वर्तमानान् चक्षसा दर्शनहेतुना मनसा पश्यन् जानन् मन्ये । तानेव विश्वस्रष्टॄन् देवान् स्तौमि । मन्यतिरर्चतिकर्मा ॥
So by this knowledge men were raised to Rsis, when ancient sacrifice sprang up, our Fathers.
With the mind's eye I think that I behold them who first performed this sacrificial worship.
The seers, the sons of Manu, our fathers, arranged (the ritual) according to this, when the sacrifice was born in ancient times.
Seeing with my mind as my eye, I think of the ancient ones who offered this sacrifice.
Danach haben sich die menschlichen Dichter gerichtet, unsere Väter, als das uralte Opfer erzeugt war; schauend betrachte ich mit Geist und Auge die, welche zuerst dies Opfer dargebracht haben.
Darnach haben sich die menschlichen Rishi´s gerichtet, unsere Väter, als das Opfer in der Vorzeit erschaffen war. Mit dem Geiste als Auge glaube ich die zu sehen, welche zuerst diesem Opfer opferten.
Сообразовывались с этим риши людские,
Отцы наши древние, когда родилась жертва.
Я считаю, что вижу мыслью-взором тех,
Кто первыми пожертвовал эту жертву.
स॒हस्तो॑माः स॒हछ॑न्दस आ॒वृत॑: स॒हप्र॑मा॒ ऋष॑यः स॒प्त दैव्या॑: । पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो॒३॒॑ न र॒श्मीन् ॥
स॒हऽस्तो॑माः । स॒हऽछ॑न्दसः । आ॒ऽवृतः॑ । स॒हऽप्र॑माः । ऋष॑यः । स॒प्त । दैव्याः॑ । पूर्वे॑षाम् । पन्था॑म् । अ॒नु॒ऽदृश्य॑ । धीराः॑ । अ॒नु॒ऽआले॑भिरे । र॒थ्यः॑ । न । र॒श्मीन् ॥
स्तोमैः त्रिवृत्पञ्चदशादिभिः सह वर्तमानाः सहस्तोमाः सहछन्दसः गायत्र्यादिभिः छन्दोभिः सह वर्तमानाः आवृतः आवर्तमानाः सहप्रमाः । प्रमितिः प्रमा यज्ञस्येद्यत्तापरिज्ञानम् । तेन सह वर्तमानाः दैब्याः देवस्य प्रजापतेः संबन्धिनः यद्वा देवानां यष्टव्यानां संबन्धिनः ऋषयः द्रष्टारः सप्तसंख्याकाः शीर्षण्याः । यद्वा । मरीचिप्रमुखाः सप्तर्षयो होत्रादयः सप्त वषट्कर्तारो वा । एवंविधा एते पूर्वेषां पूर्वपुरुषाणामङ्गिरःप्रभृतीनां विश्वसृजां देवानां वा पन्थां पन्थानमनुष्ठानमार्गम् अनुदृश्य क्रमेण ज्ञात्वा धीराः धीमन्तः सन्तः अन्वालेभिरे अनुक्रमेण आरब्धवन्तः । यागानुष्ठाने प्रवृत्ता इत्यर्थः । रथ्यो न यथा रथिनो रथेन युक्ता रथस्य नेतारः सूताः रश्मीन् अश्वनियोजनार्थान् प्रग्रहान् सम्यग्रथस्य नयनाय हस्तेनान्वारभन्ते । अन्वारभ्य च सम्यक् तं रथं प्रवर्तयन्ति एवमेतेऽप्यनुष्ठानमार्गं श्रुतितोऽवगम्य सम्यगन्वतिष्ठन्नित्यर्थः ॥ ॥३ ८॥
They who were versed in ritual and metre, in hymns and rules, were the Seven Godlike Rsis.
Viewing the path of those of old, the sages have taken up the reins like chariot-drivers.
The courses (of the ritual were) joined with the praise songs, joined with the meters. The heavenly Seven Seers were joined with the model (of the rite).
Looking along the path of the ancients, the insightful ones [=the present priests] have taken hold of the reins (of the sacrifice) like charioteers.
Die sieben göttlichen Dichter mit ihren Lobliedern, ihren Versen, ihren Maassen sich herwendend, nach dem Pfade der früheren blickend, die weisen, ergriffen die Zügel wie Wagenlenker.
Die wiederkehrenden Handlungen waren mit den Gesängen, mit den Metren im Einklang, die sieben göttlichen Rishi´s mit der Richtschnur. Indem die Sachverständigen auf den Weg der Vorfahren zurückblickten, haben sie wie Wagenlenker die Zügel des Opfers ergriffen.
Повторяющиеся действия (обрядов) соответствуют восхвалениям, соответствуют размерам.
Семеро божественных риши соответствуют (древнему) образцу.
Мудрые, озирая путь древних,
Взяли в руки вожжи, словно колесничие.