ई॒जा॒नमिद्द्यौर्गू॒र्ताव॑सुरीजा॒नं भूमि॑र॒भि प्र॑भू॒षणि॑ । ई॒जा॒नं दे॒वाव॒श्विना॑व॒भि सु॒म्नैर॑वर्धताम् ॥
ई॒जा॒नम् । इत् । द्यौः । गू॒र्तऽव॑सुः । ईजा॒नम् । भूमिः॑ । अ॒भि । प्र॒ऽभू॒षणि॑ । ई॒जा॒नम् । दे॒वौ । अ॒श्विनौ॑ । अ॒भि । सु॒म्नैः । अ॒व॒र्ध॒ता॒म् ॥
गूर्तवसुः । गूर्तमुद्यतं स्तोतृभ्यो दानाय हस्ते धृतं वसु धनं यस्याः सा तथोक्ता ॥ 'गुरी उद्यमने ' । निष्ठा । ' श्वीदितो निष्ठायाम् ' इतीट्प्रतिषेधः । ' नसत्तनिषत्त० ' इत्यादिना निपातनान्निष्ठानत्वाभावः । ' अंन्येषामपि० इति सांहितिको दीर्घः । बहुव्रीहौ पूर्वंपदप्रकृतिस्वरत्वम् ॥ ईदृशी द्यौः द्युलोकाभिमानिनी देवता ईजानम् इत् यज्ञैः इष्टवन्तमेव पुरुषमभिवर्धयति । यजेलिटः कानच् । ' वचिस्वपि' इति संप्रसारणे द्विर्वचनम् । तथा भूमिः च प्रभूषणि प्रभवने यद्वा प्रकृष्टभूषणे अलंकारे निमित्तभूते सति ईजानम् अभिवर्धयति । अपि च देवौ दानादिगुणणयुक्तौ अश्विनौ ईजानम् इष्टवन्तं पुरुषं सुम्नैः धनैः अभि अवर्धताम् अभिवर्धयतः । वृधेरन्तर्भावितण्यर्थात् छान्दसो लङ् ॥
“The Heaven liberal of treasure (prospers) the sacrificer, the Earth (prospers) the sacrificer because ofthe ornament, the divine Aśvins prospered the sacrificer with blessings.”
MAY Dyaus the Lord of lauded wealth, and Earth stand by the man who offers sacrifice,
And may the Asvins, both the Gods, strengthen the worshipper with bliss.
The man who has sacrificed for himself—Heaven with its welcomed goods (is occupied in tending) just to him; Earth is (occupied in)
tending to him who has sacrificed for himself.
The two gods, the Aśvins, with their favors have strengthened him who has sacrificed for himself.
Dem Opferer möge der an willkommenen Gütern reiche Himmel, dem Opferer die Erde beistehen; den Opferer haben die beiden Götter, die Açvinen, durch ihre Hulderweisungen erquickt.
Dem Opferer soll der Himmel, der preisliches Gut hat, dem Opferer die Erde Genüge tun. Dem Opferer gaben die beiden Götter Asvin durch ihre Gnaden Gedeihen.
За жертвователя (пусть) Небо, владеющее воспетым добром,
За жертвователя пусть Земля заступится!
Жертвователя пусть два бога Ашвина
Приведут к процветанию (своими) милостями!
ता वां॑ मित्रावरुणा धार॒यत्क्षि॑ती सुषु॒म्नेषि॑त॒त्वता॑ यजामसि । यु॒वोः क्रा॒णाय॑ स॒ख्यैर॒भि ष्या॑म र॒क्षस॑: ॥
ता । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । धा॒र॒यत्क्षि॑ती॒ इति॑ धा॒र॒यत्ऽक्षि॑ती । सु॒ऽसु॒म्ना । इ॒षि॒त॒त्वता॑ । य॒जा॒म॒सि॒ । यु॒वोः । क्रा॒णाय॑ । स॒ख्यैः । अ॒भि । स्या॒म॒ । र॒क्षसः॑ ॥
हे मित्रावरुणा मित्रावरुणौ धारयत्क्षिती ध्रियमाणभूमिकौ । यद्वा क्षितिरिति मनुहयनाम । हवींषि धारयन्तः क्षितयो मनुष्या ययोः स्वभूतास्तथाविधौ । सुषुम्ना सुषुम्नौ सुधनौ सुसुखौ वा ता तौ वां युवाम् इषितत्वता इषितत्वेन । तृतीयैकवचने छान्दसस्तकारोपजनः । यद्वा । भावप्रत्ययान्तात् पुनरपि भावप्रत्ययो विकरणद्वयवत् । इषितव्यत्वेन प्राप्तव्यत्वेन । हेतौ तृतीया । यतो युवां देवेषु मध्ये प्राप्तव्यौ ततो हेतोः यजामसि हविर्भिर्यजामः । इदन्तो मसि' इति मस इकारागमः । एवं च युवोः युवयोः सख्यैः सखित्वैः । सख्युर्यः । क्राणाय कुर्वते यजमानाय । करोतेः शानचि छान्दसो विकरणस्य लुक् । तादर्थ्ये चतुर्थी । यजमानार्थं रक्षसः यज्ञस्य बाधकान् राक्षसान् अभि ष्याम अभिभवेम । ' उपसर्गप्रादुर्भ्याम् (पा. सू. ८. ३. ८७ ) इत्यस्तेः सकारस्य षत्वम् ॥
“Mitra and Varuṇa, who sustain the earth, we worship you, the givers of felicity, for the sake ofattaining our desires; may we, through your favour for the performer (of the sacrifice), overcome the rākṣasas.”
As such we honour you, Mitra and Varuna, with hasty zeal, most blest, you who sustain the folk.
So may we, through your friendship for the worshipper, subdue the fiends.
By reason of the (ritual) prompt we sacrifice to you two, o Mitra and Varuṇa, who uphold the communities and offer good favors.
By your comradeship for the man who performs (ritual) for himself
might we prevail over demons.
Als solche verehren wir euch, o Mitra-Varuna, die ihr die Völker beschirmt und huldreich seid mit Bereitwilligkeit; durch eure Freundschaft für den thätigen [Opferer] mögen wir die Nachtgespenster besiegen.
Euch beide, Mitra und Varuna, die Völkererhalter, die gnadenreichen, verehren wir, weil wir dazu beauftragt sind. Durch eure Freundschaftsdienste möchten wir für den Mitwirkenden die Unholde bemeistern.
Вас двоих, о Митра-Варуна, таких поддерживателей народов,
Очень милостивых, мы почитаем с воодушевлением.
Благодаря вашим дружеским услугам для деятельного
Пусть одержим мы верх над ракшасами!
अधा॑ चि॒न्नु यद्दिधि॑षामहे वाम॒भि प्रि॒यं रेक्ण॒: पत्य॑मानाः । द॒द्वाँ वा॒ यत्पुष्य॑ति॒ रेक्ण॒: सम्वा॑र॒न्नकि॑रस्य म॒घानि॑ ॥
अध॑ । चि॒त् । नु । यत् । दधि॑षामहे । वा॒म् । अ॒भि । प्रि॒यम् । रेक्णः॑ । पत्य॑मानाः । द॒द्वान् । वा॒ । यत् । पुष्य॑ति । रेक्णः॑ । सम् । ऊँ॒ इति॑ । आ॒र॒न् । नकिः॑ । अ॒स्य॒ । म॒घानि॑ ॥
हे मित्रावरुणौ वां युवाभ्यां युवयोरर्थं यत् यदा दिधिषामहे हवींषि धारयामः । यद्वा । ‘ धिष शब्दे । वां युवां स्तुमहे । अधा चित् अनन्तरमेव नु क्षिप्रं प्रियम् अभीष्टं रेक्णः । धननामैतत् । धनम् अभि पत्यमानाः अभिपतन्तोऽभिप्राप्नुवन्तो भवामः । दद्वान् ददिवान् । ददातेर्लिटः क्वसुः । छन्दस्युभयथा ' इति वसोः सार्वधातुकत्वात् श्नाभ्यस्तयोरातः' इत्याकारलोपः। अत एवेडभावश्च । संहितायां नकारस्य दीर्घादटि समानपादे' इति रुत्वम्। ‘ आतोऽटि नित्यम् ' । इति सानुनासिक आकारः । वाशब्दश्चार्थे । हवींषि दत्तवांश्च यत् यो यजमानः रेक्णः धनं पुष्यति वर्धयति अस्य दत्तवतो यजमानस्य मघानि धनानि नकिः सम् आरन नैवापगच्छन्ति । किंतु तमेव सर्वदा भजन्ते । समित्येतत् अपेत्येतस्यार्थे । उ इति पूरणः । अर्तेश्छान्दसे लुङि ‘सर्तिशास्त्यर्तिभ्यश्च ' इति च्लेरादेशः । ‘ ऋदृशोऽङि गुणः' ( पा. सू. ७. ४.१६ )।
“May we, when we present to you (oblations), quickly alight upon desirable wealth, and the genitive rousman who fosters his wealth, may his riches not depart from him.”
And when we seek to win your love and friendship, we.who have precious wealth in our possession,
Or when the worshipper augments his riches let not his treasures be shut up
And even now, when we seek to establish you two here, while coming into possession of our own dear legacy,
or when the giver prospers with regard to his legacy, no one shall bring his bounties (for us) into collision [=destroy them].
Und wenn wir nun von euch etwas zu erlangen suchen, die wir liebe Habe besitzen, oder wenn der Geber die Habe reichlicher macht, so möge niemand seine Schätze hinwegraffen.
Besonders jetzt, da wir euch gewinnen möchten, das liebe Erbteil in Besitz nehmend, oder wenn der Spender das Erbteil mehrt. Noch keiner hat dessen Geschenke aufgebracht.
Как бы то ни было, мы хотим вас заполучить,
(Чтобы) владеть дорогим наследством,
Или когда даритель увеличивает наследство,
Чтобы его щедрые дары не завершились.
अ॒साव॒न्यो अ॑सुर सूयत॒ द्यौस्त्वं विश्वे॑षां वरुणासि॒ राजा॑ । मू॒र्धा रथ॑स्य चाक॒न्नैताव॒तैन॑सान्तक॒ध्रुक् ॥
अ॒सौ । अ॒न्यः । अ॒सु॒र॒ । सू॒य॒त॒ । द्यौः । त्वम् । विश्वे॑षाम् । व॒रु॒ण॒ । अ॒सि॒ । राजा॑ । मू॒र्धा । रथ॑स्य । चा॒क॒न् । न । ए॒ताव॑ता । एन॑सा । अ॒न्त॒क॒ऽध्रुक् ॥
हे असुर तमसः क्षेपक । यद्वा असवः प्राणाः । तान् ददाति मनुष्येभ्यः स्वोदयेन प्रयच्छतीत्यसुरः । ईदृश हे मित्र द्यौः द्युलोको देवनशीलादितिर्वा अन्यः । ‘ सुपां सुलुक्' इति द्वितीयायाः स्वादेशः । वरुणापेक्षया अन्यम् असौ अमुं नभसि दृश्यमानं त्वां सूयत असूत ॥ 'षूङ् प्राणिप्रसवे'। छान्दसोऽडभावः ॥ हे वरुण त्वं च विश्वेषां सर्वेषां प्राणिनां राजा असि ईश्वरो भवसि । तादृशयोर्युवयोः रथस्य मूर्धा शिरः चाकन् अस्मद्यज्ञं कामयते । यद्वा । रथस्य रंहणशीलस्य यज्ञस्य मूर्धा न मूर्धेव प्रधानः सोमश्चाकन् युवां कामयते ॥ ‘कन दीप्तिकान्तिगतिषु' । अस्माद्यङ्लुगन्ताच्छान्दसो लङ् ॥ यत एवमतः कारणात् अन्तकध्रुकु अन्तकस्य हननशीलस्य राक्षसादेर्यमस्यैव वा द्रोग्धा । 'द्रुह जिघांसायाम् ' । ‘ सत्सूद्विष इत्यादिना क्विप् । 'वा द्रुहमुहष्णुहष्णिहाम्' (पा. सू. ८. २. ३३ ) इति घत्वम् । भष्भावः । ईदृशः स यज्ञः एतावता एनसा इयत्परिमाणेनापि पापलेशेनापि न युज्यते ॥
“(Mitra), scatterer of darkness, the Heaven gave birth to you the other; you, Varuṇa, are sovereignover all. The head of (your) chariot desired (this sacrifice); opposing the destroyer, (the rite) is not (vitiated) bythe smallest defect.”
That other, Asura! too was born of Heaven. thou art, O Varuna, the King of all men.
The chariot's Lord was well content, forbearing to anger Death by sin so great.
This sin hath Sakaputa here committed. Heroes who fled to their dear friend he slayeth,
When the Steed bringeth down your grace and favour in bodies dear and worshipful.
The one, yonder Heaven, was consecrated (as king), but (the other, namely) you, lord Varuṇa, are (now) king of all.
As head (of all), you take pleasure in the chariot [=war chariot? chariot of the sacrifice?]. It is not by such a transgression that (a man) is
(called) “oath-breaker,”
Auch jener andere, o höchster Gott [asura], wurde geboren vom Himmel; du, o Varuna, bist König über alle; das Haupt [der Herr] des Wagens war zufrieden, durch eine so grosse Sünde nicht den Tod gereizt zu haben (?).
Jener Andere, der Himmel, wurde geweiht, o Asura; du, Varuna, bist König über alle. Das Oberhaupt erfreut sich des Wagens, nicht ist Antakadruh eines derartigen Frevels schuldig.
Тот другой (бог), Небо, был рожден (на свет), о Асура;
Ты (же), о Варуна, – царь надо всеми (существами).
Глава (всему), ты любишь колесницу.
Из-за такого греха (человек) не (подвержен) вреду от смерти.
अ॒स्मिन्त्स्वे॒३॒॑तच्छक॑पूत॒ एनो॑ हि॒ते मि॒त्रे निग॑तान्हन्ति वी॒रान् । अ॒वोर्वा॒ यद्धात्त॒नूष्वव॑: प्रि॒यासु॑ य॒ज्ञिया॒स्वर्वा॑ ॥
अ॒स्मिन् । सु । ए॒तत् । शक॑ऽपूते । एनः॑ । हि॒ते । मि॒त्रे । निऽग॑तान् । ह॒न्ति॒ । वी॒रान् । अ॒वोः । वा॒ । यत् । धात् । त॒नूषु॑ । अवः॑ । प्रि॒यासु॑ य॒ज्ञिया॒स्व् अर्वा॑ ॥
योऽयं शकपूताख्य ऋषिः अस्मिन् शकपूते स्थितम् एतत् एनः पापं शत्रूणां पापकरमायुधं वा मित्रे देवे हिते हिताचरणपरेऽनुकूले सति निगतान् निगन्तव्यान् हननार्थं नियमेन प्राप्तव्यान् वीरान् शत्रोः पुत्रादीन् सु सुष्ठु हन्ति हिनस्ति । अस्मिन्नृषौ समवेतं यत्पापं तन्मित्रस्य
प्रसादेन तदीयेषु शत्रुषु स्वकार्यं दुःखं जनयतीत्यर्थः । निगतान् । निपूर्वाद्गमेः कर्मणि निष्ठा । ' गतिरनन्तरः ' इति गतेः प्रकृतिस्वरत्वम् । कदेत्यत आह । अवोः हविर्भिस्तर्पयितुः । अवतेरौणादिक उप्रत्ययः । तस्य यजमानस्य यज्ञियासु यज्ञार्हासु क्रियासु तनूषु शरीरेषु अर्वा अभिगन्ता मित्रो वरुणो वा यत् यदा अवः रक्षणं धात् दधाति निदधाति स्थापयति । यद्वा । यदा अर्वा अभिगन्ता स ऋषिः अवितुः रक्षितुर्मित्रस्य वरुणस्य वा यागार्हासु प्रियासु तनूषु शरीरेषु अवो हविर्लक्षणमन्नं धात् धारयति । तदानीं मित्रे वरुणे चानुकूले सति तदेनो वीरान् हन्तीत्यर्थः ॥
“This iniquity (found) in this Śakapūta, when Mitra is propitious, destroys opposing heroes, when thei.e., Mitra or Varuṇa; avaḥ = food; when the approaching Mitra (or Varuṇa) gives protection to the sacrificial ritesand bodies of the worshipper who delights him with oblations].”
अ॒स्मिन्त्स्वे॒३॒॑तच्छक॑पूत॒ एनो॑ हि॒ते मि॒त्रे निग॑तान्हन्ति वी॒रान् ।
अ॒वोर्वा॒ यद्धात्त॒नूष्ववः॑ प्रि॒यासु॑ य॒ज्ञिया॒स्वर्वा॑ ॥
But on this (man), on “shit-purified” Śakapūta, is this transgression: even though a (peace) alliance was concluded, he keeps smiting the heroes who have gone down.
When the charger [=Agni?] has placed the help of *you two in his own dear bodies worthy of the sacrifice—
Bei diesem Çakapūta ist ja diese Sünde: Er tödtet die Männer, die zu dem lieben Freunde ihre Zuflucht genommen hatten, während der schnelle [Opferer?] euren lieben verehrungswerthen Leitern Genuss dargebracht hat.
Auf diesen Sakaputa fällt fein die Schuld: Er tötet die Männer, die nach geschlossener Freundschaft die Schuld begangen haben, oder wenn der Renner in seinen lieben opferwürdigen Formen die Gnade der beiden Gnädigen erwirkt.
Подобный грех (обрушился) на этого Шакапуту:
Он убивает мужей, устроивших привал, после того как был заключен мир,
Или когда скаковой конь приносит помощь от вас двоих
Любимым достойным жертв телам.
यु॒वोर्हि मा॒तादि॑तिर्विचेतसा॒ द्यौर्न भूमि॒: पय॑सा पुपू॒तनि॑ । अव॑ प्रि॒या दि॑दिष्टन॒ सूरो॑ निनिक्त र॒श्मिभि॑: ॥
यु॒वोः । हि । मा॒ता । अदि॑तिः । वि॒ऽचे॒त॒सा॒ । द्यौः । न । भूमिः॑ । पय॑सा । पु॒पू॒तनि॑ । अव॑ । प्रि॒या । दि॒दि॒ष्ट॒न॒ । सूरः॑ । नि॒नि॒क्त॒ । र॒श्मिऽभिः॑ ॥
हे विचेतसा विशिष्टज्ञानौ मित्रावरुणौ युवोर्हि युवयोः खलु माता जननी अदितिः अदीना अखण्डनीया वा भवति । सैव भूमिः । ' इयं वा अदितिः' (तै. सं २.२.६.१) इति श्रुतेः । द्यौर्न यथा द्युलोकः पयसा वृष्ट्युदकेन सर्वं जगत् पुनाति एवमेषा सा भूमिः पयसा आत्मीयेन रसेन हविरात्मना परिणतेन पुपूतनि परिपवने यजमानानां पापस्य शोधने हेतुर्भवतीत्यर्थः ॥ पूतशब्दादाचारे क्विबन्तादौणादिकः कनिप्रत्ययः। छान्दसं द्विर्वचनम् । तौ युवामतिदिश्य यूयं प्रिया प्रियाणि धनानि अव दिदिष्टन अवाङ्मुखमस्मदभिमुखं दिशत दत्त ॥ ' दिश अतिसर्जने ' । अस्माल्लोटि छान्दसः शपः श्लुः । ' तप्तनप्तनथनाश्च ' इति तशब्दस्य तनादेशः ॥ अपि च सूरः सूर्यस्य रश्मिभिः किरणैः निनिक्त अस्मान् शोधयत पोषयत वा । ' णिजिर् शौचपोषणयोः' । जौहोत्यादिकः । ' संज्ञापूर्वको विधिरनित्यः ' इति ' निजां त्रयाणां' ( पा. सू ७.४.७५) इत्यभ्यासस्य गुणो न क्रियते ॥
“O (Mitra and Varuṇa), endowed with various wisdom, your mother Aditi, the earth, (is) for thepurification (of all things) by its libations, as the heaven (purifies by its rain); you display before us precious(treasures), and wash us with the sun's rays.”
Your Mother Aditi, ye wise, was purified with water even as earth is purified from heaven.
Show love and kindness here below: wash her in rays of heavenly light.
Because, o discerning ones, Aditi, the mother of you two is, like Heaven and Earth, (occupied) in purifying with her milk—
(all of you,) allot things dear (to us); wash (us) with the rays of the sun.
Denn eure Mutter, o ihr weisen, ist Aditi; wie der Himmel soll die Erde durch [euren?] Trank genährt werden [pupūṣáṇi zu lesen?]; erweiset ihr Liebes, schmückt sie mit den Strahlen der Sonne.
Denn euer beider Mutter Aditi, ihr Klugen, die Erde soll wie der Himmel mit ihrem Naß reinigen. Erweiset Liebes, waschet mit der Sonne Strahlen ab!
Ведь ваша мать, Адити, о (вы) двое прозорливых,
Должна очищать (сому) молоком, как Небо (и) Земля.
Предназначьте (нам) приятные (вещи)!
Омойте лучами солнца!
यु॒वं ह्य॑प्न॒राजा॒वसी॑दतं॒ तिष्ठ॒द्रथं॒ न धू॒र्षदं॑ वन॒र्षद॑म् । ता न॑: कणूक॒यन्ती॑र्नृ॒मेध॑स्तत्रे॒ अंह॑सः सु॒मेध॑स्तत्रे॒ अंह॑सः ॥
यु॒वम् । हि । अ॒प्न॒ऽराजौ॑ । असी॑दतम् । तिष्ठ॑त् । रथ॑म् । न । धूः॒ऽसद॑म् । व॒न॒ऽसद॑म् । ताः । नः॒ । क॒णू॒क॒ऽयन्तीः॑ । नृ॒ऽमेधः॑ । त॒त्रे॒ । अंह॑सः । सु॒ऽमेधः॑ । त॒त्रे॒ । अंह॑सः ॥
हे मित्रावरुणौ युवं हि युवां खलु अप्नराजौ अप्नसा कर्मण प्रवर्षणप्रकाशनादिना राजमानौ दीप्यमानौ सन्तौ असीदतं स्वकीये स्थाने निषीदथः आसाथे ॥ अप्न इति कर्मनाम । ' आपः कर्माख्यायां ह्रस्वो नुट्च वा ' ( उ. सू. ४.२०७) इत्याप्नोतेः असुन् तस्य नुडागमो धातोर्ह्रस्वश्च । तस्मिन्नुपपदे राजतेः 'सत्सूद्विष इत्यादिना क्विप् । ' पीवोपवसनादीनां छन्दसि लोपो वक्तव्यः '( पा. म. ६. ३.१०९. ६) इत्यप्नसः सकारलोपः ॥ तौ मित्रावरुणौ कणूकयन्तीः । कणतिः शब्दार्थः । कणनमाक्रोशरूपं शब्दनमिच्छन्तीः ताः प्रसिद्धाः शात्रवीः प्रजा अभिभवितुम् । न संप्रत्यर्थे । संप्रति रथं तिष्ठत् अभितिष्ठताम् । तिष्ठतेर्लेट्यडागमः । ' इतश्च लोपः' इतीकारलोपः । प्रत्येकाभिप्रायेणैकवचनम् । कीदृशं रथम् । धूर्षदं धुर्यश्वयोर्वहनदेशे सीदन्तं वनर्षदं वनेषूद्यानेषु क्रीडार्थं निषीदन्तम् । यद्वा । वनमित्युदकनाम । समुद्रमध्ये हि वरुणो निवसति । वने समुद्रोदके निषीदन्तम् । उभयत्रापि पूर्ववत् क्विप् । वनसदमित्यत्र छान्दसः सांहितिको रेफोपजनः । हे मित्रावरुणौ युवाभ्यां नृमेधः. मम पिता अंहसः पापात् तत्रे ररक्षे रक्षितो बभूव । ' त्रैङ् पालने ' इत्यस्मात् कर्मणि लिट् । यद्वा उपचाराज्जन्ये जनकशब्दः । नृमेधस्य पुत्रः शकपूतोऽहं पापात् युवाभ्यां तत्रे रक्षितोऽस्मि । सुमेधः अन्योऽपि सुयज्ञो यजमानः अंहसः पापात् तत्रे युवाभ्यामेवारक्ष्यत । भीत्रार्थानाम् ' ( पा. सू १ .४.२५) इत्यंहसोऽपादानसंज्ञा ॥ ॥२ ०॥
“For you, brilliant through your functions, have sat down; now mount, (each of you, his) chariot, whichrests on the yoke, which abides in the forests, (to overcome) those (people) who clamour against us; Nṛmedhawas preserved (by you) from sin, the pious worshipper was preserved from sin.”
Ye Twain have seated you as Lords of Wealth, as one who mounts a car to him who sits upon the pole, upon the wood.
These our disheartened tribes Nrmedhas saved from woe, Sumedhas saved from Woe.
Because you two who rule over property have taken your seats, he [=the priest?] has mounted, like a chariot, the one [=sacrificial fire] sitting at the chariot-pole (of the sacrifice), sitting on the wood.
Those females of ours, seeking [/behaving like] kaṇūka [?], has Nr̥medha rescued from narrow straits, has “very wise” Sumedha rescued from
narrow straits.
Ihr beide ja habt euch niedergelassen als Herren des Reichthums, wie einer, der den Wagen besteigt, den mit Deichsel und Wagenkasten (?) versehenen; diese unsere Noth leidenden [Stämme] hat Nrimedha aus Bedrängniss gerettet, hat Sumedha aus Bedrängniss gerettet.
Denn ihr saßet als die beiden verdienten Könige im Wagen; er bestieg den auf der Deichsel sitzenden, im Holze sitzenden wie einen Wagen. Diese unsere jammernden Untertanen hat Nrimedha aus Not gerettet, hat Sumedha aus Not gerettet.
Ведь вы двое уселись как два заслуженных царя.
Он взошел, словно на колесницу, на сидящего у дышла, на сидящего в кузове.
Тех (женщин), что нас оплакивали,
Нримедха спас от беды,
Сумедха спас от беды.