यस्मि॑न्वृ॒क्षे सु॑पला॒शे दे॒वैः स॒म्पिब॑ते य॒मः । अत्रा॑ नो वि॒श्पति॑: पि॒ता पु॑रा॒णाँ अनु॑ वेनति ॥
यस्मि॑न् । वृ॒क्षे । सु॒ऽप॒ला॒शे । दे॒वैः । स॒म्ऽपिब॑ते । य॒मः । अत्र॑ । नः॒ । वि॒श्पतिः॑ । पि॒ता । पु॒रा॒णान् । अनु॑ । वे॒न॒ति॒ ॥
वृक्षे । लुप्तोपममेतत् । वृक्षवत् सुपलाशे शोभनपलाशोपेते शोभनोद्यानसहिते। यद्वा। शोभनपर्णोपेते वृक्षे । तादृशस्य वृक्षस्य मूलं यथौष्ण्यजनितश्रमापनोदनेन सुखकरं भवति तद्वत् सुखकरे यस्मिन् स्थाने देवैः परिजनभूतैः यमः नियन्ता वैवस्वतः संपिबते सह भुङ्क्ते पिबतीत्यर्थः । विश्पतिः विशां प्रजानामधिपतिः पिता नः । व्यत्ययेन बहुवचनम्। मम नचिकेतसो जनको वाजश्रवसः अत्र अस्मिन् यमस्य स्थाने पुराणान् पुरातनान् अत्र चिरकालं निवसतः पितॄन् अनु तेषां पश्चात् तत्समीपे निवसत्वयमिति वेनति मां कामयते । नचिकेता नाम कुमारो वाजश्रवसेन पित्रा यमलोकं प्रस्थापितः सन् यमं दृष्ट्वा प्रसाद्य पुनरपीमं लोकमाजगाम । अयमर्थं इदमादिकैर्मन्त्रैः प्रतिपाद्यते । यद्वा । कुमारो नाम नचिकेतसोऽन्यः कश्चिदृषिः । यच्छतीति यम आदित्यः । तमनेन सूक्तेन तुष्टाव । सुपलाशे वृक्ष इव यस्मिन् शोभने स्थाने यम आदित्यो देवैः। दीव्यन्तीति देवा रश्मयः । तैः संपिबते संगच्छते । उपसर्गवशात् पिबतिरत्र गत्यर्थः । व्यत्ययेना स्मनेपदम् । अत्र अस्मिन् स्थाने स्थितो विश्पतिर्विशां प्रजानां प्रकाशनप्रवर्षणादिना पालयित प्राणात्मना सर्वेषां जनकः स आदित्यः पुराणांश्चिरंतनान् स्तोतॄन् नोऽस्मानपि वेनति अनुग्राह्यत्वेन कामयते । यद्वा । अत्र स्थाने स्थितान् नोऽस्माकं पुराणान् पूर्वपुरुषाननु वेनति अनुक्रमेण कामयते।
“In that leafy tree where Yama drinks with the gods, there the progenitor, the lord of the house, invitesus to join themen of old.”
IN the Tree clothed with goodly leaves where Yama drinketh with the Gods,
The Father, Master of the house, tendeth with love our ancient Sires.
[Boy:] The leafy tree where Yama holds symposium with the gods,
toward there the clanlord, our father, follows the track of the
ancient ones.
Auf welchem schönbelaubten Baum dort Jama mit den Göttern trinkt, Da neigt sich unser Stammesherr und Ahn den alten Vätern zu.
Wo unter einem schönbelaubten Baume Yama mit den Göttern zecht, dort schaut sich unser Vater, der Clanherr, nach seinen Altvorderen um
Под деревом с прекрасными листьями,
Где пьет с богами Яма,
Там наш отец, глава рода,
Озирается в поисках древних.
पु॒रा॒णाँ अ॑नु॒वेन॑न्तं॒ चर॑न्तं पा॒पया॑मु॒या । अ॒सू॒यन्न॒भ्य॑चाकशं॒ तस्मा॑ अस्पृहयं॒ पुन॑: ॥
पु॒रा॒णा॑न् । अ॒नु॒ऽवेन॑न्तम् । चर॑न्तम् । पा॒पया॑ । अ॒मु॒या । अ॒सू॒यन् । अ॒भि । अ॒चा॒क॒श॒म् । तस्मै॑ । अ॒स्पृ॒ह॒य॒म् । पुन॒रिति॑ ॥
पुराणान् पुरातनान् पितॄन् अनुवेनन्तं मामनुगतं कामयमानम् अमुया अनया पापया निकृष्टाया बुद्ध्या सह चरन्तं वर्तमानं पितरं वाजश्रवसम् असूयन् सुखेन जीवन्तं मां मृत्युसमीपं प्रेहीत्युक्तवानिति मानसेनोपतापेन युक्तः सन् प्रथमम् अभ्यचाकशम् । अयं पश्यतिकर्मा। अभ्यपश्यम्' । ' असुञ् मानस उपतापे ' । कण्ड्वादिः । पुनः पश्चात् तस्मा अस्पृहयं पितुराज्ञया तं मृत्युं प्राप्तुमैच्छम् । ' स्पृह ईप्सायाम् । चुरादिरदन्तः । ' स्पृहेरीप्सितः' ( पा. सू. १.४.३६) इति संप्रदानसंज्ञायां तच्छब्दाच्चतुर्थी । यद्वा । पुराणान् चिरंतनान् स्तोतॄन् पूर्वपुरुषान् पितॄन् वा अनुवेनन्तमनुक्रमेण कामयमानं चरन्तम् उदयास्तमयाभ्यां दिवि परिवर्तमानमनया पापया निकृष्टया स्तोतुमसमर्थया बुद्ध्या असूयन् । गुणेषु दोपाविष्करणमसूया । परकीयगुणेषु दोपानाविष्कुर्वन्नभ्यचाकशम् । अयमपि कश्चिदिति सामान्यरूपेणाभ्यपश्यम् । इदानी तु पुनस्तस्यादित्यस्य माहात्म्यं जानन् तस्मा अस्पृहयम् । तमेवादित्यं स्तुतिभिः परिचरणात्मकैः कर्मभिश्च प्राप्तुमैच्छम् ॥
“(At first) I beheld him with anguish inviting me to join the men of olden times, and walking with that felldesign; but afterwards I longed for him.”
I looked reluctantly on him who cherishes those men of old,
On him who treads that evil path, and then I yearned for this again.
[Boy:] Him following the track of the ancient ones, wandering along yonder evil way,
did I keep looking for reluctantly, but I was longing for him again.
»Der hold den alten Vätern ist, ihn sah auf üblem Wege ich Herwandern, und betrübten Sinns sehnt' ich nach diesem mich zurück.«
Unwillig sah ich ihn sich nach seinen Altvorderen umschauen und den so schlimmen Weg ziehen. Ihn verlangte ich zurück.
Недовольный, смотрел я,
Как он озирается в поисках древних,
Бредя по той дурной (дороге).
По нему затосковал я вновь.
Голос отца:
यं कु॑मार॒ नवं॒ रथ॑मच॒क्रं मन॒साकृ॑णोः । एके॑षं वि॒श्वत॒: प्राञ्च॒मप॑श्य॒न्नधि॑ तिष्ठसि ॥
यम् । कु॒मा॒र॒ । नव॑म् । रथ॑म् । अ॒च॒क्रम् । मन॑सा । अकृ॑णोः । एक॑ऽईषम् । वि॒श्वतः॑ । प्राञ्च॑म् । अप॑श्यन् । अधि॑ । ति॒ष्ठ॒सि॒ ॥
नचिकेतःसंज्ञं कुमारं यमोऽनयोत्तरया च प्रलोभयति । हे कुमार नवम् अभिनवमितः पूर्वमदृष्टम् । अभिनवत्वमेव व्यनक्ति । अचक्रं चक्ररहितं तम् एकेषम् एकेषा यस्य तादृशं तथापि विश्वतः सर्वतः प्राञ्चं प्रकर्षेणाञ्चन्तं गच्छन्तं यं रथं मनसाकृणोः मत्समीपं प्रतिगमनाय अध्य-
वसायात्मकमीदृशं यं रथमकरोः कृत्वा च अपश्यन् कर्तव्याकर्तव्यविभागमजानन् अधि तिष्ठसि रथमारोहसि । यद्वा । स्तोतारं कुमाराख्यमृषिमादित्यः प्रत्यक्षः सन् देहात्मनोर्विवेकं बोधयति । हे कुमार ऋषे चक्ररहितम् एकेषम् । एकः प्राण ईषास्थानीयो यस्य । ईदृशमभिनवं सर्वतो गच्छन्तं शरीरात्मकं यं रथं मनसान्तःकरणेन अकृणोः अकरोः । संकल्पात्मकेन मनसा हि कामो जायते । सत्यां हि कामनायां पुण्थपापात्मकं कर्म क्रियते । तेन च भोगप्रदानायेदं शरीरमारभ्यत इति परंपरया मनसः शरीरनिष्पादकत्वम् । तं शरीरात्मकं रथमपश्यन्नजानन् । ' लक्षणहेत्वोः ( पा. सू. ३.२.१२६) इति हेतौ शतृप्रत्ययः । मत्स्वरूपापरिज्ञानाद्धेतोरधितिष्ठसि । भोगायतनत्वेन स्वीकरोषि॥
“The new chariot, wheelless, single-poled, but turning everywhere, which you, my child, mentallyformed-- you stand thereon though you see it not.”
Thou mountest, though thou dost not see, O Child, the new and wheel-less car
Which thou hast fashioned mentally, onepoled but turning every way.
[Father?:] The new chariot without wheels that you made with your mind, lad,
the one that has a single shaft but faces in all directions—without seeing it, you mount it.
Den neuen Wagen, den du Kind im Geist gemacht, der räderlos Mit einer Deichsel ringshin führt, besteigst du, ohne ihn zu sehn.
Der neue Wagen ohne Räder, den du Knabe da im Geiste gemacht hast, der nur eine Deichsel hat und nach allen Richtungen weiter fährt, auf dem stehst du, ein Nichtsehender.
О мальчик, новая колесница
Без колес, которую ты создал в воображении,
У которой одно дышло, (но) едет она во все стороны -
Ты стоишь на (ней), не видя (этого).
यं कु॑मार॒ प्राव॑र्तयो॒ रथं॒ विप्रे॑भ्य॒स्परि॑ । तं सामानु॒ प्राव॑र्तत॒ समि॒तो ना॒व्याहि॑तम् ॥
यम् । कु॒मा॒र॒ । प्र । अव॑र्तयः । रथ॑म् । विप्रे॑भ्यः । परि॑ । तम् । साम॑ । अनु॑ । प्र । अ॒व॒र्त॒त॒ । सम् । इ॒तः । ना॒वि । आऽहि॑तम् ॥
हे कुमार नचिकेतः यं पूर्वोक्तमधिष्ठितं रथं प्रावर्तयः मत्समीपं प्रत्यगमयः विप्रेभ्थः मेधाविभ्यः परि उपरि भूलोके वर्तमानानां मेधाविनां बान्धवानामुपरिष्टात् । अन्तरिक्ष इत्यर्थः । ' पञ्चम्याः परावध्यर्थे ' इति विसर्जनीयस्य सत्वम् । तं रथं साम पित्रा कृतं सान्त्वनं यमसमीपं
गत्वा एवमेव त्वया वक्तव्यमिति प्रत्यागमनकारणमुपायोपदेशनम् अनु प्रावर्तत । इतः अस्माल्लोकादन्वगच्छत् । कथंभूतम्। नावि नौवत्तरणसाधनायां बुद्धौ सम् आहितं सम्यग्धृतम् । यद्वा । हे कुमार ऋषे यं शरीरात्मकं रथमधिष्ठितं प्रावर्तयः संसारे प्रवर्तितवानसि मेधाविनां मध्ये तं रथमनु साम । उपलक्षणमेतत् । ऋक्सामादिसाध्यं स्तोत्रं नावि नौवत्तारयित्र्यां वाचि वेदात्मिकायां समाहितं सम्यक्प्रतिपाद्यत्वेन हितं कर्म च इतः अस्माल्लोकात् प्रावर्तत प्रवृत्तमभूत् । इत्थमात्मस्वरूपापरिज्ञानेन शरीरबन्धनं तेन कर्तव्यं व्यवहारजातं चोक्तम् । अथ तु सत्यज्ञानादिस्वरूपमकर्तारं परमात्मानं यदि स्वात्मतया साक्षात्करोति तदोक्तं च संभवतीत्यभिप्रायः ॥
“The chariot which you, my child, have driven down to me from the sages above, the Sāman hasdriven it back again from hence plural ced on a ship. made?”
The car which thou hast made to roll hitherward from the Sages, Child!
This hath the Saman followed close, hence, laid together on a ship.
[Father?:] The chariot which you, lad, sent rolling forth from the
inspired poets,
following it the sāman melody rolled forth from here, set onto a boat.
Dem Wagen, den du rollen liesst, o Knabe, von den Sängern her, Dem rollten unsre Lieder nach, von hier aus auf das Schiff gesetzt.
Dem Wagen, den du Knabe da den Redekundigen vorgeführt hast, dem folgte das Saman nach, das von da auf das Schiff gesetzt wird.
За колесницей, которую, о мальчик,
Ты покатил от вдохновенных,
За ней катилось вслед песнопение:
Отсюда оно было помещено на корабль.
Автор:
कः कु॑मा॒रम॑जनय॒द्रथं॒ को निर॑वर्तयत् । कः स्वि॒त्तद॒द्य नो॑ ब्रूयादनु॒देयी॒ यथाभ॑वत् ॥
कः । कु॒मा॒रम् । अ॒ज॒न॒य॒त् । रथ॑म् । कः । निः । अ॒व॒र्त॒य॒त् । कः । स्वि॒त् । तत् । अ॒द्य । नः॒ । ब्रू॒या॒त् । अ॒नु॒ऽदेयी॑ । यथा॑ । अभ॑वत् ॥
कः पुरुषः इमं कुमारमजनयत् । अधिक्षेपे किंशब्दः । ईदृशम् बालं यमसमीपं प्रहिण्वन् कथं पिता समीचीनः स्यात्। तत्तावदास्ताम् । कः वा पुरुषोऽस्य बालस्य यमसमीपं प्रतिगमनाय तं रथं निरवर्तयत् निर्वर्तितवान् । सोऽपि मूर्ख इत्यर्थः । यथा येन प्रकारेणायं कुमारः अनुदेयी अनुदातव्यः अभवत् भवति तत् तदनुगुणं वचनमुपायकथनम् अद्य अस्मिन् काले नः अस्माकं कः स्वित् को नाम ब्रूयात् अभिदध्यात् । प्रथमं यमसमीपं गत्वा पश्चात् ततो निर्गमनोपायं ब्रुवन्नपि न प्राज्ञ इत्यर्थः । अथवा । कुमाराख्य ऋषिरात्मनः सार्वात्म्यमवगच्छन् स्वव्यति-
रिक्तस्यान्यस्यासंभवं किंशब्देनाक्षेपवाचिना दर्शयति । कुमारं मां कः पिताजनयत् । न कोऽपि । ' अजो नित्यः शाश्वतः ' ( क. उ. २. १८) इति श्रुत्युक्तरूपोऽहं भवामि । कश्च शरीरात्मकं रथं निरवर्तयत् निर्वर्तयति । मद्व्यतिरिक्तस्य निर्वर्तयितुरभावात् तथा निर्वर्त्यस्यान्यस्यासंभवाच्च । अद्य अस्मिन् काले सार्वात्म्यानुभवदशायां तं तं प्रकारं कः स्वित् को नाम नोऽस्माकं ब्रूयात् यथा येन प्रकारेण अनुदेयी अनुदातव्या मद्व्यतिरिक्तान्यपदार्थसत्ता अभवत् भवतिं । स प्रकारोऽपि दुर्वचन इत्यर्थः ॥
Who was the father of the child? Who made the chariot roll away?
Who will this day declare to us how the funeral gift was made?
[Yama? Poet?:] Who begat the lad? Who sent the chariot rolling out? Who could tell us this today, how the (debt) came to be forgiven?
Wer hat den Knaben doch gezeugt, wer rollte seinen Wagen fort, Und wer mag heute sagen uns, wie er zurückgegeben ward.
Wer hat den Knaben erzeugt, wer hat den Wagen gefertigt? Wer vermöchte uns denn heute das zu sagen, wie seine Amme war?
Кто породил мальчика?
Кто выкатил колесницу?
Кто сможет нам сегодня сказать:
Как произошла передача?
यथाभ॑वदनु॒देयी॒ ततो॒ अग्र॑मजायत । पु॒रस्ता॑द्बु॒ध्न आत॑तः प॒श्चान्नि॒रय॑णं कृ॒तम् ॥
यथा॑ । अभ॑वत् । अ॒नु॒ऽदेयी॑ । ततः॑ । अग्र॑म् । अ॒जा॒य॒त॒ । पु॒रस्ता॑त् । बु॒ध्नः । आऽत॑तः । प॒श्चात् । निः॒ऽअय॑नम् । कृ॒तम् ॥
अनुदेयी अनुदातव्यः यथा येन प्रकारेण पितरमनुलक्ष्य अयं कुमारो यमेन दत्तः अभवत् भवति तथा ततः तस्माद्वाजश्रवसात् पितुः अग्रं यमसमीपं गच्छेति वचनस्याग्रतो वर्तमानं नचिकेतसा यमेन सह वदितव्यं ' तं वै प्रवसन्तं गन्तासीति होवाच ' ( तै. व्रा. ३१ १.८ .२) इत्यादिकं
ब्राह्मणान्तरोक्तम् अजायत प्रादुरभवत् । पितोपदिष्टवानित्यर्थः । पुरस्तात् ततः पूर्वं बुध्नः उक्तस्याग्रस्य मूलभूतं यमस्य गृहं प्रतिगच्छ इति वचनम् आततः अतिविस्तृतमासीत् । अतः तदशक्यपरिहारमिति पश्चात् क्रोधं परित्यज्य निरयणं तस्माद्यमान्निर्गमनोपाय कृतं पित्राचरितम् ।
यद्वा । अनुदेयी आत्मानमनु दातव्यात्मस्वरूपव्यतिरिक्तान्यपदार्थसत्ता यथाभवत् भवति तदनुगुणं ततस्तस्मान्मायाविशिष्टादात्मनोऽग्रं स्रष्टव्यस्य विकारजातस्यायं मनस्तत्त्वं सिसृक्षाकारणमजायत उदपद्यत । पुरस्तात् सृष्टेः प्रागवस्थायां बुध्नो मूलमव्याकृतं मायात्मकं कारणमेवाततः । आ समन्तात् ततं विस्तृतमासीत् । पश्चात्तमस उत्पत्त्यनन्तरं निरयणं तद्गतानां कार्याणां तस्मात् कारणान्निर्गमनं घटपटादिभेदेन स्वरूपालम्भनं कृतम्। ब्रह्मणा निर्मितम् । तथा मृद्विकारो घटादिर्मृदोऽन्यो न भवति । आदित्यानुग्रहात् ब्रह्मभावं प्राप्तस्य मम विकारः प्रपञ्चो मदन्यो न भवतीति व्यतिरिक्तस्य पित्रादेराक्षेपः पूर्वोक्तः समर्थितः ॥
When the funeral gift was placed, straightway the point of flame appeared.
A depth extended in the front: a passage out was made behind.
As (the debt) came to be forgiven, after that the top was born;
the base was stretched out in front and the “coming forth” was made behind.
»Wie er zurückgegeben ward, da ward des Wagens Bock gemacht, Der Boden vorne angefügt, der Ausgang hinten angebracht.
Wie seine Amme war? Von da kam der Anfang her. Vorerst wird der Grund gelegt, hinterher wird das Ergebnis gewonnen.
Как произошла передача?
От этого возникло начало.
Сперва было растянуто дно,
Потом сделано отверстие.
इ॒दं य॒मस्य॒ साद॑नं देवमा॒नं यदु॒च्यते॑ । इ॒यम॑स्य धम्यते ना॒ळीर॒यं गी॒र्भिः परि॑ष्कृतः ॥
इ॒दम् । य॒मस्य॑ । सद॑नम् । दे॒व॒ऽमा॒नम् । यत् । उ॒च्यते॑ । इ॒यम् । अ॒स्य॒ । ध॒म्य॒ते॒ । ना॒ळीः । अ॒यम् । गीः॒ऽभिः । परि॑ऽकृतः ॥
इदं यमस्य नियन्तुरादित्यस्य वैवस्वतस्य वा सदनं स्थानम् । छान्दसः सांहितिको दीर्घः। यत् सदनं देवमानं देवैर्निर्मितमिति उच्यते सर्वत्र अभिधीयते । यद्वा । देवानां रश्मीनां निर्माणसाधनमिति गीयते । अस्य यमस्य प्रीणनाय इयं नाळीः वाद्यविशेषो वेणुः धम्यते वाद्यते । यद्वा । नाळीति वाङ्नाम । इयं स्तुतिरूपा वागस्य प्रीणनाय धम्यते उच्चार्यते । एवं सति अयं यमः गीर्भिः स्तुतिभिः परिष्कृतः अलंकृतोऽभूत् । ‘संपर्युपेभ्यः' इति सुडागमः । ‘परिनिविभ्यः । इति षत्वम् । “ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥ ॥ २३ ॥
“This is the dwelling of Yama, which is called the fabric of the gods; this pipe is sounded for his(gratification), he is propitiated by hymns.”
Here is the seat where Yama dwells, that which is called the Home of Gods:
Here minstrels blow the flute for him here he is glorified with songs.
Here is the seat of Yama, which is called the palace of the gods.
Here is his pipe blown; here is he adorned with hymns.
Hier ist des Jama hoher Sitz, den man die Götterwohnung nennt; Man bläst auf dieser Pfeife ihm, durch Lieder ist er ausgeschmückt.«
Dies ist der Sitz des Yama, der der Götterpalast heißt. Diese seine Flöte wird geblasen, er wird mit Lobliedern verherrlicht.
Это обитель Ямы,
Которая называется жилищем богов.
Вот его камышовая флейта, (в которую) дуют,
Он украшен хвалебными песнями.