तव॒ त्य इ॑न्द्र स॒ख्येषु॒ वह्न॑य ऋ॒तं म॑न्वा॒ना व्य॑दर्दिरुर्व॒लम् । यत्रा॑ दश॒स्यन्नु॒षसो॑ रि॒णन्न॒पः कुत्सा॑य॒ मन्म॑न्न॒ह्य॑श्च दं॒सय॑: ॥
तव॑ । त्ये । इ॒न्द्र॒ । स॒ख्येषु॑ । वह्न॑यः । ऋ॒तम् । म॒न्वा॒नाः । वि । अ॒द॒र्दि॒रुः॒ । व॒लम् । यत्र॑ । द॒श॒स्यन् । उ॒षसः॑ । रि॒णन् । आ॒पः । कुत्सा॑य । मन्म॑न् । अ॒ह्यः॑ । च॒ । दं॒सयः॑ ॥
हे इन्द्र तव सख्येषु सखित्वेषु सत्सु त्ये ते प्रसिद्धः वह्नयः वोढारो हविषां स्तुतीनां वा अत एव ऋतं यज्ञं मन्वानाः अवबुध्यमानाः अङ्गिरसः वलं गवामपहर्तारमेतत्संज्ञकमसुरं व्यदर्दिरुः अत्यर्थं व्यदारयन् । ‘दॄ विदारणे । अस्मात् यङ्लुगन्तात् लुङि ‘सिजभ्यस्त° । इति झेर्जुः । 'जुसि च ' इति गुणः । व्यत्ययेनेत्वम् । अपि च यत्र यस्मिन् काले मन्मन् मन्मनि स्तोत्रे सति कुत्साय महर्षये उषसः उषःकालान् वृत्रेणावृतत्वात् पूर्वमसत्प्रायांस्तदपनोदनेन दशस्यन् प्रयच्छन् तथा अपः वृत्रेणावृतान्युदकानि च रिणन् तस्मान्निर्गमयन् वर्तते । ‘री गतिरेषणयोः । क्रैयादिकः । प्वादीनां ह्रस्वत्वम् । तदानीम् अह्यः अहेर्वृत्रस्य च दंसयः कर्माणि वितथान्यासन्नित्यर्थः ॥
“The bearers of oblations (the Aṅgirasas), Indra honouring the sacrifice, have through your friendshiptorn Vala to pieces, when praise (being offered) desiring to give the dawns to Kutsa (you were engaged in)freeing the waters, and Ahi's exploits (were foiled).”
ALLIED with thee in friendship, Indra, these, thy priests, remembering Holy Law, rent Vrtra limb from limb,
When they bestowed the Dawns and let the waters flow, and when thou didst chastise dragons at Kutsa's call.
In partnership with you, Indra, these conveyors (of songs), conceiving the truth, thoroughly split apart the Vala cave,
when, showing favor to the dawns, making the waters flow, you exerted your wondrous power (on them) and on the fertile cows, for the sake of Kutsa and at his thought.
Mit dir im Bunde haben jene fahrenden das Werk bedenkend, Indra, das Versteck zersprengt, Wo Wasser sie ergossen, hold dem Morgenroth, und du die Drachen züchtigtest auf Kutsa's Ruf.
In deiner Freundschaft, Indra, haben jene Opferleiter auf Wahrheit bedacht die Höhle aufgesprengt, in der du den Usas Gunst erwiesest, die Wasser laufen ließest, dem Kutsa in seiner Absicht beistandest und die Mutterkühe leistungsfähig machtest.
a:предводители (жертвы) (vahnayah) – По Саяне, это Ангирасы
अवा॑सृजः प्र॒स्व॑: श्व॒ञ्चयो॑ गि॒रीनुदा॑ज उ॒स्रा अपि॑बो॒ मधु॑ प्रि॒यम् । अव॑र्धयो व॒निनो॑ अस्य॒ दंस॑सा शु॒शोच॒ सूर्य॑ ऋ॒तजा॑तया गि॒रा ॥
अव॑ । अ॒सृ॒जः॒ । प्र॒ऽस्वः॑ । श्व॒ञ्चयः॑ । गि॒रीन् । उत् । आ॒जः॒ । उ॒स्राः । अपि॑बः । मधु॑ । प्रि॒यम् । अव॑र्धयः । व॒निनः॑ । अ॒स्य॒ । दंस॑सा । शु॒शोच॑ । सूर्यः॑ । ऋ॒तऽजा॑तया॑ । गि॒रा ॥
हे इन्द्र प्रस्वः। प्रसूतिर्जन्म । तद्धेतुभूता अपः अवासृजः । आवरकान्मेघादधः पातितवानसि । तथा गिरीन् पर्वतान् बलेन गोमतो बिलस्य पिधानाय निहितान् श्वञ्चयः अगमयः । अभैत्सीरित्यर्थः। ‘श्वचि गतौ । अस्माण्ण्यन्ताल्लङि 'बहुलं छन्दस्यमाङ्योगेऽपि ' इत्यडभावः । ‘ समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः ' (पा. सू. ८. १. १८.५) इति वचनात पूर्वपदस्यासमानवाक्यगतत्वेनास्य ' तिङ्ङतिङः' इति निघाताभावः। तथा वलासुरेण बिले निहिता उस्राः गाः पर्वतभेदनानन्तरम् उदाजः उदगमयः । ततः पयोदध्याज्यादिकं प्रियम् अनुकूलं मधु मधुरं हविः अपिबः पीतवानसि । यद्वा । श्रयणसाधनासु तासु गोष्वागतातु यजमानैः प्रियमभीष्टं मधु सोमास्मकमपिबः पिबसि । तथा वनिनः वनसंबद्धान् वृक्षान् । यद्वा । वनमित्युदकनाम । तद्युक्तान् समुद्रान्। अवर्धयः वृष्टिप्रदानेन वर्धयसि । ऋतजातया । ऋतं यज्ञम् । तदर्थं जातं जन्म यस्याः तथा गिरा वेदात्मिकया वाचा स्तूयमानस्य अस्य इन्द्रस्य दंससा कर्मणा आवृण्वतो वृत्रादेरपि नोदनात्मकेन सूर्यः शुशोच नभसि प्रदिदीपे। यद्वा। ऋतजातया गिरेति सूर्यस्यैव विशेषणम् । त्रयीरूपया वाचा प्रदीप्यत इत्यर्थः । ‘ऋग्भिः पूर्वाह्णे दिवि देव ईयते ' (तै. ब्रा. ३. १२. ९, १ ) इत्यादिकं तैत्तिरीयकमत्रानुसंधेयम् ॥ शुशोचेत्यस्य पदापरत्वेऽपि पादादित्वादपादादाविति पर्युदासस्यानुवृत्तेर्निघाताभावः ॥
“You have sent forth the genitive rative (waters), you have cleft the mountains, you have fetched forth thecows, you have quaffed the delicious Soma, you have caused the trees of the forest to grow; through his exploitsby means of the voice produced for the sacrifice the sun has shone bright.”
Thou sentest forth productive powers, clavest the hills, thou dravest forth the kine, thou drankest pleasant meath.
Thou gavest increase through this Tree's surpassing might. The Sun shone by the hymn that sprang from Holy Law.
You released the fecund females, and you made the mountains bend. You drove up the ruddy ones, and you drank the dear honey [=soma].
By your wondrous power you made the wooden (cups) strong for it. The Sun blazed forth with the song born of truth.
Du machtest frei die Mütter, regtest auf die Höhn, du führtest aus die Kühe, trankst den lieben Meth, Und liesst die Bäume wachsen durch des Methes Kraft; die Sonn' erglänzte durch das fromm erzeugte Lied.
Du befreitest die trächtigen Tiere, du machtest die Berge nachgiebig. Du triebst die Kühe heraus, du trankst den lieben Süßtrank. Die Bäume ließest du durch dessen Wirksamkeit wachsen; Surya glühte durch das aus der Wahrheit geborene Loblied.
Ты выпустил стельных (коров), растворил горы,
Выгнал наружу утренние зори, выпил приятного меду.
Ты вызвал рост лесных деревьев своею чудесною силой.
Сурья запылал благодаря хвалебной песне, рожденной истиной.
वि सूर्यो॒ मध्ये॑ अमुच॒द्रथं॑ दि॒वो वि॒दद्दा॒साय॑ प्रति॒मान॒मार्य॑: । दृ॒ळ्हानि॒ पिप्रो॒रसु॑रस्य मा॒यिन॒ इन्द्रो॒ व्या॑स्यच्चकृ॒वाँ ऋ॒जिश्व॑ना ॥
वि । सूर्यः॑ । मध्ये॑ । अ॒मु॒च॒त् । रथ॑म् । दि॒वः । वि॒दत् । दा॒साय॑ । प्र॒ति॒ऽमान॑म् । आर्यः॑ । दृ॒ळ्हानि॑ । पिप्रोः॑ । असु॑रस्य । मा॒यिनः॑ । इन्द्रः॑ । वि । आ॒स्य॒त् । च॒कृ॒ऽवान् । ऋ॒जिश्व॑ना ॥
दिवः द्युलोकस्य मध्ये सूर्यः आदित्यः रथं प्रस्थानाय वि अमुञ्चत् विमुक्तवान् । मुचेर्लुङि लुदित्वात् च्लेरङादेशः । कदेति चेत् उच्यते । यदा आर्यः अभिज्ञः इन्द्रः दासाय उपक्षपयित्रे वृत्रादये प्रतिमानं प्रतिकृतिं प्रतीकारं विदत् वेत्ति जानाति । अलभत वा । अपि च मायिनः मायाविनः ॥ मायाशब्दस्य व्रीह्यादिषु पाठात 'व्रीह्यादिभ्यश्च 'इतीनिप्रत्ययः ॥ पिप्रोः एतन्नाम्नः असुरस्य दृळ्हानि दृढानि स्थिराणि पुराणि बलानि वा ऋजिश्वना राजर्षिणा चकृवान् सख्यं कुर्वन् इन्द्रः व्यास्यत् व्यक्षिपत् । विविधमाक्षिप्तवान् । व्यनीनशदित्यर्थः । ‘ असु क्षेपणे ॥
“The sun unyoked his chariot in the midst of the sky, (when) the Ārya (Indra) encountered the Dāsaassociated with Ṛjiśvan, Indra destroyed the stronghold of the guileful asura, Pipru.”
In the mid-way of heaven the Sun unyoked his car: the Arya found a match to meet his Dam foe.
Associate with Rjisvan Indra overthrew the solid forts of Pipru, conjuring Asura.
The Sun unhitched his chariot in the middle of heaven. The Ārya found a match for the Dāsa.
The firm fortifications of the crafty lord Pipru did Indra throw open, having acted together with R̥jiśvan.
Die Sonne spannte Mittags ihren Wagen aus, der Arjer fand den Helden, der Barbaren schlägt; Mit dem Ridschiçvan wirkend tilgte Indra da des zauberhaften Dämons Pipru Burgen aus.
Surya spannte in der Mitte des Himmels den Wagen aus. Der Arier fand ein Gegengewicht gegen den Dasa. Die Festen des zauberkundigen Asura Pipru zerschmiß Indra, mit Rijisvan zusammenwirkend.
a Сурья распряг – В РВ не раз упоминается о сотязании Индры и Сурьи, когда Индра сорвал колесо солнца I, rv10.138.121
अना॑धृष्टानि धृषि॒तो व्या॑स्यन्नि॒धीँरदे॑वाँ अमृणद॒यास्य॑: । मा॒सेव॒ सूर्यो॒ वसु॒ पुर्य॒मा द॑दे गृणा॒नः शत्रूँ॑रशृणाद्वि॒रुक्म॑ता ॥
अना॑धृष्टानि । धृ॒षि॒तः । वि । आ॒स्य॒त् । नि॒ऽधीन् । अदे॑वान् । अ॒मृ॒ण॒त् । अ॒यास्यः॑ । मा॒साऽइ॑व । सूर्यः॑ । वसु॑ । पुर्य॑म् । आ । द॒दे॒ । गृ॒णा॒नः । शत्रू॑न् । अ॒शृ॒णा॒त् । वि॒ऽरुक्म॑ता ॥
धृषितः शत्रूणां धर्षयिता प्रगल्भ इन्द्रः अनाधृष्टानि इतः पूर्वं शत्रुभिरप्रधृष्टानि अबाधितान्यसुरबलानि व्यास्यत् व्याक्षिप्तवान् । तथा अयास्यः अयासनीयश्चालयितुमशक्यः । यद्वा। अयास्योऽङ्गिराः । स्तोतृवाचिना शब्देन स्तुत्यो लक्ष्यते । अयास्येनर्षिणा स्तुत्य इन्द्रः निधीन् असुरैर्निहितान् धनसमूहान् । यद्वा । निधातॄन्नितरां बलानां धारयितॄन् अदेवान् देवविरोधिनोऽसुरान् अमृणत् अहिंसीत्। 'मृण हिंसायाम्। तौदादिकः । अपि च सूर्यः मासेव मासेनेव । ‘ पद्दन् इत्यादिना मासशब्दस्य मास्भावः । स यथा मासविशेषेण भौमान् रसानादत्ते तथा पुर्यम् असुराणां पुरि भवम् । ‘ भवे छन्दसि' इति यत् । हलि च' इति दीर्घस्य न भकुर्छुराम्' (पा, सू. ८. २. ७९) इति प्रतिषेधः । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । ईदृशं वसु धनम् आ ददे आदत्ते स्म ॥ ‘ आङो दोऽनास्यविहरणे' इत्यात्मनेपदम् । तथा गृणानः स्तोतृभिः स्तूयमानः सन् ॥ व्यत्ययेन कर्मणि कर्तृप्रत्ययः ॥ शत्रून् शातयितॄनसुरान् विरुक्मता विरोचमानेन वज्रेण अशृणात् अहिंसीत् ॥
“Bold (Indra) has annihilated the (hitherto) unbaffled (hosts of the asura), the objects of Ayasya'sadoration has despoiled the impious of their treasures; the sun as if with the (aid of the) moon has seized uponthe wealth of the cities (of the asuras), glorified (by his worshippers), he has demolished the foe with his blazing(thunderbolt).”
He boldly cast down forts which none had e'er assailed: unwearied he destroycd the godless treasure-stores.
Like Sun and Moon he took the stronghold's wealth away, and, praised in song, demolished foes with flashing dart.
Defiant, he threw open the undefiable (fortifications); the unbridled one pulverized the ungodly treasure-houses.
Like the Sun with the Moon, he took for his own the goods found in the fortress. Being sung, he shattered his rivals with his flashing (weapon).
Die unnahbaren Festen schlug er kühn entzwei, der Gottvergessnen Kammern tilgt' er ohne Rast; Wie Sonn und Mond nahm er der Burgen Schatz hinweg, zerschlug die Feinde der gerühmte mit dem Blitz.
Der Wagemutige hat die unangreifbaren Festen zerschmissen; Ayasya zertrümmerte die ungöttlichen Schatzkammern. Er nahm das Burggut weg wie die Sonne den Glanz des Mondes; gepriesen hat er die Feinde mit dem leuchtenden Sonnenrad zerschmettert.
a Неприступные:отважный (anadhrstani dhrsito) – В оригинале образования от одного и того же корня dhrs - дерзать
अयु॑द्धसेनो वि॒भ्वा॑ विभिन्द॒ता दाश॑द्वृत्र॒हा तुज्या॑नि तेजते । इन्द्र॑स्य॒ वज्रा॑दबिभेदभि॒श्नथ॒: प्राक्रा॑मच्छु॒न्ध्यूरज॑हादु॒षा अन॑: ॥
अयु॑द्धऽसेनः । वि॒ऽभ्वा॑ । वि॒ऽभि॒न्द॒ता । दाश॑त् । वृ॒त्र॒ऽहा । तुज्या॑नि । ते॒ज॒ते॒ । इन्द्र॑स्य । वज्रा॑त् । अ॒बि॒भे॒त् । अ॒भि॒ऽश्नथः॑ । प्र । अ॒क्रा॒म॒त् । शु॒न्ध्यूः । अज॑हात् । उ॒षाः । अनः॑ ॥
विभ्वा विभुना व्याप्तेन विभिन्दता विदारयता एवंविधेनापि परकीयबलेन अयुद्धसेनः अप्रहृतसेजः । यद्वा । विभ्वा विभुर्व्याप्तो विभिन्दता शत्रुबलानि विदारयता वज्रेण । वृत्रहा वृत्रं हतवान् एवंविध इन्द्रः दाशत् दाशति । स्तोतृभ्यो धनं प्रयच्छति । दाशृ दाने'। लेट्यडागमः । तथा तुज्यानि प्रेर्याणि शत्रुबलानि तेजते तनूकरोति अल्पीकरोति । ' तिज निशाने '। यद्वा। शत्रून् प्रति प्रेर्याण्यायुधानि तेजते निश्यति तीक्ष्णीकरोति । ईदृशस्य इन्द्रस्य अभिश्नथः अभितो हिंसकात् वज्रात सर्वं शत्रुजातम् अबिभेत् भीतिं प्राप्नोत् । एवमसुरेष्विन्द्रेण निरस्तेषु शुन्ध्यूः शोधयितादित्यः प्राक्रामत् जगत्प्रकाशनाय गन्तुं प्रक्रान्तवान् । उषाः उषोदेवता च अनः स्वकीयं शकटं रथम् अजहात् गन्तुं पर्यत्यजत् । ओहाक् त्यागे'।
“(Indra), leading an irresistible army, slaying Vṛtra with the pervading piercing (bolt), gives (wealth tohis worshippers), thins the (hosts of the asuras) which have to be attacked; (the whole host of the enemy) wasafraid of Indra's wide-destroying thunderbolt, the purifying (sun) came forth, Uṣas left her cart.”
Armed with resistless weapons, with vast power to cleave, the Vrtra-slayer whets his darts and deals fordi wounds.
Bright Usas was afraid of Indra's slaughtering bolt: she went upon her way and left her chariot there.
Possessing weapons that cannot be combatted, the far-ranging
Vr̥tra-smasher, doing his pious work by means of his splitting
(weapon), sharpens (the weapons) to be brandished.
She feared to be battered by Indra’s mace. The preening female ran
away: Dawn left her cart behind.
Mit unbezwungnem, starkem, spaltendem Geschoss zu helfen, schärft die Pfeile, der den Vritra schlägt, Von Indra's Blitz durchbohrt zu werden fürchtete die schöne Uschas, floh und liess den Wagen stehn.
Mit unbekämpfbarer Heerschar ist der Vritratöter mit seiner mächtigen zerspaltenden Keule freigebig; er schärft die Schleuderwaffe. Sie fürchtete von Indra´s Keule getroffen zu werden; die Schmucke lief davon, die Usas ließ ihren Karren im Stich.
c-d Она испугалась – Сюжет о нападении Индры на Ушас в РВ упоминается (например, IV, 30, 8-11), но мотивы этого нападения остаются неизвестными
ए॒ता त्या ते॒ श्रुत्या॑नि॒ केव॑ला॒ यदेक॒ एक॒मकृ॑णोरय॒ज्ञम् । मा॒सां वि॒धान॑मदधा॒ अधि॒ द्यवि॒ त्वया॒ विभि॑न्नं भरति प्र॒धिं पि॒ता ॥
ए॒ता । त्या । ते॒ । श्रुत्या॑नि । केव॑ला । यत् । एकः॑ । एक॑म् । अकृ॑णोः । अ॒य॒ज्ञम् । मा॒साम् । वि॒ऽधान॑म् । अ॒द॒धाः॒ । अधि॑ । द्यवि॑ । त्वया॑ । विऽभि॑न्नम् । भ॒र॒ति॒ । प्र॒ऽघि॑म् । पि॒ता ॥
हे इन्द्र त्या तानि ते तव त्वदीयानि वीर्यकर्माणि एता एतान्येव केवला केवलानि श्रुत्यानि श्रोतव्यानि स्तुत्यर्हाणि । नान्यदीयानि । कानि पुनस्तानि । एकः असहायस्त्वम् एकं प्रधानभूतम् अयज्ञं यज्ञरहितमसुरम् अकृणोः अहिंसीरिति यत् एतदेकं कर्म ॥ ‘कृवि हिंसाकरणयोश्च । अत्र हिंसार्थः । इदित्त्वान्नुम् । धिन्विकृण्व्योरच्च' इत्युप्रत्ययोऽकारान्तादेशश्च । तस्य लोपे सति स्थानिवद्भावाल्लघूपधगुणाभावः ॥ तथा मासां मासानाम् ॥ ' पद्दन् इत्यादिना मासशब्दस्य मास्भावः । ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् ॥ मासानां विधानं विधातारं कर्तारं सूर्यम् अधि द्यवि द्युलोक उपरि अदधाः अधारयः ॥ विपूर्वात् दधातेः ‘ कृत्यल्युटो बहुलम्' इति कर्तरि ल्युट् ॥ इदमपरं कर्म । तथा पिता पालको द्युलोकः विभिन्नं विदारितं वृत्राद्विभक्तं प्रधिं रथचक्रस्य पार्श्वम् । पार्श्व फलके प्रधी इत्युच्येते । ईदृशं सूर्यरथसंबन्धिनं प्रधिमन्यैर्धारयितुमशक्यं त्वया एव भरति. धारयति । इदमपरं कर्म । एतत्प्रभृतीनि त्वया कृतानि कर्माणि परेषामसाधारणानि सर्वदा स्तोतव्यानीत्यर्थः ॥ ॥ २६ ॥
“These wondrous exploits are yours alone, in that you unaided have injured the chief neglector ofsacrifice; you have plural ced in the sky the regulator of the months through your aid the paternal (heaven) upholdsthe circumference of the wheel (of the Sun's car) which has been shattered (by Vṛtra).”
These are thy famous exploits, only thine, when thou alone hast left the other reft of sacrifice.
Thou in the heavens hast set the ordering of the Moons: the Father bears the felly portioned out by thee.
These (deeds) worthy of fame are yours exclusively, in that you alone made him alone to be one lacking the sacrifice.
You set the apportioner of the months [=moon] in heaven. The father [=Heaven] bears the segment of the wheel that was split off by you.
Das sind die Ruhmesthaten, die dir eigen sind: Mann gegen Mann erschlugst du den, der opferlos, Der Monde Scheidung setztest du, am Himmel fest, der Vater trägt den Radkranz, den du hast vertheilt.
Auf diese rühmlichen Taten hast nur du Anspruch, daß du der Eine den Anderen opferlos machest. Du setztest ihn als Einteiler der Monate an den Himmel; den von dir Zerspaltenen trägt der Vater als Scheibe.
Это все только твои славные дела,
Чего ты один лишенного жертв сделал (поверженным).
Ты установил на небе распределение месяцев.
Отец несет обод, расколотый тобою.