सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त्सवि॒ता ज्योति॒रुद॑याँ॒ अज॑स्रम् । तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वान्त्स॒म्पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ॥
स॒ूर्य॑ऽरश्मिः । हरि॑ऽकेशः । पु॒रस्ता॑त् । स॒वि॒ता । ज्योतिः॑ । उत् । अ॒या॒न् । अज॑स्रम् । तस्य॑ । पू॒षा । प्र॒ऽस॒वे । या॒ति । वि॒द्वान् । स॒म्ऽपश्य॑न् । विश्वा॑ । भुव॑नानि । गो॒पाः ॥
सूर्यरश्मिः । उषसः प्रादुर्भावानन्तरं सूर्यस्योदयात् पूर्वं यः कालस्तस्य कालस्याभिमानी देवः सवितेत्युच्यते । सूर्यरश्मिः सूर्यस्य सर्वस्य प्रेरकस्यादित्यस्य रश्मिरेव रश्मिर्यस्य स तथोक्तः हरिकेशः हरयो हरणशीला हरितवर्णा वा केशाः केशस्थानीयाः प्रकाशमाना वा दीप्तयो यस्य ईदृशः
“सविता सर्वस्य प्रेरको देवः पुरस्तात् पूर्वस्यां दिशि अजस्रम् अनवरतं ज्योतिः तेजः उदयान् उद्याति उद्गमयति ॥ यातेरन्तर्भावितण्यर्थात् छन्दसो लङ् । व्यत्ययेन वहुवचनम्। संहितायां ‘ दीर्घादटि समानपादे ' इति नकारस्य रुत्वम् । आतोऽटि नित्यम् ' इति सानुनासिक आकारः ॥ तस्य सवितुः प्रसवे प्रेरणेऽनुज्ञायां सत्यां विद्वान् जानन् गोपाः गोपायिता रक्षिता पूषा पोषको देव आदित्यः याति नभसि गच्छति । किं कुर्वन् । विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि संपश्यन् सम्यक् प्रकाशयन् ॥
“Savitā, the solar-rayed, the yellow-haired, sent up the undying light from the east; at his commandthe wise Pūṣan, the preserver, follows, looking upon all creatures.”
SAVITAR, golden-haired, hath lifted eastward, bright With the sunbeams, his eternal lustre;
He in whose energy wise Pusan marches, surveying all existence like a herdsman.
With the rays of the sun, with golden hair, Savitar has raised up the unaging light from the east.
At his instigation Pūṣan travels—the knowing cowherd surveying all beings.
Das ew'ge Licht hat Savitar von Osten emporgelenkt, goldhaarig, sonnenstrahlig, Auf seinen Antrieb wandert Puschan kundig beschauend alle Wesen als der Hirte.
Mit der Sonne Strahlen, mit goldigem Haare hat Savitri im Osten sein unverlöschliches Licht aufgesteckt. Auf seine Anweisung wandelt der kundige Pusan, der Hirt, der alle Geschöpfe überwacht.
С лучами солнца, с золотистыми волосами Савитар
Простер вверх на востоке немеркнущий свет.
По его побуждению движется Пушан как знаток,
Пастух, озирающий все существа.
नृ॒चक्षा॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् । स वि॒श्वाची॑र॒भि च॑ष्टे घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ॥
नृ॒ऽचक्षाः॑ । ए॒षः । दि॒वः । मध्ये॑ । आ॒स्ते॒ । आ॒प॒प्रि॒ऽवान् । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् । सः । वि॒श्वाचीः॑ । अ॒भि । च॒ष्टि॒ । घृ॒ताचीः॑ । अ॒न्त॒रा । पूर्व॑म् । अप॑रम् । च॒ । के॒तुम् ॥
नृचक्षाः नॄन् मनुष्यान् पश्यन् यद्वा नृभिर्नेतृभिः रश्मिभिः प्रकाशमानः एषः सविता दिवः द्युलोकस्य मध्ये आस्ते निषीदति । किं कुर्वन् । रोदसी द्यावापृथिव्यौ अन्तरिक्षं च आपप्रिवान् स्वतेजसा आपूरयन् ॥ ‘ प्रा पूरणे '। अस्माच्छान्दसो लिट् । 'क्वसुश्च' इति तस्य क्वसुरादेशः । ‘ वस्वेकाजाद्धसाम् ' इतीडागमः ॥ सः देवः विश्वाचीः विश्वमञ्चन्तीः सर्वव्यापिनीः प्राच्यादिमहादिशः अभि चष्टे प्रकाशयति । तथा घृताचीः घृतं दीप्तं रूपमञ्चन्तीः आग्नेय्यादिविदिशश्च प्रकाशयति ॥ अञ्चतेः क्विनन्तात् ' अञ्चतेश्चोपसंख्यानम्' इति ङीप् । ततो भसंज्ञायाम् ' अचः । इत्यकारलोपे ' चौ' इति दीर्घत्वम् । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वे प्राप्ते 'चौ ' इति पूर्वस्याच उदात्तत्वम् ॥ तथा पूर्वं पूर्वभागं केतुं प्रज्ञापनीयम् अपरं पृष्ठभागं च अन्तरा अन्तरालं च अभि चष्टे प्रकाशयति ॥
“Beholding mankind he sits in the midst of the sky, filling (with light) the heaven and earth and thefirmament; he illumines the all-pervading (quarters of space), the bright-pervading (intermediate points), and thehindmost, the foremost, and the hindmost mark.”
Beholding men he sits amid the heaven filling the two world-halves and air's wide region.
He looks upon the rich far-spreading pastures between the eastern and the western limit.
With his eye on men, he sits in the middle of heaven, having filled both world-halves and the space between.
He watches over (his mares? the ladles?) facing toward ghee, facing in all directions, between the eastern and the western beacon.
Er sass an Himmels Mitte, Männer schauend, mit Licht erfüllend Himmel, Luft und Erde, Er schauet an die weiten fetten Triften, die zwischen Ost und West umleuchtet liegen.
Mit dem Herrenauge sitzt dieser in der Mitte des Himmels, nachdem er beide Welten und den Luftraum erfüllt hat. Er schaut auf die Allseitigen, die Schmalzreichen zwischen dem östlichen und dem westlichen Zeichen.
Сидит этот со взглядом героя посреди неба,
Заполнил оба мира (и) воздушное пространство.
Он смотрит на обращенные во все стороны полные жира (ложки)
Между восточным и западным знаком.
रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभि च॑ष्टे॒ शची॑भिः । दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे धना॑नाम् ॥
रा॒यः॑ । बु॒ध्नः । स॒म्ऽगम॑नः । वसू॑नाम् । विश्वा॑ । रू॒पा । अ॒भि । च॒ष्टे॒ । शची॑भिः । दे॒वःऽइ॑व । स॒वि॒ता । स॒त्यऽध॑र्मा । इन्द्रः॑ । न । त॒स्थौ॒ । स॒म्ऽअ॒रे । धना॑नाम् ॥
रायः धनस्य बुध्नः बन्धको मूलभूतो वा ॥ ‘ऊडिदम्” इत्यादिना रैशब्दाद्विभक्तेरुदात्तत्वम् ॥ तथा वसूनां धनानां संगमनः संगमयिता प्रापयिता ईदृशः सविता शचीभिः दीप्तिभिः विश्वा रूपा सर्वाणि रूपाणि निरूपणीयानि पदार्थजातानि अभि चष्टे अभिपश्यति । प्रकाशयति । अपि च देवइव अयं सविता सावको देवः सत्यधर्मा सत्यमवितथं धर्मं धारणं धारणहेतुभूतं कर्म वा यस्य तादृशो भवति । तथा इन्द्रो न इन्द्र इव धनानां समरे संग्रामे सम्यक्प्रापणे तस्थौ । अयं सविता उद्युक्तः संस्तिष्ठति ॥
“The root of riches, the acquirer of treasure illumines by his functions all (visible) forms; Savitā, like agod, whose attribute is truth, stands like Indra in the battle for riches.”
He, root of wealth, the gatherer-up of treasures, looks with his might on every form and figure.
Savitar, like a God.whose Law is constant, stands in the battle for the spoil like Indra.
The foundation of wealth, the assembler of goods, he watches over all forms with his powers.
Like god Savitar’s, his ordinances hold true; like Indra, he stands at the confluence of spoils.
Des Reichthums Boden und der Schätze Sammler beschaut er eifrig die Gestalten alle; Gesetz beschirmend steht er in dem Kampfe um Güter wie Gott Savitar, wie Indra.
Die Grundlage des Reichtums, der Sammler von Schätzen, gewahrt er alle Gestalten nach seiner Macht. Von unverbrüchlichen Regeln wie Gott Savitri, steht er wie Indra inmitten der Anhäufung von Reichtümern.
Основа богатств, собиратель благ,
Он смотрит на все формы (своими) силами.
Словно бог Савитар, чей закон истинен,
Стоит он, как Индра, при стечении богатств.
वि॒श्वाव॑सुं सोम गन्ध॒र्वमापो॑ ददृ॒शुषी॒स्तदृ॒तेना॒ व्या॑यन् । तद॒न्ववै॒दिन्द्रो॑ रारहा॒ण आ॑सां॒ परि॒ सूर्य॑स्य परि॒धीँर॑पश्यत् ॥
वि॒श्वऽव॑सुम् । सो॒म॒ । ग॒न्ध॒र्वम् । आपः॑ । द॒दृ॒शुषीः॑ । तत् । ऋ॒तेन॑ । वि । आ॒य॒न् । तत् । अ॒नु॒ऽअवै॑त् । इन्द्रः॑ । र॒र॒हा॒णः । आ॒सा॒म् । परि॑ । सूर्य॑स्य । प॒रि॒ऽधीन् । अ॒प॒श्य॒त् ॥
हे सोम त्वया सहितं गन्धर्वं गीतरूपां गां शब्दं धारयन्तं विश्वावसुम् एतत्संज्ञं माम् । उत्तरत्र तच्छब्दश्रुतेर्यच्छब्दाध्याहारः । यत् आपः वसतीवर्याख्याः ददृशुषीः दृष्टवत्यः ॥ दृशेर्लिटः क्वसुः। ‘ उगितश्च ' इति ङीप् । ‘ वसोः संप्रसारणम् ' इति संप्रसारणम् । जसि वा छन्दसि । इति पूर्वसवर्णदीर्घः॥ तत् तदानीम् ऋतेन यज्ञेन हेतुना व्यायन् विविधमगच्छन् यष्टृजनाः । तत् गमनम् आसाम् अपां ररहाणः गमयिता इन्द्रः अन्ववैत् अन्वबुध्यत । बुद्ध्वा च कुत्र यज्ञः प्रवृत्त इति सूर्यस्य परिधीन् परितो धीयमानान् प्राच्यादिदिग्भागान् परि अपश्यत् परितो दृष्टवान् ॥
“Beholding Soma, the Gandharva Viśvāvasu, the waters have come forth by means of the sacrifice;Indra impelling them knew of this (their approach), and looked round the rims of the sun.”
Waters from sacrifice came to the Gandharva Visvavasu, O Soma, when they saw him.
Indra, approaching quickly, marked their going, and looked around upon the Sun's enclosures.
O Soma, the waters, having seen Viśvāvasu the Gandharva, then went apart by their truth.
Indra, hastening, went down following that (truth?) of theirs. He looked around the encirclements of the sun.
O Soma, als die Wasser den allreichen Gandharven sahn, da rannen sie wie's Recht ist; Er ging in Eile hin zu ihrem Strömen und sah ringsum des Sonnengottes Wehren.
Als, o Soma, die Gewässer den Gandharva Visvavasu erblickt hatten, flohen sie von rechts wegen. Indra folgte rasch dieser ihrer Spur; er entdeckte die Verkleidungen der Sonne.
Увидев Вишвавасу-гандхарву, о сома,
Воды разошлись правильным путем.
Индра быстро помчался по этому их (следу):
Он обнаружил покровы солнца.
वि॒श्वाव॑सुर॒भि तन्नो॑ गृणातु दि॒व्यो ग॑न्ध॒र्वो रज॑सो वि॒मान॑: । यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्याः ॥
वि॒श्वऽव॑सुः । अ॒भि । तत् । नः॒ । गृ॒णा॒तु॒ । दि॒व्यः । ग॒न्ध॒र्वः । रज॑सः । वि॒ऽमानः । यत् । वा॒ । घ॒ । स॒त्यम् । उ॒त । यत् । न । वि॒द्म । धियः॑ । हि॒न्वा॒नः । धियः॑ । इत् । नः॒ । अ॒व्याः॒ ॥
विश्वावसुः गन्धर्वः नः अस्माकं तत् अभि गृणातु अभिमुखं ब्रवीतु ॥ ' गॄ शब्दे । क्रैयादिकः । प्वादित्वात् ह्रस्वः । कीदृशः । दिव्यः दिवि भवः तथा रजसः उदकस्य विमानः निर्माता । किं पुनस्तत् । यद्वा घ यच्च खलु सत्यम् अवितथं यथार्थफलं कर्मजातम् । उतशब्दश्चार्थे । यत् च न विद्म न जानीमः तदुभयं ब्रवीत्वित्यर्थः ॥ ‘ ऋचि तुनुघ° । इत्यादिना घशब्दस्य सांहितिको दीर्घः ॥ शिष्टः पादः प्रत्यक्षकृतः । हे विश्वावसो धियः कर्माणि हिन्वानः सोमेन प्रवर्धयन् ॥ ‘ हि गतौ वृद्धौ च ' । यद्वा । धियः स्तुतीर्हिन्वानः प्राप्नुवन् नः अस्माकं धिय इत् कर्माण्येव बुद्धीरेव वा अव्याः रक्ष ॥
“May the celestial Gandharva Viśvāvasu, the measurer of the water, declare to us that which is thetruth, and that which we do not know; accepting our praises. (Viśvāvasu), protect our sacrifices.”
This song Visvavasu shall sing us, meter of air's mid-realm celestial Gandharva,
That we may know aright both truth and falsehood: may he inspire our thoughts and help our praises.
Let Viśvāvasu sing it [=truth] to us—the heavenly Gandharva, the measurer of the airy realm—
whether we know it to hold true or not. Spurring on insights, he should help just our insights.
Das gebe uns der himmlische Gandharve, der alles Gut hat, der die Luft durchwandert, Zu wissen recht, was wahr ist und was nicht wahr, den Bitten hold gewähr er unsre Bitten.
Visvavasu soll uns darin zustimmen, der himmlische Gandharva, der Durchmesser des Raums. Ob wir es gewiß wissen, ob nicht, er soll unsere Gedanken anregen, unseren Gedanken zu Hilfe kommen.
Вишвавасу пусть споет нам про то,
Божественный Гандхарва, меряющий пространство,
Что в самом деле истинно и чего мы не знаем.
Возбуждая мысли, пусть поможет он нашим мыслям!
सस्नि॑मविन्द॒च्चर॑णे न॒दीना॒मपा॑वृणो॒द्दुरो॒ अश्म॑व्रजानाम् । प्रासां॑ गन्ध॒र्वो अ॒मृता॑नि वोच॒दिन्द्रो॒ दक्षं॒ परि॑ जानाद॒हीना॑म् ॥
सस्नि॑म् । अ॒वि॒न्द॒त् । चर॑णे । न॒दीना॑म् । अप॑ । अ॒वृ॒णो॒त् । दु॒रः॑ । अश्म॑ऽव्रजानाम् । प्र । आ॒सा॒म् । ग॒न्ध॒र्वः । अ॒मृता॑नि । वो॒च॒त् । इन्द्रः॑ । दक्ष॑म् । परि॑ । जा॒ना॒त् । अ॒हीना॑म् ॥
सस्निम् अद्भिः संस्नातं प्रकर्षेण सर्वस्य जगतः स्नापयितारं मेघम् । ष्णा शौचे '। ‘ आदृगमहन° ' इति किन्प्रत्ययः । लिड्वद्भावात् द्विर्वचनम् । नदीनां शब्दकारिणीनामपां चरणे संचरणस्थानेऽन्तरिक्षे अविन्दत् । इन्द्रोऽलभत । लब्ध्वा च अश्मव्रजानाम् । अश्मा व्याप्तो मेघः । तत्र व्रजन्तीनाम् । यद्वा । मेघो व्रजो गोष्ठं निवासस्थानं यासां तादृशीनाम् । अपां दुरः द्वाराणि मेघान्निर्गमनप्रदेशान् अपावृणोत् अपावृतवान् । यद्वा । अश्मसु शिलासु व्रजन्तीनां गच्छन्तीनां व्याप्तगमनानां वा नदीनां गङ्गायमुनादीनां चरणे संचरणे प्रवहणे निमित्तभूते सति तदर्थमिन्द्रः सस्निं मेघमविन्दत् अलभत । लब्ध्वा चान्तर्गतानामपां निर्गमसाधनानि मेघस्य दुरो द्वाराणि अपावृणोत् अपावृतवान् । तथा आसां नदीनाम् अमृतानि अमरणसाधकानि उदकानि गन्धर्वः गोर्वज्रस्य धर्ता विश्वावसुरूपेण वर्तमानः इन्द्रः प्र वोचत् प्रब्रवीति । प्रवोढुमनुजानाति । तथा दक्षम् । दक्षत्युदकं प्रयच्छतीति दक्षो वर्षणसमर्थो मेघः । तादृशं मेघम् अहीनां मेघानां मध्ये परि जानात् परितः सर्वतो जानाति । ‘ज्ञा अवबोधने । लेट्याडागमः । ज्ञाजनोर्ज्ञा इति जादेशः । ॥ २७ ॥
“(Indra) discovered the cloud in the region of the rivers, he set open the portals of (the waters) whosedwelling is in the clouds; Indra, (in the form of) the Gandharva (viśvāvasu), proclaimed the ambrosial (waters),he knew the strength of the dragons.”
In the floods' track he found the bootyseeker: the rocky cow-pen's doors he threw wide open.
These, the Gandharva told him, Rowed with Amrta. Indra knew well the puissancc of the dragons.
He found the winner in the current of the rivers. He opened the doors for those with a rock as their pen.
The Gandharva proclaimed their immortal (names). Indra came to know all about the capability of the fertile cows.
Den Spender fand er auf der Bahn der Ströme, er öffnete der Felsenställe Thüren, Der Ströme Labsal rühmte der Gandharve und Indra hat erprobt der Drachen Stärke.
Er fand den Gewinner auf der Fährte der Flüsse, er schloß den im Fels eingepferchten Kühen die Tore auf. Gandharva verkündete ihre unsterblichen Namen; Indra kannte genau die Tüchtigkeit der Muttertiere.
Он нашел победителя в стремнине рек,
Он растворил двери для запертых в скале.
Гандхарва провозгласил их бессмертные (имена).
Индра точно узнал силу (действия) коров.