त्यं चि॒दत्रि॑मृत॒जुर॒मर्थ॒मश्वं॒ न यात॑वे । क॒क्षीव॑न्तं॒ यदी॒ पुना॒ रथं॒ न कृ॑णु॒थो नव॑म् ॥
त्यम् । चि॒त् । अत्रि॑म् । ऋ॒त॒ऽजुर॑म् । अर्थ॑म् । अश्व॑म् । न । यात॑वे । क॒क्षीव॑न्तम् । यदि॑ पुन॒रिति॑ । रथ॑म् । न । कृ॒णु॒थः । नव॑म् ॥
हे अश्विनौ शतद्वारे पीडायन्त्रगृहेऽसुरैः प्रक्षिप्तो बद्धाङ्गो योऽत्रिरस्ति त्यं चित् तमपि अत्रिम् ऋतजुरम् । ऋतं स्तोत्रं यज्ञो वा । तेन जीर्यन्तम् । सर्वदा युवयोः परिचरणशीलमित्यर्थः॥ जीर्यतेः क्विपि ‘बहुलं छन्दसि ' इति उत्वम् ॥ यद्वा । ऋतेन प्राप्तेनासुरकृतोपद्रवेण ज्वरितं रुग्णम् ॥ ‘ज्वर रोगे'। ज्वरत्वर' इत्यादिना वकारस्योपधायाश्च स्थान ऊठ्। जूरी हिंसागत्योः' इत्यस्माद्वा क्विप् । अनयोः पक्षयोश्छान्दसो ह्रस्वः ॥ ईदृशं तमत्रिम् अर्थम् अर्थनीयं प्राप्तव्यं यातवे गन्तुं युवां कृतवन्तौ । तत्र दृष्टान्तः । अश्वं न । यथाश्वो बन्धाद्विमुक्तः सन् शीघ्रं गच्छति एवमयमपि युवयोः प्रसादात् असुरकृतादुपद्रवजातात् विमुच्यमानो यथास्थानमगच्छदित्यर्थः ॥ ' या प्रापणे इत्यस्मात् तुमर्थे सेसेन्°' (पा. सू. ३. ४. ९ ) इति तवेन्प्रत्ययः ॥ यदि । अपि च इत्यर्थः । कक्षीवन्तम् । कक्ष्या रज्जुरश्वस्य । तद्वन्तम् ॥ ‘आसन्दीवदष्ठीवत् (पा. सू. ८. २. १२) इत्यादौ निपातनात् संप्रसारणम् । दीर्घतमसः पुत्रम् उशिक्प्रसूतमृषिं मन्दबुद्धिं सन्तं युवां पुनः नवं पुनरभिनवप्रज्ञं कृणुथः अकृणुतम् अकुरुतम् । रथं न । यथा कश्चिच्छिल्पी जीर्णं रथं पुनरभिनवं करोति तद्वत् ॥ ‘कृवि हिंसाकरणयोश्च । इदित्त्वान्नुम् । लङर्थे व्यत्ययेन लट् । ‘धिन्विकृण्व्योरच्च' इत्युप्रत्ययः । तत्संनियोगेनाकारान्तादेशश्च । तस्यातो लोपे सति स्थानिवद्भावाल्लघूपधगुणाभावः । ‘सतिशिष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधते ' ( पा. म. ६, १. १५८.११ ) इति वचनात् तिङ एव स्वरः शिष्यते । निपातैर्यद्यदिहन्त' इति निघातप्रतिषेधः ॥
“You made this Atri, ever diligent in worship, (swift) to run to the goal like a horse, and you renewedKakṣīvat as (a wheelwright renews) a car.”
YE made that Atri, worn with eld, free as a horse to win the goal.
When ye restored to youth and strength Kaksivan like a car renewed,
(Make) also this Atri, grown old in the truth, (new again), to drive like a horse to his goal,
when you two make Kakṣīvant new again, like a chariot.
»Den Atri, der im Dienst ergraut, lasst wie ein Ross zum Ziele gehn. Wenn den Kakschīvat wieder ihr wie einen Wagen neu doch macht,
Auch diesen Atri, der nach dem Gesetz alt geworden ist, lasset wie ein Roß nach dem Ziele laufen, wenn ihr schon den Kaksivat wieder jung machet wie einen Wagen.
И этого Атри, состарившегося по закону (природы),
(Пустите) бежать, словно коня к цели,
Если (уж) вы Какшиванта опять
Делаете (молодым), как новая колесница.
त्यं चि॒दश्वं॒ न वा॒जिन॑मरे॒णवो॒ यमत्न॑त । दृ॒ळ्हं ग्र॒न्थिं न वि ष्य॑त॒मत्रिं॒ यवि॑ष्ठ॒मा रज॑: ॥
त्यम् । चि॒त् । अश्व॑म् । न । वा॒जिन॑म् । अ॒रे॒णवः॑ । यम् । अत्न॑त । दृ॒ळ्हम् । ग्र॒न्थिम् । न । वि । स्य॒त॒म् । अत्रि॑म् । यवि॑ष्ठम् । आ । रजः॑ ॥
अरेणवः अहिंस्यमानाः प्रबला असुराः वाजिनं वेगवन्तम् अश्वं न अश्वमिव यम् अत्रिम् अत्नत अतन्वत बद्धमकृषत ॥ तनोतेर्लुङि ‘तनिपत्योश्छन्दसि' इत्युपधालोपः। त्यं चित् तं च अत्रिं यविष्ठं युवतमं स्तुतेर्मिश्रयितृतमं वा रजः। रजन्त्यस्मिन् जना इति रजो भूलोकः । रज इमं लोकम् आ अभि हे अश्विनौ वि ष्यतं व्यमुञ्चतम् । दृढं स्थिरतरं ग्रन्थिं न ग्रन्थिमिव । यथा कश्चित् तादृशं ग्रन्थिमयत्नेन विमुञ्चति तथा युवां तमृषिमसुरकृताद्बन्धनात् मोचितवन्तावित्यर्थः ॥ स्यतमिति ‘ षोऽन्तकर्मणि' इत्यस्माल्लङि श्यनि “ ओतः श्यनि' इत्योकारलोपे रूपम् । छान्दसोऽभावः ॥ यद्वा । अत्रिं मां बन्धाद्वि ष्यतं विमुञ्चतमित्यृषिः असुरैर्बद्धः सन् अश्विनौ प्रार्थयते ॥
“This Atri, whom the irresistible (asuras) dragged bound like a swift horse, you unloosed like a strongknot, (setting him) the youngest born upon the earth.”
Ye freed that Atri like a horse, and brought him newly-born to earth.
Ye loosed him like a firm-tied knot which Gods unsoiled by dust had bound.
(Unloose) also this one, like a prizewinning horse, to which the dustless (paths) have stretched themselves;
unloose the youngest Atri, like a tight knot, (to stretch) across the
airy realm.
So löst wie festen Knoten auch den Atri, den gleich schnellem Ross Staublose Götter ausgesandt, bringt jugendfrisch ihn an die Luft.
Auch diesen lasset wie ein preisgewinnendes Roß nach dem Ziele laufen, das die staublosen Götter gesteckt haben. Bindet ihn los wie einen festen Knoten - den jüngsten Atri lasset seine Strecke laufen!
И этого (Атри пустите бежать), как коня, приносящего награду,
Которому лишенные пыли (боги) протянули (путь).
Развяжите (его), как тугой узел!
Атри, самому юному, (дайте пересечь) простор!
नरा॒ दंसि॑ष्ठा॒वत्र॑ये॒ शुभ्रा॒ सिषा॑सतं॒ धिय॑: । अथा॒ हि वां॑ दि॒वो न॑रा॒ पुन॒ स्तोमो॒ न वि॒शसे॑ ॥
नरा॑ । दंसि॑ष्ठौ । अत्र॑ये । शुभ्रा॑ । सिसा॑सतम् । धियः॑ । अथ॑ । हि । वा॒म् । दि॒वः । न॒रा॒ । पुन॒रिति॑ । स्तोमः॑ । न । वि॒शसे॑ ॥
हे नरा नरौ नेतारी दंसिष्ठौ दर्शनीयतमौ शुभ्रा शोभमानौ ईदृशौ हे अश्विनौ अत्रये ऋषये मह्यं धियः कर्माणि बुद्धीर्वा सिषासतं दातुमिच्छतम् । षणु दाने' । यद्वा । अत्रये इति षष्ठ्यर्थे चतुर्थी । अत्रेर्मम धियः स्तुतीः कर्माणि वा सिषासतं संभक्तुमिच्छतम् । सेवेथामित्यर्थः ॥ ‘वन षण संभक्तौ '। अस्मात्सनतेः सनोतेर्वा सनि ‘सनीवन्तर्ध० इति विकल्पनादिडभावे ‘जनसनखनाम्' इत्यात्वम् । शुभ्रेत्यस्यामन्त्रितस्य ' आमन्त्रितं पूर्वमविद्यमानवत्' इत्यविद्यमानवत्त्वेन पदादपरत्वेन पादादित्वात् ' तिङ्ङतिङः' इति निघाताभावः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे सनो नित्त्वादाद्युदात्तत्वम् ॥ अथा हि अनन्तरमेव दिवः । दीव्यतीति स्तौतीति द्यौः स्तोता । तस्य मम स्तोमो न । नशब्दश्चार्थे । स्तोत्रं च हे नरा नेतारावश्विनौ वां युवां पुनः विशसे । पुनरेवाद्यापि विशेषेण शंसितुं प्रभवतीति शेषः ॥।
“Leaders (of rites), of goodly aspect and radiant, design to accept Atri's praises, and so the praise ofyour worshipper (is) to be sung again to you leaders (of rites).”
Heroes who showed most wondrous power to Atri, strive to win fair songs;
For then, O Heroes of the sky, your hymn of praise shall cease no more.
You two most wondrous, resplendent men, seek to win insights for Atri,
for then, o men of heaven, your praise song will never again (need) to be carved up [=shared with other gods].
O reine, wunderkräftigste, gewährt dem Atri sein Gebet, Denn dann wird, Himmelsmänner euch auch unerschöpftes Lob zu Theil.«
Ihr Herren und größten Meister, ihr Schönen, wünschet für Atri den Sieg seiner Gebete, denn dann ist euer Lob, ihr Männer des Himmels, gar nicht ein zweites Mal auszusagen!
О два мужа, больше всех творящих чудеса, для Атрии,
О прекрасные, сделайте успешными (его) молитвы:
Ведь тогда для вас, о два мужа неба,
Снова хвала (никогда) не истощится!
चि॒ते तद्वां॑ सुराधसा रा॒तिः सु॑म॒तिर॑श्विना । आ यन्न॒: सद॑ने पृ॒थौ सम॑ने॒ पर्ष॑थो नरा ॥
चि॒ते । तत् । वा॒म् । सु॒ऽरा॒ध॒सा॒ । रा॒तिः । सु॒ऽम॒तिः । अ॒श्वि॒ना॒ । आ । यत् । नः॒ । सद॑ने । पृ॒थौ । सम॑ने । पर्ष॑थः । न॒रा॒ ॥
हे सुराधसा शोभनदानौ अश्विना हे अश्विनौ सुमतिः शोभना स्तुतिरस्मदीया रातिः हविर्दानं च तत् तस्मात्कारणात् वां युवयोः चिते ज्ञानाय भवति ॥ ‘चिती संज्ञाने' । अस्मात् संपदादिलक्षणो भावे क्विप् । 'सावेकाचः” इति विभक्तेरुदात्तत्वम् ॥ यत् यस्मात्कारणात् सदने यज्ञगृहे पृथौ विस्तीर्णे समने यज्ञे नः अस्मान हे नरा नेतारौ आ पर्षथः आपूरयथः अभितो रक्षथो वा तस्माद्युवामस्मदीयं परिचरणं ज्ञातवन्तावित्यनुमीमहे ॥ ‘पॄ पालनपूरणयोः ' इत्यस्माल्लेटि • सिब्बहुलम्' इति सिप् । ततः शप् ॥।
“Munificent Aśvins, my offering and praise (is) for your recognition, because, leaders (of rites), youprotect us at the sacrifice in the spacious sacrificial hall.”
This claims your notice, Bounteous Gods! - oblation, Asvins! and our love,
That ye, O Heroes, in the fight may bring us safe to ample room.
O very bountiful Aśvins, your generosity and benevolence are to be noted in this:
that you will bring us safely across to the broad seat and the (festive) assembly (of the sacrifice), o men.
Es zeigt sich hier, schöngebende, o Bitter, eure Gab' und Gunst, Dass ihr im weiten Sitz und Rath, o Männer, schnell uns unterstützt.
Zu merken sei eure Gunst, euer Wohlwollen, ihr wohltätigen Asvin, daß ihr Männer uns im breiten Opfersitz, im Wettstreit durchhelfen wollet.
Надо понимать ваш дар,
(Вашу) доброжелательность, о Ашвины, очень щедрые, -
То, что на нашем широком сиденье
Вы хотите помогать (нам) в борьбе, о два мужа.
यु॒वं भु॒ज्युं स॑मु॒द्र आ रज॑सः पा॒र ई॑ङ्खि॒तम् । या॒तमच्छा॑ पत॒त्रिभि॒र्नास॑त्या सा॒तये॑ कृतम् ॥
यु॒वम् । भु॒ज्युम् । स॒मु॒द्रे । आ । रज॑सः । पा॒रे । ई॒ङ्खि॒तम् । या॒तम् । अच्छ॑ । प॒त॒त्रिऽभिः॑ । नास॑त्या । सा॒तये॑ । कृ॒त॒म् ॥
हे अश्विनौ युवं युवां समुद्रे उदधौ निमग्नं रजसः उदकस्य पारे प्रान्ते तरङ्गसमूहे ईङ्खितं डोलायितम् एवंभूतं भुज्युं तुग्रपुत्रम् अच्छ अभि पतत्रिभिः पक्षोपेतैर्नौविशेषैः सह आ यातम् आगतवन्तौ स्थः । आगत्य च हे नासत्या सत्यस्य नेतारौ सत्यस्वभावौ वा हे अश्विनौ सातये युवयोः संभजनाय समर्थं कृतं पुनर्युवामकुरुतम् ॥ करोतेर्लङि छान्दसो विकरणस्य लुक् । अडभावश्च । लुङि वा मन्त्रे घस' इति च्लेर्लुक् ॥
“You came with winged (steeds) to Bhujyu (immersed) in the ocean, at the world's end, perturbed; and,leaders, of truth, you restored him to your worship.”
Ye Twain to Bhujyu tossed about in ocean at the region's end,
Nasatyas, with your winged sterds came nigh, and gave him strength to win.
Bhujyu, pitched and tossed in the sea at the far end of the airy realm— you drove to him with your winged ones. O Nāsatyas, make (our
insight?) to win.
Zum Bhudschju, der geschaukelt ward im Meere jenseit dieser Luft, O Treue, eiltet ihr herbei auf Flügelrossen, gabt ihm Huld.
Zu Bhujyu, der im Meere am Ende der Welt schaukelte, kamet ihr mit den geflügelten Rossen; ihr Nasatya´s halfet seinem Gebet zum Sieg!
Вы к Бхуджью, качавшемуся
В море, в конце света,
Отправились на крыльях (конях).
О Насатьи, вы сделали (его молитву) успешной.
आ वां॑ सु॒म्नैः शं॒यू इ॑व॒ मंहि॑ष्ठा॒ विश्व॑वेदसा । सम॒स्मे भू॑षतं न॒रोत्सं॒ न पि॒प्युषी॒रिष॑: ॥
आ । वा॒म् । सु॒म्नैः । शं॒यूइ॒वेति॑ शं॒यूऽइ॑व । मंहि॑ष्ठा । विश्व॑ऽवेदसा । सम् । अ॒स्मे इति॑ । भू॒ष॒त॒म् । न॒रा॒ । उत्स॑म् । न । पि॒प्युषीः॑ । इषः॑ ॥
हे विश्ववेदसा सर्वज्ञौ सर्वधनौ वा हे नरा नेतारौ वां युवां शंयूइव सुखयुक्तौ राजानाविव मंहिष्ठा दातृतमावतिशयेन पूज्यौ वा सन्तौ सुम्नैः अस्मभ्यं दातव्यैः सुखैः सार्धम् आ । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । आगच्छतम् । यद्वा । उपसर्गस्य भूषतमित्यनेन संबन्धः । मंहिष्ठेत्यपि संबोधनम् । हे मंहिष्ठा दातृतमौ उक्तगुणावश्विनौ वां युवां सुम्नैः सार्धं शंयूइव अस्मे अस्मान् सम्यक् आ भूषतम् अभिप्राप्नुतम् ॥' भू प्राप्तौ । अस्माल्लोटि व्यत्ययेन सिप्शपौ । यद्वा । ‘भूष अलंकारे' ॥ आ समन्तात् सम्यक् भूषतम् अलंकुरुतम् । पिप्युषीः प्रवृद्धानि इषः इष्यमाणानि पयांसि उत्सं न गोरूध इव । यथा बहुभिः पयोभिः ऊधः अलंकृतं सत् दृश्यते अस्मानप्येवं बहुभिर्धनैरलंकुरुतमित्यर्थः ॥ पिप्युषीरिति प्यायतेर्लिटः क्वसुः । ‘लिड्यड्योश्च' इति पीभावः । जसि ‘वा छन्दसि' इति पूर्वसवर्णदीर्घः । यद्वा । उत्सः प्रवाहो यथा पिप्युषीः वृद्धानीषोऽन्नान्यलंकरोति' तद्वत् ॥ ॥ १ ॥
“Prosperous,, most adorable, all-knowing, come to us and decorate us with blessings, as a (cow's)udder is adorned with abundant food.”
Come with your joys, most liberal Gods, Lords of all treasures, bringing weal.
Like fresh full waters to a well, so, Heroes come and be with us.
O most munificent ones possessing all property, (attend upon us) with your favors, like (parents) wishing (our) welfare;
attend to refreshments for us that swell like a spring, o men.
Mit euren Freuden, Männer, kommt heilbringend, allbesitzende, Freigiebigste, zu uns herbei, wie reiche Tränke zu dem Born.
Seid mit euren Gnaden bereit wie zwei wohlwollende Könige, ihr Freigebigsten, Allwissenden! Bereitet uns, o Männer, Labsale, die wie ein Brunnen quillen!
При(ходите) с вашими милостями как двое приносящих счастье,
Самые щедрые, всеведущие!
Создайте нам, о два мужа,
Жертвенные услады, наполняющиеся, как колодец!