श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया॑ हूयते ह॒विः । श्र॒द्धां भग॑स्य मू॒र्धनि॒ वच॒सा वे॑दयामसि ॥
श्र॒द्धया॑ । अ॒ग्निः । सम् । इ॒ध्य॒ते॒ । श्र॒द्धया॑ । हू॒य॒ते॒ । ह॒विः । श्र॒द्धाम् । भग॑स्य । मू॒र्धनि॑ । वच॑सा । आ । वे॒द॒या॒म॒सि॒ ॥
पुरुषगतोऽभिलाषविशेषः श्रद्धा । तथा श्रद्धया अग्निः गार्हपत्यादिः समिध्यते संदीप्यते । यदा हि पुरुषे श्रद्धाग्निगोचर आदरातिशयो जायते तदैष पुरुषोऽग्नीन् प्रज्वालयति नान्यदा । श्रद्धया एव हविः पुरोडाशादिहविश्च हूयते । आहवनीये प्रक्षिप्यते । यद्वा । अस्य सूक्तस्य द्रष्ट्या श्रद्धाख्ययाग्निः समिध्यते । श्रद्धाम् उक्तलक्षणायाः श्रद्धाया अभिमानिदेवता भगस्य भजनीयस्य धनस्य मूर्धनि प्रधानभूते स्थानेऽवस्थितां वचसा वचनेन स्तोत्रेण आ वेदयामसि अभितः प्रख्यापयामः । इदन्तो मसिः ॥
शास्त्रार्थे विश्वासातिशयरूपा चित्तवृत्तिः श्रद्धा । तदभिमानिनी देवताऽपि तन्नामिकैव । श्रद्धया विश्वासातिशयेनानन्यया भक्त्या अयमग्निः समिध्यते सम्यक्प्रज्वाल्यते । हविश्च श्रद्धया लभ्यते । भगस्य सौभाग्यस्य मूर्धन्युपरि स्थितां श्रद्धां वचसा वाक्येनावेदयामसि । जनानामग्रे सौभाग्यहेतुः श्रद्धेति प्रख्यापयामः ॥
“Agni is kindled by Śraddhā, by Śraddhā is the oblation offered; with our praise we glorifyFaith, of the family of Love; cf. Nirukta 9.31].”
By Faith is Agni kindled, through Faith is oblation offered up.
We celebrate with praises Faith upon the height of happiness.
With trust is the fire kindled; with trust is the oblation poured.
We at the head of good fortune make known our trust with speech.
Durch Glauben wird das Feu'r entflammt, durch Glauben Opferguss geweiht; Auch auf des Glückes Gipfel thun den Glauben wir durch Lieder kund.
Mit Glauben wird das Feuer angezündet, mit Glauben wird die Spende geopfert. Auf dem Gipfel des Glücks lege ich mit meiner Rede Zeugnis ab von dem Glauben.
С Верой огонь зажигается,
С Верой возливается жертва,
Веру на вершине счастья
Мы выражаем (своей) речью.
प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा॑सतः । प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ॥
प्रि॒यम् । श्र॒द्धे॒ । दद॑तः । प्रि॒यम् । श्र॒द्धे॒ । दिदा॑सतः । प्रि॒यम् । भो॒जेषु॑ । यज्व॑सु । इ॒दम् । मे॒ । उ॒दि॒तम् । कृ॒धि॒ ॥
हे श्रद्धे ददतः चरुपुरोडाशादीनि प्रयच्छतो यजमानस्य प्रियम् अभीष्टफलं कुरु । दिदासतः दातुमिच्छतश्च हे श्रद्धे प्रियं कुरु । मे मम संबन्धिषु भोजेषु भोक्तृषु भोगार्थिषु यज्वसु कृतयज्ञेषु जनेषु च इदम् उदितम् उक्तं प्रियं कृधि कुरु ।
1हे श्रद्धे इदानीं ददतो मे प्रियं भवतु अभीष्टं सिध्यतु । इतः परमपि दातुमिच्छतो मे प्रियं भवतु । भोनेषु भोगपरेषु जन्तुषु यज्वसु यजमानेषु च प्रियं भवतु । इदमनन्तरोक्तं यज्वसु मे प्रियमुदितं कृधि अत्यधिकं कुरु ॥
“O Śraddhā_, grant the desire of the donor (of the oblation), grant, O Śraddhā, the desire of himwho wishes to give, grant this boon which I have mentioned to my sacrificers who solicit happiness.”
Bless thou the man who gives, O Faith; Faith, bless the man who fain would give.
Bless thou the liberal worshippers: bless thou the word that I have said.
O Trust, this (speech) spoken by me: make it dear to him who gives, dear to him who intends to give,
and dear among the benefactors who offer sacrifice, o Trust.
O Glaube, lieb mach dieses Wort des Spenders, der noch spenden will, Mach lieb es bei den gütigen, o Glaube, bei den Opferern.
O Glaube! Mache diese meine Rede dem Schenkenden lieb, o Glaube, dem zu schenken Gewillten lieb, den gastfreien Opferern lieb!
Приятным, о Вера, для дающего,
Приятным, о Вера, для желающего дать,
Приятным для дружелюбных жертвователей
Сделай это сказанное мною!
यथा॑ दे॒वा असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे । ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ॥
यथा॑ । दे॒वाः । असु॑रेषु । श्र॒द्धाम् । उ॒ग्रेषु॑ । च॒क्रि॒रे । ए॒वम् । भो॒जेषु॑ । यज्व॑ऽसु । अ॒स्माक॑म् । उ॒दि॒तम् । कृ॒धि॒ ॥
देवाः इन्द्रादयः असुरेषु उद्गूर्णबलेषु यथा श्रद्धां चक्रिरे अवश्यमिमे हन्तव्या इत्यादरातिशयं कृतवन्तः एवं श्रद्धावत्सु भोजेषु भोक्तृषु भोगार्थिषु यज्वसु यष्टृषु अस्माकम् अस्मत्संबन्धिषु तेषु उदितं तैरुक्तं प्रार्थितं फलजातं कृधि कुरु ॥
यथा लोके देवा उग्रेष्वसुरेषु श्रद्धां चक्रिरे अवश्यमेते हन्तव्या इति दृढामिच्छां कृतवन्तः । एवमस्माकं फलभोगेषु तत्साधकेषु यज्वस्वपि प्रियमुदितं कुरु ॥
“As the gods had faith in (their fight with) the Asuras, so grant the boon which has been asked for toour sacrificers who solicit happiness.”
Even as the Deities maintained Faith in the mighty Asuras,
So make this uttered wish of mine true for the liberal worshippers.
Just the gods created trust in themselves among the powerful lords, so among the benefactors who offer sacrifice make what has been spoken by us trust(ed).
Wie Götter der Asurenschar, der starken, schenkten ihr Vertraun, So mache du auch unser Wort vertraut den güt'gen Opferern.
Wie die Götter bei den mächtigen Asura´s sich Glauben verschafft haben, so mache diese unsere Rede bei den freigebigen Opferern vertrauenswürdig!
Как боги создали себе
Веру среди грозных асуров,
Так среди дружелюбных жертвователей
Сделай (приятным) это сказанное нами!
श्र॒द्धां दे॒वा यज॑माना वा॒युगो॑पा॒ उपा॑सते । श्र॒द्धां हृ॑द॒य्य१॒॑याकू॑त्या श्र॒द्धया॑ विन्दते॒ वसु॑ ॥
श्र॒द्धाम् । दे॒वाः । यज॑मानाः । वा॒युऽगो॑पाः । उप॑ । आ॒स॒ते॒ । श्र॒द्धाम् । हृ॒द॒य्य॑या । आऽकू॑त्या । श्र॒द्धया॑ । वि॒न्द॒ते॒ । वसु॑ ॥
देवा यजमाना मनुष्याश्च वायुगोपाः वायुर्गोपा रक्षिता येषां ते तादृशाः सन्तः श्रद्धां देवीम् उपासते प्रार्थयन्ते । हृदय्यया । हृदये भवा हृदय्या। तथाविधया आकूत्या संकल्परूपया क्रियया श्रद्धाम् एव परिचरन्ति सर्वे जनाः । कुत इत्यत आह । यतः कारणात् श्रद्धया हेतुभूतया वसु धनं विन्दते लभते श्रद्धावाञ्जनः । तत इत्यर्थः ॥
हे देवाः इन्द्रादय एते यजमानाः वायुगोपाः स्वकीयप्राणरक्षकास्सन्तः श्रद्धामुपासते सेवन्ते । उक्तार्थं एव स्पष्टीक्रियते - हृदय्यया हृदये भवया आकृत्या संकल्पक्रियया श्रद्धामुपासते अत्यादरेणोपासत इत्यर्थः । हविरपि श्रद्धयैव हूयते ॥
“Gods, worshippers, and those who are protected by Vāyu, solicit Śraddhā, (they cherish) Śraddhāwith heartfelt desire, through Śraddhā a man acquires wealth.”
Guarded by Vayu, Gods and men who sacrifice draw near to Faith.
Man winneth Faith by yearnings of the heart, and opulence by Faith.
Trust do the gods revere, sacrificing for themselves with Vāyu as their herdsman—
trust, with a purpose that comes from their heart. By trust one gains possession of goods.
Den Glauben ehren andachtsvoll die Götter, die der Wind beschirmt; Der Glaube wird durch Herzens Trieb, durch Glauben wird das Gut erlangt.
Den Glauben ehren die opfernden Götter unter Vayu´s Hut, den Glauben mit herzlichem Vorsatz; durch den Glauben gewinnt man Gut.
Веру почитают боги
(И люди,) приносящие жертвы, хранимые Ваю,
Веру – с сердечной склонностью.
С помощью веры находят добро.
श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ । श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा॑पये॒ह न॑: ॥
श्र॒द्धाम् । प्रा॒तः । ह॒वा॒म॒हे॒ । श्र॒द्धाम् । म॒ध्य॑न्दि॑नम् । परि॑ । श्र॒द्धाम् । सूर्य॑स्य । नि॒ऽम्रुचि॑ । श्रद्धे॑ । श्रत् । धा॒प॒य॒ । इ॒ह । नः॒ ॥
श्रद्धां देवीं प्रातः पूर्वाह्ने हवामहे । तथा मध्यंदिनं परि । लक्षणे परेः कर्मप्रवचनीयत्वम् । मध्यंदिनं परिलक्ष्य । मध्यंदिन इत्यर्थः । मध्याह्नेऽपि तां श्रद्धां आह्वयामहे । सूर्यस्य सर्वस्य प्रेरकस्यादित्यस्य निम्रुचि अस्तमयवेलायां सायं समयेऽपि तामेव श्रद्धाम् आह्वयामहे । ईदृग्रूपे हे श्रद्धे नः
अस्मान् इह लोके कर्मणि श्रद्धापय श्रद्धावतः कुरु ॥ ॥९॥ ॥११॥
_
श्रद्धां श्रद्धाख्यां देवीं प्रातर्हवामहे प्रातःकाले समाह्वयामः । तथा मध्यंदिनं परि मध्यंदिनसमीपमपि श्रद्धामाह्वयामः । सूर्यस्य निम्रुचि अस्तमयवेलायाम् अपि श्रद्धामाह्वयामः । हे श्रद्धे देवि इह कर्मणि मां श्रद्धापय विश्वासयुक्तं कुरु ॥
“We invoke Śraddhā at dawn, and again at midday, and also at the setting of the sun; inspire us inthis world, Śraddhā, with faith.”
Faith in the early morning, Faith at noonday will we invocate,
Faith at the setting of the Sun. O Faith, endow us with belief.
Trust do we call early in the morning, trust at midday,
trust at the setting of the sun. O Trust, place a trusting heart
here in us.
Den Glauben rufen Morgens wir, den Glauben in der Mittagszeit Den Glauben, wenn die Sonne sinkt, o Glaube, mache gläubig uns.
Den Glauben rufen wir morgens an, den Glauben um Mittag, den Glauben, wann die Sonne untergeht. O Glaube, mach, daß man uns hier Glauben und Vertrauen schenke.
Веру рано утром мы призываем,
Веру – около полудня,
Веру – при заходе солнца.
О Вера, сделай (так,) чтобы нам здесь верили!