अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ छुबु॑का॒दधि॑ । यक्ष्मं॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ॥
अ॒क्षीभ्या॑म् । ते॒ । नासि॑काभ्याम् । कर्णा॑भ्याम् । छुबु॑कात् । अधि॑ । यक्ष्म॑म् । शी॒र्ष॒ण्य॑म् । म॒स्तिष्का॑त् । जि॒ह्वायाः॑ । वि । वृ॒हा॒मि॒ । ते॒ ॥
हे यक्ष्मगृहीत ते तव अक्षीभ्यां चक्षुर्भ्यां यक्ष्मरोगं वि वृहामि उद्धारयामि । विश्लेषयामीत्यर्थः ॥ ' ई च द्विवचने ' ( पा. सू ७.१. ७७) इत्यक्षिशब्दस्येकारान्तादेशः । स चोदात्तः ॥ तथा नासिकाभ्यां घ्राणेन्द्रियाच्च कर्णाभ्यां श्रोत्राभ्यां च छुबुकात् चुबुकादोष्ठस्याधःप्रदेशाच्च ।
अधिरनर्थकः । अपि च शीर्षण्यम् । शिरसि भवो रोगः शीर्षण्यः । ' भवे छन्दसि ' इति यत् । ' ये च तद्धिते ' ( पा. सू. ६. १. ६१) इति शिरसः शीर्षन्नादेशः । ' ये चाभावकर्मणोः ' ( पा. सू. ६.४.१६८) इति प्रकृतिभावः ॥ ईदृशं यक्ष्मं रोगं ते तव मस्तिष्कात् । शिरसोऽन्तरवस्थितो मांसविशेषो मस्तिष्कः । तस्मात् जिह्वायाः रसनायाश्च सकाशाद्वि वृहामि उद्धारयामि । पृथक्करोमीत्यर्थः । ' वृहू उद्यमने ' इति धातुः ॥
“I banish from your eyes, from your nose, from your ears, from your chin, from your head, from yourbrain, from your tongue.”
FROM both thy nostrils, from thine eyes, from both thine ears and from thy chin,
Forth from thy head and brain and tongue I drive thy malady away.
From your eyes, your nostrils, your ears, your chin,
I tear the disease of the head out of you—from your brain, your
tongue.
Aus deinem Augen, den Nasenlöchern, den Ohren, aus dem Gehirne und der Zunge treibe ich fort dir die Krankheit des Kopfes.
Von deinen Augen, von der Nase, von den Ohren, vom Kinn zieh ich die Auszehrung, die im Kopfe sitzt, vom Gehirn, von der Zunge dir ab.
Из глаз твоих, из ноздрей,
Из ушей, из подбородка,
Якшму головную – из мозга,
Из языка я вырываю у тебя!
ग्री॒वाभ्य॑स्त उ॒ष्णिहा॑भ्य॒: कीक॑साभ्यो अनू॒क्या॑त् । यक्ष्मं॑ दोष॒ण्य१॒॑मंसा॑भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ॥
ग्री॒वाभ्यः॑ । ते॒ । उ॒ष्णिहा॑भ्यः । कीक॑साभ्यः । अ॒नू॒क्या॑त् । यक्ष्म॑म् । दो॒ष॒ण्य॑म् । अंसा॑भ्याम् । बा॒हुऽभ्याम् । वि । वृ॒हा॒मि॒ । ते॒ ॥
हे व्याधिगृहीत उष्णिहाभ्यः ऊर्ध्वाभिमुखं स्निग्धाभ्य उत्स्नाताभ्यो वा स्नायुभ्यः ग्रीवाभ्यः गलगताभ्यो धमनीभ्यः ते तव यक्ष्मं वि वृहामि । तथा कीकसाभ्यः अस्थिभ्यः अनूक्यात् अस्थिसंधेश्च यक्ष्मं वि वृहामि । ' उच समवाये ' । अनूच्यते समवेयत इत्यस्थ्नः संधिरनूक्यः । ऋहलोर्ण्यत् । ' चजोः कु धिण्ण्यतोः ' इति कुत्वम् । तित्स्वरितः । अपि च दोष्णोर्भवं दोषण्यम् । पूर्ववद्यति ' पद्दन्' इत्यादिना दोःशब्दस्य दोषन्नादेशः । पूर्ववत्प्रकृतिभावः । तमपि यक्ष्मं रोगं ते तव अंसाभ्यां बाहुभ्यां च वि वृहामि । हस्तयोरूर्ध्वभागावंसावधोभागौ बाहू ॥
“I banish disease from your neck, from your sinews, from your bones, from your joints, from your upperarms, from your shoulders, and from your fore- arms.”
From the neck-tendons and the neck, from the breast-bones and from the spine,
From shoulders, upper, lower arms, I drive thy malady away.
From your neck(bones?), the (bones of the?) nape of your neck, your vertebrae, your backbone,
I tear the disease of the torso out of you—from your shoulders, from your arms.
Aus den Halswirbeln, den Nackenwirbeln, aus den Brustrippen, dem Rückgrat, aus Schultern, Armen treibe ich fort die Krankheit der Glieder.
Von deinem Nacken, von den Halswirbeln, von den Rippen, vom Rückgrat ziehe ich die Auszehrung, die in den Vorderarmen sitzt, von den Schultern, von den Armen dir ab.
Из шеи, из твоего затылка,
Из позвонков, из спинного хребта,
Якшму предплечную, из плеч,
Из рук я вырываю у тебя!
आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोर्हृद॑या॒दधि॑ । यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ वि वृ॑हामि ते ॥
आ॒न्त्रेभ्यः॑ । ते॒ । गुदा॑भ्यः । व॒नि॒ष्ठोः । हृद॑यात् । अधि॑ । यक्ष्म॑म् । मत॑स्नाभ्याम् । य॒क्नः । प्ला॒शिऽभ्यः॑ । वि । वृ॒हा॒मि॒ । ते॒ ॥
हे यक्ष्माभिभूत ते तव आन्त्रेभ्यः । आन्त्रं पुरीतदन्नपानयोराधानभूतम् । तत्संबन्धिभ्यः स्नायुभ्यः गुदाभ्यः याभिर्नाडीभिरन्नरसः समानवायुना धातुषु नीयते ताभ्यो नाडीभ्यश्च सकाशात् यक्ष्मं वि वृहामि । तथा वनिष्ठोः स्थविरान्त्रात् हृदयादधि हृदयपुण्डरीकाच्च यक्ष्मं वि वृहामि । अपि च ते तव मतस्नाभ्याम् । मतस्नौ पार्श्वयोर्वर्तमानावाम्रफलाकृती वृक्कौ । ताभ्यां यक्नः। हृदयसमीपे वर्तमानः कालमांसविशेषो यकृत् । तस्माच्च । ' पद्दन् ' इत्यादिना यकृच्छब्दस्य यकन्नादेशः । प्लाशिभ्यः अन्येभ्योऽपि क्लोमप्लीहादिसंज्ञेभ्यश्च मांसेभ्यश्च यक्ष्मं रोगं वि वृहामि उत्क्षिपामि ॥
“I banish disease from your entrails, from your anus, from your abdomen, and from your heart, fromyour kidneys, from your liver, from your (other) viscera.”
From viscera and all within, forth from the rectum, from the heart,
From kidneys, liver, and from spleen, I drive thy malady away.
From your entrails, your guts, your rectum, your heart,
I tear out the disease—from your kidneys, your liver, your intestines.
Aus deinen Eingeweiden, den Gedärmen, dem Mastdarm, dem Herzen, aus den Lungen, aus der Leber, aus der Milz treibe ich dir die Krankheit fort.
Aus deinen Eingeweiden, den Därmen, dem Mastdarm, aus dem Herzen, aus den Nieren, aus der Leber, aus dem Gekröse zieh ich dir die Auszehrung ab.
Из внутренностей, из твоих кишок,
Из прямой кишки, из сердца,
Якшму из почек, из печени,
Из потрохов я вырываю у тебя!
ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम् । यक्ष्मं॒ श्रोणि॑भ्यां॒ भास॑दा॒द्भंस॑सो॒ वि वृ॑हामि ते ॥
ऊ॒रुऽभ्या॑म् । ते॒ । अ॒ष्ठी॒वत्ऽभ्या॑म् । पार्ष्णि॑ऽभ्याम् । प्रऽप॑दाभ्याम् । यक्ष्म॑म् । श्रोणि॑ऽभ्य्म् । भास॑दात् । भंससः॑ । वि । वृ॒हा॒मि॒ । ते॒ ॥
हे रुग्ण ते तव ऊरुभ्याम् अष्ठीवद्भ्यां जानुभ्यां च यक्ष्मं वि वृहामि । तथा पार्ष्णिभ्यां पादस्यापरभागाभ्यां प्रपदाभ्यां पादाग्राभ्यां च यक्ष्मं वि वृहामि । अपि च श्रोणिभ्यां जघनाभ्यां च यक्ष्मं वि वृहामि । तथा भासदात् । भसत् कटिप्रदेशः । तत्संबन्धात् भससः भासमानात् पायोः ते तव यक्ष्मं वि वृहामि ॥
“I banish disease from your thighs, from your knees, from your heels, from your toes, from your loins,from your buttocks, from your private parts.”
From thighs, from knee-caps, and from heels, and from the forepart of the feet,
From hips from stomach, and from groin I drive thy malady away.
From your thighs, your knee-sockets, your heels, the front of your feet, I tear out the disease—from your hips, your backside, your buttocks.
Aus deinen Schenkeln, den Kniescheiben, den Fersen, den Fussspitzen, aus den Hüften, den Hinterbacken, dem After treibe ich dir die Krankheit fort.
Von deinen Schenkeln, von den Kniescheiben, von den Fersen, von den Fußspitzen, von den Hüften, vom Hintern, von der Scham zieh ich dir die Auszehrung ab.
Из ляжек, из твоих коленных чашечек,
Из пяток, из носков,
Якшму из бедер, из зада,
Из промежности я вырываю у тебя!
मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्य॑: । यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥
मेह॑नात् । व॒न॒म्ऽकर॑णात् । लोम॑ऽभ्यः । ते॒ । न॒खेभ्यः॑ । यक्ष्म॑म् । सर्व॑स्मात् । आ॒त्मनः॑ । तम् । इ॒दम् । वि । वृ॒हा॒मि॒ । ते॒ ॥
वनंकरणात् । वनमुदकं शारीरम् । तत्क्रियते विसृज्यते येन तद्वनंकरणम् । तस्मात् मेहनात् मेढ्रात् ते तव लोमभ्यः नखेभ्यः च यक्ष्मं वि वृहामि । किं बहुना । इदम् इदानीं तं यक्ष्मं सर्वस्मादात्मनः कृत्स्नादेव ते तव शरीरात् वि वृहामि ॥
“I banish disease from your urethra, from your bladder, from your hair, from your nails, from your wholeperson.”
From what is voided from within, and from thy hair, and from they nails,
From all thyself from top to toe, I drive thy malady away.
From your urinator, your love-maker, your hair, your nails,
I tear this disease here out—from your whole body.
Aus deiner Scham, deiner Harnröhre, aus Haaren und Nägeln, aus deinem ganzen Leibe treibe ich dir jetzt diese Krankheit fort.
Von der Harnröhre, von der Blase, von deinen Haaren, den Nägeln, vom ganzen Körper zieh ich dir jetzt die Auszehrung ab.
Из мочеточника, из мочевого пузыря,
Из волосков на теле, из твоих ногтей,
Якшму – из всего тела
Ее я тут вырываю у тебя!
अङ्गा॑दङ्गा॒ल्लोम्नो॑लोम्नो जा॒तं पर्व॑णिपर्वणि । यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥
अङ्गा॑त्ऽअङ्गात् । लोम्नः॑ऽलोम्नः । जा॒तम् । पर्व॑णिऽपर्वणि । यक्ष्म॑म् । सर्व॑स्मात् । आ॒त्मनः॑ । तम् । इ॒दम् । वि । वृ॒हा॒मि॒ । ते॒ ॥
अङ्गादङ्गात् सर्वेभ्योऽङ्गेभ्यः लोम्नोलोम्नः सर्वेभ्यो लोमभ्यश्च पर्वणिपर्वणि अवयवानां संधौ जातम् उत्पन्नं यक्ष्मं वि वृहामि । अन्यद्गतम् ॥ ॥ २१ ॥
“I banish disease from each limb, from each hair, from each joint where it is genitive rated, from your wholeperson.”
From every member, every hair, disease that comes in every joint,
From all thyself, from top to toe, I drive thy malady away.
From every limb, from every hair, what is born in every joint,
I tear this disease here out—from your whole body.
Aus jedem Glied, aus jedem Haar, aus jedem Gelenke treibe ich die darin erzeugte Krankheit fort; aus deinem ganzen Leibe treibe ich sie dir jetzt fort.
Von jedem Gliede, von jedem Haare, die in jedem Gelenke entstandene Auszehrung, vom ganzen Körper zieh ich dir jetzt ab.
Из каждого члена, из каждого волоска,
Возникшую в каждом суставе
Якшму – из всего тела
Ее я тут вырываю у тебя!