प्र सू॒नव॑ ऋभू॒णां बृ॒हन्न॑वन्त वृ॒जना॑ । क्षामा॒ ये वि॒श्वधा॑य॒सोऽश्न॑न्धे॒नुं न मा॒तर॑म् ॥
प्र । सू॒नवः॑ । ऋ॒भू॒णाम् । बृ॒हत् । न॒व॒न्त॒ । वृ॒जना॑ । क्षाम॑ । ये । वि॒श्वऽधा॑यसः । अश्न॑न् । धे॒नुम् । न । मा॒तर॑म् ॥
सूनवः एतत्संज्ञाः ऋभूणाम् । ऋभुर्विभ्वा वाज इति त्रयाणामपि प्रथमेन व्यपदेशः । तेषां पुत्राः बृहत् प्रभूतं वृजना । संग्रामनामैतत् । वृजनं संग्रामं प्र नवन्त । नवतिर्गतिकर्मा । प्रगच्छन्ति । प्रकर्षेण गच्छन्ति । प्रकृष्टगमनेन जयो लक्ष्यते । तत्र शत्रूञ्जयन्तीत्यर्थः । सूनुर्नामर्षिरात्मानमेव परोक्षेण निरदिशत् । एकस्मिन्नपि पूजार्थं बहुवचनम्। ये ऋभवः विश्वधायसः विश्वस्य धारकाः क्षाम भूमिम् अश्नन् व्याप्नुवन् । अशू व्याप्तौ । व्यत्ययेन श्ना। धेनुं न । धेनुः प्रीणयित्री गौः । तामिव तेषामृभूणामित्यन्वयः । यद्वा । सूर्यरश्मयोऽप्यृभव उच्यन्ते । य उरु भासमानाः सूर्यरश्मयो विश्वधायसो विश्वं सर्वं रसं धयन्तः पिबन्तः । यद्वा । वृष्ट्यादिप्रदानेन सर्वस्य धारकाः । एवंभूताः सन्तः क्षाम भूमिमश्नन् अभुञ्जत तदीयं सर्वं रसमपिबन् । तत्र दृष्टान्तः । मातरं जननीं धेनुं पयस्विनीं गां यथा वत्सः पिबति तथा । य ऋभवोऽश्नन्ति तेषामृभूणामित्यन्वयः ॥
“The Sunus, (the sons) of the Ṛbhus, advance boldly to battle; supporters of all, they have spreadover the earth as (a calf) over the mother cow.”
WITH hymns of praise their sons have told aloud the Rbhus' mighty deeds.
Who, all-supporting, have enjoyed the earth as, twere a mother cow.
The sons of the R̥bhus [=flames], their circles, bellow out loftily— they who, deriving all nourishment, feed upon (heaven and) earth as if on a mother cow.
Die Flammensöhne jubeln laut entgegen den Versammelten, Es lecken die allnährenden die Erde, wie das Kalb die Kuh.
Die Söhne der Ribhu´s brüllten laut mit ihrem Anhang, die an dem Erdboden zehren wie das Kalb an der Mutterkuh, die Allnährenden.
Сыновья Рибху громко
Зашумели, (а также их) общины,
(Те,) питающие всех (сыновья), что землю
Пожирают, словно (теленок) дойную корову – мать.
प्र दे॒वं दे॒व्या धि॒या भर॑ता जा॒तवे॑दसम् । ह॒व्या नो॑ वक्षदानु॒षक् ॥
प्र । दे॒वम् । दे॒व्या । धि॒या । भर॑त । जा॒तऽवे॑दसम् । ह॒व्या । नः॒ । व॒क्ष॒त् । आनु॒षक् ॥
हे ऋत्विग्यजमानाः देवं दानादिगुणयुक्तं जातवेदसं जातानां वेदितारं जातप्रज्ञं जातधनं वा इममग्निं प्र भरत प्रकर्षेण हरत । यद्वा । प्राञ्चं नयत । केन साधनेनेति तदाह । देव्या दीप्तया धिया प्रज्ञया कर्मणा वा । यद्वा । एषा सहयोगे तृतीया । देव्या धिया युक्तम् । किं प्रयोजनमिति चेत् । नः अस्माकं हव्या हव्थानि हवींषि आनुषक् आनुपूर्व्यादनुक्रमेण वक्षत् । अयमग्निर्वहेत् । देवान् प्रापयेत् ॥ वहेर्लेटि • सिब्बहुलम्” इति सिप् ॥
अयमु य अ देवयुहता यज्ञार्य नीयते ।
“Bring forward the divine Jātavedas by means of divine wisdom; may he bear our oblations (to thegods) in succession.”
Bring forth the God with song divine, being Jatavedas hitherward,
To bear our gifts at once to heaven.
Bring forward the god Jātavedas with a godly insight.
He will convey our oblations in their proper order.
Mit göttlichem Gebete führt den Gott, den Wesenkenner vor; Die Tränke fahr er fort und fort.
Führet den Gott Jatavedas unter göttlicher Dichtung vor; er soll unsere Opfer richtig befördern!
Несите вперед бога Джатаведаса
С помощью божественной силой прозрения!
Пусть отвозит он наши жертвы по порядку (обряда)!
अ॒यमु॒ ष्य प्र दे॑व॒युर्होता॑ य॒ज्ञाय॑ नीयते । रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वाञ्चेतति॒ त्मना॑ ॥
अ॒यम् । ऊँ॒ इति॑ । स्यः । प्र । दे॒व॒ऽयुः । होता॑ । य॒ज्ञाय॑ । नी॒य॒ते॒ । रथः॑ । न । योः । अ॒भिऽवृ॑तः । घृणि॑ऽवान् । चे॒त॒ति॒ । त्मना॑ ॥
अयमु अयमेव स्यः सोऽग्निः देवयुः देवान् यष्टुमिच्छन् भवति ॥ देव शब्दात्क्यचि ‘न च्छन्दस्यपुत्रस्य इतीत्वदीर्घयोः प्रतिषेधः ॥ अयमेव होता देवानामाह्वाता । अयमेव यज्ञाय यागार्थं प्र णीयते आहवनीयदेशं प्रति प्रकर्षेण नीयते । अपि च रथः रंहणशीलः सूर्यो रथवान् वा ॥ छान्दसो मत्वर्थीयस्थ लोपः ॥ स यथा घृणीवान् दीप्तिमान् तद्वद्दीप्तः योः मिश्रयिता हविषां देवैः संगमयिता । यौतेः ‘ अन्येभ्योऽपि दृश्यन्ते ' इति विच् ॥ अभीवृतः ऋत्विग्यजमानैरावेष्टितः ॥ वृणोतेः कर्मणि ‘अन्येषामपि ' इति पूर्वपदस्य दीर्घः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । एवंभूतोऽग्निः त्मना आमना स्वयमेव चेतति सम्यग्देवान् यष्टुं जानाति ॥ ‘ मन्त्रेष्वाङ्यादेरात्मनः' इत्याकारलोपः ॥
“This ministrant priest devoted to the gods is brought (here) for the sacrifice; radiant as theswift-moving sun, uniting (the oblation and the gods) surrounded (by the priests, Agni) knows of himself (how toworship the gods).”
He here, a God-devoted Priest, led forward comes to sacrifice.
Like a car covered for the road, he, glowing, knows, himself, the way.
This Hotar right here, seeking the gods, is led forth to sacrifice.
Decked out like the chariot of a traveler, he comes into view, glowing with heat, in his own person.
Der Priester hier, den Göttern hold, wird zu dem Opfer vorgeführt; Wie ein beladner Wagen zeigt sich auf der Fahrt der glühende.
Dieser gottergebene Hotri wird da zum Opfer hingetragen. Wie der Wagen eines Fahrenden bedeckt, macht sich der Glutreiche von selbst bemerkbar.
Вот ведут его самого
Преданного богам хотара для жертвоприношения.
Накрытый, как колесница едущего ( в поход),
Пылающий, он сам себя проявляет.
अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः । सह॑सश्चि॒त्सही॑यान्दे॒वो जी॒वात॑वे कृ॒तः ॥
अ॒यम् । अ॒ग्निः । उ॒रु॒ष्य॒ति॒ । अ॒मृता॑त्ऽइव । जन्म॑नः । सह॑सः । चि॒त् । सही॑यान् । दे॒वः । जी॒वात॑वे । कृ॒तः ॥
अयमग्निः अमृतात् अमरणाद्देवाद्देवनिमित्ताद्भयादिव जन्मनः जायमानात् मनुष्यात् मनुष्यनिमित्ताद्भयादपि उरुष्यति तस्माद्रक्षति ॥ ‘ उरुष्यती रक्षाकर्मा ' ( निरु. ५. २३) इति यास्कः । भाववाचिनोऽमृतशब्दस्य नञा बहुव्रीहौ ‘नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । ‘ भीत्रार्थानाम् (पा. सू. १. ४, २५) इत्यपादानसंज्ञा ॥ अपि चायं देवः सहसश्चित् ॥ सह इति बलनाम । तस्मादुत्तरस्य मत्वर्थीयस्य ‘ बहुलं छन्दसि' इति लुक् ॥ चिच्छब्दोऽप्यर्थे । सहस्वतो बलवतोऽपि सहीयान् बलवत्तरः ॥ सहस्विशब्दादीयसुनि • विन्मतोः' इति विनो लुक् । टेः ' इति टिलोपः ॥ एवंभूतो देवः जीवातवे जीवनहेतवे यागाय कृतः ब्रह्मणा सृष्टः ॥ ॥ ३४ ॥
“This Agni saves from peril caused by man as (well as) from peril caused by the immortals, a godstronger than strength, created for life-producing (sacrifice).”
This Agni rescues from distress, as 'twere from the Immortal Race,
A God yet mightier than strength, a God who hath been made for life.
This Agni delivers himself from his immortal birth, as it were.
Stronger even than strength, the god was created for living.
Der Agni hier hilft aus der Noth selbst vor dem göttlichen Geschlecht; Der stärker ist als Stärke selbst, der Gott zum Leben recht gemacht.
Dieser Agni sucht das Weite vor der Geburt, wie vor dem Unsterblichen. Der Gott, der gewaltiger als selbst der Gewaltige, ist zum Leben geschaffen.
Этот Агни стремится на простор
С (самого) рождения, как будто (бежит) от бессмертия.
Сильнее даже сильного,
(Этот) бог создан для жизни.