प॒तं॒गम॒क्तमसु॑रस्य मा॒यया॑ हृ॒दा प॑श्यन्ति॒ मन॑सा विप॒श्चित॑: । स॒मु॒द्रे अ॒न्तः क॒वयो॒ वि च॑क्षते॒ मरी॑चीनां प॒दमि॑च्छन्ति वे॒धस॑: ॥
प॒त॒ङ्गम् । अ॒क्तम् । असु॑रस्य । मा॒यया॑ । हृ॒दा । प॒श्य॒न्ति॒ । मन॑सा । वि॒पः॒ऽचितः॑ । स॒मु॒द्रे । अ॒न्तरिति॑ । क॒वयः॑ । वि । च॒क्ष॒ते॒ । मरी॑चीनाम् प॒दम् इ॑च्छन्ति वे॒धसः॑ ॥
असुरस्य असनकुशलस्य सर्वोपाधिविहीनस्य परब्रह्मणः संबन्धिया मायया त्रिगुणात्मिकया अक्तं व्यक्तमभिव्यक्तम् । यद्वा। मायेति प्रज्ञानाम । प्रज्ञया संबद्धं सर्वज्ञं पतङ्गम्। पतति गच्छतीति पतङ्गः सूर्यः । तं विपश्चितः विद्वांसः हृदा हृत्स्थेन । तात्स्थ्यात्ताच्छब्द्यम् । हृदि निरुद्धेन मनसा पश्यन्ति जानन्ति । कवयः क्रान्तदर्शिनस्ते समुद्रे । समुद्द्रवन्त्यस्माद्रश्मय इति समुद्रं सूर्यमण्डलम् । तस्मिन् अन्तः मध्ये वि चक्षते विपश्यन्ति । मण्डलान्तर्वर्तिनं हिरण्मयं पुरुषमपि जानन्तीत्यर्थः । य एवं वेधसः विधातार उक्तप्रकारेण सूर्योपासनस्य कर्तारस्ते मरीचीनां रश्मीनां पदं स्थानं सूर्यमण्डलम् इच्छन्ति अभिलषन्ति । तदुपासनया प्राप्नुवन्तीत्यर्थः । यद्वा । माययाक्तं जीवरूपेणाभिव्यक्तमात्मानं विपश्चितो वेदान्ताभिज्ञा हृत्स्थेनान्तर्मुखेन मनसा पतङ्गम् । पतति व्याप्नोतीति पतङ्गः परमात्मा । तं पश्यन्ति । उपाधिपरित्यागेन जीवात्मनः परमात्मना तादात्म्यं साक्षात्कुर्वन्तीत्यर्थः । अपि च ते कवयः क्रान्तदर्शिनो वेदान्ताभिज्ञाः समुद्रे । समुद्द्रवन्त्यस्माद्भूतानीति समुद्रः परमात्मा । तस्मिन्नधिष्ठानभूतेऽन्तर्मध्ये सर्वं दृश्यजातमध्यस्तत्वेन वि चक्षते विपश्यन्तीति । अतो दृग्व्यतिरिक्तस्य सर्वस्य मिथ्यात्वाद्वेधसो विधातारस्ते मरीचीनां वृत्तिज्ञानानां पदमधिष्ठानभूतं सच्चित्सुखात्मकं यत्परं ब्रह्म तदेवेच्छन्ति । तद्भावप्राप्तिमेव कामयन्ते ॥
“The wise behold their mind; (seated) in their heart the Sun made manifest by the illusion of the asura;the sages look into the solar orb, the ordainers (of solar worship) desire the region of his rays.”
THE sapient with their spirit and their mind behold the Bird adorned with all an Asura's magic might.
Sages observe him in the ocean's inmost depth: the wise disposers seek the station of his rays.
The bird, anointed with the magic power of the lord, do those attentive to poetic inspiration see with heart and mind.
The sage poets espy it within the sea; the ritual experts seek the footprint of the light beams.
Den Vogel, der geschmückt ist durch des Gottes Kunst, beschaun die Weisen mit dem Herzen und Verstand, Im Innern auch des Meeres schaun die Seher ihn; die Ordner streben nach der Funken Stätte hin.
Den mit des Asura Zauber bestrichenen Vogel sehen im Herzen, im Geiste die Redekundigen. Inmitten des Ozeans schauen ihn die Seher; die Meister suchen die Spur der Lichtstrahlen.
Патангу, окрашенного колдовскою силою Асуры,
Сердцем (и) мыслью видят прозорливцы.
В глубине океана разглядывают (его) поэты.
Устроители обряда ищут след лучей.
प॒तं॒गो वाचं॒ मन॑सा बिभर्ति॒ तां ग॑न्ध॒र्वो॑ऽवद॒द्गर्भे॑ अ॒न्तः । तां द्योत॑मानां स्व॒र्यं॑ मनी॒षामृ॒तस्य॑ प॒दे क॒वयो॒ नि पा॑न्ति ॥
प॒त॒ङ्गः । वाच॑म् । मन॑सा । बि॒भ॒र्ति॒ । तान् । ग॒न्ध॒र्वः॑ । अ॒व॒द॒त् । गर्भे॑ । अ॒न्तरिति॑ । ताम् । द्योत॑मानाम् । स्व॒र्य॑म् । म॒नी॒षाम् । ऋ॒तस्य॑ । प॒दे । क॒वयः॑ । नि । पा॒न्ति॒ ॥
पतङ्गः सूर्यः वाचं त्रयीरूपां मनसा प्रज्ञया बिभर्ति धारयति । श्रूयते हि--- ऋग्भिः पूर्वाह्णे दिवि देव ईयते यजुर्वेदे तिष्ठति मध्ये अह्नः सामवेदेनास्तमये महीयते वेदैरशून्यस्त्रिभिरेति सूर्यः' (तै. ब्रा.३.१२.९.१ ) इति । ताम् एव वाचं गर्भे शरीरस्य मध्ये वर्तमानः गन्धर्वः । गाः शब्दान् धारयतीति गन्धर्वः प्राणवायुः । अन्तः मध्ये अवदत् वदति प्रेरयति । ‘ मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् ' ( पा. शि. ७) इति स्मरणात् । द्योतमानां स्वर्यं स्वर्गमयित्रीं स्वर्गाय हितां वा मनीषां मनस ईशित्रीं तां त्रयीरूपां वाचम् ऋतस्य यज्ञस्य सत्यभूतस्य सूर्यस्य वा पदे स्थाने कवयः मेधाविन ऋषयः नि पान्ति । अध्यापनेन नितरां रक्षन्ति । यद्वा । पतङ्गः सर्वोपाधिशून्यो व्याप्तः परमात्मा। स सृष्ट्यादौ वाचं मनसा बिभर्ति । कानि कानि स्रष्टव्यानीति पर्यालोचनेन मनसा सकलार्थप्रतिपादकं वेदं परामृष्टवानित्यर्थः । स्मर्यते हि -- वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः' इति । गर्भे हिरण्मये ब्रह्माण्डेऽन्तर्वर्तमानो गन्धर्वो हिरण्यगर्भस्तां वाचमवदत् प्रथममुच्चारितवान् । द्योतमानत्वादिगुणविशिष्टां तां वाचं कवयः क्रान्तदर्शिनो देवा ऋतस्य सत्यस्य ब्रह्मणः पदे स्थाने नि पान्ति निभृतं रक्षन्ति ।
“The Sun bears the (sacred) word in his mind the Gandharva has spoken it, (abiding) within the womb;sages cherish it in the plural ce of sacrifice, brilliant, heavenly ruling the mind.”
The flying Bird bears Speech within his spirit: erst the Gandharva in the womb pronounced it:
And at the seat of sacrifice the sages cherish this radiant, heavenly-bright invention.
The bird carries speech by mind. The Gandharva spoke it within
the womb.
The sage poets protect the flashing, reverberating inspired thought in the footprint of truth.
Der Vogel trägt das Lied in seinem Herzen, im Mutterleibe sang es der Gandharve Dies glänzende, dies himmlische Gebetlied bewahren Seher an der heil'gen Stätte.
Der Vogel trägt im Geiste die Rede, diese verkündete der Gandharva im Mutterleib. Diese aufblitzende, sonnenhafte Erkenntnis hüten die Seher an der Stätte der Wahrheit.
В мысли Патанга несет речь.
Ее провозгласил Гандхарва в утробе.
Это сверкающее небесное познание
Мудрецы хранят в обители истины.
अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् । स स॒ध्रीची॒: स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥
अप॑श्यम् । गो॒पाम् । अनि॑ऽपद्यमानम् । आ । च॒ । परा॑ । च॒ । प॒थिऽभिः॑ । चर॑न्तम् । सः । स॒ध्रीचीः॑ । सः । विषू॑चीः । वसा॑नः । आ । व॒री॒व॒र्ति॒ । भुव॑नेषु । अ॒न्तरिति॑ ॥
व्याख्यातेयमस्यवामीयसूक्ते ( ऋ. सं. १. १६४. ३१ ) । गोप गोपयितारमादित्यम् अपश्यम् अज्ञासिषम् । एष हि सर्वाणि भूतजातान्युदयास्तमयादिकर्मणा गोपायति । कीदृशम् । अनिपद्यमानम् उच्चैर्गच्छन्तम् । न ह्यसौ कदाचिन्नीचैः पद्यते । पथिभिः आकाशमार्गैः पूर्वाह्न आ चरन्तम् अस्मानभिलक्ष्य गच्छन्तं सार्थसमये परा चरन्तं पराङ्मुख गच्छन्तम् । प्रकारद्वयमुच्चयार्थी शब्दौ । सः सूर्यः सध्रीचीः सहाञ्चन्तीः विषूचीः विविधं पृथक्पृथगञ्चन्ती- स्वस्वव्यापाराय गच्छन्तीः । प्राच्याद्या महादिशः सध्रीच्यो विषूच्यः कोणदिशः। वसानः स्वभासाच्छादयन् प्रकाशयन् भुवनेषु लोकेषु अन्तः मध्ये “ वरीवर्ति । पुनःपुनरुद्यन् अस्तं गच्छंश्चावर्तते । यद्वा । गोपां शरीरस्य गोपायितारमनिपद्यमानमविनाशिनमविपन्नमा च परा चाभिमुखेन च पराङ्मुखेन च पथिभिर्नाडीलक्षणैर्मागैश्चरन्तं शरीरे वर्तमानं प्राणमपश्यम् अहमदर्शम् ॥ ॥३५॥
“I beheld the protector (the Sun), never descending, going by his paths to the east and to the west;clothing (with light) the (four) quarters of heaven and the intermediate spaces, he constantly revolves in the midstof the worlds.”
I saw the Herdsman, him who never resteth, approaching and departing on his pathways.
He, clothed in gathered and diffusive splendour, within the worlds continually travels.
I saw the cowherd who never settles down, roaming back and forth along the paths.
Clothing himself in those that (alternately) converge and diverge [=light beams?], he keeps rolling along within the living worlds.
Ich sah den Hüter, welcher nimmer hinfällt, der hin und her auf seinen Pfaden wandert, Sich hüllend in die gleichen und verschiednen geht hin und her er innerhalb der Welten.
Ich sah den Hirten auf seinen Wegen hin und her gehen, ohne zu rasten. Er hüllte ich in die Gewässer, die in gleicher und in entgegengesetzter Richtung laufen, und er bewegte sich hin und her in den Geschöpfen.
Я видел пастуха, без отдыха
Бродящего по дорогам туда и сюда.
Скрываясь (в водах), текущих вместе и в разные стороны,
Он шевелится во всех существах.