त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं स॒हावा॑नं तरु॒तारं॒ रथा॑नाम् । अरि॑ष्टनेमिं पृत॒नाज॑मा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ॥
त्यम् । ऊँ॒ इति॑ । सु । वा॒जिन॑म् । दे॒वऽजू॑तम् । स॒हऽवा॑नम् । त॒रु॒ऽतार॑म् । रथा॑नाम् । अरि॑ष्टऽनेमिम् । पृ॒त॒नाज॑म् । आ॒शुम् । स्व॒स्तये॑ । तार्क्ष्य॑म् । इ॒ह । हु॒वे॒म॒ ॥
त्यमु तं प्रसिद्धमेव तार्क्ष्यं तृक्षपुत्रं सुपर्णम् ॥ तृक्षाद्यञ् । गर्गादिः ॥ स्वस्तये क्षेमाय इह अस्मिन् कर्मणि हुवेम भृशमाह्वयेमहि ॥ ' बहुलं छन्दसि ' इति ह्वयतेः संप्रसारणम्। लिङ्याशिष्यङ् । यद्वा । प्रार्थनायां लिङि व्यत्ययेन शः ॥ कीदृशम् । वाजिनं बलवन्तमन्नवन्तं वा देवजूतं देवैः सोमाहरणाय प्रेरितम् ॥ जु इति गत्यर्थः सौत्रो धातुः । अस्मात् कर्मणि निष्ठा ।' तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् ॥ यद्वा । देवैः प्रीयमाणं तर्प्यमाणम् । यदाह यास्कः - ‘ जूतिर्गतिः प्रीतिर्वा देवजूतं देवगतं देवप्रीतं वा' (निरु. १०. २८) इति । सहावानं सहस्वन्तं बलवन्तमभिभवनवन्तं वा अत एव रथानाम् अन्यदीयानां तरुतारं संग्रामे जेतारम् । यद्वा । रंहणशीला इमे लोका रथाः । तान् सोमाहरणसमये शीघ्रं तरीतारम् । श्रूयते हि -- एष हीमाल्ँलोकान्सद्यस्तरति ' ( ऐ.ब्रा. ४, २०) इति ॥ तरतेस्तृचि ‘ग्रसितस्कभित° ' इत्यादावुडागमो निपात्यते (पा. सू. ७. २. ३४ ) ॥ अरिष्टनेमिम् अहिंसितरथम् । यद्वा । नेमिर्नमनशीलमायुधम् । अहिंसितायुधम् । अथवा । उपचाराज्जनके जन्यशब्दः । अरिष्टनेमेर्मम जनकम् । पृतनाजं पृतनानां शत्रुसेनानां प्राजितारं प्रगमयितारं जेतारं वा ।' अज गतिक्षेपणयोः' । अस्मात्क्विप् । ‘बलादावार्धधातुके विकल्प इष्यते' ( का. २. ४. ५६. २) इति वचनाद्वीभावाभावः । जयतेर्वा डप्रत्ययः । आशुं शीघ्रगामिनम् ॥
“Let us invoke here for our welfare that Tārkṣya, who is mighty, the commissioned of the gods, thevictorious, the outstripper of chariots, of irresistible car, the overthrower of hosts, the swift.”
THIS very mighty one whom Gods commission, the Conqueror of cars, ever triumphant,
Swift, fleet to battle, with uninjured fellies, even Tarksya for our weal will we call hither.
This god-sped prizewinner, victorious overtaker of (other) chariots, him whose wheel-felly cannot be damaged, the swift one driving to
battle—Tārkṣya would we summon here for our well-being.
Dies gottgesandte Ross, das kraftbegabte, das vorwärts dringend schnell die Wagen fördert, Zu Schlachten eilt mit unverletztem Radkranz, den Tārkschja wollen wir zum Heil uns rufen.
Jenen Preisrenner, den gottgetriebenen, überlegenen, der die Wagen überholt, dessen Radkranz unversehrt bleibt, den wettkämpfenden Renner, den Tarksya, wollen wir hier zum Heile anrufen.
Того самого коня, приносящего награду, поторапливаемого богами,
Могучего победителя колесниц,
С невредимыми ободьями (колес), рвущегося в бой, быстрого
Таркшью здесь хотим мы призывать на счастье.
इन्द्र॑स्येव रा॒तिमा॒जोहु॑वानाः स्व॒स्तये॒ नाव॑मि॒वा रु॑हेम । उर्वी॒ न पृथ्वी॒ बहु॑ले॒ गभी॑रे॒ मा वा॒मेतौ॒ मा परे॑तौ रिषाम ॥
इन्द्र॑स्यऽइव । रा॒तिम् । आ॒ऽजोहु॑वानाः । स्व॒स्तये॑ । नाव॑म्ऽइव । आ । रु॒हे॒म॒ । उर्वी॒ इति॑ । न । पृथ्वी॒ इति॑ । बहु॑ले॒ इति॑ । गभी॑रे॒ इति॑ । मा । वा॒म् । आऽइ॑तौ । मा । परा॑ऽइतौ । रि॒षा॒म॒ ॥
इन्द्रस्येव तार्क्ष्यस्य रातिं दानम् आजोहुवानाः पुनःपुनराह्वयन्तो वयं स्वस्तये अविनाशाय नावमिव नौर्यथा दुरवगाहं समुद्रं तारयति तथा दुःखस्य तारयित्रीं ताम् आ रुहेम आरूढा भूयास्म ॥ रुहेराशीर्लिंङि लिङयाशिष्यङ् ॥ हे उर्वी उर्व्यौ विस्तीर्णे हे पृथ्वी पृथिवी प्रथिते विख्याते हे बहुले अनन्ते गभीरे गाम्भीर्योपेते ईदृश्यौ हे द्यावापृथिव्यौ। नशब्दः संप्रत्यर्थे । संप्रति वां युवयोः संबन्धिनि एतौ तार्क्ष्यस्यागमे परेतौ परागमने च वयं मा रिषाम हिंसिता मा भूम ॥ आङ्पराभ्यामुत्तरस्येणो भावे क्तिन् ।' तादौ च निति' इति गतेः प्रकृतिस्वरत्वम् ॥
“Repeatedly invoking the liberality (of Tārkṣya), as (we do that) of Indra, let us mount upon it for ourwelfare as upon a ship; O heaven and earth, vast, expanded, manifold, profound, may we not suffer harm nowfrom (Tārkṣya's) coming to or departing from you.”
As though we offered up our gifts to Indra, may we ascend. him as a ship. for safety.
Like the two wide worlds, broad, deep far-extended, may we be safe both when he comes and leaves you.
Summoning his generosity again and again, like that of Indra, we would board him like a boat for our well-being.
O you two who are broad like the two wide (worlds), voluminous and deep—let us not suffer harm of you in our coming nor in our going.
Herbei ihn lockend wie des Indra Gabe, Lasst uns zum Heil ihn wie ein Schiff besteigen, Wie beide weiten, hohen, tiefen Welten; nichts schäd'ge uns bei eurem Gehn und Kommen.
Seine Gunst wie die des Indra erflehend, wollen wir gleichsam ein Schiff zum Heile besteigen. Ihr, die ihr so breit wie weit seid, ihr umfänglichen, tiefen, Himmel und Erde höret: Wir möchten durch euch im Kommen und Gehen keinen Schaden erleiden.
Моля, словно о даре Индры,
Мы хотим взойти как будто на ладью – на счастье.
О вы – двое, широкие, как и далекие, просторные, глубокие,
Да не потерпим мы вреда от вас ни при приходе, ни при уходе!
स॒द्यश्चि॒द्यः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॒तान॑ । स॒ह॒स्र॒साः श॑त॒सा अ॑स्य॒ रंहि॒र्न स्मा॑ वरन्ते युव॒तिं न शर्या॑म् ॥
स॒द्यः । चि॒त् । यः । शव॑सा । पञ्च॑ । कृ॒ष्टीः । सूर्यः॑ऽइव । ज्योति॑षा । अ॒पः । त॒तान॑ । स॒ह॒स्र॒ऽसाः । श॒त॒ऽसाः । अ॒स्य॒ । रंहिः॑ । न । स्म॒ । व॒र॒न्ते॒ । यु॒व॒तिम् । न । शर्या॑म् ॥
यः चित् योऽपि तार्क्ष्यः सद्यः शीघ्रं शवसा आत्मीयेन बलेन अपः उदकानि अमृतलक्षणानि ततान विस्तारितवान् सूर्यइव यथा सूर्यः सर्वस्य प्रेरक आदित्यः ज्योतिषा आत्मीयेन तेजसा वर्षर्तौ अपो विस्तारयति तद्वत् । कृष्टयो मनुष्याः । पञ्च कृष्टीः पञ्चविधान् कृष्टीन् मनुष्यान् प्रति । निषादपञ्चमांश्चतुरो वर्णनित्यर्थः । अस्य तार्क्ष्यस्य रंहिः गतिः सहस्रसाः सहस्रसंख्यस्य धनस्य दात्री संभक्त्री वा भवति । तथा शतसाः शतस्य च दात्री संभक्त्री वा भवति ॥ सनतेः सनोतेर्वा 'जनसनखन' इति विट् । ‘विड्वनोरनुनासिकस्यात्' इत्यात्वम् । न स्म न खल्वीदृशीं तार्क्ष्यस्य ते गतिं वरन्ते के चन वारयन्ति । तत्र दृष्टान्तः । शर्यां शरकाण्डमयीमिषुं धनुषो मुक्तां युवतिं न लक्ष्येण मिश्रीभवन्तीमिव । सा यथा दुर्निवारा तथैषा कैश्चिदपि वारयितुमशक्येत्यर्थः। अत्र निरुक्तं - सद्योऽपि यः शवसा बलेन तनोत्यपः सूर्यइव ज्योतिषा पञ्च मनुष्यजातानि सहस्रसानिनी शतसानिन्यस्य सा गतिर्न स्मैनां वारयन्ति प्रयुवतीमिव शरमयीमिषुम्' (निरु. १० २९ ) इति ॥ ॥ ३६ ॥
“He who has by his strength rapidly spread out the waters for the five castes like the sun by his light--thousand-yielding, hundred-bestowing is his course, like an unfailing arrow, none can stop it.”
He who with might the Five Lands hath pervaded, like Surya with his lustre, and the waters-
His strength wins hundreds, thousands none avert it, as- the young maid repelleth not her lover.
Who just in a single day stretches across the five peoples with his vast power, like the sun across the waters with his light,
his is the charge that wins thousands, that wins hundreds. They do not block him, anymore than a youthful arrow.
Der schnell mit Kraft durchdringt die fünf Geschlechter, so wie die Sonne durch ihr Licht die Nebel; Sein Lauf gibt hundert-tausendfachen Segen, nichts hält ihn auf, dem frischentsandten Pfeil gleich.
Der sofort durch seine Macht sich über die fünf Völker ausgedehnt hat wie die Sonne mit ihrem Lichte über die Gewässer. Tausend gewinnend, Hundert gewinnend ist sein Lauf; wie einen jugendlichen Pfeil hielten sie ihn nicht auf.
Кто сразу же благодаря своей силе протянулся
Над пятью народами, как солнце (своим) светом над водами, –
Бег его завоевывает тысячи, завоевывает сотни.
Его не удержать, как юную стрелу!