प्र नू॒नं जा॒तवे॑दस॒मश्वं॑ हिनोत वा॒जिन॑म् । इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥
प्र । नू॒नम् । जा॒तऽवे॑दसम् । अश्व॑म् । हि॒नो॒त॒ । वा॒जिन॑म् । इ॒दम् । नः॒ । ब॒र्हिः । आ॒ऽसदे॑ ॥
जातवेदसं जातानां वेदितारं जातधनादिकं वा अश्वं कर्मभिर्व्याप्नुवन्तं वाजिनम् अन्नवन्तं हे ऋत्विग्यजमानाः नूनम् अवश्यं प्र हिनोत प्रवर्धयत । यद्वा । अश्वमिव स्तुतिभिः प्रेरयत । ‘ हि गतौ वृद्धौ च ' । अस्माल्लोटि तशब्दस्य ‘ तप्तनप्तनथनाश्च ' इति तबादेशः । किमर्थम् । नः अस्माकम् इदं बर्हिः आस्तीर्णम् आसदे आसत्तुं प्राप्तुम् । बर्हिरासीदत्वित्यर्थः ॥ सदेः ‘कृत्यार्थे तवैकेन्” इति केन्प्रत्ययः ॥
“Urge the food-giver, Jātavedas, (as) a horse, to sit down upon this our sacred grass.”
Now send ye Jatavedas forth, send hitherward the vigorous Steed
To seat him on our sacred grass.
Spur forth now Jātavedas, the prizewinning horse,
to sit here on this ritual grass of ours.
Zu Agni send' ich hin mein Lied, zu ihm, der Herr der Völker ist, Er führ' uns durch die Feinde hin.
Treibt jetzt den Jatavedas, das preisgewinnende Roß an, sich auf dieses unser Barhis zu setzen!
Поторопите сейчас Джатаведаса,
Коня, приносящего награду,
Чтоб он уселся здесь на нашу жертвенную солому!
अ॒स्य प्र जा॒तवे॑दसो॒ विप्र॑वीरस्य मी॒ळ्हुष॑: । म॒हीमि॑यर्मि सुष्टु॒तिम् ॥
अ॒स्य । प्र । जा॒तऽवे॑दसः । विप्र॑ऽवीरस्य । मी॒ळ्हुषः॑ । म॒हीम् । इ॒य॒र्मि॒ । सु॒ऽस्तु॒तिम् ॥
जातवेदसः जाताना वेदितुः विप्रवीरस्य । विप्रा मेधाविनो यजमाना वीराः पुत्रा यस्य ॥ तादृशस्य मीळ्हुषः सेक्तुः अस्य अग्नेः महीं महतीं सुष्टुतिं शोभनां स्तुतिं प्र इयर्मि प्रेरयामि ॥ ‘ऋ ‘ गतौ । जौहोत्यादिकः । ‘अर्तिपिपर्त्योश्च' इत्यभ्यासस्येत्वम् ॥
“I offer earnest and ample praise to this Ja-tavedas, the showerer (of benefits), whose sons areintelligent (worshippers).”
I raise the lofty eulogy of Jatavedas, raining boons,
With sages for his hero band.
For this Jātavedas here, whose heroes are poets, who grants rewards, I rouse forth a great praise hymn.
Er, der aus weiter Ferne her hinstrahlet durch das ganze Land, Er führ' uns durch die Feinde hin.
Ich hebe ein großes Loblied auf diesen belohnenden Jatavedas an, der die Männer beredt macht.
Я привожу в движение великую прекрасную хвалу
Этого щедрого Джатаведаса,
Чьи мужи – вдохновенные поэты.
या रुचो॑ जा॒तवे॑दसो देव॒त्रा ह॑व्य॒वाह॑नीः । ताभि॑र्नो य॒ज्ञमि॑न्वतु ॥
याः । रुचः॑ । जा॒तऽवे॑दसः । दे॒व॒ऽत्रा । ह॒व्य॒ऽवाह॑नीः । ताभिः॑ । नः॒ । य॒ज्ञम् । इ॒न्व॒तु॒ ॥
जातवेदसः अग्नेः याः रुचः रोचमानाः कालीकालीप्रभृतयः सप्त जिह्वाः देवत्रा देवान् प्रति ॥ ‘देवमनुष्यपुरुषपुरुमर्त्येभ्यः' ( पा.सू. ५.४.५६ ) इत्यादिना द्वितीयाथें त्राप्रत्ययः ॥ हव्यवाहनीः हव्यानां हविषां वोढ्र्यः प्रापयित्र्यो भवन्ति ॥ ‘वा छन्दसि ' इति जसि पूर्वसवर्णदीर्घः ॥ ताभिः जिह्वाभिः नः अस्माकं यज्ञं यागसाधनं हविः इन्वतु देवान् प्रापयतु । ‘इवि व्याप्तौ'। इदित्त्वान्नुम् ॥ ॥ ४६ ॥
“May he invest our sacrifice with those bright (flames) of Jātavedas, that are the bearers of theoblation to the gods.”
With flames of Jatavedas which carry oblation to the Gods,
May he promote our sacrifice.
The bright beams of Jātavedas that convey the oblation among the gods, with them let him impel our sacrifice.
Der Held, der die Gespenster-Schar mit heller Flamme niederbrennt, Er führ' uns durch die Feinde hin.
Des Jatavedas Lichter, die das Opfer zu den Göttern führen, mit denen soll er unser Opfer befördern.
Огни Джатаведаса,
Отвозящие жертву к богам, –
Пусть он ими поощрит нашу жертву!