नि व॑र्तध्वं॒ मानु॑ गाता॒स्मान्त्सि॑षक्त रेवतीः । अग्नी॑षोमा पुनर्वसू अ॒स्मे धा॑रयतं र॒यिम् ॥
नि । व॒र्त॒ध्व॒म् । मा । अनु॑ । गा॒त॒ । अ॒स्मान् । सि॒स॒क्त॒ । रेवतीः । अग्नी॑षोमा । पु॒न॒र्व॒सू॒ इति॑ पुनःऽवसू । अ॒स्मे इति॑ । धा॒र॒य॒त॒म् । र॒यिम् ॥
हे गावो हे आपो वा यूयं नि वर्तध्वम् अस्मान् प्रत्यागच्छत । मानु गात अस्मद्व्यतिरिक्तं यजमानं मा गच्छत । आगत्य च हे रेवतीः रेवत्यो धनवत्यो यूयम् अस्मान् सिषक्त सेचयत । अवगाहनगोदोहनस्नानपानादिद्वारेण सेवध्वमित्यर्थः। हे पुनर्वसू पुनःपुनर्वस्तारौ स्तोतॄणां यष्टॄणामाच्छादयितारौ हे अग्नीषोमा अग्नीषोमौ एतन्नामकौ देवौ युवाम् अस्मे अस्मासु रयिं व्रीह्यादिलक्षणं धनं धारयतं स्थापयतम् ॥
“Come back; go not elsewhere; abounding in wealth, sprinkle us; Agni and Soma, you who clothe (yourworshippers) again, bestow upon us riches.”
TURN, go not farther on your way: visit us, O ye Wealthy Ones.
Agni and Soma, ye who bring riches again, secure us wealth.
Turn back. Don’t keep going. Keep company with us, o rich ones.
O Agni and Soma, who bring goods back, hold our wealth fast for us.
Kehrt um, ihr Kühe, geht nicht fort; zu uns, ihr reichen, wendet euch; Gebt, Agni, Soma, Reichthum uns ihr Güterbringer zum Besitz.
Kehret heim, folgt keinem anderen, haltet euch zu uns, die ihr unseren Reichtum bildet! Agni und Soma, ihr beiden Punarvasu, haltet bei uns den Reichtum fest!
Вернитесь! Не уходите вслед (за кем-нибудь другим)!
Держитесь нас, о (наши) богатства!
О Агни и Сома, возвращающие назад добро,
Удержите у нас богатство!
पुन॑रेना॒ नि व॑र्तय॒ पुन॑रेना॒ न्या कु॑रु । इन्द्र॑ एणा॒ नि य॑च्छत्व॒ग्निरे॑ना उ॒पाज॑तु ॥
पुनः॑ । ए॒नाः॒ । नि । व॒र्त॒य॒ । पुनः॑ । ए॒नाः॒ । नि । आ । कु॒रु॒ । इन्द्र॑ । ए॒नाः॒ । नि । य॒च्छ॒तु॒ । अ॒ग्निः । ए॒नाः॒ । उ॒प॒ऽआज॑तु ॥
अत्र मन्त्रद्रष्टा स्वात्मानं प्रति ब्रूते । हे मदीयात्मन् त्वम् एनाः एताः अन्यतोऽभिगन्त्रीर्गा अपो वा पुनः नि वर्तय पुनःपुनर्मदभिमुखीकुरु । तदनन्तरम् एनाः एताः पुनः भूयो भूयो न्या कुरु नियता आत्मायत्ताः कुरु। किंच इन्द्रः अपि तव सहायभूतः सन् एनाः एताः नि यच्छतु त्वदायत्ताः करोतु । अग्निः च एनाः एताः गा अपो वा उपाजतु उपगमयतु उपक्षिपतु वा । उपयोग्याः करोत्वित्यर्थः ॥
Make these return to us again, bring them beside us once again.
May. Indra give them back to us, and Agni drive them hither-ward.
Turn them back again; bring them back here again.
Let Indra hold them back; let Agni drive them near.
Schaff diese Kühe uns zurück und lass sie wiederkehren hier; Es lenke Indra sie uns her, und Agni treibe sie uns zu.
Bring sie zurück, treib sie wieder heim; Indra soll sie festhalten, Agni soll sie hertreiben!
Верни их назад!
Обрати их назад!
Пусть Индра задержит их!
Пусть Агни пригонит их!
पुन॑रे॒ता नि व॑र्तन्ताम॒स्मिन्पु॑ष्यन्तु॒ गोप॑तौ । इ॒हैवाग्ने॒ नि धा॑रये॒ह ति॑ष्ठतु॒ या र॒यिः ॥
पुनः॑ । ए॒ताः । नि । व॒र्त॒न्ता॒म् । अ॒स्मिन् । पु॒ष्य॒न्तु॒ । गोऽप॑तौ । इ॒ह । ए॒व । अ॒ग्ने॒ । नि । धा॒र॒य॒ । इ॒ह । ति॒ष्ठ॒तु॒ । या । र॒यिः ॥
एना एता ईदृश्यो गाव आपो वा पुनः नि वर्तन्तां भूयो भूयो मां प्रत्यागच्छन्तु । आगत्य च गोपतौ सास्नादिमतीनां धेनूनां वृष्टिलक्षणानामपां पालके अस्मिन् ईदृशे मयि पुष्यन्तु आत्मायत्तत्वेन स्थित्वा पुष्टा भवन्तु । पुष्टाः सतीस्ता हे अग्ने त्वम् इहैव अस्मिन्नेव मयि नि धारय नियमेन स्थापय । या रयिः यदपि व्रीह्यादिकं धनमस्ति तदपि धनं गोसहितम् इह अस्मिन्नेव गोपतौ मयि तिष्ठतु निवसतु ॥ ।
Let them return to us again: under this herdsman let them feed.
Do thou, O Agni, keep them here, and let the wealth we have remain.
Let these turn back again. Let them prosper in (the care of) this man, the lord of the cattle.
Right here, o Agni, fix them down fast. Here let it remain—our wealth.
Sie mögen wiederkehren nun, bei diesem Hirten recht gedeihn; Hier halte sie, o Agni, fest; und jeder Reichthum weile hier.
Diese sollen wieder heimkehren, bei diesem Rinderbesitz sollen sie gedeihen. Hier nur halte sie, Agni, fest; hier soll der Reichtum verbleiben!
Да вернуться эти назад!
Да процветают они у этого хозяина коров!
Только здесь, о Агни, удерживай их!
Здесь пусть остается (то,) что богатство!
यन्नि॒यानं॒ न्यय॑नं सं॒ज्ञानं॒ यत्प॒राय॑णम् । आ॒वर्त॑नं नि॒वर्त॑नं॒ यो गो॒पा अपि॒ तं हु॑वे ॥
यत् । नि॒ऽयान॑म् । नि॒ऽअय॑नम् । स॒म्ऽज्ञान॑म् । यत् । प॒रा॒ऽअय॑नम् । आ॒ऽवर्त॑नन् । नि॒ऽवर्त॑नम् । यः । गो॒पाः । अपि॑ । तम् । हु॒वे॒ ॥
नियानम् । अधिकरणे ल्युट् । नियमेन यान्त्यागच्छन्ति गावोऽत्रेति नियानं गोष्ठाख्यं स्थानम्। यत् अस्तीति शेषः। यच्छब्दयोगात्तच्छब्दोऽध्याहर्तव्यः। हुव इति क्रियापदं सर्वत्रानुषज्यते । तत्स्थानं हुवे आह्वयामि । आह्वानमभिमुखीकरणं तेन चात्र तत्पूर्विका प्रार्थना लक्ष्यते । गोसहितं गोष्ठं प्रार्थय इत्यर्थः । न्ययनम् । भावे ल्युट् । नियमेन गृहं प्रति प्राप्तिलक्षणं गमनं यदस्ति तदपि प्रार्थये। निवर्तनं वने चरित्वा गृहं प्रति यदागमनमस्ति तदपि प्रार्थये । यः अपि गोपाः गवां पालकोऽस्ति तम् अपि हुवे प्रार्थये । सर्वगुणोपेता गाः प्रार्थय इत्यर्थः ॥ (वैकल्पिकपाठः -- ग-प्रार्थये । यत्र संगच्छंते इतरेतरं जानंतस्तत् संज्ञानं । अथ ततश्चरणार्थं पराचीना यत्र यंति तत्परायणं । चरित्वाधा आवर्तंते तदावर्तनं; मु-प्रार्थये । संज्ञान गोभिः सह ऐकमत्यं यदस्ति तदपि प्रार्थये । परायणं परागमनं वनं प्रति गवां चरणाय गमनं यदस्ति तदपि प्रार्थये । आवर्तनं वनचारिणीभिर्गोभिः सह प्रवर्तनं यदस्ति तदपि प्रार्थये।)
1 call upon their herdsman, him who knoweth well their coming nigh,
Their parting and their home-return, and watcheth their approach and rest.
Also the one who is the cowherd—I call him to the journeying back, the coming back, the bringing to agreement, and the going away,
to the turning here and the turning back.
Der ihr Entfernen, der ihr Nahn, Zusammen-, Auseinandergehn, Ihr Heimgehn und zur Ruhe gehn bewacht, den Hüter ruf' ich her.
Den Heimweg, die Rückkehr, die Eintracht, das Fortgehen, die Herkehr, die Heimkehr und auch den Hirten rufe ich an.
Я призываю то, что дорога домой, вход,
Согласие, что уход,
Приближение, возвращение
(И) кто пастух, того тоже.
य उ॒दान॒ड्व्यय॑नं॒ य उ॒दान॑ट् प॒राय॑णम् । आ॒वर्त॑नं नि॒वर्त॑न॒मपि॑ गो॒पा नि व॑र्तताम् ॥
यः । उ॒त्ऽआन॑ट् । वि॒ऽअय॑नम् । यः । उ॒त्ऽआन॑ट् । प॒रा॒ऽअय॑नम् । आ॒ऽवर्त॑नम् । नि॒ऽवर्त॑नम् । अपि॑ । गो॒पाः । नि । व॒र्त॒ता॒म् ॥
यः गोपाः गोपालः व्ययनं नष्टानां गवामन्वेषणार्थं विविधं गमनम् उदानट् व्याप्नोति अनुभवति । यः परायणं परागमनम् उदानट् व्याप्नोति । वनं प्रति गवां चरणाय गमनमित्यर्थः। यश्च आवर्तनं वनचारिणीभिर्गोभिः सह प्रवर्तनमनुभवति । यः अपि गोपाः निवर्तनं गोभिः सह वनाद्गृहं प्रति निर्गमनमनुभवति । सोऽपि गोपालः नि वर्ततां गोभिः सह वनाद्गृहं प्रति क्षेमेणागच्छतु ॥
Yea, let the herdsman, too, return, who marketh well their driving-forth;
Marketh their wandering away, their turning back and coming home.
He who has managed the dispersal, who has managed the going away, the turning here, and the turning back—let the cowherd also turn back.
Der ihr Entfernen wohl bewacht, der ihren Fortgang wohl bewacht, Ihr Heimgehn und zur Ruhe gehn, der Hüter komme zu uns her.
Der das Verlaufen, das Fortlaufen, die Herkehr, die Heimkehr in seiner Hand hat, auch der Hirt soll heimkehren!
Кто овладел разбреданием,
Кто овладел уходом,
Приближением, возвращением –
Пастух пусть тоже вернется.
आ नि॑वर्त॒ नि व॑र्तय॒ पुन॑र्न इन्द्र॒ गा दे॑हि । जी॒वाभि॑र्भुनजामहै ॥
आ । नि॒ऽव॒र्त॒ । नि । व॒र्त॒य॒ । पुनः॑ । नः॒ । इ॒न्द्र॒ । गाः । दे॒हि॒ । जी॒वाभिः॑ । भु॒न॒जा॒म॒है॒ ॥
हे इन्द्र त्वम् आ निवर्त आनिवर्तस्व अस्मदभिमुखो भव । ततोऽन्यतो गच्छन्तीर्गाः नि वर्तय अस्मदभिमुखीः कुरु । एवं कृत्वा च हे इन्द्र त्वं पुनः पश्चात् नः अस्मभ्यं गाः देहि प्रयच्छ। त्वया दत्ताभिः जीवाभिः चिरं जीवन्तीभिः सर्वस्य जीवयित्रीभिर्वा गोभिः भुनजामहै वयं भुञ्जीमहि । यद्वा । भुजिरत्रान्तर्भावितण्यर्थः । देवपितॄन्' संभोजयेमहि ॥
Home-leader, lead them home to us; Indra, restore to us our kine:
We will rejoice in them alive.
You turner back, turn them back here; give the cows to us again, o Indra. Let us find enjoyment with them alive.
Heimfuhrer, führe sie zurück gib Indra uns die Küh' zurück, Wir woll'n der lebenden uns freun.
Du Heimführer, führe sie heim, gib uns die Kühe wieder, Indra! Wir wollen uns der Lebenden erfreuen.
О возвратитель, верни,
Отдай нам назад коров, о Индра!
Мы будем радоваться живым!
परि॑ वो वि॒श्वतो॑ दध ऊ॒र्जा घृ॒तेन॒ पय॑सा । ये दे॒वाः के च॑ य॒ज्ञिया॒स्ते र॒य्या सं सृ॑जन्तु नः ॥
परि॑ । वः॒ । वि॒श्वतः॑ । द॒धे॒ । ऊ॒र्जा । घृ॒तेन॑ । पय॑सा । ये । दे॒वाः । के । च॒ । य॒ज्ञियाः॑ । ते । र॒य्या । सम् । सृ॒ज॒न्तु॒ । नः॒ ॥
हे देवाः विश्वतः सर्वतः स्थितान् वः युष्मान् ऊर्जा गोसंबन्धिना दधिलक्षणेनान्नेन घृतेन आज्येन पयसा क्षीरेण च परि दधे संधारयामि । युष्मभ्यं हविर्द्वारेण प्रयच्छामि । न केवलमात्मानं पुष्णामीत्यर्थः । एतज्ज्ञात्वा ये के च देवाः यज्ञियाः यज्ञार्हाः सन्ति ते देवाः नः अस्मान् रय्या गोलक्षणेन धनेन सं सृजन्तु संयोजयन्तु ॥
1 offer you on every side butter and milk and strengthening food.
May all the Holy Deities pour down on us a flood of wealth.
On every side I surround you with nourishment, ghee, and milk.
Whatever gods there are who are worthy of the sacrifice, let them join us with wealth.
Umgib von allen Seiten uns mit Nahrung und mit fetter Milch, Die hehren Götter mögen uns Reichthum ergiessen allesammt.
Von allen Seiten versehe ich euch mit kräftiger Nahrung, mit Schmalz, mit Milch. Welche Götter alle die Opferwürdigen sind, die sollen uns des Reichtums teilhaft machen!
Со всех сторон я наделяю вас
Питательной силой, жиром, молоком.
Какие бы ни (были) боги, достойные жертв,
(Все) они пусть сделают нас причастными к богатству!
आ नि॑वर्तन वर्तय॒ नि नि॑वर्तन वर्तय । भूम्या॒श्चत॑स्रः प्र॒दिश॒स्ताभ्य॑ एना॒ नि व॑र्तय ॥
आ । नि॒ऽव॒र्त॒न॒ । व॒र्त॒य॒ । नि । नि॒ऽव॒र्त॒न॒ । व॒र्त॒य॒ । भूम्याः॑ । चत॑स्रः । प्र॒ऽदिशः॑ । ताभ्यः॑ । ए॒नाः॒ । नि । व॒र्त॒य॒ ॥
मन्त्रद्रष्टर्षिः स्वात्मानं गाश्च संबोध्याह । हे मदीयात्मन् त्वं गाः आ वर्तय। आकारोऽप्यनेनापि संबध्यते । मदभिमुखीः कुरु । स्तुत्या यागेन च ताः प्रसाद्योपनमयेत्यर्थः । हे गावः यूयमपि प्रसाद्यमानाः आ निवर्तन आनिवर्तध्वम् । आभिमुख्येनागच्छत । पुनरप्याह । हे मदीयात्मन् त्वं नि वर्तय गोसंचरणस्थानादपगच्छन्तीर्गा इतोऽभिगन्त्रीः कुरु । यूयमपि हे गावो निवर्त्यमानाः सत्यः निवर्तन निवर्तध्वम् । इदानीं स्वात्मा गावश्चर्षिं प्रति ब्रुवते । हे ऋषे अहं कुतो गा निवर्तयामीति कुतो वयं निवर्तयामह इत्यात्मना गोभिश्च पृष्टः सन्नाह । भूम्याः पृथिव्याः चतस्रः प्रदिशः चतुःसंख्यायुक्ताः प्रकृष्टा या दिशः सन्ति ताभ्यः दिग्भ्यः एनाः गाः नि वर्तय हे आत्मन् मदभिमुखीः कुरु । हे गावो यूयमपि ताभ्यो दिग्भ्यो निवर्तध्वमिति सामर्थ्याल्लब्धम् । यद्वा । अब्दैवतपक्षेऽपि सूक्तार्थों यथा घटते तथा योजना कर्तव्या ॥ ॥ १ ॥
O thou Home-leader, lead them home, restore them thou who bringest home.
Four are the quarters of the earth; from these bring back to us our kine,
You turner back, turn them here; you turner back, turn them back. The earth has four quarters: from these, turn them back.
The Anukramaṇī gives a choice of authorship for the next seven hymns, X.20– 26: Vimada, the son of Indra or Prajāpati, or Vasukr̥t Vāsukra. The patronymic of the latter choice would identify the poet as a son or descendant of Vasukra Aindra, the author of the three desperately difficult hymns that immediately follow (27–29). The poet of X.25.11 also identifies with or identifies himself as Kakṣīvant, the very skilled poet of I.116–126.
Whatever the poet’s affiliation, he is fond of unusual meters (see esp. 21, 22, 24, 25) as well as puns on the name Vimada. The hymns are dedicated to Agni (20–21), Indra (22–1st half of 24), the Aśvins (2nd half of 24), Soma (25), and Pūṣan (26).
Heimführer, fuhr sie wieder her Heimführer, führ sie wieder heim Aus den vier Gegenden der Welt, aus denen führe sie uns heim.
Du Heimführer führe sie her, du Heimführer, führe sie heim! Die vier Richtungen der Erde, aus diesen führe sie heim!
О возвратитель, приведи!
О возвратитель, верни!
Четыре стороны земли –
Из них верни их!