ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत । ततो॒ रात्र्य॑जायत॒ तत॑: समु॒द्रो अ॑र्ण॒वः ॥
ऋ॒तम् । च॒ । स॒त्यम् । च॒ । अ॒भी॑द्धात् । तप॑सः । अधि॑ । अ॒जा॒य॒त॒ । ततः॑ । रात्री॑ । अ॒जा॒य॒त॒ । ततः॑ । स॒मु॒द्रः । अ॒र्ण॒वः ॥
No commentary available
No translations available
स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अ॑जायत । अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ॥
स॒मु॒द्रात् । अ॒र्ण॒वात् । अधि॑ । स॒व्वँ॒त्स॒रः । अ॒जा॒य॒त॒ । अ॒हो॒रा॒त्राणि॑ । वि॒ऽदध॑त् । विश्व॑स्य । मि॒ष॒तः । व॒शी ॥
No commentary available
No translations available
सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् । दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ स्व॑: ॥
सू॒र्या॒च॒न्द्र॒मसौ॑ । धा॒ता । य॒था॒पू॒र्वम् । अ॒क॒ल्प॒य॒त् । दिव॑म् । च॒ । पृ॒थि॒वीम् । च॒ । अ॒न्तरि॑क्षम् । अथो॒ इति॑ । स्वः॑ ॥
No commentary available
No translations available