भ॒द्रं नो॒ अपि॑ वातय॒ मन॑: ॥
भ॒द्रम् । नः॒ । अपि॑ । वा॒त॒य॒ । मनः॑ ॥
हे अग्ने त्वं नः अस्माकं मनः भद्रं शुभयुक्तम् अपि वातय । अपिरत्र धात्वर्थानुवादी ॥ आगमय । त्वत्संबन्धिस्तोत्रकरणे प्रेरयेत्यर्थः ॥
“(Agni), manifest towards us a favourable mind.”
SEND unto us a good and happy mind.
Make auspicious thought our familiar.
O flösse schönen Sinn uns ein.
Gib uns einen glücklichen Gedanken ein!
Вдохни же в нас счастливую мысль!
अ॒ग्निमी॑ळे भु॒जां यवि॑ष्ठं शा॒सा मि॒त्रं दु॒र्धरी॑तुम् । यस्य॒ धर्म॒न्त्स्व१॒॑रेनी॑: सप॒र्यन्ति॑ मा॒तुरूध॑: ॥
अ॒ग्निम् । ई॒ळे॒ । भु॒जाम् । यवि॑ष्ठम् । शा॒सा । मि॒त्रम् । दुः॒ऽधरी॑तुम् । यस्य॑ । धर्म॑न् । स्वः॑ । एनीः॑ । स॒प॒र्यन्ति॑ । मा॒तुः । ऊधः॑ ॥
भुजां हविर्भुजां देवानां मध्ये यविष्ठम् अहन्यहन्यग्निहोत्रादिकर्मार्थं जायमानत्वादतिशयेन युवानं शासा अनुशासनेन मित्रम् । यस्मादिदं कर्तव्यमिदं न कर्तव्यमिति सर्वमनुशास्ति तस्मात्सर्वस्य मित्रभूतमित्यर्थः । दुर्धरीतुं दुर्धरणीयं संग्रामे शत्रुभिर्दुर्निवारणीयमेवंभूतम् अग्निम् ईळे स्तौमि । अपि च यस्य अग्नेः धर्मन् धर्मण्यग्निहोत्रादिके कर्मणि स्वः द्युलोकमादित्यं सर्वं देवजातं वा एनीः एन्यः प्रतिगन्त्र्य आहुतयः स्तुतयश्च सपर्यन्ति परिचरन्ति सेवन्ते । यद्वा । स्वः सपर्यन्तीत्यनयोः सामानाधिकरण्यम् । अत्र स्वरित्ययं सर्वशब्दो निपातः । स्वः सर्वे देवाः एनीरात्मनः प्रतिगन्त्रीराहुतीः स्तुतीश्च सपर्यन्ति सेवन्ते । उपजीवन्तीत्यर्थः। तत्र दृष्टान्तः । लुप्तोपममेतत् । मातुः गोः ऊधः क्षीरोपसंहारस्थानं प्रति यथा वत्सा उपजीवन्ति तद्वत् । तमग्निमीळ इति पूर्वेण संबन्धः ॥
“I glorify Agni, the youngest of the feeders (on oblations), friendly in counsel, difficult to resist, at whoserite the oblations seek heaven, as (calves) the udder of the mother cow.”
1 worship Agni, Youthfullest of Gods, resistless, Friend of laws;
Under whose guard and heavenly light the Spotted seek the Mother's breast:
Agni do I invoke, the youngest, for delights, an ally [/Mitra] difficult to restrain by reason of his (own) command,
upon whose foundation the mottled (cows) [=flames] honor the sun (as well as) the udder of their mother [=fireplace].
Agni, der Geniesser jüngsten, preis' ich, Freund ihn, der unhemmbar, In dess Schutz und Licht die Kälber streben nach der Mutter Euter.
Den Agni rufe ich an, den Jüngsten der Opfergenießer, den Freund, der durch Befehl schwer festzuhalten ist, in dessen Gebot die bunten Flammen die Sonne ehren, das Euter der Mutter.
Агни призываю я – самого юного из вкушающих (жертву),
Друга, которого трудно удержать приказом,
По установлению которого пестрые (языки пламени)
Почитают небо, вымя матери.
यमा॒सा कृ॒पनी॑ळं भा॒साके॑तुं व॒र्धय॑न्ति । भ्राज॑ते॒ श्रेणि॑दन् ॥
यम् । आ॒साः । कृ॒पऽनी॑ळम् । भा॒साऽके॑तुम् । व॒र्धय॑न्ति । भ्राज॑ते । श्रेणि॑ऽदन् ॥
स्तोतारो यष्टारश्च आसा स्तुतिहविर्लक्षणेनोपासनेन यम् अग्निं वर्धयन्ति । कीदृशम् । कृपनीळं कर्मस्थानम् । कर्माधारमित्यर्थः । भासाकेतुं ज्वालालक्षणज्ञापकं दीप्तेः कर्तारं वा । यच्छब्दश्रुतेस्तच्छब्दोऽध्याहार्यः । सोऽग्निः श्रेणिदन् स्तोतृभ्यो यष्टृभ्योऽभीष्टफलसमूहप्रदः शत्रुभ्यो ज्वालापङ्क्तिप्रदो वा एवंभूतः सन् भ्राजते भासते ॥
“He whom (the worshippers) magnify with their mouth, the sustainer of pious works; whose banner isthe light, he shines, bestowing upon them all their desires.”
Whom with their mouth they magnify, bannered with flame and homed in light.
He glitters with his row of teeth.
With his (own) body as his nest, his radiant beam his beacon, him whom they make increase with their mouth,
he flashes—his teeth [=flames] in a row.
Den sie feiern, vor ihn tretend, der in Glanz wohnt, Flammen schwenkend, Der erglänzt mit lichten Zähnen.
Den sie mit dem Munde groß machen, den Nestbereiter, dessen Fahne das Licht ist; er erglänzt mit reihenweisen Zähnen.
(Тот) угнездившийся в красоте,
Чье знамя – свет, кого они усиливают ртом,
Сверкает, (обнажая) ряды зубов.
अ॒र्यो वि॒शां गा॒तुरे॑ति॒ प्र यदान॑ड्दि॒वो अन्ता॑न् । क॒विर॒भ्रं दीद्या॑नः ॥
अ॒र्यः । वि॒शाम् । गा॒तुः । ए॒ति॒ । प्र । यत् । आन॑ट् । दि॒वः । अन्ता॑न् । क॒विः । अ॒भ्रम् । दीद्या॑नः ॥
विशां यजमानमनुष्याणाम् अर्यः गन्तव्यः गातुः गमनशीलोऽग्निः दीद्यानः दीप्यमानः यत् यदा एति ऊर्ध्वं गच्छति तदा दिवः द्युलोकस्य अन्तान् पर्यन्तान् कविः मेधावी सोऽग्निः प्र आनट् प्रकर्षेण व्याप्नोति । अभ्रं मेघोपलक्षितमन्तरिक्षं च व्याप्नोति ॥
“The refuge of the people, the mover, who, when he moves, penetrates to the ends of the sky; thesage illumining the firmament.”
Kind, Furtherer of men, he comes, when he hath reached the ends of heaven,
Sage, giving splendour to the clouds.
The way for the stranger and the clans goes onward, since he [=Agni] has reached the ends of heaven—
as the bright-shining poet, (but also as) a cloud.
Frommer Sang der Menschen folgt ihm, wenn er dringt zur Himmelswölbung, Auf die Wolke glänzend strahlet.
Der Tageslauf des hohen Herrn und der Clanleute geht weiter, wenn er des Himmels Grenzen erreicht hat und das Gewölk, der leuchtende Seher.
Благой (бог) движется, счастливый исход для племени,
Когда он достиг пределов неба,
Поэт, освещающий тучу.
जु॒षद्ध॒व्या मानु॑षस्यो॒र्ध्वस्त॑स्था॒वृभ्वा॑ य॒ज्ञे । मि॒न्वन्त्सद्म॑ पु॒र ए॑ति ॥
जु॒षत् । ह॒व्या । मानु॑षस्य । ऊ॒र्ध्वः । त॒स्थौ॒ । ऋभ्वा॑ । य॒ज्ञे । मि॒न्वन् । सद्म॑ । पु॒रः । ए॒ति॒ ॥
मानुषस्य यजमानस्य यज्ञे यजनीये यागे हव्या हव्यानि हवींषि जुषत् सेवमानोऽग्निः ऋभ्वा उरुभूतो बहुज्वालोपेतः ऊर्ध्वस्तस्थौ उत्तिष्ठति । ऊर्ध्वं ज्वलतीत्यर्थः । अपि चायमग्निः प्राग्वंशादारभ्य सद्म सदनं सौमिकी वेदिं मिन्वन् परिच्छिन्दन् पुरः पुरस्तादुत्तरवेदिशालामुखीयात् प्रणीयमानः सन् एति गच्छति ॥
“Accepting the oblations (offered) at the sacrifice of the worshipper, he blazes up, with a mighty flame;fixing his abode, he advances.”
To taste man's offerings, he, the Strong, hath risen erect at sacrifice:
Fixing his dwelling he proceeds.
He takes pleasure in the oblations of the son of Manu. The craftsman stands erect at the sacrifice.
Fixing his seat, he goes in front.
Aufrecht steht er, kühn beim Opfer; wenn er speist des Menschen Tränke, Geht voran er, Sitz errichtend.
Er genieße die Opfergabe des Menschen; aufrecht steht der Meister bei dem Opfer, seinen Sitz absteckend geht er voran.
Пусть наслаждается он жертвенными дарами человека!
Он стоит прямо, искусный на жертвоприношении;
Сооружая (свое) сидение, он движется вперед.
स हि क्षेमो॑ ह॒विर्य॒ज्ञः श्रु॒ष्टीद॑स्य गा॒तुरे॑ति । अ॒ग्निं दे॒वा वाशी॑मन्तम् ॥
सः । हि । क्षेमः॑ । ह॒विः । य॒ज्ञः । श्रु॒ष्टी । इत् । अ॒स्य॒ । गा॒तुः । ए॒ति॒ । अ॒ग्निम् । दे॒वाः । वाशी॑ऽमन्तम् ॥
य उक्तगुणविशिष्टोऽग्निः । हि इत्येतदवधारणे । सः एवाग्निः क्षेमः कुशलहेतुः । सर्वस्य परिपालनहेतुरित्यर्थः । हविः पुरोडाशादिकं च स एव हविषस्तन्निमित्तत्वात् । यज्ञः यागोऽपि स एव तस्यापि तद्धेतुत्वात् । किंच श्रुष्टीत् क्षिप्रमेव अस्य अग्नेः गातुः गमनशीलोऽधिष्ठात्रात्मा एति देवानामाह्वानार्थं गच्छति । गत्वा च प्रत्यागच्छन्तं वाशीमन्तं स्तुतिलक्षणया वाचोपेतम् अग्निं प्रति देवाः अपि गच्छन्तीति शेषः ॥ ॥ २ ॥
“Agni is capable (of protecting all men), he is himself the oblation, and the sacrifice; rapidly indeed doeshis spirit move, the gods come to Agni, who bears the praises.”
Here are oblation, worship, rest: rapidly comes his furtherance.
To sword-armed Agni come the Gods.
For he is peaceful dwelling, oblation, and sacrifice. By harkening only to him, their way goes onward:
the gods (go) to Agni, who is equipped with axes [=flames].
Hier ist Rast ihm, Trank und Opfer; eilig kommt er, und die Götter Gehn zu Agni, der das Beil schwingt.
Denn das ist sein Behagen, die Opfergabe und das Opfer. Pünktlich geht sein Gang; zu Agni, dem Axtträger, kommen die Götter.
Ведь это (его) удовольствие – возлияние (и) жертва.
Только благодаря преданному служению бывает его счастливый исход.
Боги (идут) к Агни, несущему топор.
य॒ज्ञा॒साहं॒ दुव॑ इषे॒ऽग्निं पूर्व॑स्य॒ शेव॑स्य । अद्रे॑: सू॒नुमा॒युमा॑हुः ॥
य॒ज्ञ॒ऽसह॑म् । दुवः॑ । इ॒षे॒ । अ॒ग्निम् । पूर्व॑स्य । शेव॑स्य । अद्रेः॑ । सू॒नुम् । आ॒युम् । आ॒हुः॒ ॥
अत्रैकवाक्यतायै यत्तच्छब्दावध्याहार्यौ । अपरार्धर्चः पूर्वं व्याख्येयः । आयुं देवानामाह्वानार्थं दूत्येन गन्तारं यम् अग्निम् अद्रेः सूनुम् अश्मनः पुत्रम् आहुः ‘त्वमद्भ्यस्त्वमश्मनस्परि' (ऋ. सं. २. १. १ ) इत्येवमादयो मन्त्रा वदन्ति । यज्ञसहं यागस्य वोढारम् । धारयितारमित्यर्थः ॥ तमग्निमभिलक्ष्य दुवः परिचरणम् इषे इच्छामि । किमर्थम् । पूर्वस्य । अत्र पूर्वशब्द उत्कृष्टवाची । उत्कृष्टस्य शेवस्य स्वर्गापवर्गलक्षणसुखस्य प्राप्त्यर्थमिति शेषः ॥
“Agni, who goes to (summon the gods), the bearer of the oblation, whom men call the sow of the stone;him I desire to worship (for the sake) of supreme felicity.”
With service for chief bliss I seek the Lord of Sacrifice, Agni, whom
They call the Living, Son of Cloud.
I seek Agni, who dominates through sacrifice, and the friendship of (that) kindly ancient.
They say that Āyu [=Agni] is the son of the stone.
Ich verehr' den Herrn des Opfers; Agni nennt man den lebend'gen Sohn des alten holden Felsens.
Den Opferbemeisterer Agni gehe ich um die Gunst des früheren, lieben Gastes an. Sie nennen den Ayu des Steines Sohn.
Я воссылаю почитание старой дружбы
Агни, могущественному благодаря жертве.
Они называют Аю сыном скалы.
नरो॒ ये के चा॒स्मदा विश्वेत्ते वा॒म आ स्यु॑: । अ॒ग्निं ह॒विषा॒ वर्ध॑न्तः ॥
नरः॑ । ये । के । च॒ । अ॒स्मत् । आ । विश्वा॑ । इत् । ते । वा॒मे । आ । स्यु॒रिति॑ स्युः । अ॒ग्निम् । ह॒विषा॑ । वर्ध॑न्तः ॥
नरः नेतारः ये के च ये केचित् पुत्रपौत्रादयः अस्मत् अस्माकं सन्ति । आकारः पूरकः । ते पुत्रपौत्रादयः वामे वननीये संभजनीये विश्वेत् विश्वस्मिन्नेव पश्वादिधने आ स्युः आ समन्ताद्भवेयुः । उपविशेयुरित्याशास्महे । किं कुर्वन्तः । अग्निम् अङ्गनादिगुणविशिष्टं देवं हविषा पुरोडाशादिकेन वर्धन्तः वर्धयन्तः ॥
“May all the men who belong to us be (gratified) in all that is desirable, augmenting Agni with oblationṣ”
Blest evermore be all the men who come from us, who magnify
Agni with sacrificial gifts.
Whichever superior men are from among us, they should all be “in the money”
when they make Agni increase with their oblation.
Alle Männer von den unsern mögen sämmtlich Glück erlangen, Die mit Opfer Agni stärken.
Alle Männer , die zu uns gehören, die sollen alle im Glück sein, da sie den Agni mit Opfergabe groß machen.
Какие бы мужи от нас ни (исходили),
Все они будут счастливы,
Укрепляя Агни возлиянием.
कृ॒ष्णः श्वे॒तो॑ऽरु॒षो यामो॑ अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश॑स्वान् । हिर॑ण्यरूपं॒ जनि॑ता जजान ॥
कृ॒ष्णः । श्वे॒तः । अ॒रु॒षः । यामः॑ । अ॒स्य॒ । ब्र॒ध्नः । ऋ॒ज्रः । उ॒त । शोणः॑ । यश॑स्वान् । हिर॑ण्यऽरूपम् । जनि॑ता । ज॒जा॒न॒ ॥
अत्र यच्छब्दमध्याहृत्य योज्यम् । यामः । याति गच्छत्यस्मिन्निति यामो रथः प्रजापतिना निर्मितः । कीदृशः । कृष्णः असितवर्णः श्वेतः सितवर्णः अरुषः आरोचमानः ब्रध्नः महान् ऋज्रः ऋजुगामी उत अपि च शोणः रक्तवर्णः यशस्वान् कीर्तिमान् । यद्वा । यश इति धननाम् । हविर्लक्षणेन धनेन युक्तः। हिरण्यरूपं सुवर्णसदृशं तं रथम् अस्य अग्नेरर्थाय जनिता सर्वस्य जगतो जनयिता प्रजापतिः जजान जनयामास । अस्मै दत्तवानित्यर्थः । कथमेकस्यैव रथस्य कृष्णादिनानारूपत्वं संभवतीति चेत् अग्नेः सामर्थ्यातिशयेन संभवतीत्यर्थः । यद्वा । हिरण्यरूपमिति रथवाचिना शब्देन सह सामानाधिकरण्यात् कृष्णादिशब्दा द्वितीयान्तत्वेन योज्याः । अत्र सर्वगुणोक्तरथवत्तयाग्निः स्तूयत इत्यर्थः ॥
“His chariot is black, white, red, tawny, dark red, crimson, and glorious; the progenitor of all has givenhim a chariot of gold.”
The path he treads is black and white and red, and striped, and brown, crimson, and glorious.
His sire begat him bright with hues of gold.
Black, white, and red is his course; coppery, silver, and ruddy is glorious (Agni).
The begetter has begotten him of golden form.
Schwarz, weiss und roth ist seine Bahn; flammenfarbig, licht und braun ist der herrliche; als einen goldfarbenen hat ihn der Erzeuger erzeugt.
Schwarz, weiß, rot ist seine Bahn; rotbraun, schimmelfarben und rot ist der Geehrte. Goldfarbig hat ihn der Erzeuger erzeugt.
Черный, белый, красный его путь.
Блистательный (бывает) желто-красным, красноватым и ярко-красным.
Родитель породил (его) золотистого цвета.
ए॒वा ते॑ अग्ने विम॒दो म॑नी॒षामूर्जो॑ नपाद॒मृते॑भिः स॒जोषा॑: । गिर॒ आ व॑क्षत्सुम॒तीरि॑या॒न इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभा॑: ॥
ए॒व । ते॒ । अ॒ग्ने॒ । वि॒ऽम॒दः । म॒नी॒षाम् । ऊर्जः॑ । न॒पा॒त् । अ॒मृते॑भिः । स॒ऽजोषाः॑ । गिरः॑ । आ । व॒क्ष॒त् । सु॒ऽम॒तीः॑ । इ॒या॒नः । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । विश्व॑म् । आ । अ॒भा॒रित्य॑भाः ॥
एवमुक्तप्रकारेण हे ऊर्जो नपात् ओषधिवनस्पतिपितृभूतस्यान्नस्य पौत्र हे अग्ने अमृतेभिः अमृतैर्हविर्लक्षणैरन्नैः सजोषाः संगतः विमदः नामर्षिः मनीषां प्रकृष्टां बुद्धिं कामयमानः सन् ते तुभ्यं गिरः स्तुतिलक्षणा वाचः आ वक्षत् आभिमुख्येनोक्तवान् । वक्तेश्छन्दसि लेटि रूपम् । ततस्त्वमेतज्ज्ञात्वा सुमतीरियानः शोभनलक्षणा बुद्धीः संगमयन इषम् अन्नम् ऊर्ज़ं क्षीरादिकं रसं च सुक्षितिं शोभननिवासम् । यद्वा । क्षितयो मनुष्याः । शोभनपुत्रपौत्रादिकं यत्किंचित् देयमस्ति तत् विश्वं धनं च आभाः तस्मै विमदायाहर देहि ॥ ॥ ३ ॥
“Grandson of strength, Agni, who are gratified by the ambrosial (Viands), Vimada, (desirous of) wisdom,has recited your praises; do you, approaching with a kind intention, bestow upon us food, strength, and aprosperous abode.”
Thus with his thoughts, O Son of Strength, O Agni, hath Vimada, accordant with the Immortals,
Offered thee hymns, soliciting thy favour. Thou hast brought all food, strength, a prosperous dwelling.
In just this way, o Agni, child of nourishment, Vimada, in company with the immortals, will convey to you his inspired thought
and his songs, as he implores your good favors. Refreshment,
nourishment, a good dwelling—all that have you brought.
So hat dir, o Agni, Vimada Anbetung und Lieder dargebracht, o Sohn der Stärke, vereint mit den Unsterblichen, dein Wohlwollen erflehend; du hast Trank und Speise, sichre Wohnung, alles ihm gebracht.
Also hat dir, Agni, Kind der Kraft, zusammen mit den Unsterblichen Vimada ein Gedicht, eine Lobrede dargebracht, um Wohlwollen bittend. Labung, Nahrung, guten Wohnsitz, alles hast du ihm gebracht.
Так тебе, о Агни, Вимада исполнил произведение,
О потомок питательной силы, согласный с бессмертными,
(И) хвалебные песни, прося о милостях.
Жертвенную усладу, питательную силу, хорошее жилье - все ты принес (ему).