कुह॑ श्रु॒त इन्द्र॒: कस्मि॑न्न॒द्य जने॑ मि॒त्रो न श्रू॑यते । ऋषी॑णां वा॒ यः क्षये॒ गुहा॑ वा॒ चर्कृ॑षे गि॒रा ॥
कुह॑ । श्रु॒तः । इन्द्रः॑ । कस्मि॑न् । अ॒द्य । जने॑ । मि॒त्रः । न । श्रू॒य॒ते॒ । ऋषी॑णाम् । वा॒ । यः । क्षये॑ । गुहा॑ । वा॒ । चर्कृ॑षे । गि॒रा ॥
अद्य अस्मिन् दिने इन्द्रः कुह कुत्र स्थाने श्रुतः विश्रुतः प्रख्यातः । कस्मिन् जने यजमान इज्यत्वेन स्तुत्यत्वेनावस्थितः श्रूयते प्रख्यायते । तत्र दृष्टान्तः । मित्रो न सूर्य इव सखेव वा तद्वत् । यः इन्द्रः ऋषीणां भृग्वादीनां क्षये निवास आश्रमे गुहा वा गुहायामरण्ये वा गिरा स्तुतिलक्षणया वाचा चर्कृषे अत्यर्थमाकृष्यते । अत्यर्थं स्तूयत इत्यर्थः । स इन्द्रः कुह श्रुत इति पूर्वेण संबन्धः ॥
“In what plural ce today is Indra renowned? In what nation is he famed like Mitra? (Indra), who isworshipper; or in secret = or, in the forest].”
WHERE is famed Indra heard of? With what folk is he renowned to-day as Mitra is,-
Who in the home of Rsis and in secret is extolled with song?
Where is Indra famous? Among what people is he famed today like an ally among the people?—
he who, whether in the dwelling place of the seers or in concealment, is constantly celebrated in song.
Wo ist der hehre Indra? und bei welchem Mann lässt er als Freund sich hören heut? Der in der Sänger weitem Sitz und einsam auch besungen wird?
Wo hat man von Indra gehört, bei welchem Volke läßt er heute wie ein Freund von sich hören? Der, ob er im Hause der Rishi´s, ob er verborgen ist, mit Lobrede gerühmt wird.
Где слышно об Индре? Среди какого народа
Сегодня он известен как друг,
(Тот) кто в жилище ли риши
Или втайне прославляется хвалебной песней?
इ॒ह श्रु॒त इन्द्रो॑ अ॒स्मे अ॒द्य स्तवे॑ व॒ज्र्यृची॑षमः । मि॒त्रो न यो जने॒ष्वा यश॑श्च॒क्रे असा॒म्या ॥
इ॒ह । श्रु॒तः । इन्द्रः॑ । अ॒स्मे इति॑ । अ॒द्य । स्तवे॑ । व॒ज्री । ऋची॑षमः । मि॒त्रः । न । यः । जने॑षु । आ । यशः॑ । च॒क्रे । असा॑मि । आ ॥
इह अस्मिन् यज्ञे इन्द्रः श्रुतः प्रख्यातः। अद्य अस्मिन्दिवसे अस्मे अस्माभिः स्तवे स्तूयते । कीदृशः । वज्री वज्रवान् ऋचीषमः । यद्याव इन्द्र ते शतं शतं भूमीरुत स्युः न त्वा वज्रिन्' ( ऋ. सं. ८. ७०. ५) इत्यादिकया स्तुत्या समानगुण इत्यर्थः । यः इन्द्रः मित्रो न सूर्य इव स्निग्ध इव वा जनेषु स्तोतृजनेषु यशः अन्नं कीर्तिं वा चक्रे करोति । कीदृशम् । असामि असाधारणम् । स इन्द्रोऽस्माभिः स्तूयत इति पूर्वेण संबन्धः ॥
“Here is Indra renowned; today he is praised by us, the wielder of the thunderbolt, the deserving ofpraise; he who, like Mitra, bestows upon men unequalled abundance.”
Even here is Indra famed, and among us this day the glorious Thunderer is praised,
He who like Mitra mid the folk hath won complete and full renown.
Here is Indra famed. Among us today he is praised as the wielder of the mace, equal to song—
he who like an ally among the peoples has made glory for himself
among the peoples, not by halves;
Hier ist der hehre Indra, und bei uns wird heut gerühmt der Blitzer hell an Glanz, Der zu den Männern wie ein Freund herbeischafft volle Herrlichkeit,
Hier hat man von Indra gehört, bei uns wird er heute gepriesen, der Keulenträger, der .........., der wie ein Freund bei den Leuten ungeteiltes Ansehen gewonnen hat.
Здесь слышно об Индре. У нас сегодня
Восхваляется громовержец..,
Который как друг среди людей
Создал себе безраздельное величие,
म॒हो यस्पति॒: शव॑सो॒ असा॒म्या म॒हो नृ॒म्णस्य॑ तूतु॒जिः । भ॒र्ता वज्र॑स्य धृ॒ष्णोः पि॒ता पु॒त्रमि॑व प्रि॒यम् ॥
म॒हः । यः । पतिः॑ । शव॑सः । असा॑मि । आ । म॒हः । नृ॒म्णस्य॑ । तू॒तु॒जिः । भ॒र्ता । वज्र॑स्य । धृ॒ष्णोः । पि॒ता । पु॒त्रम्ऽइ॑व । प्रि॒यम् ॥
यः इन्द्रः महः महतः शवसः बलस्य पतिः ईश्वरः असाम्या । आङ् मर्यादायाम् । आ समाप्तेः । अनन्तगुण इत्यर्थः। महः महतः नृम्णस्य धनस्य च तूतजिः स्तोतृभ्यः प्रेरकः । किंच धृष्णोः शत्रूणां धर्षकस्य वज्रस्य स्वकीयस्यायुधस्य भर्ता य इन्द्रो धारयिता । स इन्द्रोऽस्मान् पात्विति शेषः। तत्र दृष्टान्तः । पिता पुत्रमिव प्रियम् । यथा पितेप्सितं सुतं पाति तद्वत् ॥
“(May Indra protect us) who is the lord of great strenght, of unequalled (power), the distributor of greatwealth, the cherisher of the dreadful thunderbolt as a father (cherishes) a dear son.”
He who is Sovran Lord of great and perfect strength, exerter of heroic might,
Who bears the fearless thunder as a father bears his darling son.
He who is the lord of great strength, not by halves, and of great
manliness, the thruster,
the bearer of the bold mace, like a father (of) his dear son.
Er, der ein Herr ist grosser Macht in vollem Glanz, Erreger grosser Manneskraft, Der Träger kühnen Donnerkeils, der wie ein Vater liebt den Sohn.
Der der Herr großer Kraft ist, ganz ungeteilt, der der Erreger großen Mannesmuts ist, der die kühne Keule trägt wie der Vater seinen lieben Sohn.
Кто безраздельный повелитель великой силы,
Возбудитель великого мужества,
Кто несет отважную дубину грома,
Как отец любимого сына.
यु॒जा॒नो अश्वा॒ वात॑स्य॒ धुनी॑ दे॒वो दे॒वस्य॑ वज्रिवः । स्यन्ता॑ प॒था वि॒रुक्म॑ता सृजा॒नः स्तो॒ष्यध्व॑नः ॥
यु॒जा॒नः । अश्वा॑ । वात॑स्य । धुनी॒ इति॑ । दे॒वः । दे॒वस्य॑ । व॒ज्रि॒ऽवः॒ । स्यन्ता॑ । प॒था । वि॒रुक्म॑ता । सृ॒जा॒नः । स्तो॒षि॒ । अध्व॑नः ॥
हे वज्रिवः वज्रवन्निन्द्र । एको मत्वर्थीयोऽनुवादकः । देवः द्योतमानस्त्वं देवस्य द्योतमानस्य वातस्य वायोः धुनी प्रेरकौ । वायोरपि शीघ्रगामिनावित्यर्थः। अश्वा अश्वौ त्वदीयौ हरिनामकौ युजानः स्वरथे संयोजयन् । कीदृशौ । विरुक्मता विरोचनवता पथा मार्गेण स्यन्ता स्यन्तौ गच्छन्तौ । अध्वनः युद्धे गमनमार्गान् सृजानः उत्पादयन् स्तोषि सततं स्तूयसे ॥
“Thunderer, you who are divine, yoking your horses which are swifter than the divine wind, and glidingalong the resplendent road, you, opening out the way (to battle), are glorified.”
Harnessing to thy car, as God, two blustering Steeds Of the Wind-God, O Thunderer,
That speed along the shining path, thou making ways art glorified.
As the one having yoked the two boisterous horses of the Wind, as god (having yoked those) of the god, o wielder of the mace,
as the one who streams along the radiant path when set loose along the highways, he is praised.
Der du des Windes ungestüme Rosse schirrst des Gotts, du blitzbewehrter Gott, Hinschiessend auf der lichten Bahn, hineilend rühmst die Wege du.
Wenn du die brausenden Rosse des Vata anspannst, du, der Gott, die des Gottes, o Keulenträger, und auf der erleuchteten Sonnenstraße fährst, so lobe die Rosse, wenn du sie die Wege entlang galoppieren lässest!
Запрягая двух храпящих коней
Ваты, (ты,) бог, (коней) бога, о громовержец,
Мчась сверкающим путем,
Хвали (коней), когда ты (их) пускаешь вскачь по дорогам!
त्वं त्या चि॒द्वात॒स्याश्वागा॑ ऋ॒ज्रा त्मना॒ वह॑ध्यै । ययो॑र्दे॒वो न मर्त्यो॑ य॒न्ता नकि॑र्वि॒दाय्य॑: ॥
त्वम् । त्या । चि॒त् । वात॑स्य । अश्वा॑ । आ । अ॒गाः॒ । ऋ॒ज्रा । त्मना॑ । वह॑ध्यै । ययोः॑ । दे॒वः । न । मर्त्यः॑ । य॒न्ता । नकिः॑ । वि॒दाय्यः॑ ॥
यच्छब्दसंबन्धादुत्तरोऽर्धर्चः पूर्वं व्याख्यायते । ययोः त्वदीययोः यन्ता नियन्ता निवारयिता देवो न देवानां मध्ये कश्चिदपि देवो नास्ति मर्त्यः मनुष्याणां मध्ये कश्चिदपि नास्ति नकिः न कश्चिदपि विदाय्यः वेत्ता । जवस्य बलस्येति वा शेषः । हे इन्द्र त्वं वातस्य वायोर्बलेन जवेन च युक्तौ ऋज्रा ऋजुगामिनौ त्या चित् तावपि अश्वा त्वदीयावश्वौ त्मना आत्मनैव । सारथिनिरपेक्षेणेत्यर्थः । वहध्यै वहनार्थम् । अभिप्रेतदेशप्रापणायेत्यर्थः । आगाः अभिमुख्येन गच्छसि ॥ ॥ ६ ॥
“You have come to these two horses (which have the speed) of the wind, straight-going, for them todraw you of themselves, whom no deity, no mortal is able to restrain; whose fleetness no one comprehends.”
Even to these dark Steeds of Wind thou of thyself hast come to ride,
Of which no driver may be found, none, be he God or mortal man.
You have come to just these two horses of the Wind, the silvery ones, to drive them by yourself,
those for which no god nor mortal can be found as controller.
Du eiltest zu des Windes rothem Rossepaar und nahmst es dir zu deiner Fahrt, Für das kein Lenker je ersteht, kein sterblicher, der Gott allein.
Du bist gekommen, um sogar die bekannten Schimmelrosse des Vata in eigener Person zu fahren, für die weder ein Gott noch ein Sterblicher als Lenker zu finden ist.
Ты пришел, чтобы самому ездить
На тех самых двух светлых конях Ваты,
Для которых ни бог, ни смертный –
Никто не найдется, чтобы править.
अध॒ ग्मन्तो॒शना॑ पृच्छते वां॒ कद॑र्था न॒ आ गृ॒हम् । आ ज॑ग्मथुः परा॒काद्दि॒वश्च॒ ग्मश्च॒ मर्त्य॑म् ॥
अध॑ । ग्मन्ता॑ । उ॒शना॑ । पृ॒च्छ॒ते॒ । वा॒म् । कत्ऽअ॑र्था । नः॒ । आ । गृ॒हम् । आ । ज॒ग्म॒थुः॒ । प॒रा॒कात् । दि॒वः । च॒ । ग्मः । च॒ । मर्त्य॑म् ॥
अध अथ यज्ञसमाप्त्यनन्तरम् उशना भार्गव ऋषिः हे इन्द्राग्नी ग्मन्ता स्वस्थानं प्रति गच्छन्तौ वां युवां पृच्छते पृच्छति स्म । यद्वा । उशनेति विभक्तिव्यत्ययः। उशनसमिन्द्रस्य सखिभूतं भार्गवमिन्द्रं च युवां सर्वो यजमानः पृच्छति । किं पृष्टवानिति उच्यते । युवां कदर्था कदर्थौ किंप्रयोजनवन्तौ सन्तौ नः अस्मदीयम् । आकारः प्रतीत्यस्यार्थे । गृहं प्रति पराकात् । दूरनामैतत् । दूरात् आ जग्मथुः आगतवन्तौ स्थः । तदेवोक्तम् । दिवश्च द्युलोकाच्च ग्मश्च भूलोकाच्च मर्त्यं मनुष्यं मां प्रत्यागतवन्तौ । युवयोः कृतार्थत्वादत्रागमनमस्मदनुग्रहार्थमेव न स्वार्थमिति ब्रुवन्ननुव्रजतीत्यर्थः ॥
“Uśanas inquires of youu two as you pass, "(Why) have you come to (our dwelling) from a distance;from heaven and earth to a mortal?"”
When ye approach, men ask you, thee and Usana: Why come ye to our dwelling-place?
Why are ye come to mortal man from distant realms of eapth and heaven?
Then Uśanā asks you both [=Indra and Kutsa] on your coming, “With what purpose (have you come) to our house?
You have come from afar, from heaven and earth, to a mortal.”
Da fragt man eifrig euch die beiden eilenden: Was heischend kommt ihr uns ins Haus? Von ferne kamt zum Sterblichen vom Himmel, von der Erde ihr.
Als ihr beide ankamt, da fragt euch Usanas: "Mit welchem Anliegen kamt ihr in unser Haus? Ihr seid von fern, vom Himmel und von der Erde zu dem Sterblichen gekommen.
Когда вы двое прибыли, Ушанас спрашивал вас:
Зачем вы (пожаловали) в наш дом?
Вы прибыли издалека:
С неба и с земли – к смертному.
आ न॑ इन्द्र पृक्षसे॒ऽस्माकं॒ ब्रह्मोद्य॑तम् । तत्त्वा॑ याचाम॒हेऽव॒: शुष्णं॒ यद्धन्नमा॑नुषम् ॥
आ । नः॒ । इ॒न्द्र॒ । पृ॒क्ष॒से॒ । अ॒स्माक॑म् । ब्रह्म॑ । उत्ऽय॑तम् । तत् । त्वा॒ । या॒चा॒म॒हे॒ । अवः॑ । शुष्ण॑म् । यत् । हन् । अमा॑नुषम् ॥
हे इन्द्र त्वम् । न इति तृतीयार्थे षष्ठी । नः अस्माभिः उद्यतम् उत्क्षिप्तम् । दत्तमित्यर्थः । अस्माकम् अस्मदीयं ब्रह्म हविर्लक्षणमन्नम् । आङ् मर्यादायाम् । आ तृप्तेरित्यर्थः । पृक्षसे आत्मना संपर्चय । ‘पृची संपर्के' इति धातो रूपम् । आभक्षयेत्यर्थः । किंच वयमपि त्वा एवंभूतं त्वां तत्। यदुत्कृष्टमस्तीति शेषः । तत्तादृशमन्नम् अवः तद्रक्षणं च याचामहे प्रार्थयामहे । तथा यत् शुष्णं बलम् अमानुषं मनुष्यादन्यं राक्षसादिकं हन् हन्ति तदुत्कृष्टं बलं च याचामहे । यद्वा । हे इन्द्र त्वं शुष्णमेतन्नामानममानुषं मनुष्यव्यतिरिक्तमसुरं हन् हतवानसि । हत्वा च यद्येन रक्षणेन त्रैलोक्यं पालितवानसि तदवः पालनमस्माकमपि भवेदिति त्वां याचामह इति वाक्यार्थः ॥
“Accept, Indra, the oblation upraised by us; we solicit of you that protection by which you did slay thenon-human Suṣṇa.”
O Indra, thou shalt speak us fair: our holy prayer is offered up.
We pray to thee for help as thou didst strike the monster Susna dead.
You will ask for us, for our upraised sacred formulation, Indra.
We (in return) beg you for this help, that you smite Śuṣṇa, the non-man.
Erfülle, Indra, das Gebet, das wir zu dir empor gelenkt, Die Gunst erbitten wir von dir, dass du den Unhold Çuschna schlägst.
Du mögest nach uns fragen, Indra, nach der von uns angehobenen Beschwörung. Um diese Gunst bitten wir dich, daß du den Susna erschlagest, den Unmenschen.
Если бы ты, Индра, спросил о нас,
О воссылаемой нами молитве!
Мы просим тебя о такой помощи,
Чтобы ты убил Шушну-нечеловека!
अ॒क॒र्मा दस्यु॑र॒भि नो॑ अम॒न्तुर॒न्यव्र॑तो॒ अमा॑नुषः । त्वं तस्या॑मित्रह॒न्वध॑र्दा॒सस्य॑ दम्भय ॥
अ॒क॒र्मा । दसुः॑ । अ॒भि । नः॒ । अ॒म॒न्तुः । अ॒न्यऽव्र॑तः । अमा॑नुषः । त्वम् । तस्य॑ । अ॒मि॒त्र॒ऽह॒न् । वधः॑ । दा॒सस्य॑ । द॒म्भ॒य॒ ॥
अकर्मा अविद्यमानयागादिकर्मा दस्युः उपक्षपयिता अभि आभिमुख्येन स्वरूपतः नः अस्मान् अमन्तुः अज्ञाता । यद्वा । अत्र अवेत्युपसर्गस्य वकारलोपो द्रष्टव्यः । अवमन्तुरवमन्ताभिभविता । अन्यव्रतः श्रुतिस्मृतिव्यतिरिक्तकर्मा अमानुषः मनुष्यसंव्यवहाराद्बाह्यः । असुरप्रकृतिरित्यर्थः । य एवंभूतोऽस्ति हे अमित्रहन् शत्रूणां हन्तरिन्द्र त्वं दासस्य उपक्षपयितव्यस्य वधः हन्ता सन् दम्भय तं शत्रुं हिन्धि ॥
“The Dasyu practising no religious rites, not knowing as thoroughly, following other observances,obeying no human laws, baffle, destroyer of enemies, the weapon of that slave.”
Around us is the Dasyu, riteless, void of sense, inhuman, keeping alien laws.
Baffle, thou Slayer of the foe, the weapon which this Dasa wields.
The Dasyu of non-deeds, of non-thought, the non-man whose
commandments are other, is against us.
You smasher of non-allies, humble the weapon of this Dāsa.
Uns widerstrebt der Dämon schlimm an That und Sinn der Unhold, welcher andern dient, Vereitle dieses Bösen Hieb, du, der die Feinde du erschlägst.
Der Dasyu bedrängt uns, der kein frommes Werk tut, keine heiligen Gedanken hat, andere Gebote befolgt, der Unmensch. Überliste, du Feindetöter, die Waffe dieses Dasa!
Не совершающий обрядов дасью нас у(гнетает), неразумный,
Верный другим обетам, нечеловек.
Ты, о убийца недругов, уничтожь
Смертельное оружие этого дасы!
त्वं न॑ इन्द्र शूर॒ शूरै॑रु॒त त्वोता॑सो ब॒र्हणा॑ । पु॒रु॒त्रा ते॒ वि पू॒र्तयो॒ नव॑न्त क्षो॒णयो॑ यथा ॥
त्वम् । नः॒ । इ॒न्द्र॒ । शू॒र॒ । शूरैः॑ । उ॒त । त्वाऽऊ॑तासः । ब॒र्हना॑ । पु॒रु॒ऽत्रा । ते॒ । वि । पू॒र्तयः॑ । नव॑न्त । क्षो॒णयः॑ । य॒था॒ ॥
हे शूर विक्रान्त इन्द्र त्वं शूरैः भटैः मरुद्भिः सहितः सन् नः अस्मान् पाहीति शेषः । उत अपि च त्वोतासः त्वया रक्षिता वयं बर्हणा परिबर्हणायां शत्रूणां हिंसायां समर्था भवेम॥ किंच ते त्वदीयाः पूर्तयः कामानां पूरणानीप्सितार्थप्रदानानि पुरुत्रा बहून् स्तोतॄन् वि नवन्त विविधं व्याप्नुवन्ति । क्षोणयः । मनुष्यनामैतत् । मनुष्याः स्वकीयं स्वामिनं सेवार्थं यथा व्याप्नुवन्ति तद्वत् ॥
“Hero, Indra, withh the hero (Maruts defend) us; that protected by you (we may be able) to overcome(our enemies); your blessings are diffused among many (praisers), as men (repair to their lord).”
Hero with Heroes, thou art ours: yea, strong are they whom thou dost help.
In many a place are thy full gifts, and men, like vassals, sing thy praise.
(Be there) for us, Indra, o champion, with champions, and (let us be) aided by you, by your power.
In many places offerings bellow to you in competition like battle cries.
Durch unsre Starken bist du stark, und wir durch dich geschützt mit Macht; Von dir gehn Gaben allerwärts, die reichlichen, wie Ströme aus.
Du sollst uns, tapferer Indra, mit deinen Tapferen helfen, und von dir unterstützt mit Zuversicht - Vielerorts brüllen deine Schenkungen wie die Gefolgsleute.
Ты нас, о Индра-герой, героями (поддержи),
И мощно поддержанные тобой, (мы победим).
Во многих местах твои щедрые дары
Ревут, как дружины.
त्वं तान्वृ॑त्र॒हत्ये॑ चोदयो॒ नॄन्का॑र्पा॒णे शू॑र वज्रिवः । गुहा॒ यदी॑ कवी॒नां वि॒शां नक्ष॑त्रशवसाम् ॥
त्वम् । तान् । वृ॒त्र॒ऽहत्ये॑ । चो॒दय॒ः॒ । नॄन् । का॒र्पा॒णे । शू॒र॒ । व॒ज्रि॒ऽवः॒ । गुहा॑ । यदि॑ । क॒वी॒नाम् । वि॒शाम् । नक्ष॑त्रऽशवसाम् ॥
हे वज्रिवः वज्रधर शूर इन्द्र त्वं कार्पाणे । असिः कृपाणः । तेन साध्यं युद्धं कार्पाणम् । तस्मिन् वृत्रहत्ये शत्रुहननार्थं नॄन् नरान् तान् प्रसिद्धान् मरुद्गणान् चोदयः चोदयसि प्रेरयसि । यदि यदा त्वं कवीनां मेधाविनां नक्षत्रशवसां देवान् प्रतिगच्छत्स्तोतृबलानां विशां स्तोतृजनानां संबन्धीनि गुहा गूढानि गुणैः संवृतानि स्तोत्राणि शृणोषीति शेषः । तदा प्रेरयसीति पूर्वेणान्वयः॥ ॥७॥
“Hero, Indra, wielder of the thunderbolt, you have animated those chiefs (the Maruts) to the slaughterof Vṛtra in battle, when (you hear) the mystical (praises) of the sages, the worshippers praising the might of theconstellations.”
Urge thou these heroes on to slay the enemy, brave Thunderer! in the fight with swords.
Even when hid among the tribes of Sages numerous as stars.
You incited these excellent men at the obstacle-smiting for the
Karpan [?], you mace-wielding champion,
when (you found?) him [=Śuṣṇa] in hiding—the sage poets (being
there), (profiting from) the strength of your lordly power, like
the clans.
O feure, blitzbewehrter Held, die Männer an in Feindesschlacht, im Schwerterkampf, Da du der Sänger Hüter bist, der Menschen, Sternen gleich an Zahl.
Du sollst diese Männer in dem Vritrakampf anfeuern, im Schwertkampf, o tapferer Keulenträger, wenn du vor den Sehern verborgen bleibst wie der Clanherr vor den Clanleuten, auf denen die Macht der Herrschaft beruht.
Ты этих мужей возбуди для убийства врагов,
Для сражения мечами, о герой, наделенный дубиной грома,
Если ты тайно принадлежишь провидцам,
Как людям, сильным властью.
म॒क्षू ता त॑ इन्द्र दा॒नाप्न॑स आक्षा॒णे शू॑र वज्रिवः । यद्ध॒ शुष्ण॑स्य द॒म्भयो॑ जा॒तं विश्वं॑ स॒याव॑भिः ॥
म॒क्षु । ता । ते॒ । इ॒न्द्र॒ । दा॒नऽअ॑प्न॑सः । आ॒क्षा॒णे । शू॒र॒ । व॒ज्रि॒ऽवः॒ । यत् । ह॒ । शुष्ण॑स्य । द॒म्भयः॑ । जा॒तम् । विश्व॑म् । स॒याव॑ऽभिः ॥
हे शूर विक्रान्त वज्रिवः वज्रोपेत इन्द्र दानाप्नसः दानकर्मणः । स्तोतृभ्यः सततमभीष्टफलप्रदस्येत्यर्थः। ते तव स्वभूतानि मक्षु क्षिप्राणि अविलम्बितानि । क्षिप्रकरणयुक्तानीत्यर्थः । आक्षाणे योद्धृभिर्व्याप्यमाने त्वय्यवस्थितानि ता तानि कर्माणि स्तोतारः स्तुवन्तीति शेषः । सयावभिः सहयातृभिर्मरुद्भिः सहितस्त्वं शुष्णस्य असुरस्य विश्वं जातं सर्वमपत्यजातं दम्भयः अदम्भयः । हिंसितवानसि । यद्वा । एवमादीनि यानि खलु कर्माणि सन्ति तानि स्तुवन्तीति पूर्वेण संबन्धः ॥
“Hero, Indra, (your worshippers glorify) those prompt exploits performed by you in battle, (by you whoare) ever bountiful, when with your associate (Maruts) you destroyed the whole race o Śuṣṇa.”
Swift come those gifts of thine whose hand is prompt to rend and burn, O Hero Thunder-armed:
As thou with thy Companions didst destroy the whole of SuSnia's brood.
Right away these things (became) yours, Indra, on gaining control over (his) property for giving, you mace-wielding champion,
when with your fellow travelers you humbled everything born of Śuṣṇa.
Schnell ward vollbracht dein Werk, du reichlichgebender, o Indra, blitzbewehrter Held, Als du des Çuschna ganze Brut, mit den Genossen niederschlugst.
Bald wir dir, Indra, der du freigebig lohnest, im Kampf um Achse und Achsnagel das gelingen, tapferer Keulenträger, daß du des Susna ganzes Geschlecht mit deinen Gefährten überlistest.
Быстро (получится) у тебя, богатого дарами, о Индра,
О герой, наделенный дубиной грома, в битве за ось и чеку (колесницы) то,
Что ты перехитришь весь род
Шушны со (своими) спутниками.
माकु॒ध्र्य॑गिन्द्र शूर॒ वस्वी॑र॒स्मे भू॑वन्न॒भिष्ट॑यः । व॒यंव॑यं त आसां सु॒म्ने स्या॑म वज्रिवः ॥
मा । अ॒कु॒ध्र्य॑क् । इ॒न्द्र॒ । शू॒र॒ । वस्वीः॑ । अ॒स्मे इति॑ । भू॒व॒न् । अ॒भिष्ट॑यः । व॒यम्ऽव॑यम् । ते॒ । आ॒सा॒म् । सु॒म्ने । स्या॒म॒ । व॒ज्रि॒ऽवः॒ ॥
हे शूर विक्रान्त इन्द्र अस्मे अस्माकं स्वभूताः वस्वीः महत्यः अभिष्टयः आभिमुख्येष्टय इज्याः । यद्वा । आभिमुख्येच्छा अभीप्सितप्रार्थनाः । कुध्र्यक् कुत्सिताः । विफला इत्यर्थः । मा भूवन्। किं तर्हि हे वज्रिवः वज्रिन्निन्द्र ते तव प्रसादात् वयंवयम् ऋत्विग्यजमानाः। द्विर्वचनमतित्वराप्रदर्शनार्थम् । आसाम् इज्यानामिच्छानां वा संबन्धिनि सुम्ने सुखे अवस्थिताः स्याम भवेम । वयमभिष्टिजन्येन दृष्टादृष्टसुखेन युक्ताः शीघ्रं भवेमेत्याशास्मह इत्यर्थः ॥
“Hero, Indra, let not our manifold sacrifices be unavailing, but may we all, thunderer, (through) your(favour) continue in the fruiton of these (our desires).”
Let not thine excellent assistance come to us, O Hero Indra, profitless.
May we, may we enjoy the bliss of these thy favours, Thunderer!
Let your good superior powers not go nowhere for us, champion Indra. May each one of us be in the favor of these (powers) of yours,
mace-wielder.
Es mögen, Indra, deine guten Hülfen nie bei uns vergeblich sein, o Held; Wir, wir, o Blitzer, seien stets in dieser deiner Hülfen Gunst.
Nicht soll, tapferer Indra, die gute Übermacht an den falschen Ort kommen; bei uns soll sie sein! Immer nur wir wollen in der Gunst dieser deiner Übermacht stehen, o Keulenträger.
Да не пропадут бессмысленно, о Индра-герой, (твои) благие
Поощрения! Да будут они у нас!
Только мы пусть будем
У них в милости, о громовержец!
अ॒स्मे ता त॑ इन्द्र सन्तु स॒त्याहिं॑सन्तीरुप॒स्पृश॑: । वि॒द्याम॒ यासां॒ भुजो॑ धेनू॒नां न व॑ज्रिवः ॥
अ॒स्मे इति॑ । ता । ते॒ । इ॒न्द्र॒ । स॒न्तु॒ । स॒त्या । अहिं॑सन्तीः । उ॒प॒ऽस्पृषः॑ । वि॒द्याम॑ । यासा॑म् । भुजः॑ । धे॒नू॒नाम् । न । व॒ज्रि॒ऽवः॒ ॥
हे इन्द्र अस्मे अस्माकं स्वभूताः । ता सत्या इत्युभयत्र प्रथमाबहुवचनस्य छान्दस आकारः सन्त्विति निर्देशविशेषणत्वात् । ता तास्तादृश्यः उपस्पृशः। त्वामुपगम्य स्पृशन्तीत्युपस्पृशः स्तुतयः। ते तव प्रसादात् सत्या सत्याः सन्तु यथार्था भवन्तु । तव सद्गुणग्राहिण्य इत्यर्थः। अपि च अहिंसन्तीः त्वामहिंसत्यश्च भवन्तु । सत्स्तुतित्वादनुद्वेजयन्त्यश्च भवन्त्वित्यर्थः। हे वज्रिवः इन्द्र यासां स्तुतीनां संबन्धिनः भुजः दृष्टादृष्टान् भोगान् विद्याम वयं लभेमहि । तत्र दृष्टान्तः । धेनूनां न । गवां क्षीरादिभोगान् यथा गोस्वामी लभते तद्वत् । ताः सत्या भवन्त्विति पूर्वेणान्वयः॥
“May these our (praises) reaching you, Indra, be successful, doing no detriment (to you), so that,thunderer, we may obtain the benefits derivable from them, as (a cowherd enjoys those) from the kine.”
May those soft impulses of thine, O Indra, be fruitful and innocent to us.
May we know these whose treasures are like those of milch-kine, Thunderer!
For us let these (gifts?) of yours (become) real. They bring no injury— your caresses,
whose benefits, like those of milk-cows, we would know, mace-wielder.
Lass, Indra, diese Hülfen bei uns wirksam sein; uns heilsam, nicht verletzend uns; Uns werde ihr Genuss zu Theil wie Milch der Kühe, Blitzender!
An uns soll sich das von dir, Indra, bewahrheiten: nicht schädigend sind deine Handreichungen, deren Nutznießung wir kennen lernen möchten wie die der Milchkühe, o Keulenträger.
У нас пусть сбудутся эти твои истины, о Индра:
Соприкосновение (с тобой) не приносят вреда,
(Те,) пользу от которых мы хотели бы узнать,
Как от дойных коров, о (бог) наделенной дубиной грома!
अ॒ह॒स्ता यद॒पदी॒ वर्ध॑त॒ क्षाः शची॑भिर्वे॒द्याना॑म् । शुष्णं॒ परि॑ प्रदक्षि॒णिद्वि॒श्वाय॑वे॒ नि शि॑श्नथः ॥
अ॒ह॒स्ता । यत् । अ॒पदी॑ । वर्ध॑त । क्षाः । शची॑भिः । वे॒द्याना॑म् । शुष्ण॑म् । परि॑ । प्र॒ऽद॒क्षि॒णित् । वि॒श्वऽआ॑यवे । नि । शि॒श्न॒थः॒ ॥
हे इन्द्र यत् यदा क्षाः भूमिः अहस्ता पाणिरहिता अपदी चरणवर्जिता च । अमनुष्यकर्मकेत्यर्थः। वेद्यानां स्तोत्रयोग्यानां त्वत्प्रभृतीनां देवानां संबन्धिभिः शचीभिः कर्मभिः वर्धत अवर्धत । धनधान्यादिभिः समृद्धेत्यर्थः। तदा त्वं परि प्रदक्षिणित् एवंभूतां पृथिवीं परिवेष्ट्य प्रदक्षिणं यथा भवति तथा स्थितं शुष्णम् असुरं विश्वायवे । तादर्थ्ये चतुर्थी । सर्वत्राप्रतिहतगामिन एतदाख्यस्यौर्वशेयराज्ञोऽर्थाय नि शिश्नथः नितरां ताडितवानसि । यद्वा । यदा शुष्णस्याच्छादनार्थं हस्तपादवर्जिता काचित्पृथिवी वेदितव्यानामसुराणां मायारूपैः कर्मभिः शुष्णमसुरं परिवेष्ट्य प्रदक्षिणं यथा भवति तथावस्थितावर्धत तदानीं तां मायोत्पादितां पृथिवीं विश्वायवे सर्वव्यापकस्य मरुद्गणस्य प्रवेशनार्थं नि शिश्नथः ॥
“When the earth which has neither hands nor feet flourished throught the acts of (devotion paid to) theadorable (deities), then you did smite down Śuṣṇa, circumambulating it on the right, for the sake of Viśvāyu.”
That Earth, through power of knowing things that may be known, handless and footless yet might thrive,
Thou slewest, turning to the right, gu;na for every living man.
While, handless and footless, the earth grew strong through the powers of her wise ways,
you, circling him with respectful circumambulation [=as if for the
animal sacrifice], jabbed down Śuṣṇa for the whole of life.
Damit die Erde, ob auch ohne Fuss und Hand, erblühe durch der Weisheit Kraft, So schlag den Çuschna du hinab zur rechten Hand zu aller Heil.
Wenn die handlose, fußlose Erde kraft ihres Einverständnisses größer wird, dann umgeh von rechts den Susna und stoße ihn für alle Zeit nieder!
Когда безрукая, безногая Земля вырастет
Благодаря силе (своей) решимости,
Обо(иди) вокруг Шушны справа,
Столкни его на вечные времена!
पिबा॑पि॒बेदि॑न्द्र शूर॒ सोमं॒ मा रि॑षण्यो वसवान॒ वसु॒: सन् । उ॒त त्रा॑यस्व गृण॒तो म॒घोनो॑ म॒हश्च॑ रा॒यो रे॒वत॑स्कृधी नः ॥
पिब॑ऽपिब । इत् । इ॒न्द्र॒ । शू॒र॒ । सोम॑म् । मा । रि॒ष॒ण्यः॒ । व॒स॒वा॒न॒ । वसुः॑ । सन् । उ॒त । त्रा॒य॒स्व॒ । गृ॒ण॒तः । म॒घोनः॑ । म॒हः । च॒ । रा॒यः । रे॒वतः॑ । कृ॒धि॒ । नः॒ ॥
पिबपिब इति वीप्सातित्वराप्रदर्शनार्थम् । हे शूर वीर इन्द्र त्वमभिषुतं सोमं शीघ्रं पिब । यागकालातिपातो यावन्न भवति तावच्छीघ्रं सोमं पिबेत्यर्थः। इत् इति पूरणः । हे वसवान वसूनां धनानामानेतः त्वं वसुः प्रशस्तः सन् मा रिषण्यः यागकालातिक्रमजातेन दोषेणास्मान्मा हिंसीः । प्रशस्तस्य तव कर्मवैगुण्यकरणेन हिंसितुमयुक्तमित्यर्थः । उत अपि च हे इन्द्र त्वं गृणतः त्वां स्तुवतः स्तोतॄन् मघोनः हविर्लक्षणधनवतो यजमानांश्च त्रायस्व प्रमादजनितकर्मवैगुण्यदोषात् पालयस्व । किंच महश्च राय इत्युभयत्र तृतीयार्थे षष्ठी । महः महता रायः धनेन च’ नः अस्मान् रेवतः कृधि धनवतः कुरु ॥ ॥ ८ ॥
“Drink, hero Indra, drink the Soma; being excellent, harm (us) not, possessor of opulence; preservethose who praise you, and are affluent (in offerings), and render us rich with great riches.”
Drink, drink the Soma, Hero Indra; be not withheld as thou art good, O Treasure-giver.
Preserve the singers and our liberal princes, and make us wealthy with abundant riches.
Drink, drink the soma, hero Indra! Don’t mean (us) harm, goods lord, since you are good.
And protect the singers and the bounteous (patrons), and make us rich from (your?) great wealth.
O trinke, trinke, Indra, Held den Soma, o güterreicher, säume nicht, du guter; beschütze du die Sänger und die Fürsten; und mache du uns reich an grossem Reichthum.
Trink, trink doch, tapferer Indra, den Soma; versieh dich nicht, du Begüterter, der du gütig bist! Schütze auch die Sänger und die freigebigen Gönner, und mach uns reich an großem Reichtum!
Пей же, пей, о Индра-герой, сому!
Не промахнись, о носитель добра, тот кто добр!
Защити также воспевающих (тебя и) щедрых покровителей!
Сделай нас богатыми огромным богатством!