यजा॑मह॒ इन्द्रं॒ वज्र॑दक्षिणं॒ हरी॑णां र॒थ्यं१॒॑ विव्र॑तानाम् । प्र श्मश्रु॒ दोधु॑वदू॒र्ध्वथा॑ भू॒द्वि सेना॑भि॒र्दय॑मानो॒ वि राध॑सा ॥
यजा॑महे । इन्द्र॑म् । वज्र॑ऽदक्षिणम् । हरी॑नाम् । र॒थ्य॑म् । विऽव्र॑तानाम् । प्र । श्मश्रु॑ । दोधु॑वत् । ऊ॒र्ध्वऽथा॑ । भू॒त् । वि । सेना॑भिः । दय॑मानः । वि । राध॑सा ॥
वयम् इन्द्रं यजामहे सोमलक्षणैर्हविर्भिः पूजयामः । कीदृशम् । वज्रदक्षिणं शत्रुवधाय सततं वज्रो दक्षिणे हस्ते यस्य तं विव्रतानां रथवहनादिविविधकर्मणां हरीणाम् एतत्संज्ञकानामश्वानां रथ्यम् आनेतारम् । स इन्द्रः सोमपानानन्तरं श्मश्रु स्वकीयानि श्मश्रूणि दोधुवत् पुनःपुनः धुन्वानः सन् ऊर्ध्वथा ऊर्ध्वं प्र भूत् प्रादुरभूत् । किंच सेनाभिः मरुदादिस्वकीयैः सैन्यैः वि दयमानः विविधं शत्रून् हिंसन् 'राधसा । द्वितीयार्थे तृतीया। राधो धनम्। वीत्युपसर्ग श्रुतेर्योग्यक्रियाध्याहारः । विविधं स्तोतृभ्यो ददाति ॥
“We worship Indra, being in his right hand the thunderbolt, the driver of the bay horses which havemany functions; shaking his beard, he mounts on high, destroying (his enemies) by his armies he gives wealth (tohis worshippers).”
INDRA, whose right hand wields the bolt, we worship, driver of Bay Steeds seeking sundered courses.
Shaking his beard with might he hath arisen, casting his weapons forth and dealing bounties.
We sacrifice to Indra with the mace in his right hand, the charioteer of the fallow bays who follow separate commandments.
He stands erect, constantly shaking out his beard, while apportioning (goods) by virtue of his weapons, by virtue of his generosity.
Dem blitzbewehrten Indra bringen Opfer wir, der seine goldnen widerspänst'gen Rosse lenkt, Den Schnurrbart schüttelnd steht er aufgerichtet da, Geschosse schleudernd und vertheilend reiches Gut.
Wir verehren Indra, der die Keule mit der Rechten hält, den Lenker der widerspenstigen Falben. Seinen Bart schüttelnd richtet er sich auf; er ist mit seinen Wehren verschwenderisch, mit Geschenken.
Мы почитаем Индру с ваджрой в правой руке,
Колесничего строптивых буланых коней.
Он выпрямился, встряхивая бороду,
Раздавая оружие, раз(давая) почетный дар.
हरी॒ न्व॑स्य॒ या वने॑ वि॒दे वस्विन्द्रो॑ म॒घैर्म॒घवा॑ वृत्र॒हा भु॑वत् । ऋ॒भुर्वाज॑ ऋभु॒क्षाः प॑त्यते॒ शवोऽव॑ क्ष्णौमि॒ दास॑स्य॒ नाम॑ चित् ॥
हरी॒ इति॑ । नु । अ॒स्य॒ । या । वने॑ । वि॒दे । वसु॑ । इन्द्रः॑ । म॒घैः । म॒घऽवा॑ । वृ॒त्र॒ऽहा । भु॒व॒त् । ऋ॒भुः । वाजः॑ । ऋ॒भु॒क्षाः । प॒त्य॒ते॒ । शवः॑ । अव॑ । क्ष्णौ॒मि॒ । दास॑स्य । नाम॑ । चि॒त् ॥
अस्य इन्द्रस्य संबन्धिनौ या यौ हरी अश्वौ वने । वन्यन्ते संभज्यन्तेऽस्मिन् देवा इति वनं यज्ञोऽरण्यं वा । तस्मिन् वसु ऋजीषलक्षणं धनं यवसलक्षणं वा नु क्षिप्रं विदे विन्देते लभेते । यद्वा । यौ हरी अस्येन्द्रस्य वने संभजनार्थं वसु वसुनो लाभाय क्षिप्रं भवत इति शेषः । ताभ्यां हरिभ्यां मघैः धनैः मघवा धनवान् इन्द्रः वृत्रहा वृत्राख्यस्यासुरस्य मेघस्य वा हन्ता भुवत् भवति । अपि च ऋभुः दीप्तः वाजः बलवान् ऋभुक्षाः महानिन्द्रः शवः शवसो बलस्य धनस्य वा पत्यते ईष्टे । यद्वा । शत्रूणां बलं प्रति पत्यते प्रतिपद्यते गच्छति । अहमपि तस्य प्रसादात् दासस्य उपक्षपयितव्यस्य शत्रोः नाम चित् । नम्यतेऽनेनेति नाम शिरः। तदपि अव क्ष्णौमि अव हन्मि । किमुतान्यदङ्गम् । अथवा नामधेयमपि नाशयामि किमुत शत्रुम् ॥
“With his two bay horses which bestow riches at the sacrifice, Indra, wealthy with wealth, is the slayerof Vṛtra; the brilliant, powerful, mighty Indra is the lord of strength; (through him) I cut off the head of the Dāsa.”
The treasure which his Bay Steeds found at sacrifice,-this wealth made opulent Indra slayer of the foe.
Rbhu, Rbhuksan, Vaja-he is Lord of Might. The Dasa's very name I utterly destroy.
His are the two fallow bays and the goods [=soma] to be found in the wood(en cup). Indra, the smiter of Vr̥tra, shall be bounteous with his bounties.
As R̥bhu, Vāja, R̥bhukṣa [=the three R̥bhus] he masters his strength, (saying,) “I whet down even the name of the Dāsa.”
Sein Füchsepaar, das in der Kufe Gut erlangt, der Vritratödter Indra ist an Schätzen reich, Und Ribhu Vadscha und Ribhukschan haben Macht; ich wische das Gedächtniss auch des Bösen weg.
Sein sind die Falben und die Schätze, die im Holze zu finden sind. Indra, der Vritratöter, ward durch seine Gaben der Gabenreiche. Als Ribhu, Vaja, Ribhuksan besitzt er die Kraft, wenn er sagt: Ich schleife sogar den Namen des Dasa ab.
Пара его буланых коней – (это) блага, которые находятся в деревянном (сосуде):
Индра щедрый благодаря щедрым дарам становится убийцей Вритры.
Рибху, Ваджа, Рибхукшан, он повелевает силой (, говоря):
Я стираю само имя дасы!
य॒दा वज्रं॒ हिर॑ण्य॒मिदथा॒ रथं॒ हरी॒ यम॑स्य॒ वह॑तो॒ वि सू॒रिभि॑: । आ ति॑ष्ठति म॒घवा॒ सन॑श्रुत॒ इन्द्रो॒ वाज॑स्य दी॒र्घश्र॑वस॒स्पति॑: ॥
य॒दा । वज्र॑म् । हिर॑ण्यम् । इत् । अथ॑ । रथ॑म् । हरी॒ इति॑ । यम् । अ॒स्य॒ । वह॑तः । वि । सू॒रिऽभिः॑ । आ । ति॒ष्ठ॒ति॒ । म॒घऽवा॑ । सन॑ऽश्रुतः । इन्द्रः॑ । वाज॑स्य । दी॒र्घऽश्र॑वसः । पतिः॑ ॥
यदा इन्द्रः हिरण्यं हितरमणीयं वज्रं स्वकीयमायुधं शत्रुहननाय गृह्णातीति शेषः । इत् इति पूरणः। अथ तदानीम् अस्य इन्द्रस्य हरी अश्वौ यं रथं वहतः गन्तृप्रदेशं विशेषण प्रापयतः मघवा धनवान् इन्द्रः सूरिभिः स्तोतृभिः कुत्सादिभिः सह तं रथम् आ तिष्ठति आरोहति । कीदृशः । सनश्रुतः चिरप्रख्यातः । जगति स्वभावत एव विख्यात इत्यर्थः । दीर्घश्रवसः बहुकीर्तेः वाजस्य अन्नस्य पतिः स्वामी । एवंभूत इन्द्रस्तं रथमारोहतीत्यर्थः ॥
“When he grasps his golden thunderbolt, then the opulent Indra ascends with his praisers, the chariotwhich his two bay horses draw, (Indra) the lord of long-celebrated and widely-renowned food.”
When, with the Princes, Maghavari, famed of old, comes nigh the thunderbolt of gold, and the Controller's car
Which his two Tawny Coursers draw, then Indra is the Sovran Lord of power whose glory spreads afar.
When (he takes?) the golden mace, then he mounts the chariot, which his two fallow bays draw, along with the patrons—
the bounteous one famed of old, Indra, master of the prize of
long(-lasting) fame.
Wenn er den goldnen Blitz ergreift, so steigt er gleich mit Helden auf den Wagen, den die Füchse ziehn, Der reiche Indra, er berühmt von Alters her, er, der Gebieter weitberühmter Labungen.
Wann er die goldene Keule nimmt, dann besteigt er den Wagen, den seine Falben ziehen, von den Opferherren um die Wette gerufen, der gabenreiche, seit alters berühmte Indra, der Herr weitberühmter Siegesbeute.
Когда он (берет в руки) ваджру золотую, то восходит он
На колесницу, которую везет пара его буланых коней,
Вы(зываемый) богатыми покровителями, щедрый, издревле прославленный
Индра, повелитель далекопрославленной награды.
सो चि॒न्नु वृ॒ष्टिर्यू॒थ्या॒३॒॑ स्वा सचाँ॒ इन्द्र॒: श्मश्रू॑णि॒ हरि॑ता॒भि प्रु॑ष्णुते । अव॑ वेति सु॒क्षयं॑ सु॒ते मधूदिद्धू॑नोति॒ वातो॒ यथा॒ वन॑म् ॥
सो इति॑ । चि॒त् । नु । वृ॒ष्टिः । यू॒थ्या॑ । स्वा । सचा॑ । इन्द्रः॑ । श्मश्रू॑णि । हरि॑ता । अ॒भि । प्रु॒ष्णु॒ते॒ । अव॑ । वे॒ति॒ । सु॒ऽक्षय॑म् । सु॒ते । मधु॑ । उत् । इत् । धू॒नो॒ति॒ । वातः॑ । यथा॑ । वन॑म् ॥
तच्छब्दश्रुतेर्यच्छब्दोऽध्याहर्तव्यः । या महती वृष्टिरस्ति सो सा वृष्टिः नु क्षिप्रम् । चित् इत्युपमार्थे। यथा सर्वं सिञ्चति तथा इन्द्रः स्वा स्वानि यूथ्या यूथानि मरुदादिगणलक्षणानि सचा सह स्वानि श्मश्रूणि च हरिता हरिद्वर्णेन सोमेन अभि प्रुष्णुते । ‘प्रुष प्लुष स्नेहनसेचनपूरणेषु' इति धातुः । आभिमुख्येन स्थित्वा क्षिप्रं सिञ्चति । सोमं पाययति पिबति चेत्यर्थः । अपि च सुक्षयं शोभनं यज्ञगृहम् अव वेति अभिगच्छति । गत्वा च सुते सोमे अभिषुते सति मधु मधुररसोपेतं सोमं पीत्वा । मत्तः सन्निति शेषः। उदिद्धूनोति स्वशरीरमुत्कम्पयति । तत्र दृष्टान्तः । वातः वायुः यथा वनं वृक्षसमूहमुत्कम्पयति तद्वत् ॥
“As the rain (bedews all), so, Indra, accompanied by his troops (of the Maruts), sprinkles their beards,with the green (Soma); he repairs to the plural asant chamber (of sacrifice); (the Soma) beign effused, the sweetSoma agitates (his frame), as the breeze (shakes) the forest.”
With him too is this rain of his that comes like herds: Indra throws drops of moisture on his yellow beard.
When the sweet juice is shed he seeks the pleasant place, and stirs the worshipper as wind disturbs the wood.
Even now, as rain he (sprinkles) all things belonging to his herd; Indra sprinkles his tawny beard.
He pursues his track down to the honey having its lovely dwelling in the pressed soma. He tosses (his beard) upward like the wind a tree.
Er kommt, der Held und seine ganze Schar zugleich; den blonden Schnurrbart netzt mit Soma Indra sich, Geniesst das Süss, das reichlich in dem Safte ruht, und schüttelt dann ihn, wie der Wind den Wald bewegt.
Auch dieser Regen ist als sein unzertrennlicher Genosse dabei: Indra begießt seinen goldgelben Bart. Er verlangt nach dem im ausgepreßten Soma wohl hausenden Honig; er schüttelt den Bart wie der Wind den Baum.
Вот этот самый дождь – в то же время собственные принадлежности (его):
Индра забрызгивает (свою) желтоватую бороду.
Он выискивает мед, хорошо размещенный в выжатом (соке).
Он трясет (бородой), словно ветер (качает) дерево.
यो वा॒चा विवा॑चो मृ॒ध्रवा॑चः पु॒रू स॒हस्राशि॑वा ज॒घान॑ । तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसि पि॒तेव॒ यस्तवि॑षीं वावृ॒धे शव॑: ॥
यः । वा॒चा । विऽवा॑चः । मृ॒ध्रऽवा॑चः । पु॒रु । स॒हस्रा॑ । असि॑वा । ज॒घान॑ । तत्ऽत॑त् । इत् । अ॒स्य॒ । पौंस्य॑म् । गृ॒णी॒म॒सि॒ । पि॒ताऽइ॑व । यः । तवि॑षीम् । व॒वृ॒धे । शवः॑ ॥
यः इन्द्रः वाचा वाङ्मात्रेणैव विवाचः विविधवाचः स्वशत्रून् मृधवाचः हिंसितवाचः। कृत्वेति शेषः । पुरु पुरूणि बहूनि अशिवा अशिवान्यसुखकराणि । दुःखकराणीत्यर्थः। सहस्रा शत्रूणां सहस्राणि जघान हन्ति । अपि च यः च इन्द्रः पितेव यथा पिता पुत्रस्य तविषीं
बलमन्नप्रदानैः वर्धयति तथा वृष्टिद्वारेण सर्वस्य जगतः शवः बलं ववृधे वर्धयति अस्य इन्द्रस्य तत्तदित् तत्तदेव पौंस्यं बलं गृणीमसि वयं स्तुमः । इन्द्रो येन येन बलेन शत्रून् हन्ति तस्य तत्तद्बलं वयं स्तुम इत्यर्थः ॥
“We praise his manhood, who, having by his voice alone made the many- tongued speechless has slainmany thousand enemies, who supports the strength (of the world) as a father the strength (of his son).”
We laud and praise his several deeds of valour who, fatherlike, with power hath made us stronger;
Who with his voice slew many thousand wicked ones who spake in varied manners with contemptuous cries.
He who smote with his speech those of disputatious speech, those of insulting speech, and many thousands of the hostile,
this and every (other) masculine deed of his do we sing—he who, like a father (his son), has strengthened his own force and strength.
Der viele tausend unheilvolle Schmäher und Streiter schlug allein durch seine Stimme, Wir preisen diese seine kühne Mannesthat, der wie ein Vater stärket seine Kraft und Macht
Der mit dem bloßen Wort die Widerredenden, die Mißredenden, die vielen tausend Feinde erschlug. Diese und jene Mannestat von ihm besingen wir, der seine Stärke, seine Macht wie der Vater den Sohn großgezogen hat.
Кто (одной только) речью противоречащих, злоречивых,
Много тысяч недругов убил:
Мы воспеваем каждое его мужественное деяние,
(Того,) кто вырастил, как отец (-сына, свою) мощь (и) силу.
स्तोमं॑ त इन्द्र विम॒दा अ॑जीजन॒न्नपू॑र्व्यं पुरु॒तम॑ा सु॒दान॑वे । वि॒द्मा ह्य॑स्य॒ भोज॑नमि॒नस्य॒ यदा प॒शुं न गो॒पाः क॑रामहे ॥
स्तोम॑म् । ते॒ । इ॒न्द्र॒ । वि॒ऽम॒दाः । अ॒जी॒ज॒न॒न् । अपू॑र्व्यम् । पु॒रु॒ऽतम॑म् । सु॒ऽदान॑वे । वि॒द्म । हि । अ॒स्य॒ । भोज॑नम् । इ॒नस्य॑ । यत् । आ । प॒शुम् । न । गो॒पाः । क॒रा॒म॒हे॒ ॥
हे इन्द्र ते तुभ्यं सुदानवे शोभनदानस्यार्थाय विमदाः विमदनामानो वयं स्तोमं स्तोत्रविशेषम् अजीजनन् जनितवन्तः । कृतवन्त इत्यर्थः । अत्र पूर्वोत्तरयोरेकवाक्ययोः पुरुषव्यत्ययः। कीदृशम् । अपूर्व्यम् अपूर्वमन्यैः पूर्वमकृतम्। उत्कृष्टमित्यर्थः । पुरुतमं बहुतमम् । नानाप्रकारोपेतमित्यर्थः । हि यस्मात्कारणात् हे इन्द्र इनस्य ईश्वरस्य अस्य ईदृशस्य तव यत् भोजनं धनमस्तीति विद्म वयं जानीमः तस्मात् कारणात् त्वदीयं तद्धनम् आ करामहे वयमस्मदभिमुखं कुर्महे । तत्र दृष्टान्तः । पशुं न गोपाः । यथा गोपालो धेनुमाह्वयन् स्वस्याभिमुखीं करोति तद्वत् ॥
“We Vimadas, have genitive rated this your unprecedented, and most varied praise, Indra, to obtain yourbounty; as we know what the opulence of that lord is, (therefore) we call it (before us), as a cowherd (calls) hiscattle. attachment, divine (Indra), to be like that of a sister (to a brother) so may the friendship between us and youprosper.”
Indra, the Vimadas have formed for thee a laud, copious, unparalleled, for thee Most Bountiful.
We know the good we gain from him the Mighty One when we attract him as a herdsman calls the kine.
The Vimadas have begotten this praise for you, Indra, (praise)
unprecedented, best of many, for the one of good gifts [/drops],
for we know the feeding of him, which is that of a strong one. May we bring him close like cowherds their livestock.
Dir, Indra, haben Lob die Vimada's erzeugt dem gabenreichen neues und sehr herrliches; Wir kennen seine Freude ja, des mächtigen, drum, wie der Hirt die Heerde, schaffen wir ihn her.
Ein Loblied haben dir, Indra, die Vimada´s fertig gebracht, ein noch nie dagewesenes, das erste unter vielen, dem Freigebigen, denn wir kennen seinen Wohlstand, der der eines Mächtigen ist. Wir möchten ihn hertreiben wie die Hirten das Vieh.
Хвалу породили тебе, о Индра, люди из рода Вимады,
Небывалую, самую обильною, (тебе,) очень щедрому:
Ведь мы знаем отраду этого могучего,
Когда пригоняем его, как пастухи скот.
माकि॑र्न ए॒ना स॒ख्या वि यौ॑षु॒स्तव॑ चेन्द्र विम॒दस्य॑ च॒ ऋषे॑: । वि॒द्मा हि ते॒ प्रम॑तिं देव जामि॒वद॒स्मे ते॑ सन्तु स॒ख्या शि॒वानि॑ ॥
माकिः॑ । नः॒ । ए॒ना । स॒ख्या । वि । यौ॒षुः॒ । तव॑ । च॒ । इ॒न्द्र॒ । वि॒ऽम॒दस्य॑ । च॒ । ऋषेः॑ । वि॒द्म । हि । ते॒ । प्रऽम॑तिम् । दे॒व॒ । जा॒मि॒ऽवत् । अ॒स्मे इति॑ । ते॒ । स॒न्तु॒ । स॒ख्या । शि॒वानि॑ ॥
हे इन्द्र तव च विमदस्य ऋषेः मम च नः । ‘अस्मदो द्वयोश्च' (पा. सू. १. २. ५९) इति द्वयोर्बहुवचनम् । आवयोः एना एनानि सख्या सख्यानि स्तुत्यस्तोतृत्वेज्ययष्टृत्वलक्षणानि सखिकर्माणि माकिः वि यौषुः केचिदपि न विश्लथयेयुः। अपि च हि यस्मात् कारणात् हे देव द्योतमानेन्द्र ते तव प्रमतिं प्रकृष्टां मतिमनुग्राहिकां बुद्धिं विद्म वयं जानीमः। तत्र दृष्टान्तः । जामिवत् । यथा भ्राता स्वभगिन्यां स्नेहयुक्तां मतिं जानाति तद्वत् । तस्मात्कारणात् अस्मे अस्माकं ते तव च सख्या सख्यानि शिवानि सन्तु मङ्गलानि भवन्तु । अनपायानीत्यर्थः ॥ ॥ ९ ॥
Ne'er may this bond of friendship be dissevered, the Rsi Vimada's and thine, O Indra.
We know thou carest for us as a brother with us, O God, be thine auspicious friendship.
Let no one keep us away from this fellowship between you, Indra, and Vimada the seer,
for we know your (fatherly) solicitude, o god, like that of kin. Let there be friendly fellowship of you for us.
Nimmer mögen diese Genossenschaften sich auflösen zwischen dir, o Indra, und dem Dichter Vimada; denn wir wissen, dass deine Fürsorge wie die eines Bruders ist; uns mögen deine Genossenschaften heilsam sein.
Niemals soll sich darum unsere Freundschaft lösen zwischen dir, Indra, und dem Rishi Vimada, denn wir kennen deine Fürsorge, o Gott, wie die eines Verwandten. Uns soll deine gütige Freundschaft gehören!
Вот потому пусть никогда не иссякнут наши дружеские чувства:
Твои, о Индра, и риши Вимады –
Ведь мы знаем, о бог, твою заботу.
У нас пусть будут твои добрые дружеские чувства!