अस॒त्सु मे॑ जरित॒: साभि॑वे॒गो यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑म् । अना॑शीर्दाम॒हम॑स्मि प्रह॒न्ता स॑त्य॒ध्वृतं॑ वृजिना॒यन्त॑मा॒भुम् ॥
अस॑त् । सु । मे॒ । ज॒रि॒त॒रिति॑ । सः । अ॒भि॒ऽवे॒गः । यत् । सु॒न्व॒ते । यज॑मानाय । शिक्ष॑म् । अना॑शीःऽदाम् । अ॒हम् । अ॒स्मि॒ । प्र॒ऽह॒न्ता । स॒त्य॒ऽध्वृत॑म् । वृ॒जि॒न॒ऽयन्त॑म् । आ॒भुम् ॥
वासुक्रेषु सूक्तेषु बाहुल्येनेन्द्रः स्तूयते । इदानीमिन्द्रो वसुक्रं स्तोतुमुद्यतं पुत्रं संबोध्य स्वसामर्थ्यं कथयति येन विज्ञातदेवतारूपः सन् सुखेन स्तोष्यतीति । यद्वा । कार्यकारणयोरेकत्वोपचारात् “ आत्मा वै पुत्रनामासि' (आश्व. गृ. १.१५.११ ) इति वचनादिन्द्ररूपेणावस्थितो वसुक्र आत्मानं स्तौति । क्वचित् क्वचिदिन्द्रं चेति । हे जरितः स्तोतः मे मम सु शोभनः सः तादृशः अभिवेगः अभिगमनं मनसो वृत्तिविशेषः असत् अस्ति विद्यते । यत् येन अभिवेगेन सुन्वते मदर्थं सोमाभिषवं कुर्वते यजमानाय यज्वने शिक्षम् अभिलषितमर्थं ददामि । किंच अहम् अनाशीर्दाम् । आशीरन्यत्र प्रार्थना इह तु सामर्थ्यात् प्रार्थितं हविरुच्यते । तन्मह्यमददतं जनम् । यद्वा । आशीरिति सोमाश्रयणं दध्युच्यते । तस्यादातारम् । असोमयाजिनमित्यर्थः। प्रहन्ता अस्मि प्रकर्षेण हिंसिता भवामि । कीदृशम् । सत्यध्वृतं सत्यस्य हिंसकम् । अनृतवादिनं चेत्यर्थः । वृजिनायन्तं पापं कर्तुमिच्छन्तम् आभुं व्याप्नुवन्तम् ॥
“(Indra speaks). Such is my plural asant disposition, worshipper, that I help the instrumental tutor of the rite, whooffers libation; but I am the punisher of him who offers not libations, who disregards the truth, the perpetrator ofsin, the malignant.”
THIS, singer, is my firm determination, to aid the worshipper who pours the Soma.
I slay the man who brings no milkoblation, unrighteous, powerful, the truth's perverter.
[Indra:] I will really “boil over,” singer, when I do my best for the presser, the sacrificer.
But I am a smiter of the one who gives no milk-mixture, who injures the true, who seeks crooked ways—the nullity.
»Ich sollt', o Sänger, wirklich mich bedenken, ob ich dem helfen soll, der presst und opfert? Ich schlage los auf jeden, der nicht Wort hält, die Wahrheit beugt, den ränkevollen, kargen.«
Das soll fein mein Bestreben sein, o Sänger, daß ich dem somapressenden Opferer von Nutzen sei. Ich schlage auf den los, der keine Mischmilch spendet, der die Wahrheit verdreht, auf den Ränkevollen mit leeren Händen.
यदीद॒हं यु॒धये॑ सं॒नया॒न्यदे॑वयून्त॒न्वा॒३॒॑ शूशु॑जानान् । अ॒मा ते॒ तुम्रं॑ वृष॒भं प॑चानि ती॒व्रं सु॒तं प॑ञ्चद॒शं नि षि॑ञ्चम् ॥
यदि॑ । इत् । अ॒हम् । यु॒धये॑ । स॒म्ऽनया॑नि । अदे॑वऽयून् । त॒न्वा॑ । शूशु॑जानान् । अ॒मा । ते॒ । तुम्र॑म् । वृ॒ष॒भम् । प॒चा॒नि॒ । ती॒व्रम् । सु॒तम् । प॒ञ्च॒ऽद॒शम् । नि । सि॒ञ्च॒म् ॥
यत् यदा अहमित् अहमेव युधये युद्धार्थम् अदेवयून् देवान् यष्टुमनिच्छतोऽयज्वनः संनयानि संगमयामि। कीदृशान् । तन्वा स्वशरीरेण शूशुजानान् आत्मंभरित्वात्पुष्टिलक्षणया दीप्त्या युक्तान् । पुष्टानित्यर्थः । तदा हे इन्द्र अहम् अमा ऋत्विगादिभिः सहितः ते तुभ्यं तुम्रं प्रेरकं बलिनम् । पीवानमित्यर्थः । वृषभं सेचनसमर्थं पुंपशुं पचानि । किंच तीव्रं मदकररस सुतम् अभिषुतं पञ्चदशम् । प्रतिपत्प्रभृति पञ्चदशसंख्याकासु तिथिषु शुक्लपक्ष एकोत्तरवृद्ध्या पर्णानि जायन्ते । कृष्णपक्षे तु तद्वन्निहीयन्ते । एवंभूतत्वात्पञ्चदशः सोम उच्यते । तम् । यद्वा । त्रिवृत्पञ्चदशस्तोमोपेतं माध्यंदिनसवनकमित्यर्थः । नि षिञ्च दशापवित्रे द्रोणकलशे चमसपात्रेऽग्नौ वा सिञ्चामि प्रक्षिपामीत्यर्थः ॥
“If I encounter in combat the undevout, resplendent in their bodies, then will I cook a vigorous bull forthem, and will sprinkle (upon the fire) the exhilarating Soma the fifteen-fold (Soma).”
Then Will I, when I lead my friends to battle against the radiant persons of the godless,
Prepare for thee at home a vigorous bullock, and pour for thee the fifteen-fold strong juices.
[Singer:] When I will drive together for battle those who do not follow the gods, puffing themselves up in their bodies,
at home I will cook you a bulging bull; I will pour down sharp soma fifteen-fold.
Wenn ich sie nur zum Kampf zusammentriebe, die Gottesleugner, die so frech sich brüsten, Ich wollt' daheim den fetten Stier dir braten, zwei Wochen lang dir starken Trank ergiessen.
Wenn ich wirklich die mit ihrem Leibe sich breitmachenden Gottlosen zum Kampfe stellen werde, dann will ich dir daheim einen kräftigen Stier kochen und fünfzehn Tage lang scharfen Soma einschenken.
नाहं तं वे॑द॒ य इति॒ ब्रवी॒त्यदे॑वयून्त्स॒मर॑णे जघ॒न्वान् । य॒दावाख्य॑त्स॒मर॑ण॒मृघा॑व॒दादिद्ध॑ मे वृष॒भा प्र ब्रु॑वन्ति ॥
न । अ॒हम् । तम् । वे॒द॒ । यः । इति॑ । ब्रवी॑ति । अदे॑वऽयून् । स॒म्ऽअर॑णे । ज॒घ॒न्वान् । य॒दा । अ॒व॒ऽअख्य॑त् । स॒म्ऽअर॑णम् । ऋघा॑वत् । आत् । इत् । ह॒ । मे॒ । वृ॒ष॒भा । प्र । ब्रु॒व॒न्ति॒ ॥
यः जनः अदेवयून देवानकामयमानान् देवद्विषो राक्षसादीन् समरणे संग्रामे जघन्वान् अहं हतवान् इति ब्रवीति वदति तं तादृशं मद्व्यतिरिक्तं जनम् अहं न वेद न जानामि । मत्तोऽन्यः संग्रामे शत्रूणां हन्ता नास्तीत्यर्थः । किंच यदा यस्मिन्काले समरणं संग्रामम् अवाख्यत् अवाकृतं न्यक्कृतमहं पश्यामि । कीदृशम् । ऋघावत् ऋघावन्तं परस्परं हिंसायुक्तम् । अत्यन्तक्रूरमित्यर्थः । आत् तदानीं मे मम स्वभूतानि वृषभा वृषभकर्माणि दर्पितवृषभस्येव विक्रान्तकर्माणि प्र ब्रुवन्ति । विद्वज्जना इति शेषः । इद्ध इतीमौ पदपूरणौ ॥
“I know not that man who says that he is the slayer in battle of those who do not reverence the gods;but when (I behold) the fierce war commenced, then (my enemies) proclaim my prowess.”
I know not him who sayeth and declareth that he hath slain the godless in the battle.
Soon as they see the furious combat raging, men speak forth praises of my vigorous horses.
[Indra:] I do not know anyone who speaks thus, after he has smashed the godless ones in the clash.
When he has caught sight of the mettlesome clash, only then do they proclaim two bulls to me (as offering).
»Ich kenne den nicht, der zu mir so spräche, nachdem im Kampf die Bösen ich geschlagen; Ja, wenn sie sehn, wie wüthend das Gefecht geht, geloben sie mir auch wol zwei der Stiere.
Den kenne ich nicht, der also spräche, nachdem er die Gottlosen im Kampfe erschlagen hat. Wenn einer des drohenden Zusammenstoßes gewahr wird, ja dann versprechen sie mir zwei Stiere.
यदज्ञा॑तेषु वृ॒जने॒ष्वासं॒ विश्वे॑ स॒तो म॒घवा॑नो म आसन् । जि॒नामि॒ वेत्क्षेम॒ आ सन्त॑मा॒भुं प्र तं क्षि॑णां॒ पर्व॑ते पाद॒गृह्य॑ ॥
यत् । अज्ञा॑तेषु । वृ॒जने॑षु । आस॑म् । विश्वे॑ । स॒तः । म॒घऽवा॑नः । मे॒ । आ॒स॒न् । जि॒नामि॑ । वा॒ । इत् । क्षेमे॑ । आ । सन्त॑म् । आ॒भुम् । प्र । तम् । क्षि॒णा॒म् । पर्व॑ते । पा॒द॒ऽगृह्य॑ ॥
यत् यदा अज्ञातेषु शरीरशस्त्रास्त्रबलादिभिरपरिज्ञातेषु वृजनेषु संग्रामेषु आसम् अहं युद्धार्थमुपविशामि तदा विश्वे सर्वे मघवानः हविर्लक्षणतपोलक्षणधनवन्त ऋषयः सतः एवं वर्तमानस्य मे ममेन्द्रस्य समीपे आसन् उपविशन्ति । मम वीर्यवृद्ध्यर्थं मां स्तुवन्तस्तिष्ठन्तीत्यर्थः । अपि च क्षेमे जगत्पालने निमित्ते आ सन्तम् । आकारोऽभीत्यस्यार्थे वर्तते । सर्वमभिभवन्तम् आभुं महान्तं शत्रुं जिनामि वा विनाशयाम्येव । नात्र विनाशे संशयः । इत् इति पूरणः । तं महान्तं शत्रुं पादगृह्य पादौ गृहीत्वा पर्वते गिरौ प्र क्षिणां प्रहिनस्मि प्रक्षिपामि ॥
“When I enter upon unprecedented combats, then all those who are affluent in oblations approach meso engaged; I destroy the mighty and overpowering foe for the protection of the world, and, seizing him by thefeet, throw him down from the mountain.”
While yet my deeds of might were unrecorded, all passed for Maghavans though I existed.
The potent one who dwelt in peace I conquered, grasped by the foot and slew him on the mountain.
[Indra:] When I was in communities unknown, they all were bounteous to me, since I was really there.
But truly I despoil the nullity even if he is here at peace, as I destroyed the one on the mountain [=Vr̥tra?], having grasped him by the foot.
Nur wenn ich noch in fremden Fernen weile, sind sie bereit viel Gutes mir zu schenken, – Ich will den reichen Knicker elend machen, am Fuss ihn packen und am Fels zerschmettern.
Als ich bei fremden Bündnern war, da waren sie alle gegen mich gleich freigebig. Ich raube den aus, der leere Hände hat, wenn er in Sicherheit ist; am Fuße packend werde ich ihn am Fels zerschmettern.
न वा उ॒ मां वृ॒जने॑ वारयन्ते॒ न पर्व॑तासो॒ यद॒हं म॑न॒स्ये । मम॑ स्व॒नात्कृ॑धु॒कर्णो॑ भयात ए॒वेदनु॒ द्यून्कि॒रण॒: समे॑जात् ॥
न । वै । ऊँ॒ इति॑ । माम् । वृ॒जने॑ । वा॒र॒य॒न्ते॒ । न । पर्व॑तासः । यत् । अ॒हम् । म॒न॒स्ये । मम॑ । स्व॒नात् । कृ॒धु॒ऽकर्णः॑ । भ॒या॒ते॒ । ए॒व । इत् । अनु॑ । द्यून् । कि॒रणः॑ । सम् । ए॒जा॒त् ॥
वै उ इत्येवैव । वृजने संग्रामे मां युद्धार्थमुपस्थितं सन्तं न वारयन्ते केचिन्निवारयितुं समर्था न भवन्ति । अहं यत् कर्म मनस्ये मनसा कर्तुमिच्छामि पर्वतासः अवितरणक्षमा हिमवदादयो गिरयस्तत्कर्म मनसा प्रोढुं न शक्नुवन्तीत्यर्थः। किंच मम इन्द्रस्य स्वनात् शब्दादेव कृधुकर्णः नामासुरः यद्वा कृधुकर्णो ह्रस्वकर्णो मन्दश्रवणेन्द्रियो बधिरः स्थावरपिपीलिकादिरपि भयाते बिभेति । अपि च एवेत् एवमेव कृधुकर्णवत् अनु द्यून् प्रतिदिनमित्यर्थः । किरणः । अन्तर्णीतमत्वर्थमेतत् । किरणवान् रश्मिवानादित्यः समेजात् सम्यक्कम्पयते चलति । नियमेन प्रयातीत्यर्थः ॥ ॥ १५ ॥
“None resist me (engaged) in combat, not even the mountains when I am resolved; at my shout the dullof hearing is alarmed, and so too even the bright- rayed (sun) trembles day by day.”
None hinder me in mine heroic exploits, no, not the mountains when I will and purpose.
Even the deaf will tremble at my roaring, and every day will dust be agitated.
[Indra:] Truly they do not confine me in (just one) community, nor do the mountains (confine me), when I am minded.
(Even) one with a stunted ear will be afraid of my roar. Just so, day after day the dust will stir.
In tiefer Schlucht auch kann mich niemand hemmen, nicht hohe Berge hindern meine Pläne; Vor meinem Toben bebet selbst der taube, ja, täglich fliegt auf meiner Bahn der Staub auf.«
Wahrlich nicht halten sie mich in der Umklammerung auf, auch nicht die Berge, wenn ich etwas im Sinn habe. Vor meinen Tosen soll auch der Schwerhörige Furcht bekommen. Wahrlich, Tag um Tag soll der Staub erzittern.
दर्श॒न्न्वत्र॑ शृत॒पाँ अ॑नि॒न्द्रान्बा॑हु॒क्षद॒: शर॑वे॒ पत्य॑मानान् । घृषुं॑ वा॒ ये नि॑नि॒दुः सखा॑य॒मध्यू॒ न्वे॑षु प॒वयो॑ ववृत्युः ॥
दर्श॑न् । नु । अत्र॑ । शृ॒त॒ऽपान् । अ॒नि॒न्द्रान् । बा॒हु॒ऽक्षदः॑ । शर॑वे । पत्य॑मानान् । घृषु॑म् । वा॒ । ये । नि॒नि॒दुः । सखा॑यम् । अधि॑ । ऊँ॒ इति॑ । नु । ए॒षु॒ । प॒वयः॑ । व॒वृ॒त्युः॒ ॥
अत्र अस्मिञ्जगति शृतपान् शृतानि पक्वानि सोमादिहवींष्यपहृत्य पिबतः अनिन्द्रान् इन्द्रेण मया वर्जितान् बाहुक्षदः बहुभिर्यजमानान्शकलीकुर्वतः शरवे हिंसार्थं पत्यमानान् अभिपततोऽसुरादीन् नु क्षिप्रं दर्शन् अहमिन्द्रः पश्यामि । एवंभूतेषु एषु अधि उपरि पवयः मदीयान्यायुधानि ववृत्युः वर्तन्ते । वाशब्दः समुच्चये । घृषुं महान्तं च सखायं सखिवत्प्रियं हितस्य कर्तारं मां ये निनिदुः निन्दन्ति । उ इति समुच्चये। एषु चोपरि मदीयान्यायुधानि क्षिप्रं वर्तन्ते ॥
“Beholding here the drinkers of the libations who serve not Indra, who cut (the worshippers) to pieceswith their hands, assailing them to do them harm; my shafts quickly fall upon them, as well as on those who revile(your) powerful friend. all existence; the ancient Indra verily destroys (his foe), the other does not destroy (Indra). The united two(heaven and earth) surpass not him who extends beyond the confines of the universe.”
To see the Indraless oblation-drinkers, mean offerers, o'ertaken by destruction!
Then shall the fellies of my car pass over those who have blamed my joyous Friend and scorned him.
[Indra? Singer?:] He will now see those here who drink the cooked (milk oblation) and who serve the foreleg without (offering to) Indra, and
those who play the lord’s role for an arrow,
or who have scorned their ardent comrade. The wheel-rims should now roll over them!
Sieh hier die Knicker, sieh die Brühetrinker, die Indrafeinde für den Pfeil geeignet, Die deinen Freund, den eifervollen hassen, lass über diese deine Räder rollen.
Bald sollen sie dann sehen, wie die, welche ohne Indra die Kochmilch trinken, die auf ihre Arme pochen, meinem Geschoß verfallen sind, oder welche den kampffrohen Freund geschmäht haben, über die sollen alsbald die Räder rollen!
अभू॒र्वौक्षी॒र्व्यु१॒॑ आयु॑रान॒ड्दर्ष॒न्नु पूर्वो॒ अप॑रो॒ नु द॑र्षत् । द्वे प॒वस्ते॒ परि॒ तं न भू॑तो॒ यो अ॒स्य पा॒रे रज॑सो वि॒वेष॑ ॥
अभूः॑ । ऊँ॒ इति॑ । औक्षीः॑ । वि । ऊँ॒ इति॑ । आयुः॑ । आ॒न॒ट् । दर्ष॑त् । नु । पूर्वः॑ । अप॑रः । नु । द॒र्ष॒त् । द्वे इति॑ । प॒वस्ते॒ इति॑ । परि॑ । तम् । न । भू॒तः॒ । यः । अ॒स्य । पा॒रे । रज॑सः । वि॒वेष॑ ॥
अत्र मध्यमपुरुषेणेन्द्रस्योच्यमानत्वाद्वसुक्र इन्दं स्तौति । उ इत्यवधारणे । हे इन्द्र अभूः त्वमेव प्रादुर्भवसि । औक्षीः काले काले त्वमेव पृथिवीं सिञ्चसि नान्य इत्यर्थः। आनडित्यादौ सर्वत्र परोक्षनिर्देशे प्रत्यक्षीकरणार्थं मध्यमपुरुषेण प्रकृतत्वादेकवाक्यतायै युष्मच्छब्दसमानार्थो भवच्छब्दोऽध्याहर्तव्यः । वि इति वैविध्ये। उ इति चार्थे। आयुर्जीवितमुच्यते । इन्द्रो भवान् विविधम् आयुः च आनट् व्याप्नोति । आ भूतसंप्लवाज्जीवतीत्यर्थः । किंच पूर्वः पुरातनो भवानिन्द्रः नु क्षिप्रं दर्षत् । ‘दृ विदारणे'। सिब्बहुलं लेटि'। वज्रेण शत्रून् विदारयति । अपरः अन्यः शत्रुः नु दर्षत् । नु इति निषेधार्थे । भवन्तमिन्द्रं न विदारयति । भवानेव सर्वं शत्रुजातं हिनस्तीत्यर्थः । अपि च यः भवानिन्द्रः अस्य ईदृशस्य रजसः लोकस्य । त्रैलोक्यस्येत्यर्थः । पारे परतः । परमसूक्ष्मवायुरूपेण सृष्टिकारणात्मना स्थित्वेति शेषः । विवेष सर्वतो व्याप्नोति तं भवन्तमिन्द्रं द्वे इति सामर्थ्यात् द्यावापृथिव्यौ न परि भूतः न परिभवतः । अभिभवितुं न शक्नुत इत्यर्थः । कीदृश्यौ । पवस्ते। पवतिर्गतिकर्मा । अस्मादौणादिकोऽस्तप्रत्ययः । अतः ‘अजाद्यतष्टाप्' (पा. सू. ४. १. ४) इति टापि कृते प्रथमाद्विवचने चैतद्रूपं भवति । महत्त्वेन सर्वस्याभिभवनाय गच्छन्त्यौ।
Thou wast, thou grewest to full vital vigour: an earlier saw, a later one shall see thee.
Two canopies, as 'twere, are round about him who reacheth to the limit of this region.
[Singer:] You have come into being, you have grown strong, and you have traversed your lifetime. Now (the opponent) in front will shatter; the one behind will shatter now.
The two covers [=heaven and earth] do not encompass him who has labored on the far shore of this airy realm.
Du [Indra] erstandest, wuchsest und erreichtest dein volles Alter; nun muss [vor Indra's Anwachsen] die östliche und die westliche Welthälfte sich auseinander thun; denn die beiden Welthälften können den nicht umfassen, der jenseit dieses Raumes gedrungen ist.
Du bist emporgekommen, du bist gewachsen, du hast die volle Lebenszeit erreicht. Zerstieben soll alsbald das Vordertreffen, zerstieben alsbald die Nachhut. Die zwei ...... umspannen den nicht, der am anderen Ende dieser Welt gewirkt hat.
गावो॒ यवं॒ प्रयु॑ता अ॒र्यो अ॑क्ष॒न्ता अ॑पश्यं स॒हगो॑पा॒श्चर॑न्तीः । हवा॒ इद॒र्यो अ॒भित॒: समा॑य॒न्किय॑दासु॒ स्वप॑तिश्छन्दयाते ॥
गाव॑ । यव॑म् । प्रऽयु॑ताः । अ॒र्यः । अ॒क्ष॒न् । ताः । अ॒प॒श्य॒म् । स॒हऽगो॑पाः । चर॑न्तीः । हवाः॑ । इत् । अ॒र्यः । अ॒भितः॑ । सम् । आ॒य॒न् । किय॑त् । आ॒सु॒ । स्वऽप॑तिः । छ॒न्द॒या॒ते॒ ॥
गावः धेनवः प्रयुताः प्रकर्षेण मिश्रिताः परस्परेण सह भूताः यवं मद्वष्टिजनितयवादिघासम् अक्षन् अदन्ति भक्षयन्ति । अर्यः सर्वस्य स्वाम्यहं ताः गाः अपश्यं पश्यामि । कीदृशीः । सहगोपाः पशुपालकेन सहिताः चरन्तीः घासं भक्षयन्तीः । एवंभूतास्ताः परया प्रीत्या पश्यामीत्यर्थः। किंच हवाः वाहनदोहनार्थमाह्वानार्हा गावः अर्यः । द्वितीयार्थे प्रथमा । अर्यं स्वामिनं प्रति अभितः सर्वतः समायन् । समित्येकीभावे । एकीभूयागच्छन्ति । इदिति पूरणः । आगतासु आसु गोषु स्वपतिः स्वानां गवां स्वामी कियत् क्षीरं छन्दयाते दोग्धुं कामयते । मदर्थं दोग्धीत्यर्थः । ‘गाव आशिरं दुदुहे' (ऋ. सं. ८. ६९. ६) इति वचनात् ॥
“The assembled cattle feed upon the barley; I their master have beheld them grazing, tended by theherdsman; when called, they collect around their lord; when they approach, how much milk does he desire (totake)?”
The freed kine eat the barley of the pious. 1 saw them as they wandered with the herdsman.
The calling of the pious rang around them. What portion will these kine afford their owner?
[Singer:] The cows, dispersed, ate the grain of the stranger. I saw them roaming with their cowherd.
The cries of the stranger came together from all sides. For how long will their own lord find pleasure in them [=cows]?
Des frommen umherschweifende Kühe haben die Gerste verzehrt; ich sah sie, von Hirten behütet, wandern, von allen Seiten kamen sie rauschend zusammen [nach Sāy. sind die dem Soma beigemischten Milchtränke gemeint]; wie sehr wird an ihnen der unumschränkte Gebieter [Indra] sich ergötzen?
Die Kühe des hohen Herrn haben sich selbst überlassen das Korn gefressen; ich sah sie samt ihrem Hirten weiden. Die Rufe des hohen Herrn kamen von überall zusammen. Wie wenig wird ihr Eigentümer an ihnen Gefallen haben?
सं यद्वयं॑ यव॒सादो॒ जना॑नाम॒हं य॒वाद॑ उ॒र्वज्रे॑ अ॒न्तः । अत्रा॑ यु॒क्तो॑ऽवसा॒तार॑मिच्छा॒दथो॒ अयु॑क्तं युनजद्वव॒न्वान् ॥
सम् । यत् । वय॑म् । य॒व॒स॒ऽअदः॑ । जना॑नाम् । अ॒हम् । य॒व॒ऽअदः॑ । उ॒रु॒ऽअज्रे॑ । अ॒न्तरिति॑ । अत्र॑ । यु॒क्तः॑ । अ॒व॒ऽसा॒तार॑म् । इ॒च्छा॒त् । अथो॒ इति॑ । अयु॑क्तम् । यु॒न॒ज॒त् । व॒व॒न्वान् ॥
अन्या ऋषिरिन्द्रप्रसादलब्धं स्वस्य सर्वात्म्यं प्रकाशयति । जनानां लोकानां मध्ये ये यवसादः तृणस्यात्तारः पशवः ते वयमिति संसम्यक् जानीहि उपसर्गश्रुतेर्योग्यक्रियाध्या- हारः । ये च यवादः यवापेलक्षितस्यान्नस्यात्तारोमनुष्यास्तेपि वयमिति सञ्जानीहि । वस्तु तस्तु उर्वज्रे विस्तीर्णे अजिरेङ्गणे हार्दाकाशरूपे यत् अन्तः अन्तर्यामिरूपं ब्रह्म तदहमस्मि अत्रा स्मिन् हार्दाकाशे युक्तः समाहितोभवानिन्द्रः अवसातारं आत्मनः सम्भक्तारं इच्छात् इच्छति आत्मसाक्षात्कर्तुम् । अथो अपिच अयुक्तं अयोगिनं ववन्वान् द्वितीयार्थे प्रथमा ववन्वतं अतिशयेन विषयन् सेवमानं पुरुषं युनजत् युनक्ति संसारे शापानुग्रहसमर्थोभव- द्रूपोहमेवास्मीति भावः ॥ ९ ॥
“When we, the grass-eaters of men, (are) together, I (am) among the barley-eaters in the wide field;here he who is yoked would like one to unloose him, and the assailant would yoke him who is unyoked.”
When we who cat the grass of men are gathered I am with barley-eaters in the corn-land.
There shall the captor yoke the yokeless bullock, and he who hath been yoked seek one to loose him.
[Indra:] When I will round up those that eat the grass and grain of the peoples all together in a wide pasture,
then a yoked (animal) will seek an unhitcher, while he who longs to will yoke an unyoked one.
»Wenn wir [Rinder] das Gras der Menschen verzehren, dann verzehre ich das Getreide auf dem weiten Felde; dann verlange der angespannte den, der ihn ausspannt, dann schirre der Gebieter den noch nicht angeschirrten an.« [Dieser Vers, von Sāyaṇa nicht erklärt, scheint später eingeschoben.]
Wenn ich die Kühe, die auf weiter Flur anderer Leute Gras und Korn fressen, zusammentreibe, da wird das angespannte Roß einen Ausspanner wünschen und der Sieger wird das unangespannte Roß anspannen.
अत्रेदु॑ मे मंससे स॒त्यमु॒क्तं द्वि॒पाच्च॒ यच्चतु॑ष्पात्संसृ॒जानि॑ । स्त्री॒भिर्यो अत्र॒ वृष॑णं पृत॒न्यादयु॑द्धो अस्य॒ वि भ॑जानि॒ वेद॑: ॥
अत्र॑ । इत् । ऊँ॒ इति॑ । मे॒ । मं॒स॒से॒ । स॒त्यम् । उ॒क्तम् । द्वि॒ऽपात् । च॒ । यत् । चतुः॑ऽपात् । स॒म्ऽसृ॒जानि॑ । स्त्री॒ऽभिः । यः । अत्र॑ । वृष॑णम् । पृ॒त॒न्यात् । अयु॑द्धः । अ॒स्य॒ । वि । भ॒जा॒नि॒ । वेदः॑ ॥
मे मम अत्र अस्मिन् स्तोत्रे उक्तं मया कथितं सत्यमित् यथाभूतमेव मंससे त्वं जानीहि । अर्थवादरूपेण नैतदध्यारोपितगुणमित्यर्थः। उ इति पूरणः । किंच द्विपाच्च मनुष्यादिकं च चतुष्पात् च पश्वादिकं च यत् स्थावरजङ्गमात्मकं जगत् संसृजानि अहमुत्पादयनीति त्वं जानीहि । अत्र अस्मिञ्जगति स्त्रीभिः स्त्रीसदृशैः बलादिहीनैः पुरुषैः सह यः शूरंमन्यो जनः वृषणम् अभिलषितस्य वर्षितारं माम् । परित्यज्येति शेषः । पृतन्यात् युद्धं कर्तुमिच्छति अहम् अस्य ईदृशस्य स्वभूतं वेदः धनम् अयुद्धः तेन पुरुषेणायोद्धा सन् बलादपहृत्य वि भजानि स्तोतृभ्यो यष्टृभ्यश्च ददामीत्यर्थः ॥ ॥ १६ ॥
“(Indra speaks). You know that what is said by me at this time is the truth, that I may create both bipedsand quadrupeds. I distribute without conflict (among my worshippers) the wealth (that I have taken from him), who(neglecting me), the showerer of desires), wishes to contend with women.”
There wilt thou hold as true my spoken purpose, to bring together quadrupeds. and bipeds.
I will divide, without a fight, his riches who warreth here, against the Bull, with women.
[Indra:] And just then you will consider this truly spoken by me—that I shall bring the two-footed and the four-footed together.
Whoever then will fight the bull [=Indra] with women, I, who cannot be combatted, will share out his possessions.
»Vernimm nun hier auch meine wahre Rede; die Menschen und ihr Vieh will ich vertreiben; Der hier mit Weibern wider mich, den Stier, kämpft, dess Habe will ich ohne Kampf vertheilen.«
Dann sollst du mein Wort für wahr halten, daß ich Mensch und Tier durcheinander bringen werde. Wer da den Bullen mit Weibern bekämpfen will, dessen Habe will ich kampflos verteilen.
यस्या॑न॒क्षा दु॑हि॒ता जात्वास॒ कस्तां वि॒द्वाँ अ॒भि म॑न्याते अ॒न्धाम् । क॒त॒रो मे॒निं प्रति॒ तं मु॑चाते॒ य ईं॒ वहा॑ते॒ य ईं॑ वा वरे॒यात् ॥
यस्य॑ । अ॒न॒क्षा । दु॒हि॒ता । जातु॑ । आस॑ । कः । ताम् । वि॒द्वान् । अ॒भि । म॒न्या॒ते॒ । अ॒न्धाम् । क॒त॒रः । मे॒निम् । प्रति॑ । तम् । मु॒चा॒ते॒ । यः । ई॒म् । वहा॑ते । यः । ई॒म् । वा॒ । व॒रे॒ऽयात् ॥
यस्य इन्द्रस्य मम कारणरूपेणावस्थितस्य अनक्षा अक्षिवर्जिता दर्शनहीना । अचेतनेत्यर्थः। दुहिता प्रकृत्याख्या जातु कदाचित् आस । असतेर्गत्यर्थस्य लिटि रूपम् । सामर्थ्यात् महाप्रलये मय्येव लीना सती सर्वत्र वर्तते तां प्रकृतिं विद्वान् मय्येव लीनां जानन् मत्तोऽन्यो देवः कः भवति । न कोऽपीत्यर्थः । अपि च अन्धा दर्शनहीनामचेतनां ताम् अभि मन्याते आत्मन्याश्रयप्रदानेन को देवोऽभिपूजयति । यद्वा । क्षीरोदकवत् घटाकाशवच्च मया सहैकीभूतां तामाभिमुख्येन को जानाति । अहमेव सर्वज्ञः स्वात्मन्याश्रयप्रदानेनाभिपूजयामि । मया सहैकीभूतां तां तत्त्वतोऽहमेव जानामि नान्य इति । किंच कतरः देवः मेनिं वज्रं तं प्रसिद्धं वृत्रादिशत्रुं प्रति मुचाते मुञ्चति । स्वयमेव प्रश्नमुत्थाप्येदानीं प्रतिब्रूते । यः देवः ईम एनं शत्रुं वहाते वहति । अपि वा यः ईम् एनं वरेयात् वरयितुमिच्छति । स चाहमेव नान्यो मत्सदृशोऽस्तीत्यर्थः ॥
“What (other god but me) whose eyeless daughter is ever present knows her and honours (her) theblind one; which of the two (deities) lets loose that bolt against (a foe)-- he who assails, (or) he who protects hiṃ”
When a man's daughter hath been ever eyeless, who, knowing, will be wroth with her for blindness?
Which of the two will loose on him his anger-the man who leads her home or he who woos her?
(A father) who has a daughter blind from birth—who, knowing her (as) blind, will have designs on her [/will be hostile (to him=the father)]? (On the other hand, not knowing her state), which of the two will unleash (the power of) violated exchange against him [=the
father]—the one who marries her or the one who woos her (on the bridegroom’s behalf)?
Wessen Tochter jemals augenlos war, wer möchte diese, sie als blind erkennend, jemals begehren? Welcher von diesen beiden wird auf jenen [den Vater?] das Schleudergeschoss abschiessen, der, welcher sie heimführt, oder der, welcher um sie wirbt?
Wenn eines Tochter von Geburt ohne Augenlicht ist, welcher, der es weiß, wollte die Blinde begehren? Welcher von beiden wird seinen Zorn auf ihn werfen, der sie heiraten, oder der sie freien wird?
किय॑ती॒ योषा॑ मर्य॒तो व॑धू॒योः परि॑प्रीता॒ पन्य॑सा॒ वार्ये॑ण । भ॒द्रा व॒धूर्भ॑वति॒ यत्सु॒पेशा॑: स्व॒यं सा मि॒त्रं व॑नुते॒ जने॑ चित् ॥
किय॑ती । योषा॑ । म॒र्य॒तः । व॒धू॒ऽयोः । परि॑ऽप्रीता । पन्य॑सा । वार्ये॑ण । भ॒द्रा । व॒धूः । भ॒व॒ति॒ । यत् । सु॒ऽपेशाः॑ । स्व॒यम् । सा । मि॒त्रम् । व॒नु॒ते॒ जने॑ चित् ॥
कियती किंपरिमाणा योषा स्त्रीजातिः मर्यतः मनुष्यसंबन्धिनो भोगानाचरतः वधूयोः स्त्रीकामस्य सर्वात्मकस्यान्तर्यामिरूपेणावस्थितस्येन्द्रस्य परिप्रीता अनुरक्ता। वशवर्तिनीत्यर्थः । कीदृशस्य । वार्येण वरणीयेन पन्यसा स्तोत्रेण स्तुतस्य सत इति शेषः । अपि च यत् या वधूः भद्रा कल्याणी सुपेशाः शोभनरूपा च भवति सा द्रौपदीदमयन्त्यादिका वधूः स्वयम् आत्मनैव जने चित् जनमध्येऽवस्थितमिति मित्रं प्रियमर्जुननलादिकं पतिं वनुते याचते । स्वयंवरधर्मेण प्रार्थयते । स च प्रीयमाणो वरजनोऽहमेवेत्यभिप्रायः । ‘रूपंरूपं प्रतिरूपो बभूव' ( ऋ. सं. ६. ४७. १८) इति मन्त्रलिङ्गात्सर्वात्मकत्वादिति ॥
“How many a woman has been gratified by the flattering praise of man's desire, when the bride isfortunate and beautiful, she of herself chooses her husband among men.”
How many a maid is pleasing to the suitor who fain would marry for her splendid riches?
If the girl be both good and fair of feature, she finds, herself, a friend among the people.
How different is the maiden, gratified all around by an admirable (gift) worthy to be chosen, from a bride-seeking man from among the young bloods?
She becomes a fortunate bride, when she is well adorned. She wins herself an ally [=spouse] in public.
Was ist das für ein Mädchen, das durch das kostbare Geschenk des Liebhabers unter den Freiern gewonnen wird? Glücklich ist die Braut, wenn die schöne sich selbst unter den Männern den Freund erwählt.
Wie anders die Maid, die von Seiten des heiratslustigen Junggesellen mit kostbarer Wunschgabe erfreut wird? Sie wird eine glückliche Frau, wenn sie schön geschmückt selbst ihren Gefährten auch unter allem Volke gewinnt.
प॒त्तो ज॑गार प्र॒त्यञ्च॑मत्ति शी॒र्ष्णा शिर॒: प्रति॑ दधौ॒ वरू॑थम् । आसी॑न ऊ॒र्ध्वामु॒पसि॑ क्षिणाति॒ न्य॑ङ्ङुत्ता॒नामन्वे॑ति॒ भूमि॑म् ॥
प॒त्तः । ज॒गा॒र॒ । प्र॒त्यञ्च॑म् । अ॒त्ति॒ । शी॒र्ष्णा । शिरः॑ । प्रति॑ । द॒धौ॒ । वरू॑थम् । आसी॑नः । ऊ॒र्ध्वाम् । उ॒पसि॑ । क्षि॒णा॒ति॒ । न्य॒ङ् । उ॒त्ता॒नाम् । अनु॑ । ए॒ति॒ । भूमि॑म् ॥
अत्रादित्यात्मनेन्द्रः स्तूयते तदंशत्वात् । आदित्यरूपीन्द्रः पत्तः रश्म्याख्यैः पादैः जगार वृष्टिलक्षणमुदकं गिरति गृह्णाति वा । गृहीत्वा च प्रत्यञ्चम् आत्मानं प्रतिगतमुदकम् अत्ति भक्षयति । मण्डलेऽवस्थापयतीत्यर्थः । तदनन्तरं वरूथं वरणीयं वृष्टिलक्षणमुदकं शीर्ष्णा शिरःस्थानीयेन रश्मिजालेन शिरः सर्वस्य लोकस्य मस्तकं प्रति दधौ दधाति । प्रतिक्षिपतीत्यर्थः । किंच उपसि उपस्थे स्वसमीपस्थाने मण्डले आसीनः उपविष्टः सन् ऊर्ध्वाम् उद्गतां स्वदीप्तिं क्षिणाति हिनस्ति । आलोककरणाय प्रक्षिपतीत्यर्थः । न्यङ् रश्मिसमूहरूपेण नीचैरञ्चिता गन्ता सन् उत्तानां विस्तृतां भूमिम् अन्वेति अनुगच्छति ॥
“He seizes (it) with his feet, he swallows it when it approaches him, he plural ces the head (of heaven) asa guard around his head; seated (above) he sends (his rays) upwards to the proximate heaven; he send themdownwards, on the outspread earth.”
His feet have grasped: he eats the man who meets him. Around his head he sets the head for shelter.
Sitting anear and right above he smites us, and follows earth that lies spread out beneath him.
He has swallowed (it [=firewood]) from the foot; he eats what’s in front of him. He has set out head upon head [=his flames], as his shield. Sitting, he destroys the (kindling stick) erect in his lap; bending
downward, he goes along the upstretching earth.
Von den Füssen an verzehrte er [etwa Agni?] den ihm zugewandten [Todten?], mit dem Haupte das Haupt und nimmt seine Rüstung, der sitzende vertilgt in seinem Schoosse die aufrecht stehende [Morgenröthe??]; niedergewandt folgt er der ausgestreckten in die Erde (?).
Er hat ihn vom Kopf aus verschlungen, er frißt ihn von rückwärts; mit seinem Kopf hat er ihm einen Kopf angesetzt, einen Schutz. Sitzend zerstört er die Aufrechte in seinem Schoße; sich niederbeugend geht er an der ausgestreckten Erde lang.
बृ॒हन्न॑च्छा॒यो अ॑पला॒शो अर्वा॑ त॒स्थौ मा॒ता विषि॑तो अत्ति॒ गर्भ॑: । अ॒न्यस्या॑ व॒त्सं रि॑ह॒ती मि॑माय॒ कया॑ भु॒वा नि द॑धे धे॒नुरूध॑: ॥
बृ॒हन् । अ॒च्छा॒यः । अ॒प॒ला॒शः । अर्वा॑ । त॒स्थौ । मा॒ता । विऽसि॑तः । अ॒त्ति॒ । गर्भः॑ । अ॒न्यस्याः॑ । व॒त्सम् । रि॒ह॒ती । मि॒मा॒य॒ । कया॑ । भु॒वा । नि । द॒धे॒ । धे॒नुः । ऊधः॑ ॥
वसुक्रोऽनयादित्यात्मानमिन्द्रं स्तौति। बृहन् महानादित्यः अच्छायः छायावर्जितः । तमोरहित इत्यर्थः। अपलाशः पर्णरहितः पराशदनवर्जितः । विनाशरहित इत्यर्थः । अर्वा सततगामी तस्थौ तिष्ठति । किंच माता वृष्टिप्रदानद्वारेण सर्वस्य जगतो निर्माता विषितः विमुक्तः । निलम्बन इत्यर्थः । गर्भः त्रैलोक्यस्य गर्भभूत आदित्यात्मेन्द्रः अत्ति हवींषि भक्षयति । यद्वा । अनेन विनाशनं लक्ष्यते । पापानि नाशयति । किंच अन्यस्याः अदित्याख्याया देवमातुः वत्सम् अपत्यभूतमादित्यं रिहती आस्वादयन्ती उपजीवन्ती वर्धयन्ती मिमाय निर्मिमीते । पूर्वस्यां दिश्यहन्यहन्युत्पादयन्तीत्यर्थः। कया भुवा केन भावेनाभिप्रायेण । भक्त्या भयेन वेत्यर्थः। धेनुः द्यौरुदकस्याधारत्वात् क्षरितृत्वाच्च ऊधःस्थानीयमादित्यं नि दधे स्थापयति । यद्वा । धेनुर्गौरूधो यथा तद्वदादित्यं द्यौर्धारयति ॥
“The great (sun), shadeless, undecaying, ever-moving, abides; the builder (of the world), who isliberated, the germ (of the three worlds), eats (the oblations), fondling the offspring of another (mother), heconstructs (the quarters of the world); with what design has the cow offered her udder?”
High, leafless, shadowless, and swift is Heaven: the Mother stands, the Youngling, loosed, is feeding.
Loud hath she lowed, licking Another's offspring. In what world hath the Cow laid down her udder?
Lofty but without a shadow and without foliage is the steed [=kindling stick]. The mother [=lower fire stick] stands still; unloosed the
embryo eats.
Licking the calf of another, she [=oblation] lows. In what form did the milk-cow deposit her udder?
Hoch ist das Ross [Agni], doch ohne Schatten, ohne Laub; es steht die Mutter [die Morgenröthe], abgelöst frisst das Kalb [Agni]; der andern Mutter [der Nacht] Kalb leckend brüllte sie, in welcher Welt legt die Kuh ihr Euter hin. [Zu vergleichen sind die zwei ersten Zeilen von 289, 13, mit denen die letzten zwei Zeilen unseres Verses identisch sind.]
Ein hoher, schattenloser, unbelaubter Baum, ein Renner ist er - die Mutter steht still, entbunden frißt das Kind. Der anderen Kalb leckend hat sie gebrüllt. In welcher Welt hat die Kuh ihr Euter verborgen?
स॒प्त वी॒रासो॑ अध॒रादुदा॑यन्न॒ष्टोत्त॒रात्ता॒त्सम॑जग्मिर॒न्ते । नव॑ प॒श्चाता॑त्स्थिवि॒मन्त॑ आय॒न्दश॒ प्राक्सानु॒ वि ति॑र॒न्त्यश्न॑: ॥
स॒प्त । वी॒रासः॑ । अ॒ध॒रात् । उत् । आ॒य॒न् । अ॒ष्ट । उ॒त्त॒रात्ता॑त् । सम् । अ॒ज॒ग्मि॒र॒न् । ते । नव॑ । प॒श्चाता॑त् । स्थि॒वि॒ऽमन्तः॑ । आ॒य॒न् । दश॑ । प्राक् । सानु॑ । वि । ति॒र॒न्ति॒ । अश्नः॑ ॥
अनयेन्द्रः प्रजापतिरूपेण स्तूयते । सप्त सप्तसंख्याकाः वीरासः प्रजापतेः पुत्रा विश्वामित्रादयः अधरात् प्रजापतेरधःकायात् उदायन् उत्पन्ना बभूवुः । अष्ट अष्टसंख्याकाः ते प्रसिद्धा वालखिल्यादयः उत्तरात्तात् उत्तरात्कायप्रदेशात् समजग्मिरन् संजज्ञिरे । स्थिविमन्तः स्थानवन्तः नव नवसंख्याका भृगवः पश्चातात् पृष्ठतः आयन् आगताः। उत्पन्ना इत्यर्थः। तथा दश दशसंख्याका अङ्गिरसः प्राक् अग्रत उत्पन्नाः सन्तः अश्नः अशनवतो द्युलोकस्य सानु उन्नतप्रदेशं वि तिरन्ति वर्धयन्ति । अपर आह । सप्तसंख्योपेता वीरा मरुतोऽधरादिन्द्रस्य दक्षिणभागादुदगमन् । अष्टसंख्याकास्ते मरुत उत्तरभागात् संगच्छन्ते । स्थानवन्तो नवसंख्याकास्ते मरुतः पृष्ठभागादागच्छन्ति । दशसंख्याकास्तेऽश्नोऽशनवत इन्द्रस्य प्राक्प्रदेशे स्थिताः समुच्छ्रितमुदकं तेजो वा वि तिरन्ति । मरुतः प्रतिदिशमवस्थायेन्द्रस्य साहाय्यं कुर्वन्तीत्यर्थः ॥ ॥ १७ ॥
“Seven sages sprang from the lower portion (of Indra as Prajāpati); eight were born from the upperportion; nine occupants of stations came from behind, and ten, genitive rated in the front, partaking of food,eight vālakhilyas; nine bhṛgus; ten aṅgirasas; or, seven Maruts on Indra's right, eight on his left, nine behindhim, and ten in front].”
Seven heroes from the nether part ascended, and from the upper part came eight together.
Nine from behind came armed with winnowing-baskets: ten from the front pressed o'er the rock's high ridges.
Seven heroes [=Seven Seers?] came up from the south, eight from the north: they joined together.
Nine [=Navagvas?] with grain sacks [?] came from the west, ten
[=Daśagvas?] in the east traverse the back of the rock.
Sieben Männer kamen von Süden herauf, acht von Norden her vereinigten sich mit ihnen; neun kamen von Westen mit Getreide beladen, zehn durchdringen im Osten den Gipfel des Felsens.
Sieben Männer gingen von Süden hinauf, acht von Norden, die kamen zusammen. Neun kamen von Westen mit Säcken, zehn dringen im Osten bis zum Rücken des Felsens.
द॒शा॒नामेकं॑ कपि॒लं स॑मा॒नं तं हि॑न्वन्ति॒ क्रत॑वे॒ पार्या॑य । गर्भं॑ मा॒ता सुधि॑तं व॒क्षणा॒स्ववे॑नन्तं तु॒षय॑न्ती बिभर्ति ॥
द॒शा॒नाम् । एक॑म् । क॒पि॒लम् । स॒मा॒नम् । तम् । हि॒न्व॒न्ति॒ । क्रत॑वे । पार्या॑य । गर्भ॑म् । मा॒ता । सुऽधि॑तम् । व॒क्षणा॑सु । अवे॑नन्तम् । तु॒षय॑न्ती । बि॒भ॒र्ति॒ ॥
दशानां दशसंख्याकानां पूर्वोक्तानामेवाङ्गिरसां मध्ये एकं मुख्यं कपिलम् एतन्नामानं तं प्रसिद्धमृषिम् । कीदृशम् । समानं सदृशम् । केन । सामर्थ्यात् प्रजापतिना। हिन्वन्ति अवशिष्टा अङ्गिरसः प्रेरयन्ति । किमर्थम् । क्रतवे यज्ञादिजगत्प्रवर्तनकर्मणे । यद्वा । सम्यग्ज्ञानलक्षणप्रज्ञानाय । कीदृशाय । पार्याय परिसमापयितव्याय प्रणेतव्याय वा । यज्ञादिकर्मोपदेशनायेत्यर्थः । माता प्रकृत्याख्या च वक्षणासु। वक्षणा इति नद्य उच्यन्ते । ताभिश्चात्रापो लक्ष्यन्ते । प्रकृतिस्थासु सूक्ष्मास्वप्सु सुधितं सुहितम् । प्रजापतिना स्थापितमित्यर्थः । अवेनन्तम् । वेनतिः कान्तिकर्मा । तत्र निवासमकामयमानं तादृशं प्रजापतेः गर्भं तुषयन्ती तुष्यन्ती सम्यग्ज्ञानादुपदेष्टुं योग्योऽयमिति प्रीता सती बिभर्ति प्रजापतेर्नियोगाद्धारयति ॥
“(The other aṅgirasas) despatched one of the ten, Kapila, as equal (to the task) for the completion ofthe sacrifice; the gratified mother cherishes the embryo well-deposited in the waters, and not desirous of anabiding plural ce.”
One of the ten, the tawny, shared in common, they send to execute their final purpose.
The Mother carries on her breast the Infant of noble form and soothes it while it knows not.
One brownish one [=fire], common to the ten (fingers)—they spur on to decisive resolve.
The mother bears the embryo well-placed in her belly—him seeking after nothing, she being content.
Den einen bräunlichen [die Sonne?], welcher der Schar der zehne gemeinsam ist, den regen sie an zu erfolgreicher Kraft; die Mutter [die Nacht?] trägt als Leibesfrucht ihn, der schön in ihren Leib gesetzt ist, dem noch unbewussten Huld erweisend.
Den zehn gemeinsamen einen Kapila, den treiben sie an zu entscheidendem Entschluß. Die Mutter trägt wohlgeboren an ihren Brüsten das Kind, das noch nicht sieht, es stillend.
पीवा॑नं मे॒षम॑पचन्त वी॒रा न्यु॑प्ता अ॒क्षा अनु॑ दी॒व आ॑सन् । द्वा धनुं॑ बृह॒तीम॒प्स्व१॒॑न्तः प॒वित्र॑वन्ता चरतः पु॒नन्ता॑ ॥
पीवा॑नम् । मे॒षम् । अ॒प॒च॒न्त॒ । वी॒राः । निऽउ॑प्ताः । अ॒क्षाः । अनु॑ । दी॒वे । आ॒स॒न् । द्वा । धनु॑म् । बृ॒ह॒तीम् । अ॒प्ऽसु । अ॒न्तरिति॑ । प॒वित्र॑ऽवन्ता । च॒र॒तः॒ । पु॒नन्ता॑ ॥
वीराः प्रजापतेः पुत्रा अङ्गिरसः पीवानं स्थूलम् । मेदोमांसादियुक्तमित्यर्थः। मेषम् अजम् अपचन्त प्रजापतिरूपस्येन्द्रस्यार्थाय पक्ववन्तोऽभवन् । पशुयागं कुर्वन्त इत्यर्थः । किंच। लुप्तोपममेतत् । यथा देवानाम् अक्षाः दीवे देवने रमणस्थाने न्युप्ताः निक्षिप्ताः सन्तः अनु आसन् संक्रीडमानयोर्द्वयोरेकतरस्यानुगता भवन्ति तथा सर्वेऽङ्गिरसः प्रजापतेरनुगता भवन्ति। द्वा अङ्गिरसां मध्ये द्वावङ्गिरसौ धनुम् । धनुशब्दोऽत्र धनुःशब्दपर्यायो धनशब्दपर्यायो वा । धनुर्यथा वधसाधनं तथाज्ञानादिवधसाधनं धनवत्प्रीतिकरं वा। कपिलमित्यर्थः । बृहतीं प्रजापतेराज्ञया वर्धयित्रीं प्रकृतिम् अप्स्वन्तः प्रकृतिस्थानां सूक्ष्मणामुदकानां मध्ये चरतः प्रजापत्यादेशादाराधयतः। कीदृशौ । पवित्रवन्ता पवित्रवन्तौ । मन्त्रः पवित्रमुच्यते । ध्यानसाधनप्रणवमन्त्रवन्तौ पुनन्ता शुद्धौ। प्रणवध्यानेनात्मानं संस्कुर्वन्तावित्यर्थः ॥
“The sages cooked a fat ram; they followed (prajāpati) in succession like dice thrown in gambling; two(of them), having the means of purification and becoming purified, proceed in the midst of the waters to (Prakṛti)the augmenter, to (Kapila) the implement of destruction.”
The Heroes dressed with fire the fatted wether: the dice were thrown by way of sport and gaming.
Two reach the plain amid the heavenly waters, hallowing and with means of purifying.
The heroes cooked a fat ram; there were dice strewn down for gaming. Two roam the lofty steppe [=heaven?], provided with filters, purifying (soma?) in the waters.
Einen fetten Widder brieten sich die Männer, zum Spiele dienten ihnen die niedergeworfenen Würfel; zwei von ihnen gehen hin zu der Wolkeninsel, der hoch hervorragenden mitten unter den Gewässern, reinigend mit Reinigungsmitteln versehen (?).
Die Männer brieten sich einen feisten Widder; die hingeschütteten Würfel lagen zum Spiel bereit. Zwei sind dabei, mit Filtern versehen den hohen Quell im Wasser zu läutern.
वि क्रो॑श॒नासो॒ विष्व॑ञ्च आय॒न्पचा॑ति॒ नेमो॑ न॒हि पक्ष॑द॒र्धः । अ॒यं मे॑ दे॒वः स॑वि॒ता तदा॑ह॒ द्र्व॑न्न॒ इद्व॑नवत्स॒र्पिर॑न्नः ॥
वि । क्रो॒श॒नासः॑ । विष्व॑ञ्चः । आ॒य॒न् । पचा॑ति । नेमः॑ । न॒हि । पक्ष॑त् । अ॒र्धः । अ॒यम् । मे॒ । दे॒वः । स॒वि॒ता । तत् । आ॒ह॒ । द्रुऽअ॑न्नः । इत् । व॒न॒व॒त् । स॒र्पिःऽअ॑न्नः ॥
वि क्रोशनासः विविधं प्रजापतिं पितरमाह्वयन्तः विष्वञ्चः नानागतयो नानापूजना वा सर्वेऽङ्गिरसः आयन् आगच्छन् । प्रजापतेः सकाशादुत्पन्ना इत्यर्थः । उत्पद्यमानः नेमः अर्धोऽङ्गिरसां मध्य एको भागः पचाति प्रजापत्यर्थं हवींषि पचति । अर्धः अपरो भागः नहि पक्षत् नहि पचति । एतत्सर्वं कथमज्ञायि उच्यते । अयम् ईदृशः देवः द्योतमानः सविता सर्वस्य प्रेरक आदित्यो वा प्रजापतिर्वा मे मह्यं तत् सर्वं यथोक्तम् आह । किंच सर्पिरन्नः घृतौदनः द्रन्न इत् दार्वोदनः अग्निरपि वनवत् हविर्द्वारेण प्रजापतिं वनति संभजते ॥
“They (the Aṅgirasas) go in all directions calling (upon Prajāpati), half of them cook (their oblations),the other half cook not; this divine Savitā has told me this-- (Agni), whose food is wood and ghī, serves(Prajāpati by means of oblations).”
Crying aloud they ran in all directions: One half of them will cook, and not the other.
To me hath Savitar, this God, declared it: He will perform, whose food is wood and butter.
Shrieking, they went apart in opposite directions: one half will cook, for the other half does not cook.
This god Savitar here says this to me, “Only he whose food is wood, whose food is melted butter will win.”
Schreiend liefen sie alle nach verschiedenen Seiten auseinander »der eine Theil derselben soll kochen, der andere soll nicht kochen«. Dies sagte mir dieser Gott Savitar; der Holz verzehrende, Butter geniessende [Agni] möge hold sein.
Schreiend gingen sie nach zwei Seiten auseinander: der eine Teil soll braten, denn die andere Hälfte wird nicht braten. Das sagte mir dieser Gott Savitri: Nur der Holzfresser wird gewinnen.
अप॑श्यं॒ ग्रामं॒ वह॑मानमा॒राद॑च॒क्रया॑ स्व॒धया॒ वर्त॑मानम् । सिष॑क्त्य॒र्यः प्र यु॒गा जना॑नां स॒द्यः शि॒श्ना प्र॑मिना॒नो नवी॑यान् ॥
अप॑श्यम् । ग्रामम् । वह॑मानम् । आ॒रात् । अ॒च॒क्रया॑ । स्व॒धया॑ । वर्त॑मानम् । सिस॑क्ति । अ॒र्यः । प्र । यु॒गा । जना॑नाम् । स॒द्यः । शि॒श्ना । प्र॒ऽमि॒ना॒नः । नवी॑यान् ॥
अपश्यं वसुक्रोऽहं प्रजापतिरूपमिन्द्रं सम्यग्ज्ञानेन दृष्टवानस्मि । कीदृशम् । ग्रामं भूतसंघं वहमानं वाहयन्तम् । सृजन्तमित्यर्थः । कुतः । आरात् दूरात् । उपादानकारणात्प्रकृतित इत्यर्थः ॥ अचक्रया चक्रवर्जितया रथहीनया स्वधया स्वयमात्मानं धारयन्त्या सेनया वर्तमानम् आगच्छन्तम् । एवंभूतमपश्यमित्यर्थः । किंच अर्यः सर्वस्य स्वामीन्द्रः जनानां यजमानानां कार्यत्वेन संबन्धिनः युगा युगानि यज्ञकालविशेषान् प्र सिषक्ति प्रकर्षेण सेवते । कीदृशः । सद्यः तदानीमैव शिश्ना शिश्नानि । ‘शिश्नं श्नथतेः ' ( निरु. ४. १९) इति निर्वचनात् श्नथितॄणि ताडयितॄणि राक्षसादिवृन्दानि प्रमिनानः प्रकर्षेण हिंसन् नवीयान् शरीरेण च बलपौरुषनयनादिभिश्च नवतरः ॥
“I beheld the crowd coming from afar, moving of themselves without wheels; the lord of all, (Indra),regulates the seasons (worship of men), younger in vigour, destroying at once the herds of evil beings.”
I saw a troop advancing from the distance moved, not by wheels but their own God-like nature.
The Friendly One seeks human generations, destroying, still new bands of evil beings.
I saw the horde [=year?] on the move from afar, turning by its own power, without a wheel. It escorts forward the generations of peoples of the stranger,
diminishing their “tails” at the same time as transforming itself
ever anew.
Ich sah die Schar aus der Ferne herfahren, die ohne Rad durch eigne Kraft sich bewegt; der gütige [Sonnengott, oder Savitar?] geht voran den Geschlechtern der Menschen, in einem Tage sich erneuend, Dämonen [çiçnâ hier gleich çiçnádevān] vertilgend.
Ich sah von ferne einen Clan auf der Fahrt, der sich aus eigener Triebkraft ohne Räder bewegte. Er verfolgt die Geschlechter des hohen Herrn und der anderen Leute, die männlichen Glieder alsbald schwächend, selbst sich verjüngend.
ए॒तौ मे॒ गावौ॑ प्रम॒रस्य॑ यु॒क्तौ मो षु प्र से॑धी॒र्मुहु॒रिन्म॑मन्धि । आप॑श्चिदस्य॒ वि न॑श॒न्त्यर्थं॒ सूर॑श्च म॒र्क उप॑रो बभू॒वान् ॥
ए॒तौ । मे॒ । गावौ॑ । प्र॒ऽम॒रस्य॑ । यु॒क्तौ । मो इति॑ । सु । प्र । से॒धीः॒ । मुहुः॑ । इत् । म॒म॒न्धि॒ । आपः॑ । चि॒त् । अ॒स्य॒ । वि । न॒श॒न्ति॒ । अर्थ॑म् । सूरः॑ । च॒ । म॒र्कः । उप॑रः । ब॒भू॒वान् ॥
कार्यकारणयोरभेदोपचारात् ‘आत्मा वै पुत्रनामासि' ( आश्व. गृ. १.१५.११) इति वचनाच्चेन्द्ररूपेणावस्थितस्य प्रमरस्य प्रकर्षेण शत्रूणां मारयितुः मे मम स्वभूतौ एतौ एतादृशौ युक्तौ रथे नियुक्तौ सु सुष्ठु पूजितौ गावौ शत्रून् यज्ञांश्च प्रति गन्तारौ हरी मो प्र सेधीः । स्तुत्युपसंहारकरणेनास्मद्यज्ञान्मापगमय । किं तर्हि मुहुरित् मुहुर्मुहुः ममन्धि पुनःपुनः स्तुहि ममात्मन्नित्यर्थः । आपश्चित् वृष्टिलक्षणान्युदकान्यपि अस्य इन्द्रस्य अर्थं गतिं वि नशन्ति । विनशतिर्व्याप्तिकर्मा । व्याप्नुवन्ति । तथा सूरश्च सूर्यश्च व्याप्नोति । कीदृशः । मर्कः मार्जयिता सर्वस्य शोधयिता उपरः मेघसदृशः बभूवान् भवन् । मेघवच्छीघ्रगतिः सन्नित्यर्थः ॥ ॥ १८ ॥
“Turn not back, but repeatedly praise these two yoked (steeds) of me the destroyer, which advance (tothe foe and to the sacrifice); the waters fulfil Indra's purpose and (so does) the all-cleansing sun, being (swift as)a cloud.”
These my two Bulls, even Pramara's, are harnessed: drive them not far; here let them often linger.
The waters even shall aid him to his object, and the all-cleansing Sun who is above us.
These two oxen of the Pulverizer [=old age? death?] have been yoked for me. Do not drive (them) forth; wait just an instant.
The waters also come through to the goal of this one, and he has come into being as the Harmer below the sun.
»Diese meine beiden Stiere des Todes sind angeschirrt«; lasse sie nicht vorschreiten, halte schnell inne; die Wasser auch erreichen das Ziel, was er ihnen setzte; auch der Sonne Verfinsterung ist später eingetreten [nachdem sie ihr Ziel erreicht?].
Diese beiden Rinder des Todes sind für mich angespannt; treibe sie doch ja nicht an, warte noch ein Weilchen! Auch die Gewässer erreichen sein Ziel, auch hinter der Sonne ist die Vernichtung zurückgeblieben.
अ॒यं यो वज्र॑: पुरु॒धा विवृ॑त्तो॒ऽवः सूर्य॑स्य बृह॒तः पुरी॑षात् । श्रव॒ इदे॒ना प॒रो अ॒न्यद॑स्ति॒ तद॑व्य॒थी ज॑रि॒माण॑स्तरन्ति ॥
अ॒यम् । यः । वज्रः॑ । पु॒रु॒धा । विऽवृ॑त्तः । अ॒वः । सूर्य॑स्य । बृ॒ह॒तः । पुरी॑षात् । श्रवः॑ । इत् । ए॒ना । प॒रः । अ॒न्यत् । अ॒स्ति॒ । तत् । अ॒व्य॒थी । ज॒रि॒माणः॑ । त॒र॒न्ति॒ ॥
यः अयं वज्रः इन्द्रस्य स्वभूतः सूर्यस्य आदित्यस्य बृहतः महतः पुरीषात् पूरकात् मण्डलात् अवः अवस्तादधोभागे स्थितेषु विवृत्तः वृष्ट्यर्थं प्रवृत्तः पतितः । इच्छब्दोऽप्यर्थे । तच्छब्दश्रुतेर्यच्छब्दोऽध्याहार्यः । परः परस्तादन्तरिक्षलोकस्योपरि स्थिते सूर्यमण्डले स्थितम् एना एनत्। श्रवः इत्यन्ननाम । तद्धेतुत्वादुदकं श्रव इत्युच्यते । यदप्युदके मेघोदरगतादुदकात् अन्यत् अपि अस्ति अव्यथी व्यथारहिताः जरिमाणः स्तोतारो मरुदादयः तत् तादृशमुदकं तरन्ति अन्तरिक्षलोकं प्रत्यवतारयन्ति ।
“This is the thunderbolt which repeatedly falls (on those who are) below the orb of the vast sun; theworshippers easily cause this water (in the sun's orb) above which is differnet form that (in the clouds) to passthrough (the firmament).”
This is the thunderbolt which often whirleth down from the lofty misty realm of Surya.
Beyond this realm there is another glory so through old age they pass and feel no sorrow.
This is the mace that has been rolled out in many ways, below the fullness of the lofty sun.
But there exists other fame beyond this. Unwaveringly, old age
crosses to it.
Dieser Donnerkeil, der vielfach nach verschiedenen Seiten sich bewegt, befindet sich unter dem Dunstkreis der hohen Sonne; eine andere Herrlichkeit ist jenseit dieses [Dunstkreises]; dahin dringt auf sicherm Wege das Alter der Greise.
Dieser Vajra, der vielmals zersplittert wird unterhalb des Wasserquells der hohen Sonne - Anders ist der Ruhm oberhalb dieses, den holt das Alter unfehlbar ein.
वृ॒क्षेवृ॑क्षे॒ निय॑ता मीमय॒द्गौस्ततो॒ वय॒: प्र प॑तान्पूरु॒षाद॑: । अथे॒दं विश्वं॒ भुव॑नं भयात॒ इन्द्रा॑य सु॒न्वदृष॑ये च॒ शिक्ष॑त् ॥
वृ॒क्षेऽवृ॑क्षे । निऽय॑ता । मी॒म॒य॒त् । गौः । ततः॑ । वयः॑ । प्र । प॒ता॒न् । पु॒रु॒ष॒ऽअदः॑ । अथ॑ । इ॒दम् । विश्व॑म् । भुव॑नम् । भ॒या॒ते॒ । इन्द्रा॑य । सु॒न्वत् । ऋष॑ये । च॒ । शिक्ष॑त् ॥
वृक्षेवृक्षे सर्वस्मिन् वृक्षमये धनुषि नियता संबद्धा गौः गोसंबन्धिनी स्नायुमती मौर्वी मीमयत् । मीमयतिः शब्दकर्मा। आकृष्यमाणा सती शब्दं करोति । ततः तस्माद्धनुषः पुरुषादः शत्रुजनानामत्तारः। मारयितार इत्यर्थः । वयः पक्षिसदृशा गन्तारो बाणाः प्र पतान् शत्रून् प्रति प्रपतन्ति। अथ तदानीम् इन्द्राय इन्द्रार्थं सुन्वत् सोमयागं कुर्वत् ऋषये च शिक्षत् कर्मणां द्रष्ट्र ऋत्विजे च संपूर्णां दक्षिणां दददपि इदम् ईदृशं विश्वं समस्तं भुवनं भूतजातं भयाते इन्द्राद्बिभेति । अन्यत्किमुतेत्यर्थः ॥
“The bowstring fixed to each bow clangs loudly; then the man-destroying (shafts like) birds fall upon(the foes); and the whole of this world is alarmed, presentinglibations to Indra, and donations to the Ṛṣis.”
Bound fast to,every tree the cow is lowing, and thence the man-consuming birds are flying,
Then all this world, though pressing juice for Indra and strengthening the Rsi, is affrighted.
Held in check within every tree, the cow [=fire?] will bellow. From there the man-eating birds [=flames?] will fly forth.
Then all this creation here will be afraid, though pressing (soma) for Indra and doing its best for the seer.
An jedem Baume angebunden brüllt die Kuh [des Todes, vgl. Vers 20], von dort her fliegen vor die den Menschen verzehrenden Vögel; darum ist diese ganze Welt voll Furcht, jeder braue dem Indra Soma, und beschenke den Sänger [um dem Tode zu entgehen].
An jedem Baume befestigt brüllt die Kuh, von da sollen die menschenfressenden Vögel auffliegen. Dann wird diese ganze Welt Furcht bekommen, dem Indra Soma pressend und dem Rishi zu Diensten stehend.
दे॒वानां॒ माने॑ प्रथ॒मा अ॑तिष्ठन्कृ॒न्तत्रा॑देषा॒मुप॑रा॒ उदा॑यन् । त्रय॑स्तपन्ति पृथि॒वीम॑नू॒पा द्वा बृबू॑कं वहत॒: पुरी॑षम् ॥
दे॒वाना॑म् । माने॑ । प्र॒थ॒माः । अ॒ति॒ष्ठ॒न् । कृ॒न्तत्रा॑त् । ए॒षा॒म् । उप॑राः । उत् । आ॒य॒न् । त्रयः॑ । त॒प॒न्ति॒ । पृ॒थि॒वीम् । अ॒नू॒पाः । द्वा । बृबू॑कम् । व॒ह॒तः॒ । पुरी॑षम् ॥
देवानां सर्वेषां माने निर्माणे । सृष्टिकाल इत्यर्थः । जगत्स्थितिहेतुभूतरसानुप्रदानकर्मणि स्रष्टव्यत्वेन प्रथमा अतिष्ठन् इन्द्रादेशादेते पूर्वे स्थिताः । क एते । मेघाः। कुत एतदवगम्यते । परस्मिन् पादे तेषामनुकथनात् । उक्तं हि मेघा एव माध्यमिका देवगणा इति (निरु. २. २२)। एषाम् एवंभूतानां मेघानां कृन्तत्रात् छेदनात् उपराः । मेघनामैतत् । तत्रस्था आप उच्यन्ते । मेघस्था आपः उदायन् उत्पन्नाः । वृष्टिभावेन भूमौ निपातिता इत्यर्थः । पातितास्वप्स्विन्द्रस्याज्ञया पर्जन्यो वायुरादित्य इत्येते त्रयः देवाः पृथिवीं भूमिम् । तत्रस्था ओषधीरित्यर्थः । तपन्ति वृष्टिशीतोष्णैः संतापयन्ति। पावयन्तीत्यर्थः । कीदृशाः । अनूपाः वर्षादीनामानुपूर्व्येण वप्तारः प्रभावयितारः । प्रक्षेप्तार इत्यर्थः । द्वा द्वौ वाय्वादित्यौ पाचितास्वोषधीषु स्थितं पुरीषं सर्वस्य प्रीणयितृ पूरयितृ वा बृबूकम् उदकमादित्यमण्डलं प्रति वहतः । वायुः शोषयन्नादित्यो रश्मिभिराददान इत्यर्थः ॥
“At the creation of the gods, the (clouds) stood first; from their division, the waters (of the rain) cameforth; the three divinities (Parjanya, Vāyu and Āditya). Sowing in succession, warm the earth; two of them(Vāyu and Āditya) convey all-delighting water (to the sun's sphere).”
In the Gods' mansion stood the first-created, and from their separation came the later.
Three warm the Earth while holding stores of water, and Two of these convey the murmuring moisture.
The first of the gods stood still at the measuring (of the sacrificial ground?); the later ones of them came up from the cutting (of it).
Three marshy places [=fire hearths?] heat the earth; the two (horses?) convey the “stammerer” [?] [=Indra?] to the fullness (of the sacrifice? of the sun?).
In der Wohnung der Götter standen die ersten, aus ihrem Abfall entsprangen die spätern, drei wasserreiche wärmen die Erde, zwei führen den [zu Regen] verdichteten Nebel herbei.
Die ersten der Götter waren bei dem Bau der Welt zugegen; die späteren von ihnen kamen aus der Tiefe herauf. Drei Büffel erhitzen die Erde, zwei führen das Wasser, den Wasserquell her.
सा ते॑ जी॒वातु॑रु॒त तस्य॑ विद्धि॒ मा स्मै॑ता॒दृगप॑ गूहः सम॒र्ये । आ॒विः स्व॑: कृणु॒ते गूह॑ते बु॒सं स पा॒दुर॑स्य नि॒र्णिजो॒ न मु॑च्यते ॥
सा । ते॒ । जी॒वातुः॑ । उ॒त । तस्य॑ । वि॒द्धि॒ । मा । स्म॒ । ए॒ता॒दृक् । अप॑ । गू॒हः॒ । स॒म॒र्ये । आ॒विः । स्वरिति॑ स्वः॑ । कृ॒णु॒ते । गूह॑ते । बु॒सम् । सः । पा॒दुः । अ॒स्य॒ । निः॒ऽनिजः॑ । न । मु॒च्य॒ते॒ ॥
अत्रान्तरात्मनेन्द्रः स्तूयते । हे अन्तरात्मन् ते तव सा तादृश्यादित्यात्मिका देवता जीवातुः जीविका जीवनहेतुः । उत अपि च तस्य आदित्यस्य एतादृक् ईदृशं स्वरूपं समर्ये । संग्रामवाची समर्यशब्दोऽत्र यज्ञवाची । यज्ञे विद्धि जानीहि । स्तुत्यत्वेनेति शेषः । मा स्म अप गूहः मा खल्वपवृणोः । किंच निर्णिजः सर्वस्य शोधयितुरादित्यस्य स पादुः तच्च पादनं गमनं रश्मिद्वारेण गत्वा स्वः सर्वं त्रैलोक्यम् आविः कृणुते प्रकाशीकरोति। बुसम् उदकं गूहते संवृणोति । आदत्त इत्यर्थः । अस्मै प्रयोजनद्वयायादित्येन निर्वेदनाच्छ्रमेण वा गमनं न मुच्यते । न कदाचित्परित्यज्यत इत्यर्थः ॥ ॥ १९ ॥
“That your (divine) nature identified with the (sun) is the cause of life; and know such (solar form) of his(to be worthy of adoration) at the sacrifice; conceal nothing; that motion of him the all-cleansing (sun) makesmanifest the universe; it absorbs the moisture; it is never discontinued.”
This is thy life: and do thou mark and know it. As such, hide not thyself in time of battle.
He manifests the light and hides the vapour: his foot is never free from robes that veil it.
This is your means of life. And know this—don’t hide away such a thing in the clash—
when the sun reveals itself, it hides the mist [?]. Its “foot” is released as if from a garment.
Dies ist dein Leben, und darauf achte, nicht mögest du solches vergessen [oder verbergen] in dem Kampfe; er macht den Himmelsglanz offenbar, verbirgt das Dunkel; sein Fuss wird des Schmuckes nicht entkleidet.
Dies ist dein Lebenszweck, sei auch dessen eingedenk; verbirg solches nicht im Kampfe! Wenn die Sonne sich offenbart, so versteckt sie die Hülse, die Hülle. Dieser ihr Fuß macht sich los wie von einem Gewand.