वने॒ न वा॒ यो न्य॑धायि चा॒कञ्छुचि॑र्वां॒ स्तोमो॑ भुरणावजीगः । यस्येदिन्द्र॑: पुरु॒दिने॑षु॒ होता॑ नृ॒णां नर्यो॒ नृत॑मः क्ष॒पावा॑न् ॥
वने॑ । न । वा॒ । यः । नि । अ॒धा॒यि॒ । चा॒कन् । शुचिः॑ । वा॒म् । स्तोमः॑ । भु॒र॒णौ॒ । अ॒जी॒ग॒रिति॑ । यस्य॑ । इत् । इन्द्रः॑ । पु॒रु॒ऽदिने॑षु । होता॑ । नृ॒णाम् । नर्यः॑ । नृऽत॑मः । क्ष॒पाऽवा॑न् ॥
वने न वा यो न्यधायीति । वने न वन इव वृक्ष इव शकुनिः स्वे नीड़े वायमात्मीयं पुत्रं न्यधायि निदधाति शिशुकमजातपक्षम्। स यथा तत्र निहितः चाकन् पश्यन् भयाद्दिशो निरीक्षमाण आसीत् । अथवा कामयमानस्तदुत्सुकमना आसीत् । एवमयमस्मासु वृक्षस्य नीडभूतेषु शकुनिपुत्रभूतः शुचिः व्यपगतसर्वदोषो युवयोः स्वभूतः स्तोमः हे भुरणौ भर्तारावश्विनौ शीघ्रौ वा। भुरण्युरिति क्षिप्रनामेति । किंच यस्य स्तोमस्य पुरुदिनेषु बहुष्वहःसु इन्द्रः होता इन्द्रोऽप्याह्वाता भवति ममायं स्तोमः स्यादिति । किंल्लक्षणः पुनरिन्द्र आह्वाता । यः नृणां मनुष्याणां नृतमः मनुष्याणामपि मनुष्यतमः । शूराणामपि मध्ये शूरतम इत्यर्थः । नर्यः च नृभ्यो हितो यः क्षपावान् च रात्रिपर्यायेषु सोमभागः । एवं गुणयुक्तेन यः स्तोम इन्द्रेणापि प्रार्थ्यतेऽस्मासु वर्तमानः स युवां प्रति अजीगः नित्यकालमेव गच्छतीत्यर्थः । एवं तावदेतामृचमाश्विनीमिति कृत्वा व्याचक्षते । तदसाधु । ऐन्द्रे हि सूक्ते प्रथमैवेयं भवति। तच्च पुनः पृष्ठ्यस्य षष्ठेऽहनि स्तोमे वर्धमाने माध्यंदिने सवने ब्राह्मणाच्छंसिनः शस्त्रे विनियुज्यते । हे भुरणौ भर्तारौ देवानां पती य एष स्तोमोऽस्मासु निहितः शुचिर्व्यपगतदोषः शकुनिपुत्र इव वने वनावयवे वृक्षे चाकन् पश्यन्निव कामयमान इव वेन्द्रमास्ते । यस्य स्तोमस्य किमिति । यस्येन्द्रः पुरुदिनेषु बहुष्वहःस्वाह्वाताभूत् अपि नाम मामनेन स्तोमेन स्तुयुरिति । किल्ँलक्षणः पुनराह्वाता । यस्येदिन्द्र इति नृणां नृतमो नर्यश्च क्षपावांश्च समानमेतत्पूर्वेणार्थेन । यमेवमिन्द्रः प्रार्थयते स एष स्तोमस्तं प्रत्यजीगः गच्छतीत्यर्थः । अथवा स एष स्तोमोऽस्माभिरुदीर्यमाणस्तस्येन्द्रस्य गुणान्गृह्णातीति स्यात् । 'जिगर्तिर्गृह्णातिकर्मा’ (निरु.६.८) इति ह्युक्तम् । एवमत्र चाकन्नित्यस्य चायन्निति वा कामयमान इति वेत्येतौ विपरिणामावुपपद्यते शब्दसारूप्यादविरोधाच्च । एतस्मिन्निगमे पदविभागगतः कश्चिद्विचारोऽस्ति । तमाह भाष्यकारः-'वेति च य इति च चकार शाकल्यः' (निरु. ६. २८) इति । वेति य इति च पदे चकार शाकल्यः पदकारः । तदेतद्विचार्यमाणं न साधु भवति । किं कारणम्। 'उदात्तं त्वेवमाख्यातमभविष्यत् । एवमेतस्मिन् पदद्वये सति यदेतदाख्यातं न्यधायीति तदुदात्तमभविष्यत् । यद्वृत्तात्परस्थ नित्यमाख्यातस्य निघातो न भवतीति लक्षणविदो मन्यन्ते । न चेदमुदात्तम् । तस्माद्य इति नेदं यद्वृत्तं किं तर्हि वाय इत्येकमेव पदम्। किंच।’असुसमाप्तश्चार्थः'। अपुष्कलः । एवमेव तस्मिन्पदद्वये सति मन्त्रस्यार्थोsसुसमाप्तो भवति ॥३॥
“As (the bird) who deposits its young (in its nest) in the tree (is) eagerly looking around, so you bearers(Aśvins) your pure praise (ever) keeps you awake; (that praise) of which Indra has for many days been theinvoker, (Indra) the friend of man, the manliest of men, (to whom the Soma) is offered at night.”
As sits the young bird on the tree rejoicing, ye, swift Pair, have been roused by clear laudation,
Whose Herald-Priest through many days is Indra, earth's Guardian, Friend of men, the best of Heroes.
Whether he takes pleasure in the wood or not, he [=Agni] has been installed (as priest) [/been deposited (in the wood)]. The gleaming
praise has waked you two, o bustling ones [=Aśvins, or Agni and
Indra]—
(the praise) in which Indra (took pleasure) on many days (as did) the Hotar [=Agni]—(each being) the manly one, best man among men,
earth-protector.
Dem Vogel gleich, der fröhlich auf dem Baum sitzt, hat, muntre, euch erweckt das helle Loblied, Dess Herold Indra in der Tage Lauf ist, der Männer starker, männlichster Beschirmer.
Eingesetzt ist er, der am Holz oder nicht Wohlgefallen hat - das reine Loblied hat euch beide, ihr zwei Wanderer, geweckt, an dem Indra an den vielen Opfertagen Wohlgefallen hat, - der Hotri, der Männliche, Mannhafteste der Männer, der Beschützer.
Кто радовался дереву или нет, был усажен как хотар -
Частая хвала пробудила вас, о двое подвижных –
У кого Индра много дней (вкушал жертвы),
Мужественный среди мужей, самый мужественный властелин.
प्र ते॑ अ॒स्या उ॒षस॒: प्राप॑रस्या नृ॒तौ स्या॑म॒ नृत॑मस्य नृ॒णाम् । अनु॑ त्रि॒शोक॑: श॒तमाव॑ह॒न्नॄन्कुत्से॑न॒ रथो॒ यो अस॑त्सस॒वान् ॥
प्र । ते॒ । अ॒स्याः । उ॒षसः॑ । प्र । अप॑रस्याः । नृ॒तौ । स्या॒म॒ । नृऽत॑मस्य । नृ॒णाम् । अनु॑ । त्रि॒ऽशोकः॑ । श॒तम् । आ । अ॒व॒ह॒न् । नॄन् । कुत्से॑न । रथः॑ । यः । अस॑त् । स॒स॒ऽवान् ॥
अस्याः वर्तमानाया ईदृश्याः उषसः नृतौ । 'नृ नये' नयने प्रापणे । उदयकाल इत्यर्थः । नृणां नेतॄणां मध्ये नृतमस्य अतिशयेन नेतुः ते तव इन्द्रस्य स्तुत्या यागेन च प्र स्याम वयं प्रकृष्टा भवेम । तथा हे इन्द्र अपरस्याः आगामिन्याश्चोषसो नृतौ प्रापणे तव स्तुत्या यागेन च वयं प्रकृष्टा भवेमेत्याशास्महे । किंच त्रिशोकः नामर्षिः हे इन्द्र त्वामाराध्य त्वत्प्रसादात् शतं बहून् अनु अनुचरभूतान् नॄन् मनुष्यान् आवहत् प्रापितवान् । लब्धवानित्यर्थः। तथा तव कुत्सस्य च ससवान् सनिता युगपदेव संभक्ता यः रथः असत् अस्ति स रथः कुत्सेन कुत्सो लब्धवानिति शेषः । तथा च मन्त्रान्तरे श्रूयते- यासि कुत्सेन सरथमवस्युः' (ऋ. सं. ४. १६. ११) इति । यस्मादेवं तस्मात्त्वत्प्रसादाद्वयं प्रकृष्टा भवेमेत्यर्थः ॥
“May we be prosperous at the coming of the present or of any future dawn, (through the adoration) ofyou, the chief leader of men; through your favour Triśoka obtained a hundred followers; the chariot which wascommon to him and you was acquired by Kutsa.”
May we, when this Dawn and the next dance hither, be thy best servants, most heroic Hero!
Let the victorious car with triple splendour bring hitherward the hundred chiefs with Kutsa.
At the forefront of this dawn here and of the later one, might we be at the manly prancing of you [=Indra], who are the best man of men.
Triśoka [/the three-flamed one (=Agni)] brought a hundred men
here (on the same chariot) with Kutsa—the chariot that will be
victorious.
Wir gehn voran dir männlichstem der Männer bei dieses und des spätern Morgens Glanze, Es fuhr der dreifach lichte hundert Männer, der Wagen, der durch Kutsa hergelange.
Wir wollen an dieser und der zukünftigen Morgenröte bei deinem, des Mannhaftesten der Männer, Antanzen und Auftreten, den Vorrang haben. Trisoka fuhr, mit sich hundert Männer, auf dem Wagen, der durch Kutsa der Gewinnende werden sollte.
На этой (и) на будущей утренней заре мы хотим быть
Впереди при танце самого мужественного из мужей!
Тришока привез с собой сотню мужей на колеснице,
Которая станет победительницей благодаря Кутсе.
कस्ते॒ मद॑ इन्द्र॒ रन्त्यो॑ भू॒द्दुरो॒ गिरो॑ अ॒भ्यु१॒॑ग्रो वि धा॑व । कद्वाहो॑ अ॒र्वागुप॑ मा मनी॒षा आ त्वा॑ शक्यामुप॒मं राधो॒ अन्नै॑: ॥
कः । ते॒ । मदः॑ । इ॒न्द्र॒ । रन्त्यः॑ । भू॒त् । दुरः॑ । गिरः॑ । अ॒भि । उ॒ग्रः । वि । धा॒व॒ । कत् । वाहः॑ । अ॒र्वाक् । उप॑ । मा॒ । म॒नी॒षा । आ । त्वा॒ । श॒क्या॒म् । उ॒प॒ऽमम् । राधः॑ । अन्नैः॑ ॥
हे इन्द्र ते तवेपन्मध्यमोत्तमानां सोमजन्यानां मदानां मध्ये कः मदः रन्त्यः रमयिता प्रीतिकरः भूत् भवति । त्वत्प्रीतिकरमदयोग्यसोमदानाभिप्रायेणायं प्रश्नः । उग्रः ओजस्वी त्वं दुरः यज्ञगृहद्वाराणि गिरः स्तुतिलक्षणा वाचश्च अभि वि धाव अभ्यागच्छ । किंच कत् कदा वाहः । इन्द्रं प्रत्युह्यत इति वाहः सोम उच्यते । एवंभूतः अर्वाक् त्वत्प्रसादात्फलदानायास्मदभिमुखो भविष्यतीति शेषः । अपि च कदा मनीषा सवार्थदर्शिनी प्रज्ञा सर्वगुणग्राहिणी स्तुतिर्वा मा मां त्वत्प्रसादात् उप गमिष्यतीति शेष: । कदा हे इन्द्र त्वा त्वाम् । आ इत्युपसर्गश्रुतेर्योग्यपदाध्याहारः। आराध्य वयम् अन्नैः सह राधः धनम् उपमं मत्समीपं शक्याम् । शकिरत्र गत्यर्थोऽन्तर्भावितण्यर्थः । संगमयेयम् ॥
“What sort of exhilaration, Indra, is agreeable to you? You who are powerful hasten to the doors (of thesacrificial chamber) to our praises; when will the Soma be present? (When will) intelligence (come) to me? When,having propitiated you, may I acquire wealth and food?”
What was the gladdening draught that pleased thee, Indra? Speed through our doors to songs, for thou art mighty.
Why comest thou to me, what gift attracts thee? Fain would I bring thee food most meet to offer.
Which exhilarating drink is to be enjoyed by you, Indra? As powerful one, run to my hymns through the doors.
When (will) the vehicle, (that is,) the inspired thoughts, (come) near to me? I would compel you here to highest generosity with (my offerings of) food.
Welch Rauschtrank war's, der, Indra, dich erfreute? lauf durch die Thore, starker, zu den Liedern; Wirst du mit Huld zu mir herbei dich wenden? Durch Speisen lock' ich dich zur schönsten Spende.
Welcher Rauschtrank ist für dich der Freudenbringende, Indra? Laufe du, der Gewaltige, durch das Tor zu den Lobreden! Welche Anziehungskraft zu mir her übt die Dichtung? Ich möchte dich mit Speisen zur höchsten Freigebigkeit vermögen.
Какое же опьянение, Индра, будет тебе угодно?
Спеши же как грозный к вратам, к хвалебным песням!
Что за приношение – поэзия, (направляющая тебя) в наши края, ко мне?
С помощью (жертвенных) яств я хотел бы побудить тебя к высшему дарению?
कदु॑ द्यु॒म्नमि॑न्द्र॒ त्वाव॑तो॒ नॄन्कया॑ धि॒या क॑रस॒य कन्न॒ आग॑न् । मि॒त्रो न स॒त्य उ॑रुगाय भृ॒त्या अन्ने॑ समस्य॒ यदस॑न्मनी॒षाः ॥
कत् । ऊँ॒ इति॑ । द्यु॒म्नम् । इ॒न्द्र॒ । त्वाऽव॑तः । नॄन् । कया॑ । धि॒या । क॒र॒से॒ । कत् । नः॒ । आ । अ॒ग॒न् । मि॒त्रः । न । स॒त्यः । उ॒रु॒ऽगा॒य॒ । भृ॒त्यै । अन्ने॑ । स॒म॒स्य॒ । यत् । अस॑न् । म॒नी॒षाः ॥
हे इन्द्र त्वं कदु कदा वा द्युम्नं हविर्लक्षणमस्मदीयमन्नं भुक्त्वेति शेषः। कया धिया केन कर्मणा नॄन नेतॄनस्मान् त्वावतः त्वत्सदृशान् करसे करिष्यसि । कत् कदा नः अस्मान् प्रति आगन् आगमिष्यसि। सत्यः अनवद्य इत्यर्थः। मित्रो न सखेव तथा । हे उरुगाय बहुकीर्त इन्द्र त्वं भृत्यै भरणाय पोषणाय भवसीति शेषः। यत् यदा समस्य अस्मदादिकस्य सर्वस्य जगतः अन्ने जगत्स्थितिनिमित्त आहारे मनीषाः अन्नाभिलक्षणा बुद्धयः असन् भवेयुः । तदा सर्वस्य पोषणाय त्वं भवसीत्यर्थः ॥
“When, Indra, (having partaken of) our oblation, and by what sacred rite, will you render menresembling you? When will you bring them to us? You, who are widely renowned, are to us like a true friend,(attentive) for our support, when the minds of all were (anxious) for food.”
Indra, what fame hath one like thee mid heroes? With what plan wilt thou act? Why hast thou sought us?
As a true Friend, Wide-Strider! to sustain us, since food absorbs the thought of each among us.
When (will) the brilliance of one such as you (come) to our men, Indra? With which hymnic vision will you equip yourself? When will you
come to us,
(to be) actually present like an ally, o wide-ranging one, for our
offering—though there could be inspired thoughts at anybody’s food (offering)?
Wann wirst du Glanz verschaffen deinen Dienern? durch welch Gebet? wann wirst du zu uns kommen, Weitschreitender, als wahrer Freund, zur Labung, dass jedes Opfers sich dein Sinn erfreue?
Was ist die Herrlichkeit eines unter den Herren, der dir gleicht, Indra? Durch welche Kunst kannst du gewonnen werden? Bist du zu uns gekommen wie ein wahrhafter Freund, du Weitschreitender, zur Verpflegung, da eines jeden Sinnen auf Speise gerichtet sein wird?
Что же это за великолепие, о Индра, у такого, как ты, среди мужей?
С помощью какого искусства тебя можно привлечь? Пришел ли ты к нам
Как истинный друг, о широкошагающий, для питания,
Потому что молитва каждого будет устремлена к еде?
प्रेर॑य॒ सूरो॒ अर्थं॒ न पा॒रं ये अ॑स्य॒ कामं॑ जनि॒धा इ॑व॒ ग्मन् । गिर॑श्च॒ ये ते॑ तुविजात पू॒र्वीर्नर॑ इन्द्र प्रति॒शिक्ष॒न्त्यन्नै॑: ॥
प्र । ई॒र॒य॒ । सूरः॑ । अर्थ॑म् । न । पा॒रम् । ये । अ॒स्य॒ । काम॑म् । ज॒नि॒धाःऽइ॑व । ग्मन् । गिरः॑ । च॒ । ये । ते॒ । तु॒वि॒ऽजा॒त॒ । पू॒र्वीः । नरः॑ । इ॒न्द्र॒ । प्र॒ति॒ऽशिक्ष॑न्ति । अन्नैः॑ ॥
सूरः सूर्यः अर्थं न यथार्तारं गन्तारं योगिनमनुगृह्णन् पारं संसारस्यान्तमपवर्गं गमयति तथा हे इन्द्र त्वं यजमानान् संसारस्यान्तं प्रेरय गमय । ये अस्मदादयो यजमानाः अस्य तवेन्द्रस्य कामं सोमपानेच्छां ग्मन् । गमिरत्र विपूर्वोऽन्तर्भावितण्यर्थश्च द्रष्टव्यः । विगमयन्ति महता सोमपानेनापनयन्ति। तत्र दृष्टान्तः । जनिधाइव। जनीनां जायानां संभोगकाले शय्यासु धारयितारः पतयो यथा प्रभूतसंभोगप्रदानेन मैथुनेच्छामपनयन्ति तद्वत् । किंच नरः नेतारोऽस्मदादयः ये यजमानाः हे तुविजात बहुरूप । रूपंरूपं प्रतिरूपो बभूव '(ऋ. सं. ६.४७.१८ ) इति वचनात् । सर्वात्मन् इन्द्र ते तुभ्यं पूर्वीः अनादिकालप्रवृत्ताः गिरश्च स्तुतिलक्षणा वाचश्च अन्नैः पुरोडाशादिहविर्भिः सह प्रतिशिक्षन्ति प्रतिकालं प्रयच्छन्ति तानस्मदीयान् यजमानान् पारं गमयेति पूर्वेण संबन्धः ॥ ॥ २२ ॥
“As the sun (brings) the ascetic, do you bring to the end (of existence) (your worshippers), who satisfyyour desire (fo the Soma), as husbands (the desire of their wives); and who (being) leaders of rites, multiformIndra, offer to you ancient praises with (sacrificial) viands.”
Speed happily those, as Surya ends his journey, who meet his wish as bridegrooms meet their spouses;
Men who present, O Indra strong by nature, with food the many songs that tell thy praises.
As the sun sends (each man) forth to his task, do you send forth, (like a boat) to the further shore, those who go, each to his own desire, as if going to the providers of wives,
and those men who seek to empower their many hymns for you,
powerfully born Indra, along with their (offerings of) food.
Führ hin wie zu der Sonne fernstem Ziele die Männer, die dies wünschend nun genaht sind Wie Brautbewerber, o gewalt'ger Indra, und viele Lieder dir und Speisen weihen.
Steure, wie die Sonne an ihr Ziel, diejenigen ans andere Ufer, die auf seinen Wunsch eingingen wie die Ehestifter auf den Wunsch der Freier, und welche Herren die vielen Lobreden auf dich mit Speisen zu vergelten suchen, o starkgearteter Indra.
Переправь, как солнце – к цели, на другой берег (тех),
Кто по его желанию отправился, как сваты,
И (тех) мужей, о рожденный силой Индра, что стараются
Помочь тебе многими песнями (и) яствами.
मात्रे॒ नु ते॒ सुमि॑ते इन्द्र पू॒र्वी द्यौर्म॒ज्मना॑ पृथि॒वी काव्ये॑न । वरा॑य ते घृ॒तव॑न्तः सु॒तास॒: स्वाद्म॑न्भवन्तु पी॒तये॒ मधू॑नि ॥
मात्रे॒ इति॑ । नु । ते॒ । सुमि॑ते॒ इति॒ सुऽमि॑ते । इ॒न्द्र॒ । पू॒र्वी इति॑ । द्यौः । म॒ज्मना॑ । पृ॒थि॒वी । काव्ये॑न । वरा॑य । ते॒ । घृ॒तऽव॑न्तः । सु॒तासः॑ । स्वाद्म॑न् । भ॒व॒न्तु॒ । पी॒तये॑ । मधू॑नि ॥
हे इन्द्र ते तव स्वभूतेन मज्मना शत्रूणां मज्जकेन काव्येन कर्मणा द्यौः पृथिवी द्यावापृथिव्यौ नु क्षिप्रं सुमिते निर्मिते । कीदृश्यौ । मात्रे निर्मात्र्यौ पूर्वी पूर्व्यौ महत्यौ। यस्मादीदृशेन महत्त्वेन युक्तः तस्मात् घृतवन्तः अग्निमुखत्वात् त्वां क्षरन्तो दीप्तिमन्तो वा सुसंस्कृतत्वात् यद्वाज्यसंयुक्ताः सुतासः अभिषुताः सोमाः वराय श्रेष्ठाय तुभ्यमिन्द्राय स्वाद्मन् भवन्तु । अस्माभिर्दत्ताः सन्तु । किमर्थम् । पीतये पानाय। मधूनि मधुररसात्मकानि पुरोडाशादीन्यन्नानि हवींषि भक्षणार्थं दत्तानि भवन्तु ॥
“By your overwhelming energy, Indra, the vast heaven and earth, the measurers (of all), have beenquickly constructed; may the Soma-libations mixed with ghī be acceptable (to you) who are most excellent; (maythe oblations be) sweet for your drinking.”
Thine are two measures, Indra, wide-wellmeted, heaven for thy majesty, earth for thy wisdom.
Here for thy choice are Somas mixed with butter: may the sweet meath be pleasant for thy drinking.
The two copious “measures,” heaven and earth, are now well fixed by your might, by your poetic skill.
Let the ghee-rich pressed soma-drinks be to your liking, let the
honey-drinks be in sweetness for your drinking.
Zwei Weiten sind dir, Indra, schön gemessen, durch Kraft der Himmel und die Erd' durch Weisheit; Zur Freude seien dir die fetten Tränke, die süssen Säfte lieblich dir zum Trinken.
Die beiden sind für dich, Indra, reichliche gutbemessene Maßstäbe: der Himmel an Größe, die Erde an Weisheit. Nach deinem Wunsche sollen die schmalzhaltigen Somasäfte sein, nach deinem Geschmack sollen die Süßtränke zum Trinken sein.
А две меры твои, о Индра, хорошо измерены, мощные:
Небо – величием, Земля – мудростью.
По твоему желанию (пусть выжимаются) соки Сомы, богатые жиром,
На (твой) вкус пусть будут сладкими для питья!
आ मध्वो॑ अस्मा असिच॒न्नम॑त्र॒मिन्द्रा॑य पू॒र्णं स हि स॒त्यरा॑धाः । स वा॑वृधे॒ वरि॑म॒न्ना पृ॑थि॒व्या अ॒भि क्रत्वा॒ नर्य॒: पौंस्यै॑श्च ॥
आ । मध्वः॑ । अ॒स्मै॒ । अ॒सि॒च॒न् । अम॑त्रम् । इन्द्रा॑य । पू॒र्णम् । सः । हि । स॒त्यऽरा॑धाः । सः । व॒वृ॒धे॒ । वरि॑मन् । आ । पृ॒थि॒व्याः । अ॒भि । क्रत्वा॑ । नर्यः॑ । पौंस्यैः॑ । च॒ ॥
अस्मै इन्द्राय अस्येन्द्रस्यार्थं मध्वः मधुररसस्य सोमस्य पूर्णम् अमत्रं ग्रहचमसादिकं पात्रम् आ असिचन् आभिमुख्येन स्थित्वा परया भक्त्यास्मदीया ऋत्विजः सिक्तवन्तः अग्नौ प्रक्षिप्तवन्तः । हि यस्मात्कारणात् सः इन्द्रः सत्यराधाः सत्यधनः । यजमानेभ्यो दातव्यत्वेनाविसंवादिधन इत्यर्थः। तस्मादसिचन्निति संबन्धः । अग्नावासिक्तेन तेन पात्रेण तृप्तः सः इन्द्रः पृथिव्याः अन्तरिक्षस्य वरिमन् अतिशयेन विस्तीर्णे स्थाने आगत्य अभि ववृधे अभिवर्धते । कीदृश इन्द्रः । नर्यः नृभ्यो हितः । क्रत्वा वृत्रवधादिकर्मणा प्रज्ञानेन वा पौंस्यैश्च युक्त इति शेषः ॥
“(The worshippers) have poured out the vessel full of the sweet (Soma) (into the fire) for that Indra, forhe is true (to his promises) of wealth; Indra, the friend of man, (distinguished) by his actions, and his prowess, ismagnified throughout the expanse of the firmament.”
They have poured out a bowl to him, to Indra, full of sweet juice, for faithful is his bounty.
O'er earth's expanse hath he grown great by wisdom, the Friend of man, and by heroic exploits.
They poured out a tankard of honey for him, a full one for Indra, for he is one whose generosity is real.
He has grown strong on the expanse of the earth, the manly one
pre(eminent) through his will and his masculine powers.
Ergossen ist voll süssen Tranks die Kufe dem Indra, ihm, der wahre Güter spendet; Er wuchs empor auf weiter Erdenfläche, der männliche, an Geist und Heldenkräften.
Sie haben ihm einen Humpen des Süßtranks eingeschenkt, einen vollen dem Indra, denn seine Gaben sind zuverlässig. Er ward groß in der ganzen Breite der Erde, an Überlegungen und Manneskräften überragend, der Mannhafte.
Для него налили сладости в чашу,
Для Индры полную – ведь он истинно дарящий!
Он возрос во (всю) ширь земли,
Пре(восходя ее) силой духа и мужественными силами, (он,) мужественный.
व्या॑न॒ळिन्द्र॒: पृत॑ना॒: स्वोजा॒ आस्मै॑ यतन्ते स॒ख्याय॑ पू॒र्वीः । आ स्मा॒ रथं॒ न पृत॑नासु तिष्ठ॒ यं भ॒द्रया॑ सुम॒त्या चो॒दया॑से ॥
वि । आ॒न॒ट् । इन्द्रः॑ । पृत॑नाः । सु॒ऽओजाः॑ । आ । अ॒स्मै॒ । य॒त॒न्ते॒ । स॒ख्याय॑ । पू॒र्वीः । आ । स्म॒ । रथ॑म् । न । पृत॑नासु । ति॒ष्ठ॒ । यम् । भ॒द्रया॑ । सु॒ऽम॒त्या । चो॒दया॑से ॥
स्वोजाः शोभनबलः इन्द्रः पृतनाः शत्रुसेनाः व्यानट् व्याप्नोति । इन्द्रः संग्रामेषु केनाप्यप्रतिहन्यमानः सन् शत्रून् जयतीत्यर्थः। किंच पूर्वीः । अत्र पूर्वशब्द उत्कृष्टवाची । उत्कृष्टाः शत्रुसेना अप्रभवन्त्यः सत्यः अस्मै अस्येन्द्रस्य सख्याय संधित्वलक्षणाय सखित्वाय आ यतन्ते । संधिं कर्तुमिच्छन्तीत्यर्थः । अपरोऽर्धर्चः प्रत्यक्षकृतत्वाद्भिन्नं वाक्यम् । हे इन्द्र त्वं यं स्वीयं रथं भद्रया कल्याण्या सुमत्या शोभनथा परानुग्रहया बुद्ध्या चोदयासे यज्ञान् प्रति प्रेरयसि तं रथम् अस्मद्यज्ञं प्रत्यागन्तुं महतादरेण आ तिष्ठ आरोह। तत्र दृष्टान्तः । पृतनासु संग्रामेषु रथं न यथा स्वरथं महतादरेणातिष्ठसि तद्वत् । स्म इति पदपूरणः ॥ ॥२३॥ ॥२॥
“The powerful Indra reaches the hosts (of the enemy), the mightiest (hosts) exert themselves to obtainhis friendship; ascend, Indra, that chariot which you direct with favourable intent (to our sacrifice), as a chariot(which you mount) against the armies (of the foe).”
Indra hath conquered in his wars, the Mighty: men strive in multitudes to win his friendship.
Ascend thy chariot as it were in battle, which thou shalt drive to us with gracious favour.
The very powerful Indra has penetrated the battling hosts. The many (hosts) marshal themselves for him, for his comradeship.
Mount upon the hosts like a chariot that you will spur on with
auspicious benevolence.
Hymns X.30–34 are attributed to Kavaṣa Ailūṣa, though Oldenberg (1888: 234–35) entertains the possibility that this group should be joined with the Vasukra hymns that precede on the basis of shared phraseology.
Die Feinde hat besiegt der starke Indra, nach seiner Freundschaft streben viele Scharen; Besteige wie in Schlachten deinen Wagen und treib ihn her mit segensreicher Güte.
Der gewaltige Indra hat die Schlachten bestanden; viele Stämme bemühen sich um ihn zur Freundschaft. Besteige den Wagen wie in den Schlachten, den du glückbringender guter Absicht antreiben mögest!
Индра выигрывал сражения, (он,) очень сильный.
Многие (племена) стремятся к дружбе с ним.
Поднимись, как в сражениях, на колесницу,
Которую ты погонишь с добрым намерением!