प्र होता॑ जा॒तो म॒हान्न॑भो॒विन्नृ॒षद्वा॑ सीदद॒पामु॒पस्थे॑ । दधि॒र्यो धायि॒ स ते॒ वयां॑सि य॒न्ता वसू॑नि विध॒ते त॑नू॒पाः ॥
प्र । होता॑ । जा॒तः । म॒हान् । न॒भः॒ऽवित् । नृ॒ऽसद्वा॑ । सी॒द॒त् । अ॒पाम् । उ॒पऽस्थे॑ । दधिः॑ । यः । धायि॑ । सः । ते॒ । वयां॑सि । य॒न्ता । वसू॑नि । वि॒ध॒ते । त॒नू॒ऽपाः ॥
यः नृषद्वा अग्निः अपाम् । अन्तरिक्षनामैतत् । अन्तरिक्षस्य उपस्थे उत्सङ्गे वैद्युतरूपेण निषण्णोऽभूत् स इदानीं होता यजमानानां होमनिष्पादकः जातः प्रादुर्भूतः महान् गुणैः पूज्यः नभोवित् अन्तरिक्षस्य वेत्ता । यतस्तत्रोत्पन्नः अतस्तस्य ज्ञाता । नृषद्वा नृषु सीदन् । सदेः क्वनिप् कृत्स्वरः । प्र सीदत् वेद्यां प्रसीदति । अपामुपस्थे महिषा अगृभ्णत ' ( ऋ. सं. ६. ८. ४ ) इति हि निगमः । यद्वा । अपाम् । अपसामित्यर्थः । कर्मणामुपस्थ उपस्थाने समीपे वेद्यामुक्तलक्षणः सन् । अथवा । अपामुदकानामुपस्थे मध्ये योऽग्निर्हविर्वोढुमसहमानो निगूढः स देवैः पुनः प्रार्थितः उक्तविधः सन् वेद्यां प्रसीदति । यः अग्निः दधिः धाता यज्ञस्य धारकः सन् धायि वेद्यां निहितोऽभूत् सः अग्निः हे वत्सप्रे विधते परिचरते ते तुभ्यं वयांसि अन्नानि वसूनि धनानि च यन्ता नियमिता भवतु । किंच तनूपाः ते तन्वः पाता च भवत्विति शेषः ॥
“A mighty ministrant priest, one cognizant of heaven, though abiding with men, having been born, isseated on the lap of the waters; may he, the upholder (of sacrifice), who has been stationed (on the altar), be toyou when offering worship, the giver of food and riches, the protector of your person n.”
STABLISHED for thee, to lend thee vital forces, Giver of wealth, Guard of his servant's body.
The Great Priest, born, who knows the clouds, Abider with men, is seated in the lap of waters.
Forth (he goes) when just born—the Hotar, the great cloud-finder; seated among men, he sat down in the lap of the waters.
He who has been established establishes vital powers for you; he is the extender of goods to the man who does honor and he is the
protector of bodies.
Der Dunst-umhüllte grosse Priester sitze geboren nun im Wasserschooss bei Männern; Er, der gegebne Geber schenke Schätze, dir, dem Verehrer, deinen Leib beschützend.
Neugeboren tritt der große Hotri vor, der Wolkenkundige; der unter Männern Sitzende saß im Schoße der Gewässer. Der von dir erzeugt ist, er erzeugt dir Kräfte; er gewährt dem, der ihm dient, Schätze und ist ihm ein Leibesschirmer.
(Едва) родившись, он у(строился) как хотар, великий, знающий тучи;
Сидящий среди мужей, он уселся в лоне вод.
Кто установлен, тот устанавливает тебе жизненные силы.
Он наделяет благами того, кто служит ему, охраняет (его) тело.
इ॒मं वि॒धन्तो॑ अ॒पां स॒धस्थे॑ प॒शुं न न॒ष्टं प॒दैरनु॑ ग्मन् । गुहा॒ चत॑न्तमु॒शिजो॒ नमो॑भिरि॒च्छन्तो॒ धीरा॒ भृग॑वोऽविन्दन् ॥
इ॒मम् । वि॒धन्तः॑ । अ॒पाम् । स॒धऽस्थे॑ । प॒शुम् । न । न॒ष्टम् । प॒दैः । अनु॑ । ग्म॒न् । गुहा॑ । चत॑न्तम् । उ॒शिजः॑ । नमः॑ऽभिः । इ॒च्छन्तः॑ । धीराः॑ । भृग॑वः । अ॒वि॒न्द॒न् ॥
इमम् अग्निम् अपाम् उदकानां सधस्थे सहस्थाने मध्ये निगूढं विधन्तः परिचरन्त उपचारं वदन्तो वा ऋषयश्च पदैः पलायनमार्गव्यञ्जकैः नष्टं चोरादिभिरपहृतं पशुम् इव अनु ग्मन् अनुजग्मुः । गमेर्लुङि ‘ मन्त्रे घस' इति च्लेर्लुक् । तेषु मध्ये गुहा गुहायां चतन्तम् । चततिर्गतिकर्मा । अप्सु विलीनमित्यर्थः । उशिजः कामयमानाः नमोभिः नमस्कारैः स्तोत्रैर्वा इच्छन्तः आत्मन इच्छन्तः धीराः धीमन्तः भृगवः अविन्दन् लब्धवन्तः । अग्नेर्हविर्वोढुमसहमानस्य पलाय्याप्सु प्रवेशो देवानामन्वेषणं च ‘अग्नेस्त्रयो ज्यायांसः ' (तै. सं. २. ६. ६ ) इत्यत्र स्पष्टमाम्नातम् । अन्वेषणं कुर्वतां मध्ये भृगूणामग्निलाभः ‘इमं विधन्तो अपां सधस्थे द्वितादधुर्भृगवः' ( ऋ. सं. २. ४. २ ) इत्यत्रोक्तम् ॥
Worshipping, seeking him with adoration like some lost creature followed by its footprints,
Wise Bhrgus, yearning in their hearts, pursued him, and found him lurking where the floods are gathered.
This one here—having done honor to him in the seat of the waters, they followed him along his tracks like a vanished cow.
With reverences seeking him who was hiding in secret, the fire-priests, the insightful Bhr̥gus found him.
Ihm eilten in des Wassers Sitz die frommen mit Schritten nach wie dem verirrten Rinde; Ihn, den versteckten, fanden auf durch Andacht die weisen Bhrigu's, suchend mit Verlangen.
Ihm zu dienen in der Gewässer Behausung gingen sie wie einem verlorenen Vieh auf seinen Spuren nach. Als er heimlich floh, fanden ihn die Usij unter Verbeugung ihn suchend, die weisen Bhrigu´s.
Служа ему в месте, где находятся воды,
Они пошли по (его) следам, как за потерянным скотом.
Ушиджи, с поклонениями ища скрывающегося в тайне,
Нашли (его, эти) мудрые Бхригу.
इ॒मं त्रि॒तो भूर्य॑विन्ददि॒च्छन्वै॑भूव॒सो मू॒र्धन्यघ्न्या॑याः । स शेवृ॑धो जा॒त आ ह॒र्म्येषु॒ नाभि॒र्युवा॑ भवति रोच॒नस्य॑ ॥
इ॒मम् । त्रि॒तः । भूरि॑ । अ॒वि॒न्द॒त् । इ॒च्छन् । वै॒भु॒ऽव॒सः । मू॒र्धनि॑ । अघ्न्या॑याः । सः । शेवृ॑धः । जा॒तः । आ । ह॒र्म्येषु॑ । नाभिः॑ । युवा॑ । भ॒व॒ति॒ । रो॒च॒नस्य॑ ॥
इमं भूरि महान्तमग्निं वैभूवसः विभूवसः पुत्रः त्रितः ऋषिः इच्छन् लब्धुमिच्छन् अघ्न्यायाः । अघ्न्या भूमिः । तस्या भूम्याः मूर्धनि । भूम्यामित्यर्थः। तत्र अविन्दत् लब्धवान्। सः अग्निः शेवृधः सुखस्य वर्धयिता सन् हर्म्येषु यजमानगृहेषु आ सर्वतः जातः प्रादुर्भूतः सन् रोचनस्य रोचमानस्य स्वर्गाख्यस्य फलस्योक्तलक्षणस्य यज्ञस्य आदित्यस्य वा नाभिः बन्धकः भवति ॥
“Trita, the son of Vibhuvas, searching (for him), found mighty Agni on the head of the cow; he theaugmenter of happiness manifested in the dwellings (of the pious), the youthful (connecting) bond of theresplendent (Sun).”
On the Cow's forehead, with laborious searching, Trita, the offspring of Vibhiavas, found him.
Born in our houses, Youthful, joy-bestower, he now becomes the central point of brightness.
This one here—Trita Vaibhūvasa, much seeking, found him on the head of an inviolable cow.
Growing strong with kindness when just born here in the habitations, the youth becomes the navel of the luminous realm.
Auch Trita fand ihn, eifrig nach ihm suchend, der Sohn Vibhuvasu's am Kopf der Milchkuh; Geboren als der holde in den Häusern, wird nun des Lichtes Mittelpunkt der Jüngling.
Ihn fand Trita viel suchend, der Sohn des Vibhuvas, auf dem Haupte der Kuh. Als Liebling in den Herrscherhäusern geboren, wird der Jugendliche der Mittelpunkt des Lichts.
Долго ища, нашел его Трита,
Сын Вибхувасу, на голове коровы.
Рожденный как любимец в отгороженных местах,
Юный становится средоточием света.
म॒न्द्रं होता॑रमु॒शिजो॒ नमो॑भि॒: प्राञ्चं॑ य॒ज्ञं ने॒तार॑मध्व॒राणा॑म् । वि॒शाम॑कृण्वन्नर॒तिं पा॑व॒कं ह॑व्य॒वाहं॒ दध॑तो॒ मानु॑षेषु ॥
म॒न्द्रम् । होता॑रम् । उ॒शिजः॑ । नमः॑ऽभिः । प्राञ्च॑म् । य॒ज्ञम् । ने॒तार॑म् । अ॒ध्व॒राणा॑म् । वि॒शाम् । अ॒कृ॒ण्व॒न् । अ॒र॒तिम् । पा॒व॒कम् । ह॒व्य॒ऽवाह॑म् । दध॑तः । मानु॑षेषु ॥
उशिजः कामयमाना ऋत्विजः मन्द्रं मादनीयं होतारं होमनिष्पादकं प्राञ्चं गार्हपत्यादाहवनीयं प्रति प्रागञ्चन्तं यज्ञं यजनीयम् अध्वराणां यागानां नेतारं प्रापयितारम् अरतिं गन्तारं सर्वदा यागगृहे वर्तमानं पावकं शोधकं हव्यवाहं हविषो वोढारं मानुषेषु मनुष्येषु मध्ये दधतः दधाना ऋत्विजः विशां यजमानानामर्थाय । यद्वा । विशां प्रजानामरतिमर्यम् । स्वामिनमित्यर्थः । नमोभिः नमस्कारैः । स्तुतिभिरित्यर्थः । अकृण्वन् अकुर्वन् । सुप्रीतं कृतवन्तः ॥
“(The priests) desirous (to propitiate him), detaining him among men, have by their adoration made himlord over all people, him the exhilarator, the presenteer of burnt offerings, the migrator, the object of sacrifice, theleader of rites, the purifier, the bearer of oblations.”
Yearning, with homage, they have set and made him blithe Priest among mankind, oblation-bearer,
Leader of rites and Purifier, envoy of men, as sacrifice that still advances.
The fire-priests with their reverences made him the gladdening Hotar, the leader of the ceremonies, and made the sacrifice advance,
made him the pure circlet of the clans, when they established him as the oblation conveyor among the sons of Manu.
Den lieben Priester machten sie verlangend zum Opferfördrer zu der Feste Lenker, Den lichten mit Gebet zum Männerboten, bei Menschen ihn zum Opferfahrer weihend.
Die Usij machten ihn unter Verbeugungen zu ihrem wohlredenden Hotri, der das Opfer vorwärts führt, zum Leiter des Gottesdienstes, zum Rosselenker der Clane, den Lauteren als Opferfahrer unter den Menschen einsetzend.
Ушиджи с поклонениями сделали (его) сладкозвучным хотаром,
Направляющим жертву вперед, вождем обрядов,
Посланником племен, чистым,
Устанавливая (его) как возницу жертв среди людей.
प्र भू॒र्जय॑न्तं म॒हां वि॑पो॒धां मू॒रा अमू॑रं पु॒रां द॒र्माण॑म् । नय॑न्तो॒ गर्भं॑ व॒नां धियं॑ धु॒र्हिरि॑श्मश्रुं॒ नार्वा॑णं॒ धन॑र्चम् ॥
प्र । भूः॒ । जय॑न्तम् । म॒हान् । वि॒पः॒ऽधाम् । मू॒राः । अमू॑रम् । पु॒राम् । द॒र्माण॑म् । नय॑न्तः । गर्भ॑म् । व॒नाम् । धिय॑म् । धुः॒ । हिरि॑ऽश्मश्रुम् । न । अर्वा॑णम् । धन॑ऽअर्चम् ॥
हे स्तोतः त्वं जयन्तं जेतव्याञ्शत्रूञ्जयन्तं महां महान्तं विपोधां मेधाविनो धर्तारमग्निं प्र भूः प्रभव समर्थो भव । स्तोतुमिति शेषः । उद्गीथस्तु भूर्जयन्तमित्येकपदं मत्वा भूरादील्ँलोकाञ्जयन्तमिति व्याचकार । न केवलं त्वमेक एव अपि तु मूराः मूढाः सर्वेऽपि पुरुषाः अमूरम् अमूढं पुरां दर्माणं दारकम् । औणादिको मनिः । प्रत्ययस्वरः । गर्भम् अरण्योर्गर्भभूतं वनां वननीयम् ।' वा छन्दसि ' ( पा. सू. ६. १. १०६-१०७ ) इति वचनादमि पूर्वाभावः। हिरिश्मश्रुं नार्वाणम् । नेत्युपमार्थीयः । श्मश्रुशब्दोऽत्र रोमसामान्यवचनः । हरितरोमोपेतमर्वाणमरणशीलमश्वमिव । उक्तलक्षणाश्ववद्धरितकेशस्थानीयज्वालोपेतं धनर्चं प्रीणनस्तुतिम् । शकन्ध्वादित्वात् पररूपत्वम् । ईदृशमग्निं नयन्तः हविर्भिः प्रापयन्तः धियं कर्म स्तोत्रं वा धुः प्रापयन्ति । ' गातिस्था' इति सिचो लुक् ॥ ॥ १ ॥
“Be competent, (priest, to glorify) the victorious mighty Agni, the sustainer of the wise, (even) fools(adore) him, the exempt from folly, the demolisher of cities; conducting the embryo of touchwood, (Agni). Like agolden- haired, swift-moving (horse), loving praise and wealth, they bring him to the sacrifice.”
The foolish brought the ne'er-bewildered forward, great, Victor, Song-inspirer, Fort-destroyer.
Leading the Youth gold-bearded, like a courser gleaming with wealth, they turned their hymn to profit.
Forth (they lead him), *glittering, great, conferring poetic inspiration, splitter of strongholds, no fool—(even) fools (do so).
Leading him, the embryo of the trees, the gold-bearded one, like a steed for whom a verse is the prize, they have set forth an inspired thought.
Erheb' den grossen, siegenden Begeistrer; den Sohn der Bäume und den Burgzerstörer, Den Weisen führten mit Bedacht die Thoren, den Goldbart, wie ein Ross von Schätzen glänzend.
Indem sie den reichlich Erstarkenden, Großen, Reden Haltenden, den Burgenbrecher zum Altar geleiten, die Toren den Weisen, das Kind der Hölzer, halten sie ihre Andacht - ihn den Goldbärtigen, der sich den Preis heraussingt, wie ein Rennpferd den Preis gewinnt.
Ведя (к алтарю) мощно побеждающего, великого, дающего вдохновение,
Разбивающего крепости, зародыша кусков дерева,
Мудрого, (они,) неразумные, создали молитву,
(Ведя его,) златобрадого, словно скакового коня, (его,) чей гимн (дает) выигрыш.
नि प॒स्त्या॑सु त्रि॒तः स्त॑भू॒यन्परि॑वीतो॒ योनौ॑ सीदद॒न्तः । अत॑: सं॒गृभ्या॑ वि॒शां दमू॑ना॒ विध॑र्मणाय॒न्त्रैरी॑यते॒ नॄन् ॥
नि । प॒स्त्या॑सु । त्रि॒तः । स्त॒भु॒ऽयन् । परि॑ऽवीतः । योनौ॑ । सी॒द॒त् । अ॒न्तरिति॑ । अतः॑ । स॒म्ऽगृभ्य॑ । वि॒शाम् । दमू॑ना । विऽध॑र्मणा । अ॒य॒न्त्रैः । ई॒य॒ते॒ । नॄन् ॥
त्रितः त्रिषु स्थानेषु गार्हपत्यादिषु तायमानः स्तभूयन् यजमानगृहान् स्तम्भयितुमिच्छन् । इच्छार्थे क्यचि तदन्ताच्छतरि रूपम् । परिवीतः परितो ज्वालाभिर्व्याप्तः सन् पस्त्यासु यागगृहेषु योनौ अन्तः स्वीये वेद्यात्मके स्थाने नि षीदत् निषीदति । अतः अस्मात्स्थानात् विशां प्रजानां संबन्धीनि हवींषि संगृभ्य संगृह्य इन्द्रादीनुद्दिश्य प्रत्तानि चरुपुरोडाशादीनि स्वीकृत्य दमूनाः देवेभ्यो दानमना यजमानाय वाभिमतप्रदानमनाः विधर्मणा तासां विविधेन कर्मणा निमित्तेन दानमना देवेभ्यो दानपक्षे विविधगमनरूपेण कर्मणा यन्त्रैः शत्रूणां नियमनैः सह नॄन् देवान ईयते गच्छति ॥
“Occupying three (satations), consolidation (the dwelling of the worshipper), surrounded (by flames),he sits down upon the altar in the chambers (of sacrifice); from there, having accepted (the oblations) of thepeople, with intent to give (them to the gods), in various ways, he (Agni) goes to the gods holding (his foes) incheck.”
Holding his station firmly in the houses, Trita sat down within his home surrounded
Thence, as Law bids, departs the Tribes' Companion having collected men with no compulsion.
Trita [= the “third” fire], standing fast in the dwelling places, surrounded, sits down inside the womb.
From there the domestic leader of the clans [=Agni], having amassed (goods?), with his reinless (horses) speeds to the superior men
through the spreading expanse.
Erzeugt von Trita, in den Häusern, weilend, sass er verhüllt im Innern seiner Wohnung; Von dort her kam der Hausfreund aller Menschen, die Männer sammelnd ohne Zwang im Umkreis.
In den Flüssen sich ausbreitend saß Trita, im Mutterschoße umhüllt. Von da eilt der Gebieter der Clane zu den Männern, sie durch seine Ausbreitung ohne Zwangsmittel zusammenhaltend.
Обосновавшись в реках как Трита,
Сидел он, окруженный со всех сторон в (материнском) лоне.
Оттуда домашний друг племен, охватывая (все),
Спешит к мужам – во всю ширь, без средств ограничения.
अ॒स्याजरा॑सो द॒माम॒रित्रा॑ अ॒र्चद्धू॑मासो अ॒ग्नय॑: पाव॒काः । श्वि॒ती॒चय॑: श्वा॒त्रासो॑ भुर॒ण्यवो॑ वन॒र्षदो॑ वा॒यवो॒ न सोमा॑: ॥
अ॒स्य । अ॒जरा॑सः । द॒माम् । अ॒रित्राः॑ । अ॒र्चत्ऽधू॑मासः । अ॒ग्नयः॑ । पा॒व॒काः । श्वि॒ती॒चयः॑ । श्वा॒त्रासः॑ । भु॒र॒ण्यवः॑ । व॒न॒ऽसदः॑ । वा॒यवः॑ । न । सोमाः॑ ॥
अत्र बहुत्वेन स्तूयते । अस्य यजमानस्य संबन्धिनः अजरासः जरारहिताः दमां दमनीयानां रक्षःप्रभृतीनाम् । दमेः क्विपि ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । तेषाम् अरित्राः तारकाः अर्चद्धूमासः अर्चन्तः अर्चनीया धूमा धूमोपलक्षिता ज्वाला वा येषां ते तथोक्ताः पावकाः शोधकाः श्वितीचयः श्वेतिमानमञ्चन्तः । श्वितिः श्वेतम् । औणादिक इः। श्वात्रासः । क्षिप्रनामैतत् । क्षिप्रधर्मकाः भुरण्यवः भरणशीलाः वनर्षदः वनेषु सीदन्तः । संहितायां छान्दसं रुत्वम् । वायवो न सोमाः गन्तारः सोमा इव । हविर्दातुर्यजमानस्य शीघ्रा भवन्तीति ॥
“The undecaying fires of the worshipper, the rescuers from the humiliated (spirits of ill), havingadorable smoke, purifying, becoming white, swift, bearing (the oblation), sitting in the wood, (are) like thefast-flowing Soma.”
His are the fires, eternal, purifying, that make the houses move, whose smoke is shining,
White, waxing in their strength, for ever stirring, and sitting in the wood; like winds are Somas.
His are the unaging oars of the houses, the pure fires with
singing smoke,
bright, swelling, bustling, sitting on the wood like winds (in trees), like soma-drinks (in the wooden cups).
Sein sind der Häuser ewig junge Feuer, die treibenden, mit hellem Rauche flammend, Die wirbelnden, die kräftigen, die lichten, im Holze wohnend, eilend wie die Winde.
Seine alterlosen Feuer, die Ruder der Häuser, sind rauchsingend, lauter, weißlich, anschwellend, geschäftig, im Holze sitzend wie die Winde, wie die Somasäfte.
Чистые огни этого нестареющего (Агни)
Со сверкающим дымом, (эти) весла домов,
Светлые, возрастающие, трепещущие,
Сидящие в древесине, словно ветры, (словно) соки сомы:
प्र जि॒ह्वया॑ भरते॒ वेपो॑ अ॒ग्निः प्र व॒युना॑नि॒ चेत॑सा पृथि॒व्याः । तमा॒यव॑: शु॒चय॑न्तं पाव॒कं म॒न्द्रं होता॑रं दधिरे॒ यजि॑ष्ठम् ॥
प्र । जि॒ह्वया॑ । भ॒र॒ते॒ । वेपः॑ । अ॒ग्निः । प्र । व॒युना॑नि । चेत॑सा । पृ॒थि॒व्याः । तम् । आ॒यवः॑ । शु॒चय॑न्तम् । पा॒व॒कम् । म॒न्द्रम् । होता॑रम् । द॒धि॒रे॒ । यजि॑ष्ठम् ॥
यः अग्निः जिह्वया ज्वालया वेपः। कर्मनामैतत् । कर्मं प्र भरते तथा योऽग्निः वयुनानि प्रज्ञानानि स्तोत्राणि पृथिव्याः रक्षणाय चेतसा अनुग्रहयुक्तेन मनसा प्र भरते तम् अग्निम् आयवः गन्तारो मनुष्याः शुचयन्तं दीप्यमानं पावकं शोधकं मन्द्रं स्तुत्यं होतारम् आह्वातारं होमनिष्पादकं वा यजिष्ठम् अतिशयेन यष्टव्यं यष्टृतमं वा दधिरे धारयन्ति ॥
“Agni, who bears off (the oblation) with his tongue (of flames), who bears off the hymns of praise with(favourable) mind (for the preservation) of the earth; him men appointed as the shining, purifying, exulting hotā,the most entitled to worship.”
The tongue of Agni bears away the praisesong, and, through his care for Earth, her operations.
Him, bright and radiant, living men have stablished as their blithe Priest, the Chief of Sacrificers.
Agni displays his own pulsing excitement with his tongue, (displays) the patterns of the earth with his appearance.
Him, blazing and pure, have the Āyus established as gladdening Hotar, most worthy of sacrifice.
Gesang nimmt Agni auf mit seiner Zunge, mit seinem Geist der Erde Opferwerke, Die Menschen machten ihn, den hell entflammten, zum besten Opfrer, zum willkommnen Priester.
Mit der Zunge trägt Agni seinen Wortschwall vor, durch seine Einsicht kennt er die Richtungen der Erde. Ihn machten die Ayu´s zu ihrem wohlredenden Hotri, den Glühenden, Lauteren, am besten Opfernden.
Языком Агни приносит вдохновение (речи),
(Своей) прозорливостью (обнаруживает) вехи земли,
Его поставили Аю (своим) сверкающим, чистым,
Сладкогласным хотаром, жертвующим лучше всех.
द्यावा॒ यम॒ग्निं पृ॑थि॒वी जनि॑ष्टा॒माप॒स्त्वष्टा॒ भृग॑वो॒ यं सहो॑भिः । ई॒ळेन्यं॑ प्रथ॒मं मा॑त॒रिश्वा॑ दे॒वास्त॑तक्षु॒र्मन॑वे॒ यज॑त्रम् ॥
द्यावा॑ । यम् । अ॒ग्निम् । पृ॒थि॒वी इति॑ । जनि॑ष्टाम् । आपः॑ । त्वष्टा॑ । भृग॑वः । यम् । सहः॑ऽभिः । ई॒ळेन्य॑म् । प्र॒थ॒मम् । मा॒त॒रिश्वा॑ । दे॒वाः । त॒त॒क्षुः॒ । मन॑वे । यज॑त्रम् ॥
यमग्निं द्यावापृथिवी द्यावापृथिव्यौ जनिष्टाम् अजनिषाताम् । जनेर्लुङि व्यत्ययेन परस्मैपदम् । आपः च यम् उदपादयन् वैद्युतरूपेण त्वष्टा च यमजनयत् भृगवः च यं सहोभिः बलैः स्तोत्रादिसाधनैर्लब्धवन्तः । ‘ भुगवोऽविन्दन्' (ऋ. सं. १०. ४६. २ ) इति ह्युक्तम्। किंच ईळेन्यं स्तुत्यं यं प्रथमं मातरिश्वा वायुरुदपादयत् अन्ये देवाः च मनवे राज्ञे मनोरर्थाय यजत्रं यष्टव्यं यमग्निं ततक्षुः निष्पादितवन्तः ॥ ।
“Agni, whom heaven and earth engendered, (whom) the waters and Tvaṣṭā, and the Bṛghus by theirpowers (begot),; the adorable one, whom Mātariśvan first, and the gods fabricated as the object of worship ofManu.”
That Agni, him whom Heaven and Earth engendered, the Waters. Tvastar, and with might, the Bhrgus,
Him Matarisvan and the Gods have fashioned holy for man and first to be entreated.
Agni, whom Heaven and Earth begat, whom the Waters, Tvaṣṭar, and the Bhr̥gus begat with their powers,
the one first to be reverently invoked—Mātariśvan and the gods fashioned him as the means of sacrifice for Manu.
Den Agni, welchen Erd' und Himmel zeugten, die Wasser, Tvaschtar und mit Macht die Bhrigu's, Ihn machten Matariçvan und die Götter zum ersten Preis und Opferherrn dem Menschen.
Den Himmel und Erde erzeugten, den die Gewässer, Tvastri, die Bhrigu´s mit Kraft erzeugten, der du als Erster anzurufen bist, den Agni, haben Matarisvan und die Götter für Manu als den Anbetungswürdigen geformt.
Кого породили Небо и Земля,
Кого (породили своими) силами воды, Тваштар, Бхригу
Как призываемого первым, (его) Матаришван,
Боги вытесали для Ману как достойного жертв.
यं त्वा॑ दे॒वा द॑धि॒रे ह॑व्य॒वाहं॑ पुरु॒स्पृहो॒ मानु॑षासो॒ यज॑त्रम् । स याम॑न्नग्ने स्तुव॒ते वयो॑ धा॒: प्र दे॑व॒यन्य॒शस॒: सं हि पू॒र्वीः ॥
यम् । त्वा॒ । दे॒वाः । द॒धि॒रे । ह॒व्य॒ऽवाह॑म् । पु॒रु॒ऽस्पृहः॑ । मानु॑षासः । यज॑त्रम् । सः । याम॑न् । अ॒ग्ने॒ । स्तु॒व॒ते । वयः॑ । धाः॒ । प्र । दे॒व॒ऽयन् । य॒शसः॑ । सम् । हि । पू॒र्वीः ॥
हे अग्ने हव्यवाहं यं त्वा त्वां देवा दधिरे धारितवन्तः मानुषासः मनुष्याश्च पुरुस्पृहः बहुकामान् स्पृहयन्तः यजत्रं यष्टव्यं दधिरे धारितवन्तः हे अग्ने सः त्वं यामन् यामनि यज्ञे स्तुवते मह्यं वयः अन्नं धाः देहि । हे अग्ने त्वत्तः देवयन् देवकामो यजमानः पूर्वीः बह्वीः बहूनि यशसः यशांसि । सं हि इत्युपसर्गश्रुतेर्योग्यक्रियाध्याहारः। संप्राप्नोति खलु ॥ ॥ २ ॥
“You, whom the gods appointed as the bearer of oblations, whom men, desiring manifold blessings,regard as the object of worship; do you, Agni, bestow food upon him who praises you at the sacrifice; for thedevout worshipper verily obtains great renown.”
Agni, whom Gods have made oblationbearer, and much-desiring men regard as holy,
Give life to him who lauds thee when he worships, and then shall glorious men in troops adore thee.
You whom the gods established as conveyor of the oblation, whom the sons of Manu, craving much, established as means of sacrifice,
o Agni, establish vital power for the praiser on your course. One who seeks the gods ad(vances), for glory gets the girls.
Den Götter sich zum Opferfahrer machten, zum Opferherrn die Menschen viel begehrend, Gib, Agni, Kraft dem, der dich preist beim Feste; denn vieles schöne reicht dir auch der Fromme.
Du, den die Götter zu ihrem Opferfahrer bestimmten, die vielbegehrenden Menschen zu ihrem Anbetungswürdigen machten, du, Agni, sollst bei deinem Kommen dem Sänger Kraft verleihen. Der Gottergebene soll den Vorrang haben, denn einem Geehrten werden viel Kühe zuteil.
(Ты,) кого боги поставили возницей жертв,
(А) люди, желающие многого, (сделали) достойным жертв,
Ты, о Агни, в (твоем) движении дай жизненную силу восхваляющему (тебя)!
Впереди (пусть будет) преданный богам! (У него,) блистательного, ведь (будет) много (коров)!