एक॑: समु॒द्रो ध॒रुणो॑ रयी॒णाम॒स्मद्धृ॒दो भूरि॑जन्मा॒ वि च॑ष्टे । सिष॒क्त्यूध॑र्नि॒ण्योरु॒पस्थ॒ उत्स॑स्य॒ मध्ये॒ निहि॑तं प॒दं वेः ॥
एकः॑ । स॒मु॒द्रः । ध॒रुणः॑ । र॒यी॒णाम् । अ॒स्मत् । हृ॒दः । भूरि॑ऽजन्मा । वि । च॒ष्टे॒ । सिस॑क्ति । ऊधः॑ । नि॒ण्योः । उ॒पऽस्थे॑ । उत्स॑स्य । मध्ये॑ । निऽहि॑तम् । प॒दम् । वेरिति॒ वेः ॥
समुद्रः यस्माद्धनान्युदकानि वा समुद्द्रवन्तीति तादृशः रयीणां धनानां धरुणः धारयिता एकः असहायः भूरिजन्मा बहुविधजननो नानायज्ञेष्वाहवनीयादिभावेन बहुजननः सोऽग्निः अस्मत् ॥ ‘सुपां सुलुक्' इति षष्ठ्या लुक् । अस्माकं हृदः हृदयान्यभिलषितानि वि चष्टे विपश्यति जानाति । उक्तं च- ‘ मनो वै देवा मनुष्यस्य जानन्ति इति । किंच निण्योः । अन्तर्हितनामैतत् । अन्तर्हितयोर्ज्योतिस्तमोभ्यामाच्छादितयोः प्रातःसायंकालयोः उपस्थे उपस्थाने समीपे वर्तमानम् ऊधः रात्रिं सिषक्ति सेवते उपजीवति । यद्वा । निण्योरन्तर्हितस्यान्तरिक्षस्य समीपे वर्तमानमूधो मेघं सेवते । अथ प्रत्यक्षः । हे अग्ने उत्सस्य उदकधारकस्य लोकस्य मध्ये पदम् अपां स्थानं निहितम् । तत् माध्यमिकां वाचं वेः गच्छ । यद्वा । उत्सस्य मेघस्य मध्ये निहितं पदं विद्युदाख्यं तत् स्वात्मतया गच्छ ॥ वेः। वी गत्यादिषु । लङि सिपि रूपम् । वाक्यभेदादनिघातः ॥
“Agni, the sole capacious ocean of riches who is of many births beholds our hearts; he waits on thecloud in the neighbourhood of the hidden (firmament); go, Agni, to the appointed plural ce in the midst of the waterṣ”
HE only is the Sea, holder of treasures: born many a time he views the hearts within us.
He hides him in the secret couple's bosom. The Bird dwells in the middle of the fountain.
The sea is (just) one, the foundation of riches, but he, having many births, gazes out from us, from our heart.
He attends upon the udder in the lap of the two that are hidden. The track of the bird has been set down in the middle of the wellspring.1374 X.6
Auf ihn, der Schätze einz'ges Meer und Becken, den vielgebornen, schaun wir hin von Herzen, Er schmiegt sich an verborgner Aeltern Busen, des Vogels Fuss steht mitten auf der Wolke.
Der eine Ozean, der Träger der Reichtümer, der vielgebärende, spricht aus unserem Herzen. Er geht dem Euter im Schoße der beiden Verborgenen nach. Im Urquell ist die Spur des Vogels verborgen.
Один океан, хранитель богатств.
С многими рождениями, проявляется из нашего сердца.
Он следует за выменем в лоне двоих затаившихся.
Посреди источника сокрыт след птицы!
स॒मा॒नं नी॒ळं वृष॑णो॒ वसा॑ना॒: सं ज॑ग्मिरे महि॒षा अर्व॑तीभिः । ऋ॒तस्य॑ प॒दं क॒वयो॒ नि पा॑न्ति॒ गुहा॒ नामा॑नि दधिरे॒ परा॑णि ॥
स॒मा॒नम् । नी॒ळम् । वृष॑णः । वसा॑नाः । सम् । ज॒ग्मि॒रे॒ । म॒हि॒षाः । अर्व॑तीभिः । ऋ॒तस्य॑ । प॒दम् । क॒वयः॑ । नि । पा॒न्ति॒ । गुहा॑ । नामा॑नि । द॒धि॒रे॒ । परा॑णि ॥
वृषणः आहुतीनां सेक्तारः समानम् एकं नीळं स्थानमग्निं वसानाः मन्त्रत आच्छादयन्तः महिषाः महान्तो यजमानाः अर्वतीभिः वडवाभिः सं जग्मिरे समगच्छन्त । अश्ववन्तोऽभूवन् । यद्वा । अग्निमेवात्मीययज्ञं प्रत्यागन्तुं रोहिदाख्याभिर्वडवाभिः संयोजितवन्तः । तथा कवयः मेधाविनः ऋतस्य उदकस्य पदम् आवासस्थानमग्निं नि पान्ति नितरां रक्षन्ति । हविर्भिः स्तुतिभिश्च आराधयन्तीत्यर्थः। ततः गुहा गुहायामन्तरिक्षे स्थितानि दिव्यानि नामानि उदकानि दधिरे धारयन्ति । यद्वा । गुहा गूढे संवृते हृदये पराणि प्रधानान्यग्निर्जातवेदा वैश्वानर इत्यादीनि नामानि दधिरे कुर्वन्ति । स्तुवन्तीत्यर्थः ॥
“Great (worshippers), showerers (of oblations) enveloping with their hymns the common dark (fire),have associated (him) with his horses (to come to the sacrifice). Sages preserve (by oblations) the plural ce of thewater and support the divine rains in the vault (of heaven).”
Inhabiting one dwelling-place in common, strong Stallions and the Mares have come together.
The sages guard the seat of Holy Order, and keep the highest names concealed within them.
Cloaking themselves [/dwelling] in the same nest, the bullish buffaloes have united with the mares.
The sage poets protect the track of truth: they have placed in hiding the highest names.
Die starken Hengste, gleichen Sitz bewohnend, vereinten sich, die grossen, mit den Stuten; Als Seher schützen sie den Ort des Opfers, empfangen im Verborgnen schönre Namen.
In das gemeinsame Nest sich versteckend sind die brünstigen Büffel mit den Stuten zusammen gekommen. Die Seher hüten der Wahrheit Spur; sie haben ihre höchsten Bezeichnungen in ein Geheimnis gehüllt.
Прячась в общее гнездо, мужественные
Буйволы сошлись с кобылицами.
Поэты охраняют след истины.
Высшие имена они облекают в тайну.
ऋ॒ता॒यिनी॑ मा॒यिनी॒ सं द॑धाते मि॒त्वा शिशुं॑ जज्ञतुर्व॒र्धय॑न्ती । विश्व॑स्य॒ नाभिं॒ चर॑तो ध्रु॒वस्य॑ क॒वेश्चि॒त्तन्तुं॒ मन॑सा वि॒यन्त॑: ॥
ऋ॒त॒यिनी॒ इत्यृ॑त॒ऽयिनी॑ । मा॒यिनी॒ इति॑ । सम् । द॒धा॒ते॒ इति॑ । मि॒त्वा । शिशु॑म् । ज॒ज्ञ॒तुः॒ । व॒र्धय॑न्ती॒ इति॑ । विश्व॑स्य । नाभि॑म् । चर॑तः । ध्रु॒वस्य॑ । क॒वेः । चि॒त् । तन्तु॑म् । मन॑सा । वि॒ऽयन्तः॑ ॥
ऋतायिनी ऋतवत्यौ सत्यवत्यौ अत एव मायिनी प्रज्ञावत्यौ कर्मंयुक्ते वा द्यावापृथिव्यौ यज्ञसाधनभूते अरणी वा इममग्निं सं दधाते सम्यक् धारयतः । अग्निसूर्यात्मना केवलाग्न्यात्मना वा संदधाते। मित्वा कालपरिमाणं कृत्वा यद्वा संपरिच्छिद्य शिशुं शंसनीयं बालमग्निं जज्ञतुः जनयतः। वर्धयन्ती वर्धयन्त्यौ द्यावापृथिव्यौ लोके यथा परिच्छेदाय पुत्रं पितरौ जनयतस्तद्वत् । ततः विश्वस्य सर्वस्य चरतः जङ्गमस्य ध्रुवस्य स्थावरस्य च जगतः नाभिं नाभिभूतं मध्यं प्रधानभूतं वा कवेः मेधाविनोऽग्नेः तन्तुं तनितारं वैश्वानरराख्यमंशमेव मनसा वियन्तः विविधं गच्छन्तो मनुष्याः सुखेन युज्यन्त इति शेषः । तं वयं यजाम इति ॥
“The two observers of truth, the two possessors of wisdom, (heaven and earth) sustain (this Agni);measuring the time, they have brought forth and reared a son; and (men), pondering in their minds on that navelof the universe, movable and immovable, the thread of the sage (Agni, are blessed with happiness).”
The Holy Pair, of wondrous power, have coupled: they formed the Infant, they who bred produced him.
The central point of all that moves and moves not, the while they wove the Sage's thread with insight
The two possessing both truth and magical power have conjoined with one another. Having given him his measure, they have given birth to
the babe, making him grow—
him who is the navel of everything, both the moving and the fixed. They [=gods? priests?] with their mind are also pursuing the thread of
the poet,
Das weise, heil'ge Mütterpaar empfing ihn als Frucht und formte, zeugte ihn und nährt' ihn, Den Nabel ihn des festen und bewegten, umgehn wir und des weisen Werk mit Andacht.
Die beiden, die den Drang nach Wahrheit besitzen und doch verwandlungsfähig sind, haben sich zusammengetan. Sie bildeten und erzeugten den Kleinen und zogen ihn groß, den Nabel alles dessen, was geht und fest steht, den Faden sogar des Sehers mit Bedacht abschneidend.
Соединились двое преданных закону, (но) способных к превращениям:
Создав (его), они породили ребенка и взращивали (его) -
Пуп всего: движущегося и твердостоящего,
(Боги,) пересекающие мыслью нить даже у поэта.
ऋ॒तस्य॒ हि व॑र्त॒नय॒: सुजा॑त॒मिषो॒ वाजा॑य प्र॒दिव॒: सच॑न्ते । अ॒धी॒वा॒सं रोद॑सी वावसा॒ने घृ॒तैरन्नै॑र्वावृधाते॒ मधू॑नाम् ॥
ऋ॒तस्य॑ । हि । व॒र्त॒नयः॑ । सुऽजा॑तम् । इषः॑ । वाजा॑य । प्र॒ऽदिवः॑ । सच॑न्ते । अ॒धी॒वा॒सम् । रोद॑सी॒ इति॑ । व॒व॒सा॒ने इति॑ । घृ॒तैः । अन्नैः॑ । व॒वृ॒धा॒ते॒ इति॑ । मधू॑नाम् ॥
ऋतस्य यज्ञस्य वर्तनयः प्रवर्तकाः इषः अभिलषितानीच्छन्तः प्रदिवः पुरातना ऋविग्यजमानाः सुजातम् आधानकाले सुष्ठूत्पन्नमग्निं वाजाय बलार्थमन्नार्थं वा सचन्ते हि सेवन्ते खलु । अपि च वावसाने सर्वस्य जगत आच्छादयित्र्यौ रोदसी द्यावापृथिव्यौ अधीवासम् ओषधिनक्षत्राद्यात्मना निवसन्तम् । यद्वा । अधिरुपर्यर्थे । त्रयाणां लोकानामुपर्यग्निविद्युदादित्यात्मना निवसन्तम् । अग्निं मधूनाम् उदकानां जन्यत्वेन संबन्धिभिः घृतैरन्नैः पुरोडाशादिभिश्च वावृधाते वर्धयां चक्रतुः । वर्धयतः । तस्माद्वयमपि तमग्निमभिष्टुम इत्यभिप्रायः ॥
“The ancient celebrators of the rite desiring (boons) wait on (Agni), rightly born, for the sake of food;the all-comprising heaven and earth cherish him, who abodes above the heavens, with the sacrificial butter andfood (produced) from the water.”
For tracks of Order and refreshing viands attend from ancient times the goodly Infant.
Wearing him as a mantle, Earth and Heaven grow strong by food of pleasant drink and fatness.
For the trails of truth (follow) the well-born one, and refreshments follow (him) from of old for the prize.
The two world-halves, having cloaked themselves in their over-cloak, have strengthened (their own child) with ghee-drops and foods
of honey.
Des Opfers Pfade und die Tränke folgen von jeher labend, ihm, dem schöngebornen, Und Erd' und Himmel, in der Tränke Mantel gehüllt, erstarken durch die fetten Speisen.
Denn die Wege der Wahrheit führen zu dem Edelgeborenen, die Speisegenüsse folgen ihm von jeher zur Belohnung. Himmel und Erde, sich in ihr Obergewand kleidend, stärkten sich an Fett, Speisen, Süßigkeiten.
Ведь пути истины (ведут) к прекраснорожденному.
Жертвенные услады искони следуют за ним для награды.
Две половины вселенной, закутавшись в покрывало,
Подкреплялись жиром, медовыми яствами.
स॒प्त स्वसॄ॒ररु॑षीर्वावशा॒नो वि॒द्वान्मध्व॒ उज्ज॑भारा दृ॒शे कम् । अ॒न्तर्ये॑मे अ॒न्तरि॑क्षे पुरा॒जा इ॒च्छन्व॒व्रिम॑विदत्पूष॒णस्य॑ ॥
स॒प्त । स्वसॄः॑ । अरु॑षीः । वा॒व॒शा॒नः । वि॒द्वान् । मध्वः॑ । उत् । ज॒भा॒र॒ । दृ॒शे । कम् । अ॒न्तः । ये॒मे॒ । अ॒न्तरि॑क्षे । पु॒रा॒ऽजाः । इ॒च्छन् । व॒व्रिम् । अ॒वि॒द॒त् । पू॒ष॒णस्य॑ ॥
वावशानः कामयमानो वाश्यमानः स्तोतृभिः स्तूयमानो वा विद्वान् सर्वं जानानः सोऽग्निः अरुषीः अरोचमानाः सप्त सप्तसंख्याकाः स्वसॄः स्वयंसारिणीः ‘ काली कराली च' ( मु. उ. १. २. ४ ) इत्यादिकाः सप्त जिह्वाः मध्वः मदकरात् यज्ञात् उज्जभार उज्जहार । ऊर्ध्वं हृतवान् । यज्ञे स्वतेजसा प्रादुर्भूत इत्यर्थः । किमर्थम् । कं सुखेन दृशे सर्वेषामेव पदार्थानां दर्शनार्थम् । किंच पुराजाः पुराजातः सोऽग्निर्द्यावापृथिव्योः अन्तः मध्ये अन्तरिक्षे स्थितः ता जिह्वाः येमे नियमितवान् । सर्वत्र तेजोयुक्तो वर्तत इत्यर्थः । अपि च इच्छन् यजमानान् कामयमानोऽग्निः पूषणस्य । पूषेति पृथिवीनाम। पार्थिवस्य लोकस्य वव्रिं रूपं पृश्निवर्णम् अविदत् प्रायच्छत् । यद्वा । ‘मूर्धा भुवो भवति नक्तमग्निस्ततः सूर्यो जायते प्रातरुद्यन्' (ऋ. सं. १०.८८.६ ) इति मन्त्रान्तरे दर्शनादादित्यात्मनाग्निः स्तूयते । कामयमानः सूर्यात्माग्निः सप्तसंख्याकान् स्वसॄ रश्मीन् मध्वः समुद्रोदकादुद्धृतवान् । ततोऽन्तरिक्षे विद्युदात्मना स्थित्वा वृष्टिलक्षणं रूपं पृथिव्याः प्रायच्छदिति ॥
“The wise Agni glorified (by his worshippers) has from the sacrifice raised aloft, for the readymanifestation of (all things), the seven radiant sister (flames); which when formerly engendered he restrained inthe firmament, until desirous of (adorers) he bestowed form upon the region of the earth.”
He, calling loudly to the Seven red Sisters, hath, skilled in sweet drink, brought them to be looked on.
He, born of old, in middle air hath halted, and sought and found the covering robe of Pusan.
Having bellowed [/being eager], the knowing one has carried up the seven ruddy sisters from the honey, to be seen.
He held them, born earlier, within the midspace. Seeking a covering, he has found the one belonging to Pūṣana.
Die sieben rothen Schwestern trug er kundig und willig aus dem süssen Trank zum Schauen; Im Raum der Luft hielt an der urgeborne und suchend fand er den Versteck des Puschan.
Die sieben rötlichen Schwestern hat der Kundige voll Verlangen aus dem Süßen herausgeholt zum Schauen. Der vor alters Geborene hat in der Luft angehalten; ein Versteck suchend hat er des Pusana gefunden.
Желая семь рыжих сестер,
Знаток вытащил их из меда, чтобы видеть.
От века рожденный медлил в воздушном пространстве.
Ища укрытия, он нашел (то, что) у Пушана.
स॒प्त म॒र्यादा॑: क॒वय॑स्ततक्षु॒स्तासा॒मेका॒मिद॒भ्यं॑हु॒रो गा॑त् । आ॒योर्ह॑ स्क॒म्भ उ॑प॒मस्य॑ नी॒ळे प॒थां वि॑स॒र्गे ध॒रुणे॑षु तस्थौ ॥
स॒प्त । म॒र्यादाः॑ । क॒वयः॑ । त॒त॒क्षुः॒ । तासा॑म् । एका॑म् । इत् । अ॒भि । अं॒हु॒रः । गा॒त् । आ॒योः । ह॒ । स्क॒म्भः । उ॒प॒ऽमस्य॑ । नी॒ळे । प॒थाम् । वि॒ऽस॒र्गे । ध॒रुणे॑षु । त॒स्थौ॒ ॥
कवयः मेधाविन ऋषयः सप्त मर्यादाः । कामजेभ्यः क्रोधजेभ्यश्चोद्धृताः पानमक्षाः स्त्रियो मृगया दण्डः पारुष्यमन्यदूषणमिति सप्त मर्यादाः । यद्वा । स्तेयं गुरुतल्पारोहणं ब्रह्महत्यां सुरापानं दुरुकृतकर्मणः पुनःपुनः सेवां पातकेऽनृतोद्यम्' (निरु. ६. २७) इति निरुक्ते निर्दिष्टाः सप्त मर्यादाः । अवस्थिताः ततक्षुः । तक्षतिः करोतिकर्मा । सुष्ठु लङ्घनीयाश्चक्रुः । त्यक्तवन्त इत्यर्थः । तासां मर्यादानाम् एकामित् एकामेव अंहुरः पापवान् पुरुषः अभि गात् अभिगच्छति । यस्त्वेवं करोति स पापवान् भवतीत्यर्थः । किंच आयोः तस्य मनुष्यस्य स्कम्भः स्कम्भयिता निरोधकोऽग्निः उपमस्य समीपभूतस्यायोः नीळे स्थाने पथाम् आदित्यरूपस्य स्वस्य रश्मीनां विसर्गे विसर्जनस्थानेऽन्तरिक्षमध्ये वर्तमानेषु धरुणेषु उदकेषु तस्थौ विद्युदात्मना तिष्ठति । अनेन लोकत्रयवर्तित्वमिति ॥
“The ise have established seven rules of conduct; he is a sinner who deviates from any one of theṃAgni is the obstructor of (that) man, he abides in the dwelling of his neighbour, in the region of the scattering ofthe rays, and in the recipient (waters).”
Seven are the pathways which the wise have fashioned; to one of these may come the troubled mortal.
He standeth in the dwelling of the Highest, a Pillar, on sure ground where paths are parted.
The sage poets have fashioned seven boundaries. To just one of these has the narrow one gone.
The pillar stands on its foundations in the nest of the highest Āyu where the paths give out.
Die Seher machten sieben feste Zeichen, von denen eins erreicht hat der bedrängte; Des Gottes Stütze stand im Sitz des höchsten, auf festem Grund im Ausgangspunkt der Pfade.
Sieben Schranken haben die Seher geschaffen; zu einer von diesen gelangt der Eingeengte. Die Säule des Ayu steht im Nest des Höchsten, an der Wege Ende auf festen Grundlagen.
Семь границ застолбили поэты.
Лишь к одной из них приближается угнетенный.
А столб Аю стоит в гнезде Высшего,
В конце дорог, на твердых опорах.
अस॑च्च॒ सच्च॑ पर॒मे व्यो॑म॒न्दक्ष॑स्य॒ जन्म॒न्नदि॑तेरु॒पस्थे॑ । अ॒ग्निर्ह॑ नः प्रथम॒जा ऋ॒तस्य॒ पूर्व॒ आयु॑नि वृष॒भश्च॑ धे॒नुः ॥
अस॑त् । च॒ । स॒त् । च॒ । प॒र॒मे । विऽओ॑मन् । दक्ष॑स्य । जन्म॑न् । अदि॑तेः । उ॒पऽस्थे॑ । अ॒ग्निः । ह॒ । नः॒ । प्र॒थ॒म॒ऽजाः । ऋ॒तस्य॑ । पूर्वे॑ । आयु॑नि । वृ॒ष॒भः । च॒ । धे॒नुः ॥
असत् अव्याकृतं सच्च व्याकृतम् । असदेवेदमग्र आसीत् तत्सदासीत् तत्समभवत् ' ( छा. उ. ३. १९. १ ) इति श्रुतेः । सदसदात्मकं जगत् सर्वं परमे उत्तमे ज्ञानसहिते व्योमन् व्योमनि कारणात्मनि जातमभूत् सदा । अदितेः पृथिव्याः उपस्थे उपस्थाने समीपे दक्षस्य प्रजापतेः । यद्वा दक्षस्य । ‘स त्रेधात्मानं व्यभजतादित्यं तृतीयं वायुं तृतीयम्' (श. ब्रा. १०. ६. ५. ३ ) इति श्रुतेः तृतीयस्य द्युलोकस्याधिष्ठातृत्वादादिस्यस्य । जन्मन् जन्मनि । तत एवं सति मनुष्यस्य सृष्टिक्रमात् पूर्वम् अग्निर्ह अग्निरेव ऋतस्य कर्मफलस्य भोक्तॄणां नः अस्माकं प्रथमजाः प्रथममेव जातः समुत्पन्नः । ‘ तेजो रसो निरवर्तताग्निः' (श, ब्रा. १०. ६. ५, २; बृ. उ. १. १. १. ) इति श्रवणात् । पश्चात् तत्प्रकरणे ‘ ततो मनुष्या अजायन्त' इति प्रथमत एव मनुष्यसृष्टेरभिहितत्वात् अनन्तरं पूर्वे उत्तर सृष्टिमपेक्ष्य पूर्वस्मिन् आयुनि कालेऽयमग्निरेव वृषभश्च आसीत् । धेनुः च अभवत् । स्त्रीपुंसवत् स्त्रीपुंसात्मकोऽभवदित्यर्थः ॥ ॥ ३३ ॥
“Non-existent, and existent (is Agni) in the supreme heaven, in the birth-plural ce of Dakṣa, and in thepresence of Aditi; Agni is elder born to us (who enjoy the fruit) of the sacrifice; in the olden time he was the bulland the cow.”
Not Being, Being in the highest heaven, in Aditi's bosom and in Daksa's birthplace,
Is Agni, our first-born of Holy Order, the Milch-cow and the Bull in life's beginning.
Both the nonexistent and the existent are in the highest heaven, at the birth of the skillful one in the lap of Aditi.
Agni is for us the first-born of truth, both a bull and a milk-cow in his previous lifetime.
Das Sein und Nichtsein ruht im höchsten Himmel, im Schooss der Aditi, im Quell der Stärke; Ja, Agni ist des Rechtes Erstgeborner, der kräft'ge Stier in erster Lebensfrische.
Das Nichtseiende und das Seiende ist im höchsten Himmelsraum bei der Geburt des Daksa, in der Aditi Schoß. Agni fürwahr ist uns der Erstgeborene des Gesetzes in dem frühesten Zeitalter und der Stier, der auch eine Kuh ist.
Не-сущее и сущее – на высшем небосводе,
При рождении Дакши, в лоне Адити.
Агни же наш перворожденный закона
В древние времена, (он) бык и корова.