दू॒रे तन्नाम॒ गुह्यं॑ परा॒चैर्यत्त्वा॑ भी॒ते अह्व॑येतां वयो॒धै । उद॑स्तभ्नाः पृथि॒वीं द्याम॒भीके॒ भ्रातु॑: पु॒त्रान्म॑घवन्तित्विषा॒णः ॥
दू॒रे । तत् । नाम॑ । गुह्य॑म् । प॒रा॒चैः । यत् । त्वा॒ । भी॒ते इति॑ । अह्व॑येताम् । व॒यः॒ऽधै । उत् । अ॒स्त॒भ्नाः॒ । पृ॒थि॒वीम् । द्याम् । अ॒भीके॑ । भ्रातुः॑ । पु॒त्रान् । म॒घ॒ऽव॒न् । ति॒त्वि॒षा॒णः ॥
अनया चत्वारि ते असुर्याणि नाम' इत्युक्तस्य आद्यं नाम स्तूयते । हे इन्द्र ते तव तत् वक्ष्यमाणं नाम सर्वेषां नामकं शरीरं पराचैः पराङ्मुखैर्मनुष्यैः । मनुष्याणामित्यर्थः । गुह्यं गोपनीयमप्रकाशितं सत् दूरे इतो विप्रकृष्टे दूरदेशे वर्तत इति शेषः । यत् यदा त्वा त्वां रोदसी द्यावापृथिव्यौ भीते सती अह्वयेताम् अवेत्यब्रूताम् । किमर्थम् । वयोधै अन्नस्य निधानार्थम् । जगतोऽन्नस्य साधनायेत्यर्थः । तदानीं तेन शरीरेण अभीके । अन्तिकनामैतत् । तव समीप एव पृथिवीं द्यां च उत् ऊर्ध्वं परस्परवियुक्तं यथा भवति तथा अस्तभ्नाः स्तम्भितवानसि। किं कुर्वन् । हे मघवन् इन्द्र भ्रातुः पर्जन्यस्य पुत्रान् पुत्रस्थानीयानुदकसंस्त्यायान् तित्विषाणः दीपयन् ॥
“Your form held secret (by men) with averted faces, is far from here; when (heaven and earth) alarmed,called upon you for the sustenance (of the world), then you did fix in their proximity the heaven and earth,illumining, Maghavat, the sons, of (your) brother.”
FAR is that secret name by which, in terror, the worlds invoked thee and thou gavest vigour
The earth and heaven thou settest near each other, and Maghavan, madest bright thy Brother's Children.
Far away in the distance is that hidden name which the two, frightened, called you, to grant them vigor.
You propped up Earth and Heaven at the critical moment, when you were sparking the sons of your brother, bounteous one.
In weiter Ferne war dein Sein verborgen, als furchtsam dich um Kraft die Welten flehten; Da stütztest du rechtzeitig Erd' und Himmel und hell erglänzend auch des Bruders Söhne.
Weit in der Ferne ist jeder geheime Name, als dich die beiden Welthälften erschrocken zur Kraftspendung anriefen. Du hast Himmel und Erde im Aneinanderprall aufgerichtet, die Söhne deines Bruders entflammend, o Gabenreicher.
Далеко прочь (ушло) то твое тайное имя,
Когда испуганные (две половины вселенной) звали тебя для наделения жизненной силой.
Ты укрепил одновременно небо и землю,
Возбудив, о щедрый, сыновей брата.
म॒हत्तन्नाम॒ गुह्यं॑ पुरु॒स्पृग्येन॑ भू॒तं ज॒नयो॒ येन॒ भव्य॑म् । प्र॒त्नं जा॒तं ज्योति॒र्यद॑स्य प्रि॒यं प्रि॒याः सम॑विशन्त॒ पञ्च॑ ॥
म॒हत् । तत् । नाम॑ । गुह्य॑म् । पु॒रु॒ऽस्पृक् । येन॑ । भू॒तम् । ज॒नयः॑ । येन॑ । भव्य॑म् । प्र॒त्नम् । जा॒तम् । ज्योतिः॑ । यत् । अ॒स्य॒ । प्रि॒यम् । प्रि॒याः । सम् । अ॒वि॒श॒न्त॒ । पञ्च॑ ॥
हे इन्द्र तव तत् गुह्यं गोपनीयमन्यैरविज्ञातं पुरुस्पृक् बहुभिर्वृष्ट्यर्थिभिः स्पृहणीयमाकाशात्मकं नाम शरीरं महत् अत्यन्तं प्रवृद्धं येन नाम्ना भूतं भव्यं च पूर्वं जनयः उत्पादितवानसि । भूतभव्योभयान्वयाय येनेत्यस्यावृत्तिः स्यात् । आकाशात्मकाद्धि परमेश्वरस्वरूपात भूतभव्यात्मकं जगदुत्पद्यते । ‘ आकाशाद्वायुः ' (तै. आ. ८. १ ) इत्यादिश्रुतेः । किंच प्रत्नं पुराणं पूर्वकालीनं यत् ज्योतिः द्योतमानमादित्याख्यमुदकाख्यं वा अस्य इन्द्रस्य प्रियं प्रियभूतं तत्त्वं जातम् उत्पन्नं प्रियाः प्रीयमाणाः पञ्च। पञ्च जना इति शेषः । भीमसेनो भीम इतिवदेकदेशलक्षणा । निषादपञ्चमाश्चत्वारो वर्णाः समविशन्त संविशन्ते । स्वनिर्वाहार्थं भजन्त इत्यर्थः ॥
“That mighty mysterious form, desired of many, wherewith you have engendered the past, and(engender) the future, the ancient manifested light, the beloved of Indra, into which the five (orders of beings)delighted enter.”
Great is that secret name and far-extending, whereby thou madest all that is and shall be.
The Five Tribes whom he loveth well have entered the light he loveth that was made aforetime.
Great is that hidden, much-coveted name by which you begat what has been and by which (you will beget) what is to be.
The light born of old that is his—that dear light do the five dear ones merge into.
Gross, viel erwünscht ist dies verborgne Dasein, wodurch du schufst, was ist und künftig sein wird; Dein alter lieber Glanz, den du erzeugt hast, in den die lieben fünf Geschlechter drangen.
Da ist der große geheime vielbegehrte Name, mit dem du alles Gewordene und Werdende erzeugt hast. Das uralte von ihm geschaffene Licht, das ihm lieb ist, zu dem Lieben gingen seine fünf lieben Völker ein.
Это (твое) великое тайное многожеланное имя,
С помощью которого ты породил (все,) что было (и) что будет.
С древним созданным (им) светилом, которое дорого ему,
Соединились пять дорогих (ему народов).
आ रोद॑सी अपृणा॒दोत मध्यं॒ पञ्च॑ दे॒वाँ ऋ॑तु॒शः स॒प्तस॑प्त । चतु॑स्त्रिंशता पुरु॒धा वि च॑ष्टे॒ सरू॑पेण॒ ज्योति॑षा॒ विव्र॑तेन ॥
आ । रोद॑सी॒ इति॑ । अ॒पृ॒णा॒त् । आ । उ॒त । मध्य॑म् । पञ्च॑ । दे॒वान् । ऋ॒तु॒ऽशः । स॒प्तऽस॑प्त । चतुः॑ऽत्रिंशता । पु॒रु॒धा । वि । च॒ष्टे॒ । सऽरू॑पेण । ज्योति॑षा । विऽव्र॑तेन ॥
अयमिन्द्र आत्मीयेन शरीरेण तेजसा वा रोदसी द्यावापृथिव्यौ आ सर्वतः अपृणात् पूरयति । उत अपि च मध्यं द्युभूम्यपेक्षया मध्यभूतमन्तरिक्षमापृणादिति वर्तते । तदपि स्वशरीरेण तेजसा वा पूरयति । किंच पञ्च देवान् देवमनुष्यपित्रसुररक्षःसंज्ञकान तथा सप्तसप्त । द्विरुक्त्या सप्तसंख्याकानि तत्त्वानि लोके यानि सन्ति तानि परिगृह्यन्ते । कानि तानीति । सप्त मरुद्गणान् सप्तादित्यरश्मीन सप्त चेन्द्रियाणि सप्त लोकानन्यानपि सप्तसंख्योपेतान् ऋतुशः काले काले चतुस्त्रिंशता चतुस्त्रिंशत्संख्याकेन देवगणेन सह पुरुधा बहुप्रकारं वि चष्टे विपश्यति सर्वदेक्षते । अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च विराट् चेति चतुस्त्रिंशत्त्वं देवानाम् । केनेति तदुच्यते । सरूपेण समानरूपेण ज्योतिषा प्रकाशकेन विव्रतेन विविधेन कर्मणा ॥
“He has filled heaven and earth (with his ethereal form) as well as the mid-heaven; he contemplates invarious aspects the five orders of beings, the classes of seven in their seasons, with the thirty-four (deities),(endowed) with light of like nature, and with various functions.”
He filled the heaven and earth and all between them, Gods five times sevenfold in their proper seasons.
With four-and-thirty lights he looks around him, lights of one colour though their ways are divers.
He filled the two world-halves and their middle. The five (groups of) gods in their proper sequence, seven by seven,
does he survey with the thirty-four (lights) in their multiplicity,
(which are one) light having a single form but following various
commandments.
Er füllte Erd' und Himmel und die Luft an, fünf Stämme, Götter regelrecht je sieben; Vielfach erscheint er mit den vierunddreissig mit gleichem Glanze, welcher weithin leuchtet.
Er füllte die beiden Welten und den Mittelraum aus, die fünfmal je sieben Götter nach ihren Zeiten. Mit vierunddreißig Lichtern, die gleichfarbig sind und doch verschiedenen Gesetzen folgen, schaut er vielerorts aus.
Он заполнил две половины вселенной, а также среднее (пространство),
Пять раз о семь богов по порядку,
Он озирает (все) во многих местах с помощью тридцати четырех
Светил одного цвета, (но) следующих разным обетам.
यदु॑ष॒ औच्छ॑: प्रथ॒मा वि॒भाना॒मज॑नयो॒ येन॑ पु॒ष्टस्य॑ पु॒ष्टम् । यत्ते॑ जामि॒त्वमव॑रं॒ पर॑स्या म॒हन्म॑ह॒त्या अ॑सुर॒त्वमेक॑म् ॥
यत् । उ॒षः॒ । औच्छः॑ । प्र॒थ॒मा । वि॒ऽभाना॑म् । अज॑नयः । येन॑ । पु॒ष्टस्य॑ । पु॒ष्टम् । यत् । ते॒ । जा॒मि॒ऽत्वम् । अव॑रम् । पर॑स्याः । म॒हत् । म॒ह॒त्याः । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
अत्र प्रसङ्गात्सूर्यात्मकेन्द्रसंबन्धिन्युषाः स्तूयते । हे उषः उषोदेवते विभानां विभासकानां ग्रहनक्षत्रादीनां प्रथमा प्रथमभूता सती औच्छः विभासनमकरोः। अग्रे ह्युषसः प्रादुर्भवन्ति पश्चादन्यानि तेजांसि । येन च तेजसा पुष्टस्य पोषयुक्तस्यापि पदार्थस्य पुष्टम् अतिशयेन पोषयुक्तमादित्यम् अजनयः उदपादयः । यत् यञ्च ते तव जामित्वं बान्धवम् अवरम् अवाङ्मुखम् । अस्मदभिमुखमित्यर्थः । कीदृश्यास्तवेति उच्यते। परस्याः । उपरि स्थिताया इत्यर्थः । तदिदं महत्याः तव महत् अतिप्रवृद्धम् एकम् असाधारणमेकमेव वा असुरत्वं प्रकृष्टबलवत्त्वम् । तव बलेन कृतमित्यर्थः ॥
“Since you, Uṣas, did shine forth the first of luminaries, whereby you did beget the nourishment ofnourishment (the Sun); unequalled is the mighty greatness of you who are mighty, since your relationship isdownwards (towards us), though you are stationed on high.”
As first among the lights, O Dawn, thou shonest, whereby thou broughtest forth the Stay of Increase,
Great art thou, matchless is thine Asura nature, who, high above, art kin to those beneath thee.
In that, o Dawn, you dawned as the foremost of the radiant ones, because you begat the thriving of the thriving,
in that you have nearer kinship with the more distant (Dawn)—great is the one and only lordship of great (Dawn).
Dass als der Lichter erstes du erstrahltest, o Morgenroth, des Reichen Wohlstand zeugend, Dass spätrer Schwestern Schar der frühern folgte, das war allein der grossen grosse Allmacht.
Daß du, Usas, aufleuchtetest als erster der Lichter, wodurch du das Gedeihen des Gedeihens hervorriefst, was deine jüngste Verwandtschaft mit der entferntesten ist - das ist die einzige große Asuramacht der großen Usas.
О Ушас, что ты зажглась первой из светил,
Чем породила процветание процветания,
Что твое родство с сестрой низкое по сравнению с (тобой,) высокой, –
Это единственная великая асурская сила у великой (Ушас).
वि॒धुं द॑द्रा॒णं सम॑ने बहू॒नां युवा॑नं॒ सन्तं॑ पलि॒तो ज॑गार । दे॒वस्य॑ पश्य॒ काव्यं॑ महि॒त्वाद्या म॒मार॒ स ह्यः समा॑न ॥
वि॒धुम् । द॒द्रा॒णम् । सम॑ने । ब॒हू॒नाम् । युवा॑नम् । सन्त॑म् । प॒लि॒तः । ज॒गा॒र॒ । दे॒वस्य॑ । प॒श्य॒ । काव्य॑म् । म॒हि॒ऽत्वा । अ॒द्य । म॒मार॑ । सः । ह्यः । सम् । आ॒न॒ ॥
अनया कालात्मक इन्द्रः स्तूयते । विधुं विधातारं सर्वस्य युद्धादेः कर्तारम् । विपूर्वो दधातिः करोत्यर्थे । तथा समने । अननमनः प्राणनम् । सम्यगननोपेते संग्रामे बहूनां शत्रूणां दद्राणं द्रावकं ईदृक्सामर्थ्योपेतं युवानं सन्तं पुरुषं पलितः जरा जगार निगिरतीन्द्राज्ञया । एवमुक्तलक्षणं वक्ष्यमाणलक्षणं च देवस्य कलात्मकस्येन्द्रस्य महित्वा महत्त्वेनोपेतं काव्यं सामर्थ्यं पश्य पश्यत हे जनाः । तथा जरसा प्राप्तः अद्य ममार म्रियते । स ह्यः परेद्युः समान सम्यक् चेष्टते । पुनर्जन्मान्तरे प्रादुर्भवतीत्यर्थः । तदेवं चत्वारि नामानि शरीराण्युक्तानि ॥ ॥ १६ ॥
“The grey-haired has swallowed the warlike (man) the scatterer of many foes, in battle being young;behold the power of the deity (endowed) with might; he dies today, he is alive tomorrow.”
The old hath waked the young Moon from his slumber who runs his circling course with many round him.
Behold the Gods' high wisdom in its greatness: he who died yesterday to-day is living.
The solitary (moon?) running in the crowd of many (stars?)—though he was young, the gray one swallowed him—
behold the poetic skill of the god in his greatness. (In simple language:) today he died; yesterday he was (still) utterly breathing.
Der einsam läuft, obwol umschart von vielen, und Jüngling war, ihn hat der Greis verschlungen; Beschau des Gottes Geisteskraft mit Andacht; der heute starb, der athmete noch gestern.
Den Mond, der in Gesellschaft Vieler läuft, verschlang der Altersgraue, da er noch jung war. Sieh des Gottes Weisheit in ganzer Größe: Heute ist er gestorben, gestern hat er noch vollständig geatmet!
Одинокого, бегающего в обществе многих,
Проглотил седой (старик), когда тот (еще) был молод.
Взгляни на мудрость бога во (всем) величии:
Сегодня он умер, вчера (еще) дышал.
शाक्म॑ना शा॒को अ॑रु॒णः सु॑प॒र्ण आ यो म॒हः शूर॑: स॒नादनी॑ळः । यच्चि॒केत॑ स॒त्यमित्तन्न मोघं॒ वसु॑ स्पा॒र्हमु॒त जेतो॒त दाता॑ ॥
शाक्म॑ना । शा॒कः । अ॒रु॒णः । सु॒ऽप॒र्णः । आ । यः । म॒हः । शूरः॑ । स॒नात् । अनी॑ळः । यत् । चि॒केत॑ । स॒त्यम् । इत् । तत् । न । मोघ॑म् । वसु॑ । स्पा॒र्हम् । उ॒त । जेता॑ । उ॒त । दाता॑ ॥
शाक्मना । शक्मैव शाक्म । शक्मना बलेन शाकः शक्त। ‘शक्लृ शक्तौ । स्वशक्त्यैव सर्वं कर्तुं शक्तः इत्यर्थः । न हीन्द्रस्य सहायान्तरापेक्षास्तीन्द्रत्वादेव । अरुणः अरुणवर्णः सुपर्णः कश्चिच्छोभनपर्णः पक्षी आ गच्छतीत्यध्याहारः । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । यः महः महान् शूरः विक्रान्तः सनात् पुराणः अनीळः अनीडो नीडस्याकर्ता । नहीन्द्रोऽग्निवत् कुत्रचिदपि यज्ञे निकेतनं करोति । एवं सुपर्णरूपकेणेन्द्रमाह। स पक्षीन्द्रः यच्चिकेत कर्तव्यत्वेन जानाति तत् सत्यमित् सत्यमेव न तु मोघं व्यर्थं भवति । सः स्पार्हं स्पृहणीयं वसु उत जेता जयति शत्रुभ्यः सकाशात् उत अपि दाता प्रयच्छति च स्तोतृभ्यः । ‘न लोकाव्यय°' इत्यादिना षष्ठीप्रतिषेधः ॥
“Vigorous with (innate) vigour, (comes) a purple-coloured bird, mighty, heroic, ancient, having no nest;that which he knows is truth, and is not vain; (he is) the conqueror and distributor of desirable wealth.”
Strong is the Red Bird in his strength, great Hero, who from of old hath had no nest to dwell in.
That which he knows is truth and never idle: he wins and gives the wealth desired of many.
Through his power he is the powerful, ruddy eagle, who, as the nestless champion from of old, (has power) over the great.
What he perceives, that is truly real, not false. He is both the winner and the giver of the eagerly sought good.
Der grosse Vogel roth und stark an Stärke, der starke Held, der keine Heimat kennet, Was er erschaut, ist ohne Falsch, ist Wahrheit; erwünschtes Gut erbeutet er und schenkt er.
Durch eigene Kraft ist er der kräftige, der rötliche Vogel, der als der große, tapfere, seit alters nestlose herbeikommt. Was er im Sinne hat, das ist wahr, nicht eitel. Er gewinnt und verschenkt begehrenswertes Gut.
(Он) силен благодаря своей силе, (этот) рыжий орел,
Который по(является) как великий, отважный, издревле лишенный гнезда.
Что он замышляет, истинно, это не ложно.
Он победитель и даритель желанного добра.
ऐभि॑र्ददे॒ वृष्ण्या॒ पौंस्या॑नि॒ येभि॒रौक्ष॑द्वृत्र॒हत्या॑य व॒ज्री । ये कर्म॑णः क्रि॒यमा॑णस्य म॒ह्न ऋ॑तेक॒र्ममु॒दजा॑यन्त दे॒वाः ॥
आ । ए॒भिः॒ । द॒दे॒ । वृ॒ष्ण्या॒ । पौंस्या॑नि । येभिः॑ । औक्ष॑त् । वृ॒त्र॒ऽहत्या॑य । व॒ज्री । ये । कर्म॑णः । क्रि॒यमा॑णस्य । म॒ह्ना । ऋ॒ते॒ऽक॒र्मम् । उ॒त्ऽअजा॑यन्त । दे॒वाः ॥
इन्द्रः एभिः मरुद्भिः सह वृष्ण्यानि वर्षकाणि पौंस्यानि बलानि आ ददे आदत्ते । येभिः मरुद्धिः सहितः वृत्रहत्याय। प्राण्युपकारकवृष्ट्यावरकत्वाद्वृत्रः पापम् । तस्य हत्याय । मनुष्याणामुपद्रवशमनायेत्यर्थः । तदर्थं वज्री वज्रवानिन्द्रः औक्षत् वर्षति । ये च मरुतः देवाः मह्ना महतेन्द्रेण क्रियमाणस्य कर्मणः वृष्टिप्रदानलक्षणस्य साहाय्यार्थम् ऋतेकर्मम् ऋतकर्म वृष्टिप्रदानकर्म प्रति उदजायन्त उन्मुखा जायन्ते स्वयमेव तैरेभिर्दद इति समन्वयः ॥
“Indra bestows fertilizing energies (accompanied by these Maruts in whose company the thunderersends down showers in order to destroy sin; the deities who were born for giving rain (to assist) in the actperformed be great Indra.”
Through these the Thunderer gained strong manly vigour, through whom he waxed in power to smite down Vrtra,-
Who through the might of Indra's operation came forth as Gods in course of Law and Order.
He acquired his bullish manly powers through these, through whom the mace-bearer grew strong for the Vr̥tra-smashing,
the gods who, because of the greatness of the deed being done, came into being without (their own) doing.
Durch sie empfing der Blitzer Heldenkräfte, durch die er mächtig ward zum Vritrakampfe; Die durch die Macht des ausgeführten Werkes durch heil'ges Werk als Götter sind geboren.
Durch sie hat er Stier- und Manneskräfte gewonnen, mit denen er aufwuchs zur Vritratötung, der Keulenträger, mit den Göttern, die durch die Größe seines getanen Werkes auch ohne eigenes Zutun emporkamen.
Он взял себе бычьи (и) мужские силы с помощью тех богов,
Благодаря которым громовержец взрос для убийства Вритры,
Которые велитчием совершаемого (им) подвига
Родились без (собственного) усилия.
यु॒जा कर्मा॑णि ज॒नय॑न्वि॒श्वौजा॑ अशस्ति॒हा वि॒श्वम॑नास्तुरा॒षाट् । पी॒त्वी सोम॑स्य दि॒व आ वृ॑धा॒नः शूरो॒ निर्यु॒धाध॑म॒द्दस्यू॑न् ॥
यु॒जा । कर्मा॑णि । ज॒नय॑न् । वि॒श्वाऽओ॑जाः । अ॒श॒स्ति॒ऽहा । वि॒श्वऽम॑नाः । तु॒रा॒षाट् । पी॒त्वी । सोम॑स्य । दि॒वः । आ । वृ॒धा॒नः । शूरः॑ । निः । यु॒धा । अ॒ध॒म॒त् । दस्यू॑न् ॥
स इन्द्रः युजा मरुतां साहाय्येन कर्माणि प्रवर्षणादीनि जनयन् उत्पादयन् विश्वौजाः व्याप्तबलः अशस्तिहा रक्षोहा विश्वमनाः व्याप्तमनः अत्यन्तं मनस्वी तुराषाट् तूर्णमभिभविता शत्रूणाम् । एवंमहानुभाव इन्द्रः सोमस्य सोमं पीत्वी पीत्वा दिवः द्युलोकादागत्य सोमं पीत्वा वृधानः वर्धमानः शूरः सन् युधा आयुधेन प्रहारेण वा दस्यून् शत्रून् निः अधमत् निर्धमति । युद्धेनासुरानपबाधत इत्यर्थः । ॥ १७ ॥
“Accomplishing his duty with their assistance, the all-powerful Indra, the destroyer of the wicked, theall-wise, the quick subduer of foes, descending from heaven, and quaffing the Soma, invogirated and a hero, hedemolishes the Dasyus with his thunderbolt.”
All-strong, performing works with his companion, All-marking, rapid Victor, Curse-averter,
The Hero, waxing, after draughts of Soma, blew far from heaven the Dasyus with his weapon.
Giving rise to his deeds with (them as his?) yokemate, he who possesses all might and all mind, the smiter of taunts, the overcomer of the powerful, having drunk of the soma, having grown strong, the champion blew the Dasyus forth from heaven in battle.
Allmächtig, mit dem Freund die Thaten wirkend, die Bösen schlagend, feindbezwingend, weise, Zum Himmel wachsend nach dem Trunk des Soma's blies weg der Held im Kampfe die Dämonen.
Mit der verbündeten Marutschar Taten zuwege bringend, der Allkräftige, der die Unehre tilgt, der allen Verstand besitzt und die Mächtigen bezwingt, trank er Soma und gestärkt blies der Held vom Himmel unter Kampf die Dasyu´s fort.
Совершая подвиги вместе с союзником, всесильный,
Убивающий проклинателей, все обьемлющий мыслью, осиливающий могучих,
Напившись сомы, возросший до неба
Герой в сражении сдул дасью прочь.