इ॒दं त॒ एकं॑ प॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ सं वि॑शस्व । सं॒वेश॑ने त॒न्व१॒॑श्चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे ज॒नित्रे॑ ॥
इ॒दम् । ते॒ । एक॑म् । प॒रः । ऊँ॒ इति॑ । ते॒ । एक॑म् । तृ॒तीये॑न । ज्योति॑षा । सम् । वि॒श॒स्व॒ । स॒म्ऽवेश॑ने । त॒न्वः॑ । चारुः॑ । ए॒धि॒ । प्रि॒यः । दे॒वाना॑म् । प॒र॒मे । ज॒नित्रे॑ ॥
एतदादिभिर्बृहदुक्थो वाजिनं नाम स्वपुत्रं मृतं वदति । हे मृत पुत्र ते तव इदम् । उपरि ज्योतिषेति वक्ष्यमाणत्वादत्रेदंशब्देन ज्योतिरभिधीयते । इदं ज्योतिरग्न्याख्यम् एकम् एकोंऽशः । अतस्तमग्निं तव देहगताग्न्यंशेन बाह्यमग्निं सं विशस्व संगच्छस्व । तथा पर उ अन्योऽपि ते तत्र एकं वाय्वावाख्योंऽशः ते तव प्राणवाय्वाख्येनांशेन से विशस्व । शरीराग्निप्राणवाय्वोर्बाह्याग्निवाय्वो श्चैकत्वादंशत्वमिति भावः । तथा तृतीयेन ज्योतिषा आदित्याख्येन तेजसा तवात्मना सं विशस्व । सूर्यगतात्मचैतन्यदेहगतात्मचैतन्ययोरभेदादंशत्वम् । तत् योऽहं सोऽसौ योऽसौ सोऽहं ‘ सूर्य आत्मा जगतस्तस्थुषश्च ' ( ऋ. सं. १.११५.१ ) इति श्रुतेरात्मनः सूर्यप्रवेशो युक्तः । तन्वः तन्वा: संवेशने तस्मिन्सूर्ये संविश्य चारुरेधि कल्याणो भव । कीदृशस्त्वम् । प्रियः तेन सह प्रीयमाणः । कीदृशे तस्मिन् ।"देवानां परमे उत्तमे जनित्रे जनके। देवानां ह्येतत्परमं जनित्रं यत्सूर्यः' इति हि श्रुतिः ॥
“This (light) is one (portion) of you, and this other is one (portion); with your third light enter into (outerradiance); on the entrance of the body into (the sun), the supreme birthplace of the gods, become lovely andbeloved.”
HERE is one light for thee, another yonder: enter the third and he therewith united.
Uniting with a body be thou welcome, dear to the Gods in their sublimest birthplace.
Here is one (light) of yours, and far away is another one. Merge with the third light.
At the merging of your body, be one cherished and dear to the gods at this highest means of begetting.
Hier ist der eine Glanz und dort ein zweiter und mit dem dritten sollst du dich vereinen; Mit neuem Leib dich einend sei willkommen und lieb den Göttern in der höchsten Stätte.
Dies ist dein eines Licht und im Jenseits dein eines: mit dem dritten Lichte vereinige dich! Bei der Vereinigung mit einem Leib sei schön, den Göttern lieb in der höchsten Heimat!
Это твой один (свет), а дальше твой другой –
С третьим светом соединись!
При соединении с телом будь прекрасным.
Приятным богам на высшей родине!
त॒नूष्टे॑ वाजिन्त॒न्वं१॒॑ नय॑न्ती वा॒मम॒स्मभ्यं॒ धातु॒ शर्म॒ तुभ्य॑म् । अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वान्दि॒वी॑व॒ ज्योति॒: स्वमा मि॑मीयाः ॥
त॒नूः । ते॒ । वा॒जि॒न् । त॒न्व॑म् । नय॑न्ती । वा॒मम् । अ॒स्मभ्य॑म् । धातु॑ । शर्म॑ । तुभ्य॑म् । अह्रु॑तः । म॒हः । ध॒रुणा॑य । दे॒वान् । दि॒विऽइ॑व । ज्योतिः॑ । स्वम् । आ । मि॒मी॒याः॒ ॥
हे वाजिन् एतन्नामक पुत्र ते तव तन्वं शरीरं नयन्ती स्वशरीरं प्रापयन्ती तनूः इयं पृथिवी । उभयोरपि पार्थिवत्वात्तव शरीरस्य पृथिवीप्राप्तौ सत्यां तस्यास्तव शरीरनयनं युक्तम् । तादृशी पृथिवी वामं वननीयं धनम् अस्मभ्यं धातु दधातु शर्म च सुखं तुभ्यं धातु दधातु । स त्वम् अह्रुतः अनवपतितः सन् महः महतः देवान् तव कारणभूतान् दिवीव ज्योतिः द्युलोके वर्तमानं सूर्यं च । इवशब्दश्चार्थे निपातानामनेकार्थत्वात् । तं च स्वं तव स्वभूतम् आ मिमीयाः आविश ॥
“May this body (the earth) conveying your body, Vājin, give precious wealth to us and happiness toyou; an ddo you, without stumbling, enter among the great gods for their support; and the light that is in heaven(the sun) and your own (light).”
Bearing thy body, Vajin, may thy body afford us blessing and thyself protection.
Unswerving, stablish as it were in heaven thine own light as the mighty God's supporter.
Let your body, o prizewinner, leading the body, establish a thing of value for us and protection for you.
Unswerving, in order to uphold the great gods, you should exchange your own light as if for the light in heaven.
Der Leib, o Held, der deinen Leib geleitet verleih uns reichen Schatz und dir Beschirmung, Schaff, unverletzter, her die grossen Götter zum Schutze uns, wie deinen Glanz zum Himmel.
Dein Leib, du sieghafter Renner, der einen Leib führt, möge uns Glück bringen, dir Schirm! Ungebeugt, um die großen Götter zu tragen, mögest du wie die Sonne am Himmel dein eigenes Licht vertauschen.
О скакун, твое тело, везущее тело,
Пусть ниспошлет благословение нам, защиту тебе!
Несгибаемый, чтобы нести великих богов,
Пусть ниспошлет благословение нам, защиту тебе!
वा॒ज्य॑सि॒ वाजि॑नेना सुवे॒नीः सु॑वि॒तः स्तोमं॑ सुवि॒तो दिवं॑ गाः । सु॒वि॒तो धर्म॑ प्रथ॒मानु॑ स॒त्या सु॑वि॒तो दे॒वान्त्सु॑वि॒तोऽनु॒ पत्म॑ ॥
वा॒जी । अ॒सि॒ । वाजि॑नेन । सु॒ऽवे॒नीः । सु॒वि॒तः । स्तोम॑म् । सु॒वि॒तः । दिव॑म् । गाः॒ । सु॒वि॒तः । धर्म॑ । प्र॒थ॒मा । अनु॑ । स॒त्या । सु॒वि॒तः । दे॒वान् । सु॒वि॒तः । अनु॑ । पत्म॑ ॥
हे पुत्र त्वं वाजिनेन अन्नरसेन बलेन वा वाज्यसि तद्वान् भवसि । कीदृशस्त्वम् । सुवेनीः सुष्ठु कान्तः । वी गत्यादिषु । तादृशस्त्वं सुवितः सुष्ठु प्रेरितस्त्वं स्तोमं पूर्वं त्वया कृतं स्तोत्रं तदभिमानिदेवम् अनु गाः अन्वगा: अनुगच्छ । तथा सुवितो दिवं गाः । तथा सुवितो धर्मं त्वया संपादितानि धर्माण्यनुगच्छ । कीदृशानि । प्रथमा मुख्यानि सत्या सत्यफलानि । तथा सुवितो देवान् इन्द्रादीन् । तथा सुवितः पत्म पतज्ज्योतिरादित्याख्यम् अनु गाः ॥
“You are, Vājin, (strong) through food; you (are) well-beloved; urged thereto follow (the object of your)praise; urged thereto proceed to heaven; urged thereto pursue the duties that are the most important and sure ofreward; urged thereto follow the gods; urged thereto follow (the light), descending (from heaven).”
Strong Steed art thou: go to the yearning Maidens with vigour, happily go to heaven and praises:
Fly happily to the Gods with easy passage, according to the first and faithful statutes.
You are the prizewinner with a winning spirit. You are well gone to the (dawns?), the good trackers, well gone to the praise, well gone to heaven,
well gone according to the foremost foundations that hold true, well gone to the gods, well gone along your flight.
Ein Held bist du an Heldenkraft, nun schreite zu holden Fraun, zum Loblied, zu dem Himmel, Schön schreitend nach den ersten wahren Rechten zu Göttern schön, dem Flug des Windes folgend.
Du bist ein sieghafter Renner an Siegeskraft; gelange zu den schönen Geliebten, in glücklicher Fahrt den ersten gültigen Bestimmungen gemäß, in glücklicher Fahrt zu den Göttern, in glücklicher Fahrt auf deinem Fluge!
Ты скакун по силе побеждать, с прекрасно заплетенным хвостом (?),
Мчись успешно к хвале, успешно к небу,
Успешно по истинным древним законам,
Успешно к богам, успешно в (своем) полете!
म॒हि॒म्न ए॑षां पि॒तर॑श्च॒नेशि॑रे दे॒वा दे॒वेष्व॑दधु॒रपि॒ क्रतु॑म् । सम॑विव्यचुरु॒त यान्यत्वि॑षु॒रैषां॑ त॒नूषु॒ नि वि॑विशु॒: पुन॑: ॥
म॒हि॒म्नः । ए॒षा॒म् । पि॒तरः॑ । च॒न । ई॒शि॒रे॒ । दे॒वाः । दे॒वेषु । अ॒द॒धुः॒ । अपि॑ । क्रतु॑म् । सम् । अ॒वि॒व्य॒चुः॒ । उ॒त । यानि॑ । अत्वि॑षुः । आ । ए॒षा॒म् । त॒नूषु॑ । नि । वि॒वि॒शुः॒ । पुन॒रिति॑ ॥
पितरश्चन अस्मत्पितरोऽप्यङ्गिरसः एषां देवानां महिम्नः महत्व्“स्य ईशिरे ईश्वरा अभवन् । ते देवाः अपि देवत्वं प्राप्ता अङ्गिरसः देवेषु इन्द्रादिषु क्रतुं संकल्पम् अदधुः धृतवन्तः । उत अपि च यानि तेजांसि अत्विषुः दीप्यन्ते तानि समविव्यचुः संगता आसन् । एषां देवानां तनूषु शरीरेषु नि विविशुः निविशन्ति पितरोऽङ्गिरसः । अतस्त्वमपि तथा कुर्वित्यर्थः ॥
“Our progenitors (the Aṅgirasas) were lords over the might of those (divinities), they having becomegods imposed their will upon the gods; they attained also (the radiances) which shone forth, and they againentered the bodies of those (gods).”
Part of their grandeur have the Fathers also gained: the Gods have seated mental power in them as Gods.
They have embraced within themselves all energies, which, issuing forth, again into their bodies pass.
Even the forefathers are not masters of their greatness. The gods placed their mental force among the gods,
and they enveloped those things that were in vibrant motion. They
entered into their bodies again.
Der Götter Grösse ward den Vätern auch zu Theil; sie selbst nun Götter theilten Kraft den Göttern mit; Sie fassten in sich, was sie einst hervorgebracht, und das ging wieder auch in ihre Leiber ein,
Auch die Väter verfügen nicht über deren Macht; die Götter legten Einsicht in die Göttlichen. Und sie faßten alle ihre Glanzleistungen zusammen, und diese sind wieder in ihre Leiber eingegangen.
Даже отцы не властны над их могуществом.
Боги вложили силу разума в божественных.
Они вобрали в себя (все деяния,) которые сверкали:
(Те) снова вошли в их тела.
सहो॑भि॒र्विश्वं॒ परि॑ चक्रमू॒ रज॒: पूर्वा॒ धामा॒न्यमि॑ता॒ मिमा॑नाः । त॒नूषु॒ विश्वा॒ भुव॑ना॒ नि ये॑मिरे॒ प्रासा॑रयन्त पुरु॒ध प्र॒जा अनु॑ ॥
सहः॑ऽभिः । विश्व॑म् । परि॑ । च॒क्र॒मुः॒ । रजः॑ । पूर्वा॑ । धा॒मानि॑ । अमि॑ता । मिमा॑नाः । त॒नूषु॑ । विश्वा॑ । भुव॑ना । नि । ये॒मि॒रे॒ । प्र । अ॒सा॒र॒य॒न्त॒ । पु॒रु॒ध । प्र॒ऽजाः । अनु॑ ॥
मदीयाः पितरः सहोभिः बलैः स्वीयैः विश्वं सर्वं रजः लोकम् । ‘लोका रजांस्युच्यन्ते । इति निरुक्तम् । पूर्वा पूर्वाणि धामानि स्थानानि अमिता अन्यैरमितानि मिमानाः परिच्छिन्दन्तः परि चक्रमुः पर्यक्रामन् । किंच तथा कुर्वन्तः विश्वा सर्वाणि भुवना भूतजातानि नि येमिरे नियमितवन्तः । किंच पुरुध पुरुधा बहुप्रकारं प्रजा अनु ज्योतींष्युदकानि वा प्रासारयन्त प्रसारितवन्तः । अस्मपितरः पूर्वेऽङ्गिरसः स्वसामर्थ्येन सर्वं लोकं व्याप्य पुरातनानि ग्रहनक्षत्रादीनि परिच्छिद्य सर्वभूतानि नियम्य प्रजा अनूदकानि तेजांसि वा प्रसारितवन्त इत्यर्थः । अतस्त्वमप्येवं कुर्विति भावः ॥
“By their powers they traversed the whole world, measuring the ancient divisions (till then)unmeasured; they restricted all existent beings to their proper forms; they distributed in many directions (light)among the people.”
They strode through all the region with victorious might, establishing the old immeasurable laws.
They compassed in their bodies all existing things, and streamed forth offipring in many successive forms.
With their powers they strode around the whole airy realm, measuring the ancient, unmeasurable domains.
All living beings are held down within their bodies, but they have
extended themselves multiply through their offspring.
Mit Kraft durchschritten sie den ganzen Raum der Luft, die unermessnen alten Stätten massen sie; In ihre Leiber kehrten alle Wesen ein, Nachkommen schafften nach und nach sie überall.
Mit ihren siegreichen Kräften haben sie den ganzen Raum umwandelt, die alten ungezählten Schöpfungen durchmessend. Alle Geschöpfe sind an ihre Leiber gebunden. In vielen Gliedern pflanzten sie ihre Nachkommenschaft fort.
Своими силами они проделали путь вокруг всего пространства,
Меряя прежние неизмеренные формы.
К (их) телам привязаны все существа.
Многими способами посылали они вслед (за собой) (новые) поколения.
द्विधा॑ सू॒नवोऽसु॑रं स्व॒र्विद॒मास्था॑पयन्त तृ॒तीये॑न॒ कर्म॑णा । स्वां प्र॒जां पि॒तर॒: पित्र्यं॒ सह॒ आव॑रेष्वदधु॒स्तन्तु॒मात॑तम् ॥
द्विधा॑ । सू॒नवः॑ । असु॑रम् । स्वः॒ऽविद॑म् । आ । अ॒स्था॒प॒य॒न्त॒ । तृ॒तीये॑न । कर्म॑णा । स्वाम् । प्र॒ऽजाम् । पि॒तरः॑ । पित्र्य॑म् । सहः॑ । आ । अव॑रेषु । अ॒द॒धुः॒ । तन्तु॑म् । आऽत॑तम् ॥
सूनवः आदित्यस्य पुत्रा देवा अङ्गिरसः । ‘ देवानां ह्येतत्परमं जनित्रं यत्सूर्यः' इति प्रदर्शितत्वादादित्यस्य सूनव इति गम्यते । असुरं बलवन्तं स्वर्विदं सर्वज्ञं स्वर्गस्य लम्भकं वादित्यं तृतीयेन कर्मणा प्रजोत्पत्त्याख्येन। ‘ ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः' (तै. सं. ६. ३. १०. ५ ) इति श्रुतेः प्रजोत्पादनस्य तृतीयकर्मत्वम् । तेन आदित्यं द्विधा आस्थापयन्त द्विप्रकारमास्थापयन्ति । उदितं चास्तमितं च कुर्वन्ति ।' उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन्' (तै. सं. १. १. १३. १ ) इति मन्त्रस्य ब्राह्मणे ' असौ वा अदित्य उद्यनुद्ग्राभ एष निम्रोचन्निग्राभः' (तै. सं. ५. ४. ६. ६ ) इति श्रुतत्वाद्देवानामादिस्यस्य द्विःस्थापनमुदयास्तमयकरणमिति गम्यते । किंच पितरः मदीया अङ्गिरसः स्वां प्रजाम् । उत्पाद्येति शेषः । पित्र्यं सहः पितुरादित्यस्य संबन्धिनमपराभिभवक्षमं बलम् अवरेषु आ दधुः निकृष्टेषु स्वप्रजाभूतेषु मनुष्येषु स्थापितवन्तः । यथा पित्र्यं धनं सम्यक् परिरक्ष्य स्वपुत्रेभ्यः प्रयच्छन्ति तद्वत्पितुरादित्यस्य प्रकाशादिबलं मनुष्येषु न्यदधुरित्यर्थः । किंच तन्तुं प्रजाम् आततं विततं कृतवन्त इति शेषः । पुत्रपौत्रादिरूपेणानवच्छिन्नां प्रजामित्यर्थः । ‘ अयं ह्यातततन्तुर्यत्प्रजाः' इति ब्राह्मणं ‘ प्रजातन्तुं मा व्यवच्छेत्सीः ' ( तै. आ. ७. ११. १ ) इति च । तन्तुं तन्वन्' ( ऋ. सं. १०. ५३. ६ ) इत्यस्य ब्राह्मणं ‘ प्रजा वै तन्तुः' ( ऐ. ब्रा. ३. ३८ ) इति ॥
“The sons (of Āditya, the Aṅgirasas), established by the third act of duty, the mighty, all-wise (sun) inhis two-fold (condition of rising and setting); our progenitors (having begotten) their own progeny, deposited inthe best (of them) the paternal strength, (making) an extended line (of progeny).”
In two ways have the sons established in his place the Asura who finds the light, by the third act,
As fathers, they have set their heritage on earth, their offspring, as a thread continuously spun out.
Sons set up their lord [=father] as a finder of the sun in two ways by a third action.
And their forefathers have established their own offspring as their
paternal power, as their “stretched thread” among the later
generations.
Den Gott, der Glanz schafft, haben zwiefach festgestellt die Söhne, und beim dritten Werk befestigten Die Väter ihr Geschlecht, die väterliche Kraft, und legten in die spätern das gewebte Werk.
Die Söhne haben dem sonnegewinnenden Asura durch ihr drittes Werk zweifachen Bestand gegeben. Die Väter haben ihren Nachwuchs, die väterliche Gewalt, den ausgespannten Faden in die Nachfahren gelegt.
Асуру, нашедшего свет, сыновья двояко
Укрепили с помощью третьего деяния.
Свою смену, отчую силу, протянутую нить
Отцы вложили в последующие (поколения).
ना॒वा न क्षोद॑: प्र॒दिश॑: पृथि॒व्याः स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ । स्वां प्र॒जां बृ॒हदु॑क्थो महि॒त्वाव॑रेष्वदधा॒दा परे॑षु ॥
ना॒वा । न । क्षोदः॑ । प्र॒ऽदिशः॑ । पृ॒थि॒व्याः । स्व॒स्तिऽभिः॑ । अति॑ । दुः॒ऽगानि॑ । विश्वा॑ । स्वाम् । प्र॒ऽजाम् । बृ॒हत्ऽउ॑क्थः । म॒हि॒ऽत्वा । अव॑रेषु । अ॒द॒धा॒त् । आ । परे॑षु ॥
नावा न उदकोत्तरणसाधनेनेव क्षोदः उदकं यथा मनुष्या नावोदकमतितरन्ति यथा वा स्वस्तिभिः क्षेमैः विश्वा सर्वाणि दुर्गाणि दुःखेन गन्तव्यान्यतितरन्ति तद्वत् बृहदुक्थः स्वां प्रजां वाजिनं मृतं पुत्रं महित्वा स्वमहत्त्वेन अवरेषु अग्न्यादिषु आ अदधात् कृतवान् । तदा परेषु दिव्येषु सूर्यादिष्वादधात् । एवमृषिर्ब्रूते स्वयमेव वा स्वात्मानं परोक्षेणाह ॥ ॥ १८ ॥
“As men pass over the water to the several quarters of the earth in a ship; (as they pass over) alldifficulties by the blessings (of fortune), Bṛhaduktha by his might has committed his own offspring to those onthis side, and to those on the other side.”
As in a ship through billows, so through regions of air, with blessings, through toils and troubles
Hath Brhaduktha brought his seed with glory, and placed it here and in the realms beyond us.
As if with a boat across the swell through all the earth’s directions, (having gone) beyond the difficult places with blessings,
Br̥haduktha by his greatness has placed his own offspring both among later ones and among those previous.
After the sequence of hymn trios beginning with X.39, the next group (57–60), of four hymns, seems out of place, but Oldenberg (1888: 236) suggests that the whole has been arbitrarily divided into four hymns and could conceivably be resolved into three. The hymns share a theme—that of healing and returning to life—and are ascribed to “the four Gaupāyanas.” Perhaps the division into four hymns was sug
gested by the four supposed authors.
1468 X.57–58
Wie auf dem Schiff durchs Meer in ferne Lande, so fuhr sein eignes Kind auch Brihaduktha Durch alle Noth mit Segenswerk hinüber, hin zu den untern und den obern Göttern.
Wie mit dem Schiff über die Flut nach allen Richtungen der Erde, so glücklich über alle Gefahren hinwegkommend hat Brihaduktha durch seine Macht seine Nachkommenschaft zu den Späteren, zu den Früheren hinzugefügt.
Как на челне – через пучину во (все) стороны земли,
Так благополучно (переправляясь) через все опасности,
Брихадуктха благодаря (своему) величию вложил
Свою смену в поздние (и) в ранние (поколения).