इ॒दमि॒त्था रौद्रं॑ गू॒र्तव॑चा॒ ब्रह्म॒ क्रत्वा॒ शच्या॑म॒न्तरा॒जौ । क्रा॒णा यद॑स्य पि॒तरा॑ मंहने॒ष्ठाः पर्ष॑त्प॒क्थे अह॒न्ना स॒प्त होतॄ॑न् ॥
इ॒दम् । इ॒त्था । रौद्र॑म् । गू॒र्तऽव॑चाः । ब्रह्म॑ । क्रत्वा॑ । शच्या॑म् । अ॒न्तः । आ॒जौ । क्रा॒णा । यत् । अ॒स्य॒ । पि॒तरा॑ । मं॒ह॒ने॒ऽस्थाः । पर्ष॑त् । प॒क्थे । अह॑न् । आ । स॒प्त । होता॑ऋन् ॥
गूर्तवचाः उद्यतवचनो नाभानेदिष्ठः इदं ब्रह्म स्तोत्रं रौद्रं रुद्रप्रणीतम् इत्था इत्थमिदानींक्रियमाणप्रकारं क्रत्वा प्रज्ञानेन निष्पाद्यं स्तोत्रं शच्यामन्तः कर्मणि सत्रमध्ये आजौ अङ्गिरसां संघे करोतीति शेषः । यत् स्तोत्रं क्राणा भागं कुर्वाणा भागं कुर्वाणौ अस्य पितरा पितरावन्ये च मंहनेष्ठाः भागप्रदाने वर्तमाना भ्रातरश्च गोलाभसाधनत्वेनाकल्पयन्निति शेषः । तेन नाभानेदिष्ठः पक्थे पक्तव्ये अहन् अहनि। षष्ठेऽहनीत्यर्थः । ‘ ते षष्ठंषष्ठमेवाहरागत्य मुह्यन्ति तानेते सूक्ते षष्ठेऽहनि शंसय ' ( ऐ. ब्रा. ५.१४ ) इत्युक्तत्वात् । सप्त होतॄन् होतृप्रशास्तृब्राह्मणाच्छंस्यादिकान् आ पर्षत् सर्वतोऽपूरयत् । इदमित्थेति सूक्ताभ्यां यज्ञं पारं प्रापयामासेत्यर्थः ॥
“The fierce-voiced (Nābhānediṣṭha repeated) through his intelligence this praise of Rudra, in themidst of the ceremony at the assembly (of the Aṅgirasas), which (praise) his parents, making (the partition) andhis brothers engaged in giving (the shares accomplished); he perfected the seven priests (therewith) on the dayon which the rite was to be matured.”
THE welcome speaker in the storm of battle uttered with might this prayer to win the Asvins,
When the most liberal God, for Paktha, rescued his parents, and assailed the seven Hotras.
Here is a Rudrian formulation right to the point, (which) he whose speech is welcome (produced) with his mental force at a contest
in skill,
(a formulation) that, standing ready for liberality, will effectively guide across his two parents and, on the fifth [?] day, the seven Hotars.
Dies an den Rudra gerichtete Gebet [vollbrachte] der angenehm redende mit Weisheit im Eifer während des Wettkampfes, als er geschäftig und freigiebig seine Aeltern beschenkte und beim Paktha die sieben Priester [im Wettkampf] überwand [? áhan als Loc. von áhan gefasst gibt einen noch weniger zusagenden Sinn].
Dieses rudrische Geheimwort wird also der, dessen Worte Beifall finden, in dem Wettstreit um das Können mit Bedacht vortragen, das zur Belohnung stehend dessen beide mitwirkende Väter und die sieben Opferpriester am Opfertage bei Paktha herausreißen soll.
स इद्दा॒नाय॒ दभ्या॑य व॒न्वञ्च्यवा॑न॒: सूदै॑रमिमीत॒ वेदि॑म् । तूर्व॑याणो गू॒र्तव॑चस्तम॒: क्षोदो॒ न रेत॑ इ॒तऊ॑ति सिञ्चत् ॥
सः । इत् । दा॒नाय॑ । दभ्या॑य । व॒न्वन् । च्यवा॑नः । सूदैः॑ । अ॒मि॒मी॒त॒ । वेदि॑म् । तूर्व॑याणः । गू॒र्तव॑चःऽतमः । क्षोदः॑ । न । रेतः॑ । इ॒तःऽऊ॑ति । सि॒ञ्च॒त् ॥
स इत् स कृष्णशवासी पुरुषो रुद्राख्यः दानाय स्तोतॄणां धनप्रदानाय दभ्याय शत्रूणां वधाय च वन्वन् स्तोतॄन् संभजन् सूदैः सूदकैर्हिंसकैः शस्त्रैः च्यवानः रक्षांसि च्यावयन् वेदिम् अमिमीत परिमितवान् । यज्ञवास्त्वधिष्ठितवानित्यर्थः । ‘तं कृष्णशवास्युत्तरत' उपोत्थायाब्रवीन्मम' वा इदं मम वै वास्तुहमिति' ( ऐ. ब्रा. ५. १४ ) इति ब्राह्मणम् । तदेवाह । तूर्वयाणः तूर्णगमनः गूर्तवचस्तमः अत्यन्तमुद्यतवचा रुद्रः क्षोदो न उदकमिव । उदकं यथा घनः सिञ्चति तद्वत् रेतः स्वसामर्थ्यम् इतऊति इतोगमनवद्यथा भवति तथा सिञ्चत् प्रेरितवानित्यर्थः । यद्वा । अनेनोत्तरार्धेनोत्तराभ्यां च प्रासङ्गिक्यश्विनोः स्तुतिः क्रियते । तूर्वयाणस्तूर्णगमनोऽतिशयेनोद्यतवचनो रुद्रः क्षोदो न उदकमिव रेत उत्पादनसामर्थ्योपेतं रेत इतऊति सिञ्चत् जनयामासाश्विनौ । अन्यत्रेतऊतीत्यश्विनोरभिधानादन्यत्र तयो रुद्रपुत्रत्वसिद्धेश्चायमर्थो लभ्यते ॥ ।
“He (Rudra) bestowing on his worshippers the gift (of wealth) and the defeat (of their foes),castingdown (the rākṣasas) with his weapons, has constructed the altar; rapid in movement, most fierce in speech,and shedding the procreative fluid like water around.”
Cyavana, purposing deceptive presents, with all ingredients, made the altar ready.
Most sweet-voiced Turvayana poured oblations like floods of widely fertilizing water.
Just he, as the winner (at the contest), (stands ready) for the man who can be outwitted to give: Cyavāna measured out his altar with “sweet” (dregs),
but Tūrvayāṇa, whose speech is the most welcome, poured enduring semen like a gush—
Dieser Tschjavāna, dem leicht zu täuschenden (?), zu Gaben verhelfend, versah den Altar mit süssen Tränken; siegreich vordringend ergoss der sehr lieblich redende wie eine Flut den das Jetzt überdauernden Samen (?).
Dieser Cyavana baute den Feueraltar aus Überesten, indem er sich um eine unsichere Gabe bemühte. Turvayana, dessen Worte am meisten Beifall finden, ergoß den dauernden Samen wie einen Strom;
मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विप॒: शच्या॑ वनु॒थो द्रव॑न्ता । आ यः शर्या॑भिस्तुविनृ॒म्णो अ॒स्याश्री॑णीता॒दिशं॒ गभ॑स्तौ ॥
मनः॑ । न । येषु॑ । हव॑नेषु । ति॒ग्मम् । विपः॑ । शच्या॑ । व॒नु॒थः । द्रव॑न्ता । आ । यः । शर्या॑भिः । तु॒वि॒ऽनृ॒म्णः । अ॒स्य॒ । अश्री॑णीत । आ॒ऽदिश॑म् । गभ॑स्तौ ॥
हे अश्विनौ युवां मनो न मन इव यथा मनः तिग्मं तीक्ष्णमाशु धावति आगच्छति एवं येषु 'हवनेषु आह्वानेषु विपः स्तोतुः शच्या प्रज्ञानेन गन्तव्यमिति बुद्ध्या द्रवन्ता द्रवन्तौ गच्छन्तौ वनुथः संभजथ:। यः अध्वर्युः आ आभिमुख्येन तुविनृम्णः प्रभूतहविर्लक्षणधनः सन् अस्य कर्मणि प्रवृत्तस्य मम संबन्धी शर्याभिः अङ्गुलीभिः अश्रीणीत श्रीणाति । किं कृत्वा । गभस्तौ हस्ते धृत्वा आदिशम् आदिश्य । इदमश्विभ्यामिति निर्दिश्येत्यर्थः । तादृशं मदीयमध्वर्युं येषु हवनेषु वनुथः संभजथः तौ युवां हुव इत्युत्तरत्र संबन्धः ॥
“(I call you to these) oblations, to which hastening, (Aśvins), swift as thought at the invitation of theworshipper, you rejoice my (worshipper) who, affluent in the wealth of sacrifice, mixes (the oblation) with hisfingers in your presence, (holding) in his hand the sacrifice intended (for you).”
To his oblations, swift as thought, ye hurried, and welcomed eagerly the prayers he offered.
With arrows in his hand the Very Mighty forced from him all obedience of a servant.
(Tūrvayāṇa)—to whose invocations you two [=Aśvins] run and win inspired words, (produced) by his skill, that are like sharp thinking,
he who, powerfully manly, with arrows in his hand, brought his aim to fulfillment.
Bei welchen Opferspenden ihr beiden kräftig laufenden [Açvinen] dem gleichsam geschärften Geist des Sängers hold seid, welcher sehr mannhaft mit den Fingern am Arme dessen [etwa des Agni?] Absicht erfüllte.
Bei dessen Anrufungen ihr beide scharf wie der Gedanke mit aller Kraft herbeieilend die Reden gut aufnehmet, der mit den Pfeilen in seiner Hand das Ziel traf, der Mannhafte.
कृ॒ष्णा यद्गोष्व॑रु॒णीषु॒ सीद॑द्दि॒वो नपा॑ताश्विना हुवे वाम् । वी॒तं मे॑ य॒ज्ञमा ग॑तं मे॒ अन्नं॑ वव॒न्वांसा॒ नेष॒मस्मृ॑तध्रू ॥
कृ॒ष्णा । यत् । गोषु॑ । अ॒रु॒णीषु॑ । सीद॑त् । दि॒वः । नपा॑ता । अ॒श्वि॒ना॒ । हु॒वे॒ । वा॒म् । वी॒तम् । मे॒ । य॒ज्ञम् । आ । ग॒त॒म् । मे॒ । अन्न॑म् । व॒व॒न्वांसा॑ । न । इष॑म् । अस्मृ॑तध्रू॒ इत्यस्मृ॑तऽध्रू ॥
कृष्णा रात्रिः यत् यदा अरुणीषु अरुणवर्णासु गोषु सीदत् निवसति । उषा विभासनाय रथमधितिष्ठतीत्यर्थः । ‘ अरुण्यो गाव उषसाम् ' इति निरुक्तम् । उषःकाले हे दिवो नपाता दीप्यमानस्य स्वर्गस्य प्रकाशात्मकस्य यागस्य वा न पातयितारौ हे अश्विनौ वां हुवे आह्वये । वीतं कामयेथां मे अन्नं हविर्लक्षणम् । तदर्थं मे यज्ञम् आ गतम् आगच्छतम् । इषम् अन्नं ववन्वांसा न संभजमानावश्वाविव । तद्वदागतम् । कीदृशौ युवाम् । अस्मृतध्रू अस्मृतद्रोहौ मयि द्रोहमस्मरन्तौ ॥
“When the dark night rettires before the purple oxen (of the chariot of the dawn), I invoke you,Aśvinschildren of heaven; be desirous of my sacrifice; come to my food and to my viands like (two horses) eatingtogether, oblivious of offence.”
I call on you the Sons of Dyaus, the Asvins, that a dark cow to my red kine be added.
Enjoy my sacrifice, come to my viands contented, not deceiving expectation. '
“When black (Night) is sitting among the ruddy cows (of Dawn), o Aśvins, I call upon you two, the sons of heaven.
Pursue my sacrifice, come here to my food, like winners to refreshment, as the two of whom no deception can be remembered.”
Wenn die schwarze [Nacht] sich bei den rothen Kühen [den Strahlen der Morgenröthe] niederlässt, dann rufe ich euch beide, o Açvinen, die Söhne des Himmels; geniesst mein Opfer, kommt her zu meiner Speise, sie gern annehmend wie einen Labetrunk, die ihr das Verlangen nicht täuschet.
Wann die Schwarze bei den roten Kühen sitzt, rufe ich euch, Asvin, Enkel des Himmels. Habet Lust zu meinem Opfer, kommet zu meiner Speise wie die Gewinner zum Mahle, bei denen man sich keines Trugs erinnern kann!
प्रथि॑ष्ट॒ यस्य॑ वी॒रक॑र्ममि॒ष्णदनु॑ष्ठितं॒ नु नर्यो॒ अपौ॑हत् । पुन॒स्तदा वृ॑हति॒ यत्क॒नाया॑ दुहि॒तुरा अनु॑भृतमन॒र्वा ॥
प्रथि॑ष्ट । यस्य॑ । वी॒रऽक॑र्मम् । इ॒ष्णत् । अनु॑ऽस्थितम् । नु । नर्यः॑ । अप॑ । औ॒ह॒त् । पुन॒रिति॑ । तत् । आ । वृ॒ह॒ति॒ । यत् । क॒नायाः॑ । दु॒हि॒तुः । आः । अनु॑ऽभृतम् । अ॒न॒र्वा ॥
यथा स्वांशेन भगवान् रुद्रः प्रजापतिर्वास्तोऽपतिं रुद्रमसृजत् तदेतदादिभिस्तिसृभिर्वदति । यस्य प्रजापतेः इष्णत् एषणवत् वीरकर्मम् । लिङ्गव्यत्ययः। वीरकर्म । रेत इत्यर्थः । येन रेतसोत्पन्ना वीरा भवन्ति तादृग्रेतः प्रथिष्ट प्रथितमासीत् तद्रेतः अनुष्ठितं प्रजापतिनापत्यार्थं निषिक्तं नर्यः नरेभ्यो हितो यद्वा नेतृभ्यो देवेभ्यो हितो रुद्रः अपौहत् अपोहति । तदेवाह । पुनस्तत् रेतः आ वृहति सर्वत उत्खिदति उद्गमयति पुरुषाकारेण स्वयमुत्पन्नः सन् । कीदृशं रेतः । यत् रेतः कनायाः कान्तायाः दुहितुः स्वपुत्र्याः तस्यामित्यर्थः । तत्र प्रजापतिना अनुभृतम् आः आसीत् । अस्तेः सिपि - - । कीदृशो रुद्रः । अनर्वा अन्यस्मिन्नप्रत्यृतः । ‘ प्रजापतिर्वै स्वां दुहितरमभ्यध्यायद्दिवमित्यन्य आहुरुषसमित्यन्ये ' (ऐ, ब्रा. ३. ३३ ) इति ब्राह्मणम् ॥ ॥ २६ ॥
“(Rudra), the benefactor of man, whose eager, virile energy was developed, drew it back whendisseminated (for the genitive ration of offfspring); again the irresistible (Rudra) concentrates (the energy) which wascommunicated to his maiden daughter.”
प्रथि॑ष्ट॒ यस्य॑ वी॒रक॑र्ममि॒ष्णदनु॑ष्ठितं॒ नु नर्यो॒ अपौ॑हत् ।
पुन॒स्तदा वृ॑हति॒ यत्क॒नाया॑ दुहि॒तुरा अनु॑भृतमन॒र्वा ॥
He whose (penis,) which performs the virile work, stretched out, discharging (the semen)—(that one,) the manly one, then pulled away (his penis, which had been) “attending on” (her).
Again he tears out from the maiden, his daughter, what had been “brought to bear” on her—he the unassailable.
Der mannhafte [etwa prajâpati], dessen männliches Glied sich vorstrebend ausgedehnt hatte, streifte es nun, nachdem es sein Werk ausgeführt hatte, wieder zurück; der schrankenlose zog das [Glied], was in seine jugendliche Tochter [etwa die Erde, vgl. Vers 7] hineingebracht war, wieder zurück.
Als sein Glied sich ausgedehnt hatte, nach der Mannesarbeit verlangend, da schob der Mannhafte alsbald das in Arbeit begriffene beiseite. Er reißt es von der jungfräulichen Tochter zurück, das hineingesteckt war, der Unbemeisterte.
म॒ध्या यत्कर्त्व॒मभ॑वद॒भीके॒ कामं॑ कृण्वा॒ने पि॒तरि॑ युव॒त्याम् । म॒ना॒नग्रेतो॑ जहतुर्वि॒यन्ता॒ सानौ॒ निषि॑क्तं सुकृ॒तस्य॒ योनौ॑ ॥
म॒ध्या । यत् । कर्त्व॑म् । अभ॑वत् । अ॒भीके॑ । काम॑म् । कृ॒ण्वा॒ने । पि॒तरि॑ । यु॒व॒त्याम् । म॒ना॒नक् । रेतः॑ । ज॒ह॒तुः॒ । वि॒ऽयन्ता॑ । सानौ॑ । निऽसि॑क्तम् । सु॒ऽकृ॒तस्य॑ । योनौ॑ ॥
कामं यथेच्छं कृण्वाने कुर्वाणे पितरि प्रजापतौ युवत्यां दुहितर्युषसि दिवि वा । ‘ दिवमित्यन्ये ' इति हि ब्राह्मणं प्रदर्शितम् । मध्या तयोर्मध्येऽन्तरिक्षमध्ये वा अभीके समीपे यत् कर्त्वं कर्म अभवत् मिथुनीभावाख्यं तदानीं मनानक् अल्पं रेतः जहतुः त्यक्तवन्तौ । किं कुर्वाणाविति तत्राह। वियन्तौ परस्परमभिगच्छन्तौ । प्रजापतिना सानौ समुच्छ्रिते स्थाने सुकृतस्य यज्ञस्य योनौ निषिक्तम् आसीदित्यर्थः । ततो रुद्र उत्पन्न इत्यर्थः ॥
“When the deed was done in mid-heaven in the proximity of the father working his will, and thedaughter coming together, they let the seed fall slightly; it was poured upon the high plural ce of sacrifice.”
म॒ध्या यत्कर्त्व॒मभ॑वद॒भीके॒ कामं॑ कृण्वा॒ने पि॒तरि॑ युव॒त्याम् ।
म॒ना॒नग्रेतो॑ जहतुर्वि॒यन्ता॒ सानौ॒ निषि॑क्तं सुकृ॒तस्य॒ योनौ॑ ॥
When what was to be done was at its middle, at the encounter when the father was making love to the young girl—
as they were going apart, the two left behind a little semen sprinkled down on the back and in the womb of the well-performed (sacrifice).
Was inzwischen zu thun war, als der Vater seine Lust an der jungen Tochter kühlte [das geschah]; sie beide liessen zusammentreffend eine kurze Zeit den Samen strömen, der sich auf die Fläche ergoss in dem Schooss des schönen Liebeswerkes (?).
Als man mitten in der Arbeit war bei der Liebesbegegnung, da der Vater bei der Jungfrau der Liebe pflegte, da ließen beide im Auseinandergehen ein wenig Samen zurück, der auf dem Rücken der Erde vergossen war, auf dem Platz des guten Werks.
पि॒ता यत्स्वां दु॑हि॒तर॑मधि॒ष्कन्क्ष्म॒या रेत॑: संजग्मा॒नो नि षि॑ञ्चत् । स्वा॒ध्यो॑ऽजनय॒न्ब्रह्म॑ दे॒वा वास्तो॒ष्पतिं॑ व्रत॒पां निर॑तक्षन् ॥
पि॒ता । यत् । स्वाम् । दु॒हि॒तर॑म् । अ॒धि॒ऽस्कन् । क्ष्म॒या । रेतः॑ । स॒म्ऽज॒ग्मा॒नः । नि । सि॒ञ्च॒त् । सु॒ऽआ॒ध्यः॑ । अ॒ज॒न॒य॒न् । ब्रह्म॑ । दे॒वाः । वास्तोः॑ । पति॑म् । व्र॒त॒ऽपाम् । निः । अ॒त॒क्ष॒न् ॥
पिता प्रजापतिः यत् यदा स्वां दुहितरं दिवमुषसं वा अधिष्कन् अध्यस्कन्दत् तदानीमेव क्ष्मया पृथिव्या सह संजग्मानः संगच्छमानः प्रजापतिरस्मिल्ँलोके रोहितं भूतामृश्यो भूत्वा रेतः नि षिञ्चत् निषेकमकरोत् । ‘तामृश्यो भूत्वा रोहितं भूतामभ्यैत् ' (ऐ. ब्रा, ३. ३३ ) इति ब्राह्मणम् । तदानीं स्वाध्यः सुध्यानाः सुकर्माणो वा देवाः ब्रह्म अजनयन् उदपादयन् । किं तद्ब्रह्मेति तदाह । वास्तोष्पतिं यज्ञवास्तुस्वामिनं व्रतपां व्रतस्य कर्मणः रक्षःप्रभृतिभ्यः पालकं निरतक्षन् समुदपादयन् । यज्ञवास्तुस्वामित्वं दत्त्वा कर्मरक्षकत्वेन निर्मितवन्त इत्यर्थः ॥
“When the father united with the daughter, then associating with the earth, he sprinkled it with theeffusion; then the thoughtful gods begot Brahma; they fabricated the lord of the hearth (of sacrifice); the defenderof sacred rites.”
पि॒ता यत्स्वां दु॑हि॒तर॑मधि॒ष्कन्क्ष्म॒या रेतः॑ संजग्मा॒नो नि षि॑ञ्चत् ।
स्वा॒ध्यो॑ऽजनय॒न्ब्रह्म॑ दे॒वा वास्तो॒ष्पतिं॑ व्रत॒पां निर॑तक्षन् ॥
When the father “sprang on” his own daughter, he, uniting (with her), poured down his semen upon the earth.
The gods, very concerned, begat the sacred formulation, and they fashioned out (of it?) the Lord of the Dwelling Place, protector of commandments.
Als der Vater seine eigne Tochter bestiegen hatte, ergoss er mit der Erde zusammengekommen seinen Samen; die achtsamen Götter erzeugten das Brahma und schufen den Gesetz behütenden Wohnungsherrn.[474]
Als der Vater seine Tochter besprang, vergoß er bei der Begattung Samen auf den Boden. Gutes im Sinn führend erzeugten die Götter einen Segen und bildeten daraus Vastospati, den Gesetzeshüter.
स ईं॒ वृषा॒ न फेन॑मस्यदा॒जौ स्मदा परै॒दप॑ द॒भ्रचे॑ताः । सर॑त्प॒दा न दक्षि॑णा परा॒वृङ्न ता नु मे॑ पृश॒न्यो॑ जगृभ्रे ॥
सः । ई॒म् । वृषा॑ । न । फेन॑म् । अ॒स्य॒त् । आ॒जौ । स्मत् । आ । परा॑ । ऐ॒त् । अप॑ । द॒भ्रऽचे॑ताः । सर॑त् । प॒दा । न । दक्षि॑णा । प॒रा॒ऽवृक् । न । ताः । नु । मे॒ । पृ॒श॒न्यः॑ । ज॒गृ॒भ्रे॒ ॥
अङ्गिरसां सत्रान्ते नाभानेदिष्ठो गोनिरोधायागच्छन्तं वास्तोऽपतिं पुरतः पश्यन् वदति । स ईम् सोऽयं वृषा न वर्षक इन्द्र इव स यथा नमुचिवधार्थम् आजौ संग्रामे फेनमस्यत् क्षिप्तवान् तद्वत्क्षेपमना वास्तोष्पतिरिदानीं तवैव वास्तुभागो युक्त इति यथार्थकथनानन्तरं स्मत् अस्मत्तः आ अप परैत् अपपरागच्छति । दभ्रचेताः अल्पमनस्को यः कश्चित् दक्षिणा दक्षिणार्थानां गवां परावृक् परावर्जयिता सन् पदा पदानि न सरत् न सरति अस्मदभिमुखमागच्छति । मे मम संबन्धिन्यः ताः गाः अङ्गिरोभिर्दत्ताः पृशन्यः पथिकानामभिस्पर्शनकुशलो रुद्रः न जगृभ्रे न गृह्णातीत्येवमाशास्ते ॥
“He, like the showerer (Indra), cast foam around in the combat, and came away from us with a niggardmind; he advances not a step, relinquishing the donations; though skilled in rapine, he seizes not these my(cows).”
स ईं॒ वृषा॒ न फेन॑मस्यदा॒जौ स्मदा परै॒दप॑ द॒भ्रचे॑ताः ।
सर॑त्प॒दा न दक्षि॑णा परा॒वृङ्न ता नु मे॑ पृश॒न्यो॑ जगृभ्रे ॥
Like a bull in a contest he threw off foam. Heedless, she went away, hither and yon.
Twisting away, she hastened like the Gift-Cow on foot. [The father:] “Now those caresses of mine have not grasped (her).”
Dieser warf wie ein Stier Schaum auf in dem Kampfe, und sogleich wich der unverständige zurück; der verworfene rann herab wie in südliche Gegenden; nicht wurden da die schmeichelnden meiner habhaft (?).
Wie ein Stier im Kampfe warf er Schaum aus; gleichzeitig ging er her und hin und weg bei schwacher Überlegung. Sie eilte wie eine Verbannte zu den südlichen Orten: Nicht haben diese meine Lockungen verfangen.
म॒क्षू न वह्नि॑: प्र॒जाया॑ उप॒ब्दिर॒ग्निं न न॒ग्न उप॑ सीद॒दूध॑: । सनि॑ते॒ध्मं सनि॑तो॒त वाजं॒ स ध॒र्ता ज॑ज्ञे॒ सह॑सा यवी॒युत् ॥
म॒क्षु । न । वह्निः॑ । प्र॒ऽजायाः॑ । उ॒प॒ब्दिः । अ॒ग्निम् । न । न॒ग्नः । उप॑ । सीद॑त् । ऊधः॑ । सनि॑ता । इ॒ध्मम् । सनि॑ता । उ॒त । वाज॑म् । सः । ध॒र्ता । ज॒ज्ञे॒ । सह॑सा । य॒वि॒ऽयुत् ॥
वास्तोपतिना रुद्रेण गोप्यमानेऽस्मिन् यज्ञे वह्निः वह्निवद्दाहको राक्षसादिः मक्षु न शीघ्रं न उप सीदत् नागच्छति । यो वह्निः प्रजायाः उपब्दिः उपपीडको भवति । यज्ञविघातार्थमागच्छति । ऋत्विगादिरूपायाः प्रजाया न पीडां करोत्यहनि । तथा ऊधः । रात्रिनामैतत् । रात्रावपि अग्निं ज्वलन्तं नग्नः विवसनो राक्षसादिः न उप सीदत् । एवं रुद्रे रक्षितरि सति सः अग्निः इध्मं सनिता जज्ञे उत्पन्नः । उत अपि च वाजम् अन्नं हविः सनिता जज्ञे। स धर्ता यज्ञस्य फलस्य वा धारक उत्पन्नः सोऽग्निः सहसा बलेन यवीयुत् यज्ञमिश्रयितॄणां रक्षःप्रभृतीनां योद्धा जज्ञे ॥
“The fire, harming the people, does not approach quickly (by day); the naked (rākṣasas approach)not Agni by night; the giver of fuel, and the giver of food, he, the upholder (of the rite), is born, overcomingenemies by his might.”
म॒क्षू न वह्निः॑ प्र॒जाया॑ उप॒ब्दिर॒ग्निं न न॒ग्न उप॑ सीद॒दूधः॑ ।
सनि॑ते॒ध्मं सनि॑तो॒त वाजं॒ स ध॒र्ता ज॑ज्ञे॒ सह॑सा यवी॒युत् ॥
Right away, like a chariot-horse (came) the trampling of the offspring [=Agni], and he took his seat at the udder, as one naked in the cold takes a seat close to the fire.
He gained the kindling wood and he gained the prize; he was born as the upholder, ever doing battle with his strength.
Schnell setzte er sich, wie stürmender Lärm der Volksmenge (?), an das Euter (?), wie ein Nackter sich ans Feuer setzt, da wurde er, der Brennholz empfängt, der Opfer empfängt, der Träger, der mächtig kämpfende [Agni] geboren.
Alsbald erhob sich wie von einem Zugtier das Getrappel der Nachkommenschaft. Sie kam zum Euter wie der Nackte ans Feuer. Er gewinnt Brennholz, und er gewinnt seinen Lohn; er ward geboren als der Erhalter, der mit Übermacht Kämpfende.
म॒क्षू क॒नाया॑: स॒ख्यं नव॑ग्वा ऋ॒तं वद॑न्त ऋ॒तयु॑क्तिमग्मन् । द्वि॒बर्ह॑सो॒ य उप॑ गो॒पमागु॑रदक्षि॒णासो॒ अच्यु॑ता दुदुक्षन् ॥
म॒क्षु । क॒नायाः॑ । स॒ख्यम् । नव॑ऽग्वाः । ऋ॒तम् । वद॑न्तः । ऋ॒तऽयु॑क्तिम् । अ॒ग्म॒न् । द्वि॒ऽबर्ह॑सः । ये । उप॑ । गो॒पम् । आ । अगुः॑ । अ॒द॒क्षि॒णासः॑ । अच्यु॑ता । दु॒दु॒क्ष॒न् ॥
नवग्वाः अङ्गिरसः । गवामयनाख्यं सत्रमनुतिष्ठतामङ्गिरसां मध्ये ये नवसु मासेषु लब्धगावः सन्त उत्थितास्ते नवग्वाः । ते ऋतं वदन्तः मक्षु शीघ्रं कनायाः कमनीयायाः स्तुतेर्नाभानेदिष्ठप्रेरितायाः सकाशात् ऋतयुक्तिम् उक्तयोगपरिसमाप्तिम् अग्मन् प्राप्ताः । यद्वा । ऋतयुक्तिं यज्ञयोगोपेतमृतं शब्दं स्तुतिं वदन्तोऽङ्गिरसः कनायाः पृश्न्याः सख्यमग्मन्निति योजना । द्विबर्हसः द्वयोः स्थानयोर्द्यावापृथिव्योः परिवृढाः ये अङ्गिरसः गोपं गोपायितारं नाभानेदिष्ठमिन्द्रं वा उप आगुः उपगताः ते अदक्षिणासः दक्षिणारहिताः । अदक्षिणानि सत्राणीत्याहुः ' इति हि वचनं ' ये यजमानास्त ऋत्विजः' इति । ते च अच्युता उदकान्यक्षीणानि फलानि वा दुधुक्षन् ॥ ॥ २७ ॥
“The Aṅgirasas, who were engaged in the nine months;' ceremonial, reciting the praise suited to therite, quickly attained the friendship of the maiden; those who seated in the two seats (heaven and earth) came totheir protector, as they had no donation, milked forth the inexhaustible (waters).”
Uttering praise to suit the rite Navagvas came speedily to win the damsel's friendship.
They who approached the twice-strong stable's keeper, meedless would milk the rocks that naught had shaken.
Right away the Navagvas came to the fellowship of the maiden [=Dawn] and, speaking the truth, to the yoking of truth.
Those who approached the protector [=Vala?] of doubly exalted (Dawn?), though they lacked the Gift-Cow, strove to milk the
immovable ones [=Vala rocks?].
Schnell kamen die Neuner zu des Mädchens Genossenschaft, das Rechte sprechend zu der rechten Verbindung (?), welche mit zwiefacher Stärke begabt zu dem Behüter (?) kamen; ohne Geschenke zu geben erlangten sie unvergängliche Güter.
Alsbald kamen die Navagva´s zur Freundschaft der Jungfrau, die die Wahrheit Redenden zum Bunde mit der Wahrheit. Die zu dem Hüter des doppeltstarken Felsens gekommen waren, wünschten, da sie keinen Opferlohn hatten, die unerschütterten Festen auszumelken.
म॒क्षू क॒नाया॑: स॒ख्यं नवी॑यो॒ राधो॒ न रेत॑ ऋ॒तमित्तु॑रण्यन् । शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा॑या॒: पय॑ उ॒स्रिया॑याः ॥
म॒क्षु । क॒नायाः॑ । स॒ख्यम् । नवी॑यः । राधः॑ । न । रेतः॑ । ऋ॒तम् । इत् । तु॒र॒ण्य॒न् । शुचि॑ । यत् । ते॒ । रेक्णः॑ । आ । अय॑जन्त । स॒बः॒ऽदुघा॑याः । पयः॑ । उ॒स्रिया॑याः ॥
मक्षु शीघ्रं कनायाः कमनीयाया घर्मदोग्ध्र्याः नवीयः नवतरं सख्यम् । प्राप्येति शेषः । अथवा नवीय इति राधोविशेषणम् । नवतरं राधः धनमिव रेतः सिच्यमानम् ऋतम् उदकं तुरण्यन दिवः सकाशात्प्रेरितवन्तः । हे इन्द्र ते तुभ्यं यत् यदा रेक्णः पाथोलक्षणं धनम् आ अभिमुखम् अयजन्त अपूजयन् । कीदृशं रेक्णः । सबर्दुघायाः । सबरित्यमृतनाम । अमृतदोग्ध्र्याः उस्रियायाः गोः पयः पानयोग्यं रसम् । तदोदकं तुरण्यन्निति । अत्राध्वर्युब्राह्मणम् - ‘अङ्गिरसो वै सत्रमासत तेषां पृश्निर्घर्मधुगासीत् सर्जीषेणाजीवत् तेऽब्रुवन् कस्मै नु सत्रमास्महे येऽस्या ओषधीर्न जनयाम इति ते दिवो वृष्टिमसृजन्त' (तै, ब्रा. २. १. १. १ ) इति ॥
“Quickly (obtaining) the friendship of the maiden, they poured forth water like new wealth, when theyoffered to you (Indra) the pure riches, the milk of the cow, that yields ambrosia.”
Swift was new friendship with the maid they quickly accepted it as genuine seed and bounty.
Milk which the cow Sabardugha had yielded was the bright heritage which to thee they offered.
Right away they hastened anew to the fellowship of the maiden and to the semen, which was like a bounty, which is just truth—
your blazing legacy, which they gained through sacrifice, and the milk of the ruddy female who gives sap as milk.
Schnell zu des Mädchens Genossenschaft kommend beeilten sie den rechten Samen, wie ein Geschenk (?), als sie dir als glänzende Gabe huldigend darbrachten die Milch der Göttertrank strömenden Kuh.
Alsbald nachdem sie aufs neue die Freundschaft der Jungfrau erlangt hatten, beschleunigten sie den rechten Samen wie eine Ehrengabe, den reinen Trank, den sie dir als dein Eigentum zum Opfer brachten, die Milch der immermelken Kuh.
प॒श्वा यत्प॒श्चा वियु॑ता बु॒धन्तेति॑ ब्रवीति व॒क्तरी॒ ररा॑णः । वसो॑र्वसु॒त्वा का॒रवो॑ऽने॒हा विश्वं॑ विवेष्टि॒ द्रवि॑ण॒मुप॒ क्षु ॥
प॒श्वा । यत् । प॒श्चा । विऽयु॑ता । ब्ध॒न्त॑ । इति॑ । ब्र॒वी॒ति॒ । व॒क्तरि॑ । ररा॑णः । वसोः॑ । व॒सु॒ऽत्वा । का॒रवः॑ । अ॒ने॒हा । विश्व॑म् । वि॒वे॒ष्टि॒ । द्रवि॑णम् । उप॑ । क्षु ॥
यत् यदा स्तोतारः पश्वा पशुना । गोसमूहेनेत्यर्थः । तेन वियुता वियुक्तानि स्वकीयानि गोस्थानानि पश्चा पश्चात् बुधन्त अजानन्। तदानीं कारवः । कारुरित्यर्थः । स्तोता इति ब्रवीति इत्थं ब्रूते । किमिति। वक्तरि स्तोतरि रराणः रममाणः वसोः वासकात् वसुत्वा अतिशयेन वासयिता। यद्वा । वसुत्वेति समूहार्थे त्वा नामकरणः । गोरूपधनवतोऽतिशयेन गोसमूहवानित्यर्थः । अनेहा अपाप इन्द्रः विश्वं सर्वं द्रविणं गोरूपं पणिभिरपहृतं धनं क्षु । मक्ष्वित्यर्थः । शीघ्रम् उप विवेष्टि उपव्याप्नोति पुनरादातुम् । अयमर्थः । यदेन्द्रस्य स्तोतारोऽसुरैरपहृतमात्मीयं गोधनं जानन्ति ततः प्रागेवागत्येन्द्रस्तं न्यरुधदिति ॥
“"When (the worshippers) find (the stalls deserted) by the cattle" (then the performer of the rite)exclaims, "(Indra), plural asing to his adorer, the affluent lord of affluence, the compassionate, the sinless, quicklyrecovers all the wealth (that has been carried off)."”
When afterwards they woke- and missed the cattle, the speaker thus in joyful mood addressed them:
Matchless are singers throulgh the Vasu's nature; he bringeth them all food and all possessions.
When afterward they became aware of their separation from the livestock, he [=Br̥haspati or Indra] speaks thus, while bestowing (gifts) at the speaking:
“Through the goodness of the good one, the bards are blameless. He exerts control over all movable property, all the way up to cattle.”
»Mögen sie des Viehes beraubt, später achtsamer sein (?)«, so spricht der, welcher dem Sänger Gaben schenkt; mit des Gutes Fülle gelangt unangefochten der Dichter zu allem Reichthum und zur Nahrung.
Als sie hinterher bemerkten, daß die Festen ihres Viehs beraubt waren, da redete der verschenkende Sprecher also: Durch die Güte des Gütigen sind die Sänger frei von Mangel; er schafft das ganze, aus Vieh bestehende Besitztum herbei.
तदिन्न्व॑स्य परि॒षद्वा॑नो अग्मन्पु॒रू सद॑न्तो नार्ष॒दं बि॑भित्सन् । वि शुष्ण॑स्य॒ संग्र॑थितमन॒र्वा वि॒दत्पु॑रुप्रजा॒तस्य॒ गुहा॒ यत् ॥
तत् । इत् । नु । अ॒स्य॒ । प॒रि॒ऽसद्वा॑नः । अ॒ग्म॒न् । पु॒रु । सद॑न्तः । ना॒र्स॒दम् । बि॒भि॒त्सन् । वि । शुष्ण॑स्य । सम्ऽग्र॑थितम् । अ॒न॒र्वा । वि॒दत् । पु॒रु॒ऽप्र॒जा॒तस्य । गुहा॑ । यत् ॥
तदित् तत्रैव नु क्षिप्रम् अस्य इन्द्रस्य परिषद्वानः परितो वर्तमानाः परिचारका रश्मयः अग्मन् प्रकाशनार्थमगच्छन् । पुरु पुरूणि कृत्रिमाणि सदन्तः सीदन्तोऽसुराः 'नार्षदं नृषदः पुत्रं बिभित्सन् भेत्तुमैच्छन् । किंचायं शुष्णस्य एतन्नामकस्यासुरस्य पुरुप्रजातस्य बहुप्रादुर्भावस्य संग्रथितं मर्मं विदत् वेत्ति । अयमिन्द्रः यत् असुरस्य दुर्ज्ञेयं मर्म गुहा गुहायां गोपितं तद्विदत्॥
“Then the attendant (rays of light) quickly gathered round him, and (the asuras) dwelling in manyregions sought to destroy the son of Nṛṣad, but the irresistible (Indra) found the well-knit mail of Śuṣṇa, whoseoffspring was numerous, which was hidden in the cave.”
His followers then who dwelt in sundry places came and desired too slay the son of Nrsad.
Resistless foe, be found the hidden treasure of Susna multiplied in numerous offipring.
They came just then as its besiegers; sitting (a session) for many (days), they strove to split (the fortress?) of Nr̥ṣada.
The unassailable one disclosed what was knotted together, what was hidden, of Śuṣṇa, who was propagated in many ways.
So sind nun seine Umlagerer gekommen, sich vielfach lagernd suchen sie den [Dämon] Nārschada zu zerspalten; der schrankenlose [vgl. Vers 5] vertheile des Çuschna zusammengehäuftes Gut, das im Versteck des vielfach sich erzeugenden ruht.
Da kamen noch dessen Belagerer; viele Burgen belagernd wollten sie den Narsada zerspalten. Der Unbemeisterte machte des brutreichen Susna verschnürte Leibesblöße ausfindig, die verborgen war.
भर्गो॑ ह॒ नामो॒त यस्य॑ दे॒वाः स्व१॒॑र्ण ये त्रि॑षध॒स्थे नि॑षे॒दुः । अ॒ग्निर्ह॒ नामो॒त जा॒तवे॑दाः श्रु॒धी नो॑ होतॠ॒तस्य॒ होता॒ध्रुक् ॥
भर्गः॑ । ह॒ । नाम । उ॒त । यस्य॑ । दे॒वाः । स्वः॑ । न । ये । त्रि॒ऽस॒ध॒स्थे । नि॒ऽसे॒दुः । अ॒ग्निः । ह॒ । नाम॑ । उ॒त । जा॒तऽवे॑दाः । श्रु॒धि । नः॒ । हो॒तः॒ । ऋ॒तस्य॑ । होता॑ । अ॒ध्रुक् ॥
उत अपि च भर्गो ह नाम तत्तेजः किल प्रसिद्धं यस्य तेजस आग्नेयस्य संबन्धिनि त्रिषधस्थे बर्हिषि ये देवाः सन्ति ते सवें स्वर्ण स्वर्गे यथा तथैव निषेदुः निषीदन्ति । उत अपि च तत्तेजः अग्निर्ह नाम अग्निः किल नाम । उतापि च जातवेदाः जातप्रज्ञो जातानां वेदिता एतदपि तस्य तेजसो नाम । अग्नेर्भर्ग इत्यग्निरिति जातवेदा इति च त्रीणि नामानीत्यर्थः । अथ प्रत्यक्षकृतः । हे होतः होमनिष्पादकोक्तनामाग्ने ऋतस्य होता यज्ञस्य संबन्धिनां देवानामाह्वाता अध्रुक् द्रोहरहितस्त्वं नः अस्माकमाह्वानं श्रुधि शृणु ॥
“Whether Bharga is the name of that radiance, on the triple seat of which those who are gods areseated, as if in heaven, or whether it be Agni, or Jātavedas; invoker (of the gods), who are the ministrant priestof the sacrifice, hear our guileless invocation.”
Thou, called Effulgence, in whose threefold dwelling, as in the light of heaven, the Gods are sitting,
Thou who art called Agni or Jatavedas, Priest, hear us, guileless Priest of holy worship.
“Luster” is the name (of him), to whom the gods belong, who have set him down in his triple seat like the sun, and “Agni Jātavedas” is his name. Hear us, o Hotar, as our Hotar of truth, free of deception.
Der du Glanz heisst, in dessen dreifachem Sitze wie im Himmelsglanze die Götter sich niederliessen, der du Agni heisst und Wesenkenner, höre uns, o Priester, des heiligen Werkes wohlwollender Priester.
Sein Name ist Glanz, dem auch die Götter gehören, die ihn auf dem dreifachen Sitze wie die Sonne eingesetzt haben. Sein Name ist Agni und Jatavedas. Höre auf uns, o Hotri, als der untrügliche Hotri der rechten Opferordnung!
उ॒त त्या मे॒ रौद्रा॑वर्चि॒मन्ता॒ नास॑त्याविन्द्र गू॒र्तये॒ यज॑ध्यै । म॒नु॒ष्वद्वृ॒क्तब॑र्हिषे॒ ररा॑णा म॒न्दू हि॒तप्र॑यसा वि॒क्षु यज्यू॑ ॥
उ॒त । त्या । मे॒ । रौद्रौ॑ । अ॒र्चि॒ऽमन्ता॑ । नास॑त्यौ । इ॒न्द्र॒ । गृ॒तये॑ । यज॑ध्यै । म॒नु॒ष्वत् । वृ॒क्तऽब॑र्हिषे । ररा॑णा । म॒न्दू इति॑ । हि॒तऽप्र॑यसा । वि॒क्षु । यज्यू॒ इति॑ ॥
उत अपि च हे इन्द्र त्या तौ प्रसिद्धौ रौद्रौ रुद्रपुत्रौ । ‘क्षोदो न रेत इतऊति सिञ्चत् ' (ऋ. सं. १०. ६१. २) इति हि रुद्रपुत्रत्वमुक्तम् । अर्चिमन्ता दीप्तिमन्तौ नासत्यौ अश्विनौ मे गूर्तये स्तुतये यजध्यै यागाय च भवेतामिति शेषः । किंच मनुष्वत् मम पितुर्मनोरिव तस्य यज्ञे यथा तथैव वृक्तबर्हिषे स्तीर्णबर्हिषे मह्यं रराणा रममाणौ मन्दू मदिष्णू हितप्रयसा प्रेरितधनौ विक्षु ऋत्विक्ष्वस्मदीयेषु तथा यज्यू यष्टव्यौ भवतमिति शेषः ॥ ॥ २८ ॥
“And, Indra, let those two brilliant sons of Rudra, the Nāsatyās, (be present) at my praise andsacrifice; being propitious to (me seated) on the strewn grass, as (at the sacrifice of) Manu, cheerful, liberal ofwealth to the people, deserving of adoration.”
And, Indra, bring, that I may laud and serve them, those Two resplendent glorious Nasatyas,
Blithe, bounteous, man-like, to the sacrificer, honoured among our men with offered viands.
And these two sons of Rudra, the Nāsatyas who possess the chant, are to be greeted and offered sacrifice by me, o Indra—
the two who give (gifts) to him who, like Manus, provides the twisted ritual grass; the delightful pair for whom pleasing offerings are set
out; and the two that seek sacrifice among the clans.
Auch jene beiden prächtigen, glänzenden Nā satja's, o Indra, sollen auf mein Lob und Opfer achten, welche nach Menschenart dem Streubereiter Gaben spenden, erfreuend, sie, denen Opferspeisen vorgesetzt, und die in den Häusern zu verehren sind.
Und auch diese strahlenden, rudrischen Nasatya´s will ich, um mir Beifall zu erwerben, verehren, o Indra, die dem gern spenden, der gleich Manu das Barhis umgelegt hat, die Erfreulichen, denen ein Opfermahl bereitet ist, die in den Niederlassungen Opfer erwarten.
अ॒यं स्तु॒तो राजा॑ वन्दि वे॒धा अ॒पश्च॒ विप्र॑स्तरति॒ स्वसे॑तुः । स क॒क्षीव॑न्तं रेजय॒त्सो अ॒ग्निं ने॒मिं न च॒क्रमर्व॑तो रघु॒द्रु ॥
अ॒यम् । स्तु॒तः । राजा॑ । व॒न्दि॒ । वे॒धाः । अ॒पः । च॒ । विप्रः॑ । त॒र॒ति॒ । स्वऽसे॑तुः । सः । क॒क्षीव॑न्तम् । रे॒ज॒य॒त् । सः । अ॒ग्निम् । ने॒मिम् । न । च॒क्रम् । अर्व॑तः । र॒घु॒ऽद्रु ॥
अयं वेधाः सर्वस्य विधाता राजा सोमः स्तुतः सर्वैः वन्दि स्तूयतेऽस्माभिः । किंच विप्रः विशेषेण पूरको विप्रवच्छुद्धो वा स्वसेतुः यस्य स्वभूता रश्मयो जगद्बन्धकाः सन्ति स सोमः अपश्च अन्तरिक्षं च तरति लङ्घयति प्रतिदिनम् । सः सोमः कक्षीवन्तम् ऋषिं पर्वतमध्ये सोमार्थं गतं रेजयत् अकम्पयत्। सः स एव अग्निं हविर्वोढुमशक्तं सन्तं पलाय्याप्सु प्रविष्टं रेजयत् । कम्पने दृष्टान्तः । नेमिं नमनशीलं रघुद्रु लघुगमनं चक्रम् अर्वतः अर्वन्तोऽश्वा इव ते यथा तथा रेजयत् । नुमभावश्छान्दसः ॥
“This royal (Soma), this glorified creator, is praised (by all), and, like a sage, constituting his owncause-way, he traverses the firmament; he made Kakṣīvat tremble, he (made) Agni (shake) as horses (agitate)the light- whirling, revolving-wheel (of a chariot).”
This King is praised and honoured as Ordainer: himself the bridge, the Sage speeds o'er the waters.
He hath stirred up Kaksivan, stirred up Agni, as the steed's swift wheel drives the felly onward.
This king praised here has been extolled as a ritual adept, and as inspired poet he crosses the waters, creating his own bridge.
He sets Kakṣīvant atremble and also Agni, as the swift-running wheel of a steed does its wheel-rim.
Dieser gepriesene huldvolle König [Soma Sāy.] wird gerühmt; der weise setzt über die Wasser, seine eignen Brücken habend; er setzte den Kakschīvat in Bewegung und er den Agni, wie den Radkranz, wie das schnell laufende vom Renner gezogene Rad.
Dieser gepriesene König ward als Meister gelobt, und als Redner überschreitet er die Gewässer, sich selbst als Brücke brauchend. Er machte den Kaksivat, er den Agni erzittern wie das raschlaufende Rad des Rennpferdes die Radfelge.
स द्वि॒बन्धु॑र्वैतर॒णो यष्टा॑ सब॒र्धुं धे॒नुम॒स्वं॑ दु॒हध्यै॑ । सं यन्मि॒त्रावरु॑णा वृ॒ञ्ज उ॒क्थैर्ज्येष्ठे॑भिरर्य॒मणं॒ वरू॑थैः ॥
सः । द्वि॒ऽबन्धुः॑ । वै॒त॒र॒णः । यष्टा॑ । स॒बः॒ऽधुम् । धे॒नुम् । अ॒स्व॑म् । दु॒हध्यै॑ । सम् । यत् । मि॒त्रावरु॑णा । वृ॒ञ्जे । उ॒क्थैः । ज्येष्ठे॑भिः । अ॒र्य॒मण॑म् । वरू॑थैः ॥
सः अग्निः द्विबन्धुः द्वयोर्लोकियोर्बन्धुभूतः वैतरणः सर्वस्य विशेषेण तारयिता । यद्वा । वितरणार्हो हविष्प्रदानार्हः । यष्टा देवानां याजकोऽग्निः सबर्धुम् अमृतोपमपयोदोग्ध्रीं धेनुम् अस्वम् अप्रसूतां निवृत्तप्रसवां शयवे दुहध्यै दोहायाकरोत् । यत् यदा स शयुः मित्रावरुणौ अर्यमणं च ज्येष्ठेभिः ज्येष्ठैः प्रशस्तैः वरूथैः वरणीयैः उक्थैः शस्त्रैः सं वृञ्जे सम्यक्स्तौति । यदा स शयुर्मित्रावरुणार्यम्णां स्तुतिं करोति तदा तेषामाज्ञयाग्निर्निवृत्तप्रसवां पयोदोग्ध्रीमकरोदिति ॥
“The kinsman of the two (worlds, Agni), the conveyer (of all), the sacrificer, (made) theambrosia-yielding cow, which had not given birth, to yield milk (for Śayu), when he praises Mitra, Varuṇa andAryaman, with most excellent and choice hymns.”
Vaitarana, doubly kinsman, sacrificer, shall milk the cow who ne'er hath calved, Sabardhu,
When I encompass Varuna and Mitra with lauds, and Aryaman in safest shelter.
He of two lineages, the son of Vitaraṇa, the sacrificer, is to milk the milk-cow, which is sap-yielding but not giving birth,
when I enmesh Mitra and Varuṇa with hymns and Aryaman with
preeminent defenses.
Dieser Dvibandhu, der Nachkomme des Vitarana, bewirkt durch Opfer, dass die unfruchtbare Kuh Nektar herabschüttend sich ergiesse, wenn ich den Mitra und Varuna durch Sprüche herbeilocke, den Arjaman durch die besten Bewirthungen.
Dieser von doppelter Sippe, der Opfernde, der Sohn des Vitarana, soll die immermelke und doch nicht gebärende Kuh melken, wenn er Mitra und Varuna durch seine Loblieder ganz gewinnt, den Aryaman nebst den höchsten Schutzgeistern.
तद्ब॑न्धुः सू॒रिर्दि॒वि ते॑ धियं॒धा नाभा॒नेदि॑ष्ठो रपति॒ प्र वेन॑न् । सा नो॒ नाभि॑: पर॒मास्य वा॑ घा॒हं तत्प॒श्चा क॑ति॒थश्चि॑दास ॥
तत्ऽब॑न्धुः । सू॒रिः । दि॒वि । ते॒ । धि॒य॒म्ऽधाः । नाभा॒नेदि॑ष्ठः । र॒प॒ति॒ । प्र । वेन॑न् । सा । नः॒ । नाभिः॑ । प॒र॒मा । अ॒स्य । वा॒ । घ॒ । अ॒हम् । तत् । प॒श्चा । क॒ति॒थः । चि॒त् । आ॒स॒ ॥
तद्बन्धुः । सैव पृथिवी बन्धुकोत्पत्त्यधिष्ठानत्वेन यस्यासौ तद्बन्धुः । तन्मातृक इत्यर्थः । सूरिः स्तुतेः प्रेरकः दिवि वर्तमानस्य ते तव स्वभूत इति शेषः । त्वदपत्यभूत इति यावत् । षष्ठीसामर्थ्यात्संबन्धसामान्यं प्रतीयते । तच्चादित्यपुत्रो मनुर्मनोः पुत्रो नाभानेदिष्ठ इत्येवं सूर्यापत्यत्वेऽपि पर्यवस्यति । सूर्यनाभानेदिष्ठयोः संबन्धश्चरमपाद उत्तरमन्त्रे च वक्ष्यते । स च धियधाः कर्मणां धारको नाभानेदिष्ठः वेनन् अङ्गिरोदत्तं गोसहस्रं वेनन् कामयन् प्र रपति प्रलपति । स्तौतीत्यर्थः। वा अपि चेत्यर्थः । सा द्यौः नः अस्माकं परमा उत्कृष्टा नाभिः बन्धिका च अस्य आदित्यस्य अधिष्ठानभूतास्ति । घ इति पूरणः । अहं तत् तस्यादित्यस्य पश्चा पश्चादनन्तरं कतिथः कतिपयानां पूरणः आस अभवम् । अनेन ममादित्येन जन्यजनकभावः संबन्धः संनिकृष्ट इत्युक्तं भवति ॥
“The kinsman of the earth, the utterer of praise (belonging) to you (who abides) in heaven,Nābhānediṣṭha, the supporter of the rite, desiring (the recompense), repeats (this praise); the (heaven) ourmost excellent bound (is the site) of the (sun), and I was after many (degrees) descended from hiṃ”
Their kin, the Prince in heaven, thy nearest kinsman, turning his thought to thee thus speaks in kindness:
This is our highest bond: I am his offspring. How many others came ere I succeeded?
The patron whose lineage this is, setting your insight in heaven,
Nābhānediṣṭha [/nearest to the navel], murmurs as he quests:
“Is this navel of ours highest or is his? I was the so-many-eth after
that one.”
Mit diesem verwandt preist dich im Himmel andachtsvoll und verlangend der glanzreiche Nābhānedischtha; dies ist unsere höchste Verwandtschaft und von ihm bin ich der Reihe nach der so und so vielste.
Dessen Verwandter, der Opferherr, auf dich im Himmel sein Denken richtend, der Nabhanedistha, flüstert im Geiste weiterschauend also: Dies ist unser höchster Ursprung oder auch der seine. Ich bin erst später als so und sovielter geworden.
इ॒यं मे॒ नाभि॑रि॒ह मे॑ स॒धस्थ॑मि॒मे मे॑ दे॒वा अ॒यम॑स्मि॒ सर्व॑: । द्वि॒जा अह॑ प्रथम॒जा ऋ॒तस्ये॒दं धे॒नुर॑दुह॒ज्जाय॑माना ॥
इ॒यम् । मे॒ । नाभिः॑ । इ॒ह । मे॒ । स॒धऽस्थ॑म् । इ॒मे । मे॒ । दे॒वाः । अ॒यम् । अ॒स्मि॒ । सर्वः॑ । द्वि॒ऽजाः । अह॑ । प्र॒थ॒म॒ऽजाः । ऋ॒तस्य॑ । इ॒दम् । धे॒नुः । अ॒दु॒ह॒त् । जाय॑माना ॥
इयं माध्यमिका वाक् मे नाभिः संनाहिनी । आदित्यस्य तस्याश्चाभेदादस्यर्षेर्माध्यमिका वाग्बन्धिका भवति । तथा च ब्राह्मणं -- सा या वागसौ स आदित्यः ' (श. ब्रा. १०.५.१.४ ) इति ब्राह्मणम्। इह अस्मिन्मण्डले मे मम सधस्थं स्थानम् । इमे मे देवाः द्योतमाना रश्मयः मे मम स्वभूताः । अयम् अहम् अस्मि सर्वः । सूर्यस्य स्वस्योक्तेन प्रकारेणाभेदात्तद्वावभरा सर्वात्मक त्वम् । अह किंचेत्यर्थः । द्विजाः विप्राः ऋतस्य प्रथमजाः सत्यस्य प्रथमजाः सत्यभूतस्य ब्रह्मणः प्रथमोत्पन्नाः । धेनुः पृश्निदेवता माध्यमिका वाक् जायमाना इदं सर्वम् अदुहत् दुदोह । उदपादयदित्यर्थः ॥
“This (aerial voice) is my bond of affinity; here, (in the solar orb) is my abiding-plural ce; these are myresplendent (rays); I am this all; I am the twice-born; the first-born of truth; the cow, as soon as born, milked forthidentical with Āditya; sā yā vāg asau sa ādityaḥ, that which is vāk is that Ādityaḥ: ŚatapathaBrāhmaṇa 10.5.1.4]. the forests, terminates (in the fire of sacrifice), who upward rising, like a line, adorable, quickly subdues (hisfoes). him, unchangeable, the augmenter of happiness, his mother has brought forth.”
Here is my kinship, here the place I dwell in: these are my Gods; I in full strength am present.
Twice-born am I, the first-born Son of Order: the Cow milked this when first she had her being.
[Agni:] “This, here, is my navel, and here is my seat. These gods here are mine, and here am I—the whole—
having two births, first born of truth. This (earth?) here did the cow
give as her milk as she was being born.”
Dies ist meine Verwandschaft; hier ist mein Heimatsitz; hier sind meine Götter, hier ich selbst in vollem Wohlsein, zweimal geboren als der erstgeborne des Rechtes, diesen Vortheil schaffte mir die geborene Milchkuh.
Dies ist mein Ursprung, hier ist mein Platz, diese Götter sind mein, ich bin das vollständig, der Zweimalgeborene, Erstgeborene des Gesetzes. Die Kuh hat bei ihrer Geburt dieses All als Milch von sich gegeben.
अधा॑सु म॒न्द्रो अ॑र॒तिर्वि॒भावाव॑ स्यति द्विवर्त॒निर्व॑ने॒षाट् । ऊ॒र्ध्वा यच्छ्रेणि॒र्न शिशु॒र्दन्म॒क्षू स्थि॒रं शे॑वृ॒धं सू॑त मा॒ता ॥
अध॑ । आ॒सु॒ । म॒न्द्रः । अ॒र॒तिः । वि॒भाऽवा॑ । अव॑ । स्य॒ति॒ । द्वि॒ऽव॒र्त॒निः । व॒ने॒षाट् । ऊ॒र्ध्वा । यत् । श्रेणिः॑ । न । शिशुः॑ । दन् । म॒क्षु । स्थि॒रम् । शे॒ऽवृ॒धम् । सू॒त॒ । मा॒ता ॥
अध अथ आसु चतसृषु दिक्षु मन्द्रः मोदमानः अरतिः गन्ता विभावा दीप्तिमान् द्विवर्तनिः द्वयोः लोकयोः गन्ता वनेषाट् वने काष्ठानामभिभविताग्निः अत्र स्यति अवसन्नो भवति यागार्थम् । यत् च योऽग्निः ऊर्ध्वा उन्मुखा श्रेणिर्न शिशुः शंसनीयः सेनेव मक्षु शीघ्रं दन् शत्रून् दमयति तमिमं स्थिरं निश्चलं शेवृधं सुखस्य वर्धकं माता अरणिः सूत यज्ञे जनयामास ॥ ॥ २९ ॥
So mid these tribes he rests, the friendly envoy, borne on two paths, refulgent Lord of fuel.
When, like a line, the Babe springs up erectly, his Mother straight hath borne him strong to bless us.
Now among these (clans) the gladdening, far-radiant spoked wheel [=Agni] unhitches, the one having a double track, victorious within
the wood.
When the child of the house is like an upright line, right away the
mother gives birth to the sturdy one, who grows strong with
kindness.
Dann ruht bei diesen Weibern der erfreuende strahlenreiche, rastlos thätige [Agni], der auf zwei Bahnen wandert und im Holze waltet; wenn der Spross [Agni] wie eine senkrechte[475] Linie sich emporrichtet, dann sogleich gebiert ihn die Mutter als den starken Heil mehrenden.
Nun kehret bei diesen Clanen der beliebte Rosselenker, der Erglänzende, im Holz Siegreiche ein, der zwei Wege fährt. Wann das Hauskind wie eine aufrechte Linie ist, so gebiert alsbald die Mutter den starken Liebling.
अधा॒ गाव॒ उप॑मातिं क॒नाया॒ अनु॑ श्वा॒न्तस्य॒ कस्य॑ चि॒त्परे॑युः । श्रु॒धि त्वं सु॑द्रविणो न॒स्त्वं या॑ळाश्व॒घ्नस्य॑ वावृधे सू॒नृता॑भिः ॥
अध॑ । गावः॑ । उप॑ऽमातिम् । क॒नायाः॑ । अनु॑ । श्वा॒न्तस्य॑ । कस्य॑ । चि॒त् । परा॑ । ई॒युः॒ । श्रु॒धि । त्वम् । सु॒ऽद्र॒वि॒णः॒ । नः॒ । त्वम् । या॒ट् । आ॒श्व॒ऽघ्नस्य॑ । व॒वृ॒धे॒ । सू॒नृता॑भिः ॥
अध संप्रति कस्य चित् श्वान्तस्य प्रवृद्धस्य श्रान्तस्य वा । आत्मनो निर्देशः । ईदृशस्य नाभानेदिष्ठस्य कनायाः कमनीयायाः स्तुतेः गावः वाचः । यद्वा । वाचः स्तुतयः कनायाः कमनीयायाः स्तुतेः उपमातिम् उपमानभूतमिन्द्रम् अनु परेयुः अनु परागच्छन्ति । हे सुद्रविणः सुधनाग्ने त्वं श्रुधि शृणु। नः अस्माकमिममिन्द्रं याट् अयाट् यज । त्वं च आश्वघ्नस्य अश्वघ्नोऽश्वमेधयाजी मनुः तस्य पुत्रस्य मम सूनृताभिः स्तुतिभिः ववृधे वर्धसे । पुरुषव्यत्ययः । अथवायं वर्धत इति परोक्षेण निर्देशः ॥
“The words of the desirable (praise), of a certain tranquil person n (Nābhānediṣṭha), attain theprototype (Indra). Do you, who are the giver of wealth (Agni), hear us; offer sacrifice, you are magnified by thesincere eulogies of Aśvaghna.”
Then went the milch-kine forth to please the damsel, and for the good of every man that liveth.
Hear us, O wealthy Lord; begin our worship. Thou hast grown mighty through Asvaghna's virtues.
And now the cows of the maiden [=Dawn] have gone forth, following the distribution (of goods) of someone swollen (with wealth).
Listen to us, o you possessing good movable property; you, perform sacrifice! I have grown strong through the liberal gifts of Āśvaghna
[/son of the horse-killer].
Dann gingen die Milchtränke auf die Anrede des Mädchens (?) oder irgend eines befreundeten hin [zu dir]; höre du uns, o güterreicher [Agni] und opfre für uns; durch des Açvaghna reiche Gaben ward er stark.
Nun sind die Kühe der Jungfrau fortgezogen gemäß der Zuweisung irgend eines Wohlhabenden. Erhöre uns, du Wohlbegüterter, opfere du! Ich bin von Gunstbeweisen des Asvaghna erbaut.
अध॒ त्वमि॑न्द्र वि॒द्ध्य१॒॑स्मान्म॒हो रा॒ये नृ॑पते॒ वज्र॑बाहुः । रक्षा॑ च नो म॒घोन॑: पा॒हि सू॒रीन॑ने॒हस॑स्ते हरिवो अ॒भिष्टौ॑ ॥
अध॑ । त्वम् । इ॒न्द्र॒ । वि॒द्धि । अ॒स्मान् । म॒हः । रा॒ये । नृ॒ऽप॒ते॒ । वज्र॑ऽबाहुः । रक्ष॑ । च॒ । नः॒ । म॒घोनः॑ । पा॒हि । सू॒रीन् । अ॒ने॒हसः॑ । ते॒ । ह॒रि॒ऽवः॒ । अ॒भिष्टौ॑ ॥
हे इन्द्र अध अधुना वज्रबाहुः त्वम् अस्मान् महः महते राये धनाय विद्धि जानीहि । हे इन्द्र मघोनः हविष्मतः सूरीन स्तुतिप्रेरकान् नः अस्मान् रक्ष च । हे हरिवः हरिभ्यां तद्वन्निन्द्र ते तव अभिष्टौ अभिगमने अनेहसः अपापाः स्यामेति शेषः ॥
“Do you, Indra, king of men, who are the bearer of the thunderbolt, regard us now to (give us) greatriches, and protect us who are affluent in (oblations), who utter (your) praise; may we, lord of bay steeds, (be)free from blame on your approach.”
And take thou notice of us also, Indra, for ample riches, King whose arm wields thunder!
Protect our wealthy nobles, guard our princes unmenaced near thee, Lord of Tawny Coursers.
And now you, Indra—know us for the sake of great wealth, o lord of men with the mace in your arms,
and guard those generous to us and protect our blameless patrons in your charge, o possessor of fallow bays.
Und du, o Indra, verhilf uns zum Besitze grossen Gutes, o Männerherr, der du den Blitz im Arme trägst, und beschirme unsre reichen, behüte die Fürsten, die unvergleichlichen, o Lenker goldner Rosse, in deinem Schutze.
Nun komm du, Indra, gedenke unser zu großem Reichtum, du Männerherr mit der Keule im Arme! Behüte unsere Gönner und schütze die Opferherren schadlos in deiner Obhut, o Falbenfahrer!
अध॒ यद्रा॑जाना॒ गवि॑ष्टौ॒ सर॑त्सर॒ण्युः का॒रवे॑ जर॒ण्युः । विप्र॒: प्रेष्ठ॒: स ह्ये॑षां ब॒भूव॒ परा॑ च॒ वक्ष॑दु॒त प॑र्षदेनान् ॥
अध॑ । यत् । रा॒जा॒ना॒ । गोऽइ॑ष्टौ । सर॑त् । स॒र॒ण्युः । का॒रवे॑ । ज॒र॒ण्युः । विप्रः॑ । प्रेष्ठः॑ । सः । हि । ए॒षा॒म् । ब॒भूव॒ । परा॑ । च॒ । वक्ष॑त् । उ॒त । प॒र्ष॒त् । ए॒ना॒न् ॥
हे राजाना राजमानौ मित्रावरुणौ अध अधुना सत्रसमाप्तौ यत् यस्मात् गविष्टौ गवामेषणायां सत्यां सरण्युः सरणशीलो यमः सरत् गच्छति कारवे कर्माणि कुर्वतेऽङ्गिरसां गणाय । किमिच्छन् । जरण्युः तस्मा अङ्गिरसां गणाय स्तुतिमिच्छन् । तस्मात् सः विप्रः नाभानेदिष्ठः एषाम् अङ्गिरसां प्रेष्ठः प्रियतमः बभूव भवतु । हि इति पूरणः । तेषां कर्तव्यं परा च वक्षत परावहतु । उत अपि च एनान् अङ्गिरसः पर्षत् पारयतु इत्यात्मन एवाशास्ते ॥
“Since, royal (Mitra and Varuṇa), the impetuous (Yama) now approaches in expectation of (the gift of)cattle, and desiring praise for the sacrificing (band of the Aṅgirasas); the sage (Nābhānediṣṭha) has beenheld most dear by them; may he accomplish (what has to be effected), and make them successful.”
When he goes forth, ye Pair of Kings, for booty, speeding to war and praise to please the singer,-
I was the dearest sage of those about him,-let him lead these away and bring them safely.
And now, o you two kings [=Mitra and Varuṇa, or the Aśvins], when in the quest for cattle the hastening one, awakening, makes haste for the bard,
the dearest inspired poet [=Agni?], because he has become theirs
[=patrons’], will carry them away and will bring them across.
Und wenn dann bei der Opferhandlung, o ihr beiden Könige [Mitra-Varuna], zu euch [yuvâm aus metrischen Gründen zu ergänzen] der eilende heraneilt, dem Dichter zurufend, dann fahre der beliebteste Sänger – denn er war unter ihnen – sie hinweg und setze sie über.
Wenn er nun, ihr beiden Könige, auf einem Beutezug zu eiliger Fahrt bereit, der Frühauf, zum Sänger eilt - denn er ward ihnen der liebste Sprecher -, so wird er sie in die Ferne fahren und ihnen durchhelfen.
अधा॒ न्व॑स्य॒ जेन्य॑स्य पु॒ष्टौ वृथा॒ रेभ॑न्त ईमहे॒ तदू॒ नु । स॒र॒ण्युर॑स्य सू॒नुरश्वो॒ विप्र॑श्चासि॒ श्रव॑सश्च सा॒तौ ॥
अध॑ । नु । अ॒स्य॒ । जेन्य॑स्य । पु॒ष्टौ । वृथा॑ । रेभ॑न्तः । ई॒म॒हे॒ । तत् । ऊँ॒ इति॑ । नु । स॒र॒ण्युः । अ॒स्य॒ । सू॒नुः । अश्वः॑ । विप्रः॑ । च॒ । अ॒सि॒ । श्रव॑सः । च॒ । सा॒तौ ॥
अनया वरुणं पृथक् स्तौति । अध अथ नु क्षिप्रम् अस्य जेन्यस्य जयशीलस्य स्तुत्या जेतव्यस्य वा तत् स्वभूतं गवादिधनं पुष्टौ पोषे निमित्ते सति तस्य पुष्ट्यर्थं वा वृथा अनायासेन रेभन्तः स्तुवन्तः नु क्षिप्रम् ईमहे याचामहे । सरण्युः शीघ्रसरणशीलः अश्वः अस्य वरुणस्य सूनुः पुत्रः । वरुणाद्य्“श्व उत्पन्न: । अथ प्रत्यक्षकृतः । हे वरुण त्वं विप्रश्चासि विप्रवत्पूज्यः शुद्धो वा भवसि । श्रवसश्च अन्नस्य सातौ लाभे अस्माकमन्नलाभाय प्रवृत्तश्च भवसि ॥
“And for the contentment of this victorious (Varuṇa), praising (him) without an effort, we solicit this (ofhim), (that) his progeny, a swift horse, (may be ours), and you, (Varuṇa), are wise, and (are occupied) inprocuring us food.”
Now for this noble man's support and comfort, singing with easy voice we thus implore thee:
Impetuous be his son and fleet his courser: and may I be his priest to win him glory.
And now at the thriving of him [=Agni] who is well born—we, rasping at will, now beg this: [see vs. 27]—
you, his son, are a hastening horse and an inspired poet—as also at the winning of fame.
Und nun bei dieses herrlichen [Varuna Sāy.] Speisung wünschen wir munter singende dies nun: Eilend sei [etwa astu aus metrischen Gründen zu ergänzen] das Ross, sein Sohn, und du selbst bist ein Sänger bei der Erlangung des Ruhmes (?).
Nun bei dem Gedeihen seines Hausstandes bitten wir, nach Lust lobsingend, darum: Zu eiliger Fahrt sei sein Sohn bereit, sein Roß, und du bist redekundig und dabei, wo man Ruhm gewinnt.
यु॒वोर्यदि॑ स॒ख्याया॒स्मे शर्धा॑य॒ स्तोमं॑ जुजु॒षे नम॑स्वान् । वि॒श्वत्र॒ यस्मि॒न्ना गिर॑: समी॒चीः पू॒र्वीव॑ गा॒तुर्दाश॑त्सू॒नृता॑यै ॥
यु॒वोः । यदि॑ । स॒ख्याय॑ । अ॒स्मे इति॑ । शर्धा॑य । स्तोम॑म् । जु॒जु॒षे । नम॑स्वान् । वि॒श्वत्र॑ । यस्मि॑न् । आ । गिरः॑ । स॒म्ऽई॒चीः । पू॒र्वीऽइ॑व । गा॒तुः । दाश॑त् । सू॒नृता॑यै ॥
हे मित्रावरुणो युवोः युवयोः शर्धाय बलवते अस्मे अस्माकं सख्याय । यद्वा । युवयोः सख्याय अस्मे अस्माकं शर्धाय बलाय च । यदि नमस्वान् अन्नवानध्वर्युः स्तोत्रवान् होता वा स्तोमं जुजुषे सेवते । यस्मिन् सख्ये सिद्धे सति विश्वत्र विश्वस्मिञ्जनपदे गिरः अङ्गिरसां संबन्धिन्यः समीचीः समीच्यः आ गच्छन्तीति शेषः । उदाराणां गृह इदं गृहाण इदं गृहाणेत्येवंरूपाः श्रूयन्त इत्यर्थः । यद्वा । योगानुष्ठातॄणां स्तुतिगिर आगच्छन्तीति । पूर्वीव गातुः प्राची दिगिव सा यथा गच्छतां सुखं प्रयच्छति तद्वत् । यद्वा । पूर्वी पुरा प्रसिद्धा पुरातनीव गातुः सरणिरिव सा यथा गच्छतां सुखं प्रयच्छति तद्वत् । सूनृतायै प्रियसत्यरूपायै स्तुतिवाचे दाशत् प्रयच्छतु ॥
“If the priest offers homage to you two (Mitra and Varuṇa) for the sake of your friendship and ourinvigoration, on (the formation of) which (friendship) the praises (of the Aṅgirasas go) everywhere in a commondirection; may he give (plural asure) to the utterer of praise like an ancient road.”
If, for our strength, the priest with adoration to win your friendship made the laud accepted,
That laud shall be a branching road to virtue for every one to whom the songs are suited.
If for the sake of companionship with you two [=Mitra and Varuṇa, or the Aśvins], for us who are his troop, he [=Agni/poet], receiving
[/providing] reverence, finds pleasure in his praise hymn—
he in whom songs in all places come together, like a route with many parts—and he does ritual service for the sake of liberality,
Wenn nun zu eurer beider [des Mitra-Varuna] starken Freundschaft mit uns der Anbeter den Lobgesang zum Genusse darbot, in welchen überall die Lieder sich vereinen, dann sei er [der Lobgesang] wie ein reich gesegneter Gang fördernd zu herrlicher Gabe.
Wenn ich, um euer beider Freundschaft für uns zu gewinnen, zu einem Loblied auf die Heerschar Lust bekommen habe unter Verbeugungen, so möge der, zu dem überall die Lobreden vereint gehen wie ein viel begangener Weg, seiner Großmut willfahren.
स गृ॑णा॒नो अ॒द्भिर्दे॒ववा॒निति॑ सु॒बन्धु॒र्नम॑सा सू॒क्तैः । वर्ध॑दु॒क्थैर्वचो॑भि॒रा हि नू॒नं व्यध्वै॑ति॒ पय॑स उ॒स्रिया॑याः ॥
सः । गृ॒णा॒नः । अ॒त्ऽभिः । दे॒वऽवा॑न् । इति॑ । सु॒ऽबन्धुः॑ । नम॑सा । सु॒ऽउ॒क्तैः । वर्ध॑त् । उ॒क्थैः । वचः॑ऽभिः । आ । हि । नू॒नम् । वि । अध्वा॑ । ए॒ति॒ । पय॑सः । उ॒स्रिया॑याः ॥
अद्भिः देवताभिः देववान् सुबन्धुः शोभनबन्धनः सः वरुणः इति इत्थंकृतप्रकारेण नमसा नमस्कारेण सूक्तैः च गृणानः स्तूयमानः सन् वर्धत् वर्धताम् । उक्थैर्वचोभिः उच्यमानैः प्रशस्तैर्वा स्तुतिवचोभिः नूनम् इदानीम् आ गच्छत्विति शेषः । हि इति पूरणः । तस्य यागार्थम् उस्रियायाः गोः पयसः अध्वा मार्गः वि एति । स्तनाग्राणि क्षरन्तीत्यर्थः ।
“Being praised with reverence and hymns thus, "the god-accompanied (Varuṇa) of good lineage,together with the waters"; may he be magnified; (attracted) by hymns and prayers (may he) now (approach); thepath of the milk of the cow is open (for his worship).”
Glorified thus, with holy hymns and homage:-Of noble race, with Waters, God-attended
May he enrich us for our prayers and praises: now can the cow be milked; the path is open.
He, being sung by the waters and with the gods on his side, is thus “of good lineage.” With reverence and hymns,
with solemn words and speeches, he strengthens (the gods?), for now (he has) arrived. The (ceremonial) course departs from the “milk” of the ruddy one [=Dawn].
Er, der durch die Flüssigkeiten befriedigte, von den Göttern umscharte [es fehlen zwei Silben], so [von uns genannt] der holde Freund, erstarke durch Anbetung, durch schöne Gesänge, durch Sprüche und Lieder; denn hierher geht jetzt die Bahn von der Milch der Kuh aus.
Er ist der von den Gewässern Gepriesene, der die Götter auf seiner Seite hat, und also von guter Sippe; er soll sich an der Verbeugung, an den Liedern, an den Lobgedichten und Reden erbauen, denn jetzt soll er kommen: Der Weg der Milch der Kuh scheidet sich jetzt.
त ऊ॒ षु णो॑ म॒हो य॑जत्रा भू॒त दे॑वास ऊ॒तये॑ स॒जोषा॑: । ये वाजाँ॒ अन॑यता वि॒यन्तो॒ ये स्था नि॑चे॒तारो॒ अमू॑राः ॥
ते । ऊँ॒ इति॑ । सु । नः॒ । म॒हः । य॒ज॒त्राः॒ । भू॒त । दे॒वा॒सः॒ । ऊ॒तये॑ । स॒ऽजोषाः॑ । ये । वाजा॑न् । अन॑यत । वि॒ऽयन्तः॑ । ये । स्थ । नि॒ऽचे॒तारः॑ । अमू॑राः ॥
अनयर्षिरङ्गिरस आशास्ते । हे यजत्राः यष्टव्याः देवासः देवाः ते यूयम्। उ इति पूरणः । महः महते नः अस्माकम् ऊतये रक्षणाय सजोषाः संगताः भूत भवत । ये च यूयम् अङ्गिरसो मह्यं वाजान् अन्नानि अनयत प्रापयथ वियन्तः सततमुक्थाय विविधं गच्छन्तः सन्तः । ये च यूयम् अमूराः अमूढाः । षष्ठाहःप्रयोगमौढ्यरहिता इत्यर्थः । तादृशाः निचेतारः गवां विविक्तारः स्थ भवथ। ते सजोषा भूतेति समन्वयः ॥
“Adorable divinities, be consentient for our great preservation, both you who, going in variousdirections, are the bringers of food, and you who, being no longer perplexed, are the discoverers (of the cattle).”
Be to us, then, ye Gods who merit worship, be ye of one accord our strong protection,
Who went on various ways and brought us vigour, ye who are undeceivable explorers.
(...we now beg this:) “O gods worthy of the sacrifice, become joined together for great help for us,
you who, (now) departing, led prizes (here), and who are observers who are never fooled.”
Drum erweist euch uns nun gross, o ihr ehrwürdigen Götter, zur Hülfe vereint, die ihr Nahrungen herbrachtet, euch vertheilend, die ihr untrügliche Rächer seid.
Ihr verehrungswürdigen Götter, seid ihr uns fein einmütig zu großer Gnade, die ihr im Auseinandergehen die Belohnungen zuführtet, die ihr nie irrende Prüfer seid!