प॒रा॒वतो॒ ये दिधि॑षन्त॒ आप्यं॒ मनु॑प्रीतासो॒ जनि॑मा वि॒वस्व॑तः । य॒याते॒र्ये न॑हु॒ष्य॑स्य ब॒र्हिषि॑ दे॒वा आस॑ते॒ ते अधि॑ ब्रुवन्तु नः ॥
प॒रा॒ऽवतः॑ । ये । दिधि॑षन्ते । आप्य॑म् । मनु॑ऽप्रीतासः । जनि॑म । वि॒वस्व॑तः । य॒यातेः॑ । ये । न॒हु॒ष्य॑स्य । ब॒र्हिषि॑ । दे॒वाः । आस॑ते । ते । अधि॑ । ब्रु॒व॒न्तु॒ । नः॒ ॥
ये देवाः परावतः दूरदेशादागत्य आप्यं ज्ञातेयं मनुष्यैः सह बन्धुत्वं दिधिषन्ते धारयन्ति । यद्वा । हविषां प्रदातृभिर्मनुष्यैः सह सख्यं कुर्म इति परस्परं शब्दायन्ते । धिष शब्दे । जौहोत्यादिकः । छान्दसो झस्यान्तादेशः । ‘ धिष धारणे इति कैश्चिदप्युपगम्यते । उक्तार्थमेव विशिनष्टि । मनुप्रीतासः मनुष्यैः प्रीता देवाः विवस्वतः विवस्वत्पुत्रस्य मनोः जनिम जन्मानि मनुष्यान् धारयन्ति । किंच ये देवाः नहुष्यस्य नहुषपुत्रस्य ययातेः एतन्नामकस्य राजर्षेः बर्हिषि यज्ञे आसते उपविशन्ति ते देवाः नः अस्मान् अधि ब्रुवन्तु धनादिप्रदानेनास्मानधिकं वदन्तु! पूजयन्त्वित्यर्थः ॥
“May the gods who, (coming) from afar proclaim their affinity (with men), and beloved by men, (support)the genitive rations of (Manu, the son of) Vivasvat; may they who are seated on the sacred grass of Yayāti, the sonof Nahuṣa, speak favourably unto us.”
MAY they who would assume kinship from far away, Vivasvan's generations, dearly loved of men,
Even the Gods who sit upon the sacred grass of Nahusa's son Yayati, bless and comfort us.
Those from afar who seek to establish friendship, who, gratified by Manu, (seek to establish) the races of Vivasvant,
the gods who sit on the ritual grass of Yayāti Nahuṣya—let them speak on our behalf.
Die gern von ferne kommen zur Genossenschaft, geliebt von Menschen, des Vivasvat hoher Stamm, Die auf der Streu Jajati's Sohns des Nahuscha als Götter sitzen, mögen tröstend uns erfreun.
Die von ferne Freundschaft schließen möchten und von Manu zufriedengestellt zu des Vivasvat Geschlecht kommen, die auf dem Barhis des Yayati, des Nahusohnes, sitzen, die Götter sollen unsere Fürsprecher sein.
विश्वा॒ हि वो॑ नम॒स्या॑नि॒ वन्द्या॒ नामा॑नि देवा उ॒त य॒ज्ञिया॑नि वः । ये स्थ जा॒ता अदि॑तेर॒द्भ्यस्परि॒ ये पृ॑थि॒व्यास्ते म॑ इ॒ह श्रु॑ता॒ हव॑म् ॥
विश्वा॑ । हि । वः॒ । न॒म॒स्या॑नि । वन्द्या॑ । नामा॑नि । दे॒वाः॒ । उ॒त । य॒ज्ञिया॑नि । वः॒ । ये । स्थ । जा॒ताः । अदि॑तेः । अ॒त्ऽभ्यः । परि॑ । ये । पृ॒थि॒व्याः । ते । मे॒ । इ॒ह । श्रु॒त॒ । हव॑म् ॥
हे देवाः इन्द्रादयः । हिरवधारणे । वः युष्माकमेव नामानि नमनीयानि विश्वा सर्वाणि शरीराणि नमस्यानि नमस्कारार्हाणि भवन्ति वन्द्या वन्द्यानि स्तोतव्यानि च भवन्ति । उत अपि च वः युष्माकं तानि शरीराणि यज्ञियानि यज्ञार्हाणि भवन्ति । ये यूयम् अदितेः अदीनात् द्युलोकात् अद्भ्यः । अन्तरिक्षनामैतत् । अन्तरिक्षात् । परिः पञ्चम्यर्थद्योतकः । पृथिव्याः च जाताः प्रादुर्भूताः स्थ भवथ ते यूयम् इह अस्मिन्यज्ञे आगत्य मे मदीयं हवम् आह्वानं श्रुत शृणुत ॥ ।
“All your appellations, gods, are to be revered and praised, and worshipped, and whether you aresprung from heaven, or from the firmament, or from earth, hear at this (solemnity) my invocation.”
For worthy of obeisance, Gods, are all your names, worthy of adoration and of sacrifice.
Ye who were born from waters, and from Aditi, and from the earth, do ye here listen to my call.
For all your names, o gods, are worthy of homage, worthy of praise, and they are worthy of the sacrifice.
You who were born from Aditi or from the waters, who from the earth, listen to my call here.
Denn alle eure Namen, o ihr Götter, sind des Betens, der Verehrung und des Opfers werth; Die aus dem Himmel, aus der Erd', aus Wassern ihr geboren seid, vernehmet hier nun meinen Ruf.
Denn alle eure Namen sind ehrwürdig, lobwürdig, ihr Götter, und anbetungswert. Die ihr von der Aditi abstammet, vom Wasser, die ihr von der Erde, erhöret hier meinen Ruf!
येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पय॑: पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑बर्हाः । उ॒क्थशु॑ष्मान्वृषभ॒रान्त्स्वप्न॑स॒स्ताँ आ॑दि॒त्याँ अनु॑ मदा स्व॒स्तये॑ ॥
येभ्यः॑ । मा॒ता । मधु॑ऽमत् । पिन्व॑ते । पयः॑ । पी॒यूष॑म् । द्यौः । अदि॑तिः । अद्रि॑ऽबर्हाः । उ॒क्थऽशु॑ष्मान् । वृ॒ष॒ऽभ॒रान् । स्वप्न॑सः । तान् । आ॒दि॒त्यान् । अनु॑ । म॒द॒ । स्व॒स्तये॑ ॥
माता सर्वस्य निर्मात्री पृथिवी येभ्यः देवेभ्यो देवार्थं मधुमत् माधुर्योपेतं पयः सारभूतं. क्षीरं पिन्वते क्षरति । तथा अदितिः अदीना अद्रिबर्हा: मेघैः परिवृढा प्रवृद्धा परिवृद्धमेघा वा द्यौः च पीयूषं पिन्वते । द्यावापृथिव्यौ हविरुत्पादयत इत्यर्थः । ऋषिरात्मानं संबोध्याह । उक्थशुष्मान् स्तुतिबलान् वृषभरान् वृष्टेराहर्तॄन् । “ ह्रग्रहोर्भः' इति भः । स्वप्नसः सुकर्मणः तानादित्यान् अदितेः पुत्रान् देवान् स्वस्तये अविनाशाय अनु मद अनुस्तुहि । माद्यतेर्लोटि व्यत्ययेन शप् । मन्दतेर्वा स्तुत्यर्थस्य अनित्यमागमशासनम् ' इति नुमभावः ॥
“To (these dieties) to whom the maternal (earth) yields the sweet- flavoured milk, and thecloud-invested, undepressed heaven (yields) ambrosia, to those Ādityas whose strength is sacred praise, whoare bringers of rain, the doers of good actions, offer for your welfare laudation.”
I will rejoice in these Adityas for my weal, for whom the Mother pours forth water rich in balm,
And Dyaus the Infinite, firm as a rock, sweet milk,-Gods active, strong through lauds, whose might the Bull upholds.
Those for whom their mother swells the honeyed milk, (for whom) Aditi, (like) unbounded heaven, massive as a stone, (swells) the beestings,
those whose gusts are hymns, bullishly bearing, rich in property—
applaud those Ādityas—for well-being.
Sie, die die Mutter reichlich tränkt mit süssem Trank, mit Milch der Himmel, unbegrenzt und felsenfest, Die spruchumrauschten, reichen, Männer hegenden Aditja's will zum Heil begrüssen jubelnd ich.
Denen die Mutter süße Milch quillt, die felsenfeste Himmels-Aditi ihren Rahm, die von Lobliedern ermutigten, Stierlasten tragenden, gut lohnenden, diese Aditya´s begrüße freudig zum Heile!
नृ॒चक्ष॑सो॒ अनि॑मिषन्तो अ॒र्हणा॑ बृ॒हद्दे॒वासो॑ अमृत॒त्वमा॑नशुः । ज्यो॒तीर॑था॒ अहि॑माया॒ अना॑गसो दि॒वो व॒र्ष्माणं॑ वसते स्व॒स्तये॑ ॥
नृ॒ऽचक्ष॑सः । अनि॑ऽमिषन्तः । अ॒र्हणा॑ । बृ॒हत् । दे॒वासः॑ । अ॒मृ॒त॒ऽत्वम् । आ॒न॒शुः॒ । ज्यो॒तिःऽर॑थाः । अहि॑ऽमायाः । अना॑गसः । दि॒वः । व॒र्ष्माण॑म् । व॒स॒ते॒ । स्व॒स्तये॑ ॥
नृचक्षसः कर्मनेतॄणां मनुष्याणां द्रष्टारः अत एव अनिमिषन्तः निमेषमकुर्वाणाः सर्वदा जागरूकाः देवासः देवाः अर्हणा लोकस्य परिचरणार्थं स्तोतव्यत्वाय बृहत् बृंहितम् अमृतत्वम् अमरणधर्मम् आनशुः प्राप्ताः । देवाः खलु मनुष्यैः पूज्याः । तस्मात्पूजाहेतुं देवत्वमानशिरे। अत एव ज्योतीरथाः दीप्यमानरथोपेताः अहिमायाः कैश्चिदप्यहन्तव्यप्रज्ञाः अनागसः पापरहिता आदित्याः दिवः द्युलोकस्य वर्ष्माणं नाभिस्थानं समुच्छ्रितं देशं स्वस्तये अविनाशाय लोकस्य क्षेमकरणार्थं वसते अधिवसन्ति । यद्वा स्वतेजसाच्छादयन्ति ॥
“The gods, the never-slumbering beholders of mankind, and entitled (to their adoration), have obtainedgreat immortality; conveyed in chariots of light, possessed of unsurpassable wisdom, devoid of sin, they inhabitthe exalted station of heaven for the well-being (of the world).”
Looking on men, ne'er slumbering, they by their deserts attained as Gods to lofty immortality.
Borne on refulgent cars, sinless, with serpents' powers, they robe them, for our welfare, in the height of heaven.
Having their eyes on men, unblinking, as their due the gods have
achieved lofty immortality.
Having light as their chariot, snake-sly, blameless, they wear the height of heaven as their garment—for well-being.
Die nimmer schlummernd Männer schaun, die Götter sind zu hohem ew'gen Dasein nach Verdienst gelangt; Mit lichtem Wagen schlangenschillernd, sündenlos bewohnen sie zum Heil des Himmels höchsten Raum.
Wie Herren blickend, nie die Augen schließend, die Götter haben nach Verdienst die hohe Unsterblichkeit erlangt, deren Wagen Licht ist, die sich wie Schlangen wandeln, die Sündlosen legen sich des Himmels Höhe als Kleid an zum Heile.
स॒म्राजो॒ ये सु॒वृधो॑ य॒ज्ञमा॑य॒युरप॑रिह्वृता दधि॒रे दि॒वि क्षय॑म् । ताँ आ वि॑वास॒ नम॑सा सुवृ॒क्तिभि॑र्म॒हो आ॑दि॒त्याँ अदि॑तिं स्व॒स्तये॑ ॥
स॒म्ऽराजः॑ । ये । सु॒ऽवृधः॑ । य॒ज्ञम् । आ॒ऽय॒युः । अप॑रिऽह्वृताः । द॒धि॒रे । दि॒वि । क्षय॑म् । तान् । आ । वि॒वा॒स॒ । नम॑सा । सु॒वृ॒क्तिऽभिः॑ । म॒हः । आ॒दि॒त्यान् । अदि॑तिम् । स्व॒स्तये॑ ॥
सम्राजः सर्वेषां राजानः स्वतेजोभिः सम्यग्राजमानाः सुवृधः सुवृद्धाः ये देवाः यज्ञमाययुः आयान्ति सोमादिहविर्भक्षणार्थम् । ततः अपरिह्वृताः कैश्चिदप्यहिंसिता ये देवाः दिवि द्युलोके क्षयं निवासं दधिरे विदधति कुर्वन्ति । ऋषिरात्मानमाह। महः महतो गुणाधिक्येन आदित्यान् अदितेः पुत्रान् तान् प्रसिद्धान् देवान् अदितिं तेषां मातरमेतन्नामिकां च स्वस्तये अविनाशाय नमसा हवीरूपेणान्नेन सुवृक्तिभिः शोभनाभिः स्तुतिभिश्च आ विवास आभिमुख्येन परिचर । विवासतिः परिचरणकर्मा ॥ ॥ ३ ॥
“The gods, who, kings over all, and most exalted, have come to the sacrifice, who, unassailable, abidein heaven; them, the mighty Ādityas, (the sage) worships with reverence, and with praises, and also Aditi for hiswell- being.”
Great Kings who bless us, who have come to sacrifice, who, ne'er assailed, have set their mansion in the sky,-
These I invite with adoration and with hymns, mighty Adityas, Aditi, for happiness.
The very strong sovereign kings who have come to the sacrifice, who, undeviating, have established their own dwelling in heaven—
seek to entice them here with reverence, with well-turned (hymns)—the great Ādityas and Aditi—for well-being.
Die Herrscher, die dem Opfer segnend sind genaht, die unumstürzbar thronen auf des Himmels Sitz, Die lock' ich her durch Opferwerke und Gebet zum Heile die Aditja's und die Aditi.
Die schöngewachsenen Großkönige, die zum Opfer gekommen sind, die unbeirrt ihren Wohnsitz im Himmel genommen haben, diese bitte her unter Verbeugung mit schönen Preisworten, die großen Aditya´s, die Aditi zum Heile!
को व॒: स्तोमं॑ राधति॒ यं जुजो॑षथ॒ विश्वे॑ देवासो मनुषो॒ यति॒ ष्ठन॑ । को वो॑ऽध्व॒रं तु॑विजाता॒ अरं॑ कर॒द्यो न॒: पर्ष॒दत्यंह॑: स्व॒स्तये॑ ॥
कः । वः॒ । स्तोम॑म् । रा॒ध॒ति॒ । यम् । जुजो॑षथ । विश्वे॑ । दे॒वा॒सः॒ । म॒नु॒षः॒ । यति॑ । स्थन॑ । कः । वः॒ । अ॒ध्व॒रम् । तु॒वि॒ऽजा॒ताः॒ । अर॑म् । क॒र॒त् । यः । नः॒ । पर्ष॑त् । अति॑ । अंहः॑ । स्व॒स्तये॑ ॥
ऋषिर्दैवान् प्रति बहुधा वितर्कयति । हे देवाः वः युष्माकं कः स्तोता स्तोमं त्रिवृत्पञ्चदशादिलक्षणं राधति संसाधयति । न कश्चिदस्तीत्यर्थः । यद्वा । मदन्यः को वो युष्मभ्यं स्तोमं करोति । यूयं यं स्तोतारं जुजोषथ सेवध्वे । ‘ जुषी प्रीतिसेवनयोः ' । लेटि शपः श्लुः । अड़ागमः । किंच हे मनुषः मन्तारो ज्ञातारो हे विश्वे देवासः देवा यूयं यति यत्संख्याः स्थन भवथ ॥ यच्छब्दादपि छान्दसो डतिर्दृष्टव्यः । हे तुविजाताः धावादिविभागेन बहुजनता हे देव। युष्मदर्थं कः वा यजमानः अध्वरे यज्ञम् अरं करत अलंकरोति स्तुतिभिर्हविर्भिश्च । मदन्यो नास्तीत्यर्थः । यः यज्ञः नः अस्मान् स्वस्तये अविनाशाय अंहः पापरूपं मार्गमवैदिकं अति पर्षत् अतिपारयति तं यज्ञं को वालंकरोतीति ॥
“Who offers you the praise which you like, you wise universal deities, however many you may be?Deities from whom many are born, who can prepare for you such worship as may bear the safe beyond iniquityfor our well-being?”
Who offereth to you the laud that ye accept, O ye All-Gods of Manu, many as ye are?
Who, Mighty Ones, will prepare for you the sacrifice to bear us over trouble to felicity?
Who brings to success for you the praise that you will enjoy, all you gods of Manu, however many you are?
Who will properly prepare for you, powerfully born ones, the ceremony that will carry us across difficult straits—for well-being?
Wer bringt euch dar den Lobgesang, der euch gefällt, ihr Männer alle, Götter ihr, so viel ihr seid? Wer macht das Opfer, vielgeborne, euch bereit, das über Noth hin uns zum Heile führen soll?
Wer trifft euer Lob richtig, daß ihr daran Freude habt, ihr Götter alle des Manu, so viele ihr seid? Wer wird euch das Opfer recht machen, ihr Vielartige, das uns über die Not helfen soll zum Heile?
येभ्यो॒ होत्रां॑ प्रथ॒मामा॑ये॒जे मनु॒: समि॑द्धाग्नि॒र्मन॑सा स॒प्त होतृ॑भिः । त आ॑दित्या॒ अभ॑यं॒ शर्म॑ यच्छत सु॒गा न॑: कर्त सु॒पथा॑ स्व॒स्तये॑ ॥
येभ्यः॑ । होत्रा॑म् । प्र॒थ॒माम् । आ॒ऽये॒जे । मनुः॑ । समि॑द्धऽअग्निः । मन॑सा । स॒प्त । होतृ॑ऽभिः । ते । आ॒दि॒त्याः॒ । अभ॑यम् । शर्म॑ । य॒च्छ॒त॒ । सु॒ऽगा । नः॒ । क॒र्त॒ । सु॒ऽपथा॑ । स्व॒स्तये॑ ॥
समिद्धाग्निः हविर्भिः सम्यग्दीप्ताग्निः मनुः वैवस्वतो मनुष्याणां प्रथमभावी श्रद्धधानेन मनसा सप्त सप्तसंख्याकैः होतृभिः वषट्कर्तृभिर्ऋत्विग्भिश्च सह येभ्यः युष्मभ्यं प्रथमां प्रथमं मुख्यं यद्वा सर्वेषां मनुष्याणामग्रे क्रियमाणत्वादाद्यं होत्राम् । हूयन्ते हवींष्यत्रेति होत्रा यज्ञः । तम् । यद्वा । आहूयन्ते देवाः स्तुतिभिरत्रेति । तं यज्ञम् आयेजे आभिमुख्येनेष्टवान् । यजेर्लिटि रूपम् । यद्वा । लटि लोपस्त आत्मनेपदेषु ' इति तलोपः। ‘ यजिवप्योरलिट्येत्वं वक्तव्यम्। (का. ६, ४, १२०. ४ ) इति वचनादेकारः । हे आदित्याः अदितेः पुत्रा हे देवा: ते यूयं नोऽस्मभ्यम् अभयं शर्म च सुखं प्रयच्छत् । किंच नः अस्माकं स्वस्तये क्षेमाय सुपथा सुपथानि शोभनान् वैदिकमार्गान् सुगा सुष्ठु गन्तव्यान् कर्त कुरुत । करोतेर्लोटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । तबादेशः ॥
“Ādityas, to whom, Manu, having kindled the fire, offered the first sacrifice with (reverent) mind,(aided) by the seven ministrant priests, do you bestow upon us prosperity, free from peril; provide for us plural asantpaths easy to travel for our well-being.”
Ye to whom Manu, by seven priests, with kindled fire, offered the first oblation with his heart and soul,
Vouchsafe us, ye Adityas, sheitcr free from fear, and make us good and easy paths to happiness.
You for whom Manu, with his fire kindled by mind, along with the seven Hotars, first attracted Hotrā (Libation) with sacrifice,
you Ādityas, hold out fearlessness as shelter. Make easy passages, easy pathways for us—for well-being.
Ihr, denen Manu weihte einst den ersten Guss, mit sieben Priestern willig bei des Feuers Glut, Ihr, o Aditja's, reicht uns unbedrohten Schutz und bahnet schön die Pfade uns zum Wohlergehn.
Denen Manu zuerst das Opfer dargebracht hat bei entflammtem Feuer mit Nachdenken durch sieben Opferpriester, ihr Aditya´s, gewähret gefahrsicheren Schutz, bereitet uns gute, gangbare Wege zum Heile!
य ईशि॑रे॒ भुव॑नस्य॒ प्रचे॑तसो॒ विश्व॑स्य स्था॒तुर्जग॑तश्च॒ मन्त॑वः । ते न॑: कृ॒तादकृ॑ता॒देन॑स॒स्पर्य॒द्या दे॑वासः पिपृता स्व॒स्तये॑ ॥
ये । ईशि॑रे । भुव॑नस्य । प्रऽचे॑तसः । विश्व॑स्य । स्था॒तुः । जग॑तः । च॒ । मन्त॑वः । ते । नः॒ । कृ॒तात् । अकृ॑तात् एन॑सः । परि॑ । अ॒द्य । दे॒वा॒सः॒ । पि॒पृ॒त॒ । स्व॒स्तये॑ ॥
प्रचेतसः प्रकृष्टज्ञानाः मन्तवः सर्वस्य वेदितार: ये देवा: स्थातुः स्थावरस्य जगतः जङ्गमस्य विश्वस्य सर्वस्य भुवनस्य लोकस्य ईशिरे ईश्वरा भवन्ति । अथ प्रत्यक्षकृतः । हे देवासः देवा य उक्तगुणाः ते यूयं नः अस्मान् कृतात् कायिकात्पापात् अकृतात् करचरणादिभिरकृतात् एनसः किंतु मानसात्पापाच्च अद्य अस्मिन्दिने स्वस्तये अविनाशायायुषोऽभिवृद्धये पिपृत पारयत । पापरहितान् कुरुतेत्यर्थः ॥
“May the wise and omniscient deities, who rule over the whole world both stationary and moveable,deliver us today from committed and uncommitted sin, for our well-being.”
Wise Deities, who have dominion o'er the world, ye thinkers over all that moves not and that moves,
Save us from uncommitted and committed sin, preserve us from all sin to-day for happiness.
The forethoughtful counselors who are masters of the world, of everything stationary and moving—
o gods, rescue us today from transgression done or not done—for
well-being.
Sie, welche weise herrschen über diese Welt, die über alles walten, was da geht und steht, O führet uns, ihr Götter, aus der Sünde heut aus unvollbrachter und vollbrachter hin zum Heil.
Welche über die ganze Welt vorausdenkend herrschen, über alles was steht und geht als Sorger, ihr Götter, schützet uns heute vor getaner, vor ungetaner Sünde zum Heile!
भरे॒ष्विन्द्रं॑ सु॒हवं॑ हवामहेंऽहो॒मुचं॑ सु॒कृतं॒ दैव्यं॒ जन॑म् । अ॒ग्निं मि॒त्रं वरु॑णं सा॒तये॒ भगं॒ द्यावा॑पृथि॒वी म॒रुत॑: स्व॒स्तये॑ ॥
भरे॑षु । इन्द्र॑म् । सु॒ऽहव॑म् । ह॒वा॒म॒हे॒ । अं॒हः॒ऽमुच॑म् । सु॒ऽकृत॑म् । दैव्य॑म् । जन॑म् । अ॒ग्निम् । मि॒त्रम् । वरु॑णम् । सा॒तये॑ । भग॑म् । द्यावा॑पृथि॒वी इति॑ । म॒रुतः॑ । स्व॒स्तये॑ ॥
अंहोमुचम् अंहसः पापस्य मोचकं सुहवं शोभनाह्वानम् इन्द्रं भरेषु । भृणन्ति भर्जयन्ति विनाशयन्ति शत्रूनत्रेति भराः संग्रामाः । तेषु हवामहे रक्षणायाह्वयामः । किंच सुकृतं सुकर्माणं दैव्यं देवसंबन्धिनमन्यं जनं चाह्वयामहे । तं जनमुद्दिशति । अग्निं मित्रं वरुणं भगं भजनीयमेतन्नामानं देवं द्यावापृथिवी द्यावापृथिव्यौ मरुतः च सातये अन्नलाभाय स्वस्तये अविनाशाय रक्षणायाह्वयामहे ॥
“We call in battles upon the well-invoked Indra, the liberator from sin, and upon the virtuous folk ofheaven, Agni, Mitra, Varuṇa, Bhaga, Heaven and Earth, the Maruts, for the acquisition (of food), for well-being.”
In battles we invoke Indra still swift to hear, and all the holy Host of Heaven who banish grief,
Agni, Mitra, and Varuna that we may gain, Dyays, Bhaga, Maruts, Prthivi for happiness:
In the raids we call on Indra easy to call, on the divine race of good action that releases from difficult straits,
on Agni, Mitra, Varuṇa, Bhaga, for winning, on Heaven and Earth, the Maruts—for well-being.
In Schlachten rufen Indra wir, der schnell erhört, die Götterschar, die wohl thut und von Noth erlöst, Den Agni, Mitra, Varuna zum Glücksgewinn, die Maruts, Bhaga, Erd' und Himmel uns zum Heil.
Wir rufen den in Kämpfen gern gerufenen Indra an, den Noterlöser, den Wohltäter, das göttliche Volk, den Agni, Mitra, Varuna, den Bhaga, um das Glück zu gewinnen, Himmel und Erde, die Marut zum Heile!
सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसं॑ सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम् । दैवीं॒ नावं॑ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ॥
सु॒ऽत्रामा॑णम् । पृ॒थि॒वीम् । द्याम् । अ॒ने॒हस॑म् । सु॒ऽशर्मा॑णम् । अदि॑तिम् । सु॒ऽप्रनी॑तिम् । दैवी॑म् । नाव॑म् । सु॒ऽअ॒रि॒त्राम् । अना॑गसम् । अस्र॑वन्तीम् । आ । रु॒हे॒म॒ । स्व॒स्तये॑ ॥
द्युलोको नौरूपकतया स्तूयते । सुत्रामाणं सुष्ठु त्रायन्तीं पृथिवीं विस्तृताम् अनेहसं पापरहितां सुशर्माणं शोभनसुखयुक्ताम् अदितिम् अदीनां सुप्रणीतिं सुप्रणयनां सुष्ठु प्रणेत्रीं दैवीं देवसंबन्धिनीं स्वरित्रां शोभनारित्रां जलाहरणशीलदारुयुक्ताम् अनागसं पापरहिताम् अस्रवन्तीं अगच्छन्तीमविनश्वरीं नावं नावमिव स्थितां द्यां स्वस्तये अविनाशाय देवत्वप्राप्तये आ रुहेम वयमारोहेम । रोहतेर्लिङि ‘ लिङयाशिष्यङ् ' इत्यङ्प्रत्ययः ॥ ॥ ४ ॥
“May we for our well-being ascend the well-oared, defectless, unyielding, divine vessel, thesafe-sheltering expansive heaven, exempt from evil, replete with happiness, exalted and right-directing.”
Mightily-saving Earth, incomparable Heaven the good guide Aditi who gives secure defence
The well-oared heavenly Ship that lets no waters in, free from defect, will we ascend for happiness.
Upon Earth of good protection and faultless Heaven, upon Aditi of good shelter, of good guidance,
(as) upon a divine boat with good oars, without defect, not leaking,
may we mount—for well-being.
Den hohen Himmel und die Erde reich an Schutz, die Aditi, die herrlich leitet und beschirmt, Der Götter Schiff, das ohne Fehl ist, ohne Leck, mit schönen Rudern, woll'n besteigen wir zum Heil.
Die gutschützende Erde, den fehlerlosen Himmel, die wohlbehütende, wohlführende Aditi. Das göttliche Schiff mit schönen Rudern, das sündlose, nicht lecke möchten wir besteigen zum Heile!
विश्वे॑ यजत्रा॒ अधि॑ वोचतो॒तये॒ त्राय॑ध्वं नो दु॒रेवा॑या अभि॒ह्रुत॑: । स॒त्यया॑ वो दे॒वहू॑त्या हुवेम शृण्व॒तो दे॑वा॒ अव॑से स्व॒स्तये॑ ॥
विश्वे॑ । य॒ज॒त्राः॒ । अधि॑ । वो॒च॒त॒ । ऊ॒तये॑ । त्राय॑ध्वम् । नः॒ । दुः॒ऽएवा॑याः । अ॒भि॒ऽह्रुतः॑ । स॒त्यया॑ । वः॒ । दे॒वऽहू॑त्या । हु॒वे॒म॒ । शृ॒ण्व॒तः । दे॒वाः॒ । अव॑से । स्व॒स्तये॑ ॥
हे यजत्राः यजनीया हे विश्वे सर्वे देवा यूयम् ऊतये रक्षणार्थम् अधि वोचत अस्मानधिब्रूत । आभाष्य च अभिह्रुतः अभिहिंसित्र्याः दुरेवायाः दुर्गतेः नः अस्मान् त्रायध्वम् । यद्येवं कुरुथ तर्हि हे देवाः शृण्वतः स्तोत्राण्यस्माभिरुक्तानि तादृशान् वः युष्मान् सत्यया यथार्थभूतया देवहूत्या । देवा हूयन्तेऽनयेति देवहूतिः स्तुतिः । तया वयं हुवेम आह्वयेम । किमर्थम् । अवसे रक्षणाय शत्रुभ्यः स्वस्तये क्षेमाय जीवनाभिवृद्धये च ॥
“Adorable, universal gods, advocate our cause for our protection; preserve us from malignant adversity,may we with since invocation invoke you, gods, who listen (to our praise) for our protection, for our well-being.”
Bless us, all Holy Ones, that we may have your help, guard and protect us from malignant injury.
With fruitful invocation may we call on you, Gods, who give ear to us for grace, for happiness.
All you worthy of the sacrifice, speak for us, for help; rescue us from the crooked ill-going way.
With an invocation to the gods that comes true we would invoke you as you listen, o gods, for aid—for well-being.
Ihr hehren Götter alle, sagt uns Hülfe zu, beschirmt uns vor des Bösgesinnten Uebelthat; Voll Wirkung sei der Ruf, mit dem wir rufen euch, o Götter, die ihr uns zum Schutz und Heil erhört.
Ihr Verehrungswürdige alle, seid Fürsprecher uns zum Schutze, behütet uns vor den böswilligen Ränken! Mit in Erfüllung gehender Götteranrufung wollen wir euch, Götter, rufen, die Erhörenden zur Gnade, zum Heile.
अपामी॑वा॒मप॒ विश्वा॒मना॑हुति॒मपारा॑तिं दुर्वि॒दत्रा॑मघाय॒तः । आ॒रे दे॑वा॒ द्वेषो॑ अ॒स्मद्यु॑योतनो॒रु ण॒: शर्म॑ यच्छता स्व॒स्तये॑ ॥
अप॑ । अमी॑वाम् । अप॑ । विश्वा॑म् । अना॑हुतिम् । अप॑ । अरा॑तिम् । दुः॒ऽवि॒दत्रा॑म् । अ॒घ॒ऽय॒तः । आ॒रे । दे॒वाः॒ । द्वेषः॑ । अ॒स्मत् । यु॒यो॒त॒न॒ । उ॒रु । नः॒ । शर्म॑ । य॒च्छ॒त॒ । स्व॒स्तये॑ ॥
हे देवाः अमीवां रोगादिकं यद्वा रोगवद्बाधकं शत्रुमस्मत्तो दूरे अप कुरुत पृथक्कुरुत । तथा विश्वां सर्वाम् अनाहुतिं देवानामनाह्वानबुद्धिं यद्वा देवानां महाशत्रुं पृथक्कुरुत । किंच अरातिम् अदानं लोभबुद्धिं यद्वा देवेभ्यो हविषामदातारं शत्रुम् अप गमयत । अपि च अघायतः पापमिच्छतः शत्रोः दुर्विदत्रां दुर्ज्ञानं दुष्टां बुद्धिम् इत्थं च द्वेषः द्वेष्टॄन् सर्वाञ्छत्रून् अस्मत् अस्मत्तः आरे दूरे युयोतन पृथक्कुरुत । एवं सति यूयं नः अस्मभ्यम् उरु विस्तीर्णं शर्म सुखं स्वस्तये कल्याणाय प्रयच्छत ॥
“(Remove far) from us disease, remove all neglect of oblations, remove illiberality, the malevolence ofthose who wish to do us harm; remove far from us, gods, those who hate us; grant us ample happiness for ourwell-being.”
Keep all disease afar and sordid sacrifice, keep off the wicked man's malicious enmity.
Keep far away from us all hatred, O ye Gods, and give us ample shelter for our happiness.
Away with disease, away with all lack of oblation, away with the ill-met hostility of the malicious.
Gods, keep hatred at a distance from us. Extend broad shelter to us— for well-being.
Verjagt die Krankheit, jede Opferlässigkeit, verjagt des Bösen frevelhafte Uebelthat, O Götter, jaget weit von uns hinweg den Hass und breitet euer Schirmdach über uns zum Heil.
Haltet Krankheit ab, allen Mangel an Opfern ab, die unzugängliche Mißgunst des Übelwollenden ab; Götter, haltet fern von uns die Feindschaft! Gewähret uns breiten Schirm zum Heile!
अरि॑ष्ट॒: स मर्तो॒ विश्व॑ एधते॒ प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ । यमा॑दित्यासो॒ नय॑था सुनी॒तिभि॒रति॒ विश्वा॑नि दुरि॒ता स्व॒स्तये॑ ॥
अरि॑ष्टः । सः । मर्तः॑ । विश्वः॑ । ए॒ध॒ते॒ । प्र । प्र॒ऽजाभिः॑ । जा॒य॒ते॒ । धर्म॑णः । परि॑ । यम् । आ॒दि॒त्या॒सः॒ । नय॑थ । सु॒नी॒तिऽभिः॑ । अति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । स्व॒स्तये॑ ॥
हे देवाः विश्वः सर्वः मर्तः सः मनुष्यः अरिष्टः कैश्चिदप्यहिंसितः सन् एधते प-श्वादिभिर्वर्धते । तथा धर्मणस्परि धारकात्कर्मणोऽनन्तरं से मनुष्यः प्रजाभिः पुत्रादिभिः प्र जायते प्रकर्षेणाविर्भूतो भवति । हे आदित्यासः आदित्या देवा: यं मनुष्यं सुनीतिभिः सुनयनैः विश्वानि सर्वाणि दुरिता दुरितानि पापानि तद्रूपाञ्छत्रून्वा स्वस्तये क्षेमाय अति नयथ अतीत्य सन्मार्गे नयथ । स वर्धत इति समन्वयः ॥
“Unharmed prospers every mortal, after performing his duties, he flourishes with posterity, whom youĀdityas guide with good counsels safe over all misfortunes to well-being.”
Untouched by any evil, every mortal thrives, and, following the Law, spreads in his progeny.
Whom ye with your good guidance, O Adityas, lead safely through all his pain and grief to happiness.
Every mortal thrives unharmed and is propagated with progeny forth from his foundation,
whom, o Ādityas, you lead with your good leading across all difficult passages—for well-being.
Ganz unverletzt gedeihet jeder Sterbliche und pflanzt sich nach der Reihe fort durch Kindeskind, Den ihr mit schöner Führung, o Aditja's, führt zum Wohlergehn durch alles Misgeschick hindurch.
Ganz unbeschädigt gedeiht der Sterbliche und pflanzt sich pflichtgemäß durch Kinder fort, den ihr Aditya´s mit guter Führung über alle Fährlichkeiten hinüberführt zum Heile!
यं दे॑वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं शूर॑साता मरुतो हि॒ते धने॑ । प्रा॒त॒र्यावा॑णं॒ रथ॑मिन्द्र सान॒सिमरि॑ष्यन्त॒मा रु॑हेमा स्व॒स्तये॑ ॥
यम् । दे॒वा॒सः॒ । अव॑थ । वाज॑ऽसातौ । यम् । शूर॑ऽसाता । म॒रु॒तः॒ । हि॒ते । धने॑ । प्रा॒तः॒ऽयावा॑नम् । रथ॑म् । इ॒न्द्र॒ । सा॒न॒सिम् । अरि॑ष्यन्तम् । आ । रु॒हे॒म॒ । स्व॒स्तये॑ ॥
हे देवासः देवाः वाजसातौ अन्नभजनेऽन्नलाभे वा यं रथम् अवथ रक्षथ हे मरुतः शूरसाता। संग्रामनामैतत् शूराः स्यन्ति खिद्यन्तेऽत्रेति शूराः सीयन्ते विनाश्यन्ते योद्धृभिरत्रेति । तस्मिन्युद्धे यं रथं हिते निहिते धने धनमुद्दिश्य । ‘ निमित्तात्कर्मसंयोगे ' ( प. सू. २. ३. ३६. ६) इति सप्तमी । तदुद्दिश्य रक्षथ । सर्वेषां देवानां मुख्यत्वादिन्द्रमेवाभिलक्ष्य वदत्युत्तरार्धेन। हे इन्द्र सर्वेषां मुख्य प्रातर्यावाणं प्रातरेव युद्धं प्रति गन्तारं सानसिं संभजनीयम् अरिष्यन्तं कैश्चिदप्यहिंसितम् । यद्वा । इन्द्रसहायानां मरुतामबाधकम् । तं रथं स्वस्तये अस्माकं रक्षणाय वयम् आ रुहेम आरोहेम ।
“(The chariot) which, deities, you protect for the supply of food; that which, Maruts, (you protect) inbattle for the sake of the deposited spoil; may we mount, Indra, the early-moving desirable irresistible chariot forour well- being.”
That which ye guard and grace in battle, O ye Gods, ye Maruts, where the prize is wealth, where heroes win,
That conquering Car, O Indra, that sets forth at dawn, that never breaks, may we ascend for happiness.
Which one, o gods, you help at the contest for prizes, which one, o Maruts, you help at the contest of champions when the stake is set,
that early-traveling, winning chariot, which suffers no harm, might we mount, o Indra—for well-being.
Den Wagen, den, o Götter, ihr im Krieg beeilt, und in der Schlacht, o Maruts, bei entbranntem Kampf, Der frühe kommt, o Indra, und den Preis gewinnt, der nicht zerbricht, den lasst besteigen uns zum Heil.
Welchen Wagen ihr Götter bevorzuget im Kampfe um den Siegerpreis, welchen ihr Marut begünstigt im Kampfe um den Tapfersten, wann der Preis ausgesetzt ist, den frühausfahrenden, gewinnbringenden, unbeschädigten Wagen möchten wir, Indra, besteigen zum Heile!
स्व॒स्ति न॑: प॒थ्या॑सु॒ धन्व॑सु स्व॒स्त्य१॒॑प्सु वृ॒जने॒ स्व॑र्वति । स्व॒स्ति न॑: पुत्रकृ॒थेषु॒ योनि॑षु स्व॒स्ति रा॒ये म॑रुतो दधातन ॥
स्व॒स्ति । नः॒ । प॒थ्या॑सु । धन्व॑ऽसु । स्व॒स्ति । अ॒प्ऽसु । वृ॒जने॑ । स्वः॑ऽवति । स्व॒स्ति । नः॒ । पु॒त्र॒ऽकृ॒थेषु॑ । योनि॑षु । स्व॒स्ति । रा॒ये । म॒रु॒तः॒ । द॒धा॒त॒न॒ ॥
हे मरुतः मितराविणो देवाः नः अस्माकं पथ्यासु पथियोग्येषु सोदकेषु देशेषु स्वस्ति कल्याणं कुरुत । तथा धन्वसु निरुदकेषु देशेषु स्वस्ति कल्याणमुदकजननलक्षणं कुरुत । तथा अप्सु उदकेषु स्वस्ति । तथा स्वर्वति सर्वैरायुधैर्युक्ते सेनालक्षणे वृजने शत्रूणामावर्जके बले च कल्याणं कुरुत । नः अस्माकं पुत्रकृथेषु पुत्राणां कर्तृषूत्पादकेषु स्त्रीणां योनिषु स्वस्ति कल्याणं यथा गर्भा न पतन्ति तथा क्षेमं कुरुत । किंच नोऽस्माकं राये धनाय गवादिलक्षणाय स्वस्ति क्षेमं दधातन धत्त कुरुत ॥
“Maruts, secure to us well-being on roads, in deserts, well-being in waters, midst the might of assailinghosts; well-being in the son-bearing wombs (of our wives); well-being for (the acquisition of) riches.”
Vouchsafe us blessing in our paths and desert tracts, blessing in waters and in battle, for the light;
Blessing upon the wombs that bring male children forth, and blessing, O ye Maruts, for the gain of wealth.
Well-being for us on the pathways and in the wastelands, well-being in the waters, in the precinct of the sun,
well-being for us in the wombs at the making of sons—well-being
confer (on us) for wealth, o Maruts.
Schafft Heil uns auf den Wegen, Heil uns auf dem Land, Heil auf dem Wasser, Heil im güterreichen Sitz, Heil in den Schössen bei der Kinderzeugung uns, und Heil, o Maruts, zu des reichen Guts Erwerb.
Glück bringet uns auf den Wegen, auf dem Trocknen, Glück zu Wasser, im Kampf, wo es um die Sonne geht, Glück uns bei der Kinderzeugung im weiblichen Schoße, Glück bringet uns, ihr Marut, zum Reichtum!
स्व॒स्तिरिद्धि प्रप॑थे॒ श्रेष्ठा॒ रेक्ण॑स्वत्य॒भि या वा॒ममेति॑ । सा नो॑ अ॒मा सो अर॑णे॒ नि पा॑तु स्वावे॒शा भ॑वतु दे॒वगो॑पा ॥
स्व॒स्तिः । इत् । हि । प्रऽप॑थे । श्रेष्ठा॑ । रेक्ण॑स्वती । अ॒भि । या । वा॒मम् । एति॑ । सा । नः॒ । अ॒मा । सो इति॑ । अर॑णे । नि । पा॒तु॒ । सु॒ऽआ॒वे॒शा । भ॒व॒तु॒ । दे॒वऽगो॑पा ॥
या पृथिवी गन्तुमुद्युक्तानां प्रपथे प्रकृष्टाय मार्गाय स्वस्तिरित् क्षेमकारिण्येव भवति श्रेष्ठा प्रशस्यतमा रेक्णस्वती धनवती या पृथिवी वामं वननीयं यशम् अभि एति उत्तरवेद्यात्मना वाभिप्राप्नोति सा पृथिवी नः अस्माकम् अमा। गृहनामैतत् । गृहं रक्षतु । तथा सो सा उ सैव अरणे गन्तव्ये देशेऽरणेऽरमणेऽरण्यादिके देशे वा नोऽस्मान् नि पातु नितरां रक्षतु । तथा देवगोपा देवा गोपयितारो यस्याः सन्ति सा पृथिव्यस्माकं स्वावेशा शोभननिवासा भवतु ॥
“May (pṛthivī), who secures well-being to the excellent path, who, abounding with wealth, goes to thedesirable (plural ce of sacrifice), preserve our home, may she protect us on the path we have to travel; cherished bythe gods, may she be to us a plural asant abode.”
The noblest Svasti with abundant riches, who comes to what is good by distant pathway,-
May she at home and far away preserve us, and dwell with us under the Gods' protection
For it is just well-being that is best on the path forward—that, (already) rich in inheritance, sets out toward something valuable.
Let it keep guard over us at home and in a foreign place; with the gods as its herdsmen let it be easy of access.
Des Heiles Göttin, sie die reichste, beste, die hin zu Schätzen eilt auf fernem Pfade, Sie schütze uns daheim und in der Ferne, schön geh sie ein und sei beschirmt von Göttern.
Denn das Glück ist das Beste auf der Reise, das einträglich ist und zu Gewinn gelangt. Es möge uns daheim, es möge in der Fremde schützen. Das gottbehütete möge leicht zugänglich sein.
ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी । ई॒शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ॥
ए॒व । प्ल॒तेः । सू॒नुः । अ॒वी॒वृ॒ध॒त् । वः॒ । विश्वे॑ । आ॒दि॒त्याः॒ । अ॒दि॒ते॒ । म॒नी॒षी । ई॒शा॒नासः॑ । नरः॑ । अम॑र्त्येन । अस्ता॑वि । जनः॑ । दि॒व्यः । गये॑न ॥
हे विश्वे आदित्याः सर्वे देवाः हे अदिते देवानां मातरेतन्नामिके देवि वः युष्मान् मनीषी प्राज्ञः स्तोता प्लतेः एतन्नामकस्यर्षेः सूनुः पुत्री गयो नामं एव एवमुक्तरीत्या अवीवृधत् स्तुतिभिरवर्धयत् । वर्धतेर्ण्यन्तस्य लुङि रूपम् । अमर्त्येन मनुष्यधर्मरहितेन स्तुतेन येन देवजनेन नरः मनुष्याः ईशानासः धनस्येश्वराः स्वामिनो भवन्ति सः दिव्यः दिवि भवः जनः देवगणः गयेन एतन्नामकेन मया अस्तावि अभिष्टुतोऽभूत् । स्तौतेः कर्मणि लुङि चङि रूपम् ॥ ॥ ५ ॥
“Universal deities and Aditi, thus has the prudent son of plural ti magnified you; the celestial people, theimmortal (company of the gods) through whom (when praised) men become the lords (of wealth) have beengloried by Gaya.”
Thus hatb the thoughtful sage, the son of Plati, praised you, O Aditi and all Adityas,
Men are made rich by those who are Immortal: the Heavenly Folk have been extolled by Gaya.
In just this way has the son of Plati of inspired thought strengthened you, all you Ādityas and Aditi.
The over-mastering superior men, the divine race, has been praised by Amartya Gaya.
So hat verherrlicht euch der Sohn des Plati, o weise Aditi, Aditja's alle; Durch ew'ge Götter werden stark die Menschen; durch Gaja ist gerühmt das Volk des Himmels.
Also hat euch Plati´s Sohn erbaut, ihr Aditya´s alle, o Aditi, der Sinnreiche. Die mächtigen Herren und das himmlische Volk wurden von Amartya Gaya gepriesen.